आत्मार्त्थपूजाविधिपटलप्रारम्भः
आत्मार्त्थयजनं कुर्यात् चललिङ्गे विशेषतः
काम्यार्त्थन्तु विशेषेण हर्म्यं कुर्याद्विचक्षणः ॥ १ ॥
शिलाभिश्चेष्टकाभिर्वा दारुभिर्वा सलक्षणम्
ग्रामे वा नगरे वापि पत्तने राजधानिके ॥ २ ॥
कुब्जके खेटके चैव स्थापयेत्तु विचक्षणः
वास्त्वङ्गदेवतास्थाने वीध्यग्रेचैव मद्ध्यमे ॥ ३ ॥
कर्णसूत्रादि तत्सूत्रे मद्ध्यवीध्यास्तु दक्षिणे
एतेषां स्थापनञ्चोक्तम् उक्तस्थाने प्रकल्पयेत् ॥ ४ ॥
चललिङ्गं समानीय वास्त्वङ्गे स्थापयेन्न च
पूर्वं प्रतिष्ठितं पूज्य तत्पश्चाद्यजनन्न हि ॥ ५ ॥
जलोषितं वा दुःस्थाने कश्चिदाराद्ध्य लिङ्गकम्
प्रयत्नेन गृहीत्वा तु पुनः स्थापनमारभेत् ॥ ६ ॥
मासपक्षर्क्षवारादीनविचारेण स्थापयेत्
[[३५५]]
परिवारादिभिर्युक्तमेकदेशे विमानयुक् ॥ ७ ॥
विश्वदेशे च देशे वा यथेष्टं पूजयेद्बुधः
अपत्नीको ग्रहस्थो वा ब्रह्मचारी च नैष्ठिकः ॥ ८ ॥
भौतिको वा वनस्थश्च चातुर्वर्णास्ततो नरः
आत्मार्त्थं पूजयेन्नित्यं यथा शास्त्रमतन्द्रितः ॥ ९ ॥
मोक्षार्त्थी लभते मोक्षं पुत्रार्त्थी लभते सुतम्
अर्त्थार्थी चार्त्थमाप्नोति ज्ञानार्त्थी ज्ञानमाप्नुयात् ॥ १० ॥
इति आत्मार्त्थपूजाविधिपटलश्चतुःपञ्चाशत्तमः