०५३ शास्तार्च्चनविधिपटलः

शास्तार्च्चनविधिपटलप्रारम्भः

[[३५३]]

वक्ष्ये शास्तार्च्चनं पुण्यं शुभदं पापनाशनम्
सर्वलोकहितं पुण्यं सर्वोपद्रवनाशनम् ॥ १ ॥

आत्मार्त्थञ्च परार्त्थञ्च द्विविधं परिकीर्तितम्
दत्वाभक्त्या तु गुरुणा बिम्बं पद्मासनन्तु वा ॥ २ ॥

पटे वा भित्तिचित्रे वा आत्मार्त्थयजनं शुभम्
ग्रामादीनां हितार्त्थाय नृपाणामभिवृद्धये ॥ ३ ॥

स्थापितं पूजितं बिम्बं परार्त्थमिति कीर्तितम्
विप्रक्षत्रियविट् शूद्रादीक्षिताश्च प्रवेशकाः ॥ ४ ॥

आत्मार्त्थमर्च्चनं योग्यमितरेषामयोग्यकम्
आत्मार्त्थञ्च परार्त्थञ्च यजनं हि विशेषतः ॥ ५ ॥

योग्यं शिवद्विजानान्तु तेषामेवं सुनिश्चितम्
पूर्वं कृत्वात्मशुद्धिस्तु स्थानशुद्धिर्द्वितीयकम् ॥ ६ ॥

तृतीयं द्रव्यशुद्धिस्तु चतुर्त्थं बिम्बशोधनम्
पञ्चमं मन्त्रशुद्धिस्स्यादुच्यन्ते पञ्चशुद्धयः ॥ ७ ॥

शौचमाचमनं स्नानं तर्पणं विधिपूर्वकम्
सावित्र्याष्टशतञ्जप्त्वा प्रविश्य भवनन्ततः ॥ ८ ॥

प्रदक्षिणत्रयं कृत्वा ब्रह्मजज्ञानमन्त्रतः
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः ॥ ९ ॥

सन्धार्य विधिनापूर्वं पवित्रं लक्षणान्वितम्
अङ्गन्न्यासं करन्न्यासं पूर्वोक्तविधिना कुरु ॥ १० ॥

द्वरपूजान्ततः कृत्वा ऊर्ध्वगं भैरवन्तथा
गजं पूर्वे तु सम्पूज्य गन्धपूष्पादिनापुरा ॥ ११ ॥

प्रविश्य भवनन्तत्र स्थानशुद्धिन्तथाचरेत्
आसनं कल्पयेत्तत्र पद्मासनं पुरोक्तवत् ॥ १२ ॥

अर्च्चयेद्गन्धतोयेन अघोरायेतिमन्त्रतः
त्रियम्बकमिदं विष्णुर्ब्रह्मजज्ञानमन्त्रकैः ॥ १३ ॥

[[३५४]]

शनैश्शनैस्सुसम्पूज्य गन्धपुष्पं सधूपकम्
दीपं हृदयमन्त्रेण नैवेद्यान्तं समाचरेत् ॥ १४ ॥

देवस्य त्वेतिमन्त्रेण नैवेद्यं कारयेद्बुधः
द्वारादि बलिपीठान्तं बलिं दद्यात् यथाक्रमम् ॥ १५ ॥

मदनोभीषणो रौद्रो उन्मत्तश्चोग्रभाषकः
आश्चर्यस्सुन्दरो वीर्य शास्ताष्टपरिवारकाः ॥ १६ ॥

गन्धपुष्पादिभिश्चैव स्वनाम्ना च बलिन्ददेत्
अन्त्यजे स्पर्शने बिम्बं गर्भगेहं प्रवेशयेत् ॥ १७ ॥

स्नपनं कारयेद्देवं शान्तिहोमन्तु कारयेत्
प्रभूतहविषन्दत्वा यथापूर्ववदाचरेत् ॥ १८ ॥

इति शास्तार्च्चनविधिपटलस्त्रिपञ्चाशत्तमः