चटकबलिविधिप्रारम्भः
चण्डयागमिति ख्यातं चटकस्य विधिं श्रुणु
त्रिशूलमन्नलिङ्गञ्च वक्ष्येऽहं पूजसंयुतम् ॥ १ ॥
शुद्धान्नं घृतसम्मिश्रं क्षौद्रन्दधि च ल”ुकम्
रक्तपुष्पेण सम्पूज्य पूर्वस्यां निक्षिपेद्बलिम् ॥ २ ॥
अर्द्धयामावसाने वा मद्ध्यरात्रेऽथवा त्रियाम्
[[३५२]]
मौनव्रतधरास्तत्र सन्धिदेवान् समर्चयेत् ॥ ३ ॥
उद्वासनन्तु तत्काले दिनेशार्त्थन्तु वर्जयेत्
चटकस्य बलिं दद्यात्स्वनामाद्येन पूर्ववत् ॥ ४ ॥
तद्रूपमधुना वक्ष्ये कृष्णवर्णो महाबलः
ऋजुपादसमायुक्तः क्रूरदृष्टिर्भयानकः ॥ ५ ॥
दंष्ट्राकरालवदनो मञ्जीरचरणाम्बुजः
पद्मासने समासीनः फणिबद्धकराम्बुजः ॥ ६ ॥
किङ्कणीमालया युक्तो विद्युत्पिङ्गजटान्वितः
घोरदाससुवृत्ताक्षश्शूलाभयकरान्वितः ॥ ७ ॥
सर्वावयवसंयुक्तो ग्रामपालनतत्परः
ग्रामबाह्ये तु परितः पैशाचस्य पदे स्थितः ॥ ८ ॥
पायसान्नन्तु चटकबलिं कुर्यात्तु तस्य वै
अष्टदिक्षु यथा न्यासं पूर्वदिक्षु यथा क्रमम् ॥ ९ ॥
दीपवाद्यञ्च तत्काले भैरवस्वरसंयुतम्
तत्तत्काले प्रयोक्तव्यं शङ्खकाहलतालकम् ॥ १० ॥
शब्दी कृत्वा बलिन्दद्यात्पश्चाद्धामप्रवेशनम्
चटकस्य बलिः ख्यातं ग्रामसम्पत्करं शुभम् ॥ ११ ॥
गौरी यागमहं वक्ष्ये पूर्वरात्राधिवासयेत्
साये चोत्सवमारोप्याप्युमास्कन्देश्वरन्तथा ॥ १२ ॥
ग्रामप्रदक्षिणं कुर्यात् भक्तोत्सवमथाचरेत्
सर्वलोकहितं पुण्यं सर्वराष्ट्रविवर्द्धनम् ॥ १३ ॥
सर्वदारिद्र्यशमनं राजाविजयवर्द्धनम्
भोगमोक्षप्रदं पुंसामुत्सवं कथितं क्रमात् ॥ १४ ॥
इति चटकबलिविधिपटलो द्विपञ्चाशत्तमः