०५१ आधाराधेयविधिपटलः

आधाराधेयविधिपटलप्रारम्भः
आधारपटलं वक्ष्ये श्रूयतां तत्प्रजापते
आधारमासनं प्रोक्तमाधेयः परमश्शिवः ॥ १ ॥

शिवस्तु निष्कलः प्रोक्तस्त्वाधारस्सकलो भवेत्
त्याज्ये निष्कलमेवोक्तं सकलं सन्निधिस्थितम् ॥ २ ॥

उपानं पादकमलं जगती जङ्घमेव च
कुमुदं कुक्षिमित्याहुः कम्पबाहुमुरस्तथा ॥ ३ ॥

कण्ठं कर्णमिति प्राहुरधः कम्पं ललाटकम्
तदूर्ध्वं मूर्ध्निविन्यासं केशान्तं घृतवारिणी ॥ ४ ॥

एषा चैव त्रियाशक्तिर्ज्ञानशक्तिस्ततश्श्रुणु
गोमुवीदक्षिणे पार्श्वे त्वीशानदिशमाश्रिता ॥ ५ ॥

दक्षिणावसदं पादं वामपादं प्रलम्बितम्
तयोरग्रस्थितं लिङ्गं किञ्चिदीशानमाश्रितम् ॥ ६ ॥

लिङ्गमेवोक्ततिर्यग्वा —– वायनिर्गतम्
ज्ञानशक्तिसमायुक्तं लिङ्गमेतत्प्रकीर्तितम् ॥ ७ ॥

ध्यायेद्दुग्धाम्बुधौ वासा सर्वावयवसुन्दरी
नितम्बतटविस्तीर्णा मद्ध्ये क्षामास्तनोन्नता ॥ ८ ॥

वर्द्धन्योन्तर्गताशक्तिर्लिङ्गं वा विन्यसेत् बुधः
पिण्डिकायां त्रियाशक्तिः ध्यानं तत्पूर्वमेव च ॥ ९ ॥

[[३५१]]

प्रतिष्ठादित्रियाणान्तु ज्ञानशक्तिं मनोन्मनीम्
ब्रह्मादिस्तम्बपर्यन्तं शक्तिबृन्दाद्विनिष्कृतम् ॥ १० ॥

शक्तिर्मनोन्मनीमाता शिव एव पितागुरुः
मनोन्मनीं शक्तिरूपा पुंरूपस्याच्छिवार्त्थकम् ॥ ११ ॥

पुष्पेषु गन्धवत् ज्ञेयं तिलेषु तैलवत्तथा
स्थावरं जङ्गमञ्चैव जगद्योनिञ्चराचरम् ॥ १२ ॥

लिङ्गस्थापनकाले तु चिन्तयेत्तु सदाशिवम्
किञ्चित् भेदं विशेषोस्ति मनोन्मन्यास्तु वाचिकम् ॥ १३ ॥

चतुर्भुजं त्रिणेत्रञ्च द्विपादं पीठसंस्थितम्
वरदाभयहस्तञ्च लिङ्गालिङ्गन्तु सम्मुखम् ॥ १४ ॥

पूजाभिषेककालेऽस्मिन् एकरूपन्तु निर्जितम्
द्वायोर्भेदं न कर्तव्यं कर्तव्यमन्यकालके ॥ १५ ॥

संयोगं ज्ञानशक्तिस्तु त्रियाशक्तिस्सुभाषितम्
आधाराधेयकं ज्ञात्वा स्थापयेत्तु प्रजापते ॥ १६ ॥

अज्ञानात्स्थापितं लिङ्गं शिवादेवस्य सन्निधौ
विचार्यशास्त्रजालानि सम्यक्ज्ञात्वा पुनःपुनः ॥ १७ ॥

कर्षणादि प्रतिष्ठान्तं कर्तव्यं देशिकेन तु
अन्यधा कुरुते यस्तु ग्रामक्षोभकरं भवेत् ॥ १८ ॥

इति आधाराधेयविधिपटल एकपञ्चाशत्तमः