पूजाद्रव्यविधिपटलप्रारम्भः
अथ वक्ष्ये श्रुणु ब्रह्मन्पूजाद्रव्यक्रमन्तथा
जलेनैव तु सङ्क्षाल्य निर्माल्यन्तु विवर्जयेत् ॥ १ ॥
कूर्चेन वर्षयेल्लिङ्गं चक्षुस्तृणनिराञ्जनम्
कण्डूयेन गवांस्तेन प्रीयतां परमेश्वरः ॥ २ ॥
प्रस्थतैलप्रमाणस्य कदली पञ्चविंशतिः
[[३४९]]
पिष्टम्प्रस्थार्द्धकञ्चैव तथाचामलकं भवेत् ॥ ३ ॥
रजनीञ्चरसद्रव्यं तत्प्रमाणं विधीयते
कुडुपङ्घृतसंयुक्तं तदर्द्धं क्षौद्रमुच्यते ॥ ४ ॥
दुग्धन्तु शिवसङ्ख्या च दधिचाढकमेव च
दशपलन्तु शर्करा आढकम् इक्षुसारकम् ॥ ५ ॥
लिकुचं दशसङ्ख्या च नारङ्गं द्वयमेव च
चूतं पञ्चदशं ज्ञेयं दाडिमी त्रयमेव च ॥ ६ ॥
मातुलुङ्गानि च त्रीणि कुलं जीरससङ्ख्यया
तमरं त्रयमेवोक्तम् एकं पनसमेव च ॥ ७ ॥
देवताम्रफलं त्रीणि दशकं नालिकेरकम्
अन्नाभिषेकमन्त्रान्नं द्वित्रिप्रस्थञ्च कारयेत् ॥ ८ ॥
गन्धतोयञ्चार्द्धपलं गन्धमेकपलं भवेत्
ततो कुम्भाभिषेकञ्च नद्यां स्नानन्ततः परम् ॥ ९ ॥
ततस्सहस्रधारा च सामान्यार्घ्याभिषेचयेत्
विशेषर्ती रोधार्घ्ये स्वागतार्घ्यन्ततः परम् ॥ १० ॥
पाद्यादित्रितयञ्चैव अभिषेकन्तु कारयेत्
बिल्वोदकन्ततो दद्यात् श्रृङ्गशङ्खाभिषेचयेत् ॥ ११ ॥
त्रिप्रस्थञ्चैव शुद्धान्नं महानैवेद्यखारिका
प्रतिप्रस्थं विशेषेण व्यञ्जनं पलमेव हि ॥ १२ ॥
क्रमुकं पञ्चकं विद्यात् नागवल्ली तु विंशतिः
एलाचूर्णसमं मिश्रं पानीयं प्रस्थमेव च ॥ १३ ॥
धूपमर्द्धपलं प्रोक्तं धारणाचूडकं भवेत्
घृतदीपाञ्जलिः प्रोक्तं द्रव्यसङ्ख्याप्रकीर्त्तिताः ॥ १४ ॥
उक्तेषु वस्तुकादीषु नूने वाप्यधिकेऽपि वा
यथा सम्भवैस्सम्पूज्य श्रुणुष्वकमलोद्भव ॥ १५ ॥
आवाहनावसाने तु मधुपर्कं निवेदयेत्
[[३५०]]
गन्धतोयावसाने तु मन्त्रान्नन्तु निवेदयेत् ॥ १६ ॥
मार्जनान्ते तु शुद्धान्नमलङ्कारे महाहविः
मन्त्रान्नन्तु कथन्देव ब्रूहि मे त्रिपुरान्तक ॥ १७ ॥
मन्त्रं रहस्यमित्युक्तमदनादन्नमुच्यते
रहस्ये त्वदनं यत्तत् मन्त्रान्नमिति कथ्यते ॥ १८ ॥
इति पूजाद्रव्यविधिपटलः पञ्चाशत्तमः