०४९ पुण्याभिषेकविधिपटलः

पुण्याभिषेकविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण पुण्याभिषेकमुत्तमम्
धन्यं यशस्करं पुत्रपौत्रवृद्धिप्रदायकम् ॥ १ ॥

[[३४१]]

सर्वपापहरं पुण्यं सर्वयज्ञफलप्रदम्
राजराष्ट्राभिवृद्ध्यर्त्थं सर्वसम्पत्समृद्धिदम् ॥ २ ॥

कालस्तु द्विविधो ज्ञेयः स्थूलसूक्ष्मोपलक्षितः
पुण्यकालं प्रवक्ष्यामि विशेषेण प्रजापते ॥ ३ ॥

माखादिज्येष्ठपर्यन्तं लौकिकं कालमुत्तमम्
षाण्मासमपि विज्ञेयमुत्तरायणसञ्ज्ञकम् ॥ ४ ॥

आषाढञ्च समारभ्य पुष्यपर्यन्तमुत्तमम्
लौकिकं कालमुद्दिष्टं दक्षिणायनसञ्ज्ञकम् ॥ ५ ॥

चैत्रादिमासौ द्वौ द्वौ च षट्सञ्ज्ञा ऋतवस्तथा
वसन्तग्रीष्मवर्षाख्य शरद्धेमन्तशैशिराः ॥ ६ ॥

क्रमेण भाषितौ चैव सर्वे च भास्कराश्रयाः
वसन्तश्शिशिरश्चैव ग्रीष्मस्स्यादुत्तरायणम् ॥ ७ ॥

शरद्वर्षश्च हेमन्तो दक्षिणायनसञ्ज्ञकम्
ऋतवोऽपि वसन्ताद्याश्चान्द्रसौराद्विधामताः ॥ ८ ॥

दर्शाद्यावाझषाद्यावामेषाद्यातपनाश्रयाः
भाविन्यप्ययने याम्ये व्यतीते चोत्तरायणे ॥ ९ ॥

विषुवद्विषुवे मद्ध्ये प्रशस्तं यजनादिकम्
यामं यामार्द्धकं वापि घटिकैका तु वाथवा ॥ १० ॥

दानं प्रदक्षिणं होमं तीर्त्थमद्ध्ययनादिकम्
यजनञ्चैव तत्काले कारयेत्सर्वसम्पदम् ॥ ११ ॥

कुलीरमकरौ स्यातामयने दक्षिणोत्तरे
तौलिच्छागौ च विषुवद्विषुवे च प्रकीर्तिते ॥ १२ ॥

अधस्तात् विंशतिः कर्क्यां मकरे पिपरे तथा
विषुवद्विषुवे त्रिंशन्नाड्यस्तु पुण्यदायकाः ॥ १३ ॥

घटे च वृश्चिके सिंहे वृषे सौरे समागते
आद्यन्तयोः कलानाड्यः स्मृता विष्णुपदेषु च ॥ १४ ॥

[[३४२]]

अन्न्यायां कार्मुके मीने मिथुने वा गते रवौ
द्वात्रिंशन्नाडिकाः पूर्श्वे पश्चाच्च षडशीतिषु ॥ १५ ॥

कर्क्यां रात्र्यन्तके त्वर्द्धरात्रे सङ्क्रमते रविः
पूर्वे हनिप्रकर्तव्यं ज्येष्ठनाडिस्समीपगा ॥ १६ ॥

उपविष्टे मृगं सूर्ये निशीथे वातमीमुखे
परस्मिन् दिवसे कार्यमिह शास्ते सुनिश्चितम् ॥ १७ ॥

प्रविष्टेर्के निशीथे वा पूर्वापरदिनद्वयम्
रात्रौ द्वियामात्पूर्वे च सङ्क्रमेद्यदिभास्करः ॥ १८ ॥

तद्दिनस्य तु मद्ध्याह्नादूर्ध्वं कुर्याद्विशेषतः
द्वियामात्परतो रात्रौ परे ह्न्यावर्तनादधः ॥ १९ ॥

पुण्यकालस्समुद्दिष्टो ज्ञात्वा यजनमारभेत्
यजनं द्विविधं प्रोक्तमात्मार्त्थञ्च परार्त्थकम् ॥ २० ॥

आत्मार्त्थञ्चलमित्युक्तं परार्त्थं स्थिरलिङ्गकम्
स्वगृहे च शिवक्षेत्रे स्वेष्टदेशे मनोरमे ॥ २१ ॥

संस्थाप्य विधिनालिङ्गं स्वात्मनो हितकाङ्क्षया
यावत् जीवं स्वहस्तेन पूजितं स्वेष्टलिङ्गकम् ॥ २२ ॥

आत्मार्त्थमिति विज्ञेयं साक्षात्कैवल्यदायकम्
ग्रामे वा नगरे वापि पत्तने राजधानिके ॥ २३ ॥

कुब्जखेटपुरादौ वा पुण्यक्षेत्रे विशेषतः
प्रतिष्ठाप्य विधानज्ञश्चैव सिद्धान्तमार्गतः ॥ २४ ॥

पूजितं लिङ्गबेरञ्च परार्त्थमिति कीर्तितम्
द्विविधं यजनं सर्वमादिशैवेन कारयेत् ॥ २५ ॥

तस्य योग्यं भवत्यत्र नान्येषान्तु प्रजापते
द्विजादयश्चतुर्वर्णा योग्यास्स्युस्वस्वकर्मणि ॥ २६ ॥

विप्रादीनान्तु दीक्षायामुत्सवे स्थापने तथा
प्रोक्षणे स्नपने चैव प्रायश्चित्ते च पूजने ॥ २७ ॥

[[३४३]]

सर्वदेवार्चने स्वार्त्थे परार्त्थे वान्यकर्मणि
आदिशैवः प्रशस्तस्तद्व्यतिरिक्तैर्द्विजातिभिः ॥ २८ ॥

कृते परार्त्थे यजने सर्वदोषः प्रवर्तते
संहिताहोममुद्दिष्टमेकसन्ध्यार्चने कृते ॥ २९ ॥

त्रिसन्ध्यार्चा कृते तत्र स्नपनं शान्तिहोमकम्
पक्षोर्ध्वे मूर्तिहोमं स्यात्पञ्चाशत्स्नपनं चरेत् ॥ ३० ॥

मासोर्ध्वे संहिता होमं स्नपनं पञ्चविंशतिः
द्विमासे तु दिशाहोमं स्नपनन्तु तथा भवेत् ॥ ३१ ॥

त्रिमासे शान्तिरित्युक्ता स्नपनं पञ्चगव्यकम्
चातुर्मास्ये दिशाहोममष्टोत्तरशतं घटम् ॥ ३२ ॥

पञ्चमे मासिशान्तिस्स्यादष्टोत्तरशतैर्यजेत्
षाण्मासे मूर्तिहोमं स्यात् सहस्रकलशैर्यजेत् ॥ ३३ ॥

षाण्मासोर्ध्वे शान्तिहोमं जलसम्प्रोक्षणं कुरु
सहस्रकलशैर्यष्ट्वा स्नापयेत्परमेश्वरम् ॥ ३४ ॥

ततोर्चनं प्रकर्तव्यमादिशैवेन धीमता
अदीक्षितस्तु यो विप्रः कुर्याल्लिङ्गस्य पूजनम् ॥ ३५ ॥

अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः
ब्राह्मणादि चतुर्वर्णैश्शिवदीक्षा विवर्जितैः ॥ ३६ ॥

स्वेष्टलिङ्गे यदादृष्टे प्रायश्चित्तं समाचरेत्
अनुलोमैर्विलोमैर्वा प्रतिलोमैर्विशेषतः ॥ ३७ ॥

आत्मार्त्थयजनं कार्यं न कर्तव्यं परार्त्थकम्
चातुर्वर्णोद्भवस्त्रीणामात्मार्त्थमर्चनं हितम् ॥ ३८ ॥

आत्मार्त्थे वा परार्त्थे वा यजनार्त्थं भृतिं ग्रहेत्
सवैदेवलकोनाम सर्वकर्मबहिष्कृतः ॥ ३९ ॥

अथ देवलकान्वक्ष्ये श्रुणुष्वकमलासन
कर्मदेवलकाः केचित्कल्पदेवलकाः परे ॥ ४० ॥

[[३४४]]

शुद्धदेवलकाः केचित् हीनदेवलकाः परे
स्विष्टदेलेकास्त्वन्ये पञ्चधा देवलास्मृताः ॥ ४१ ॥

अन्यसूत्रोक्तमार्गेण ये संवत्सरपूजकाः
अदीक्षितास्वयं तत्र कर्मदेवलका स्मृताः ॥ ४२ ॥

अनेनैव प्रकारेण वत्सरत्रयपूजकाः
कल्पदेवलकाः प्रोक्ताः स्वकर्मनिरतास्तथा ॥ ४३ ॥

आचारमन्यसूत्रोक्तमार्गेणोपदिशन्तिये
शुद्धदेवलकाः स्युस्ते हीनाचारसमन्विताः ॥ ४४ ॥

स्वसूत्रोन्यसूत्रोक्तमार्गन्त्यक्त्वाचरन्तिये
हीनदेवलकास्युस्ते सदाचारसमन्विताः ॥ ४५ ॥

भृतिं वाञ्च्छन्तिपूजायां स्विष्टदेवलकास्तुते
वित्तार्त्थी च चतुर्वेदी दीक्षितो दीक्षितोऽपिवा ॥ ४६ ॥

सवैदेवलकोनाम हव्यकव्येषु गर्हितः
दीक्षितश्च चतुर्वेदी वित्तार्त्थी वत्सरत्रयम् ॥ ४७ ॥

स वै देवलको नाम स्थापनादिषु गर्हितः
भृत्यर्त्थं पूजयेद्यस्तु देवान्वालिङ्गमेव वा ॥ ४८ ॥

स वै देवलको नाम पूजाकर्मसु गर्हितः
प्रातः स्नात्वा विधानेन सन्ध्याकर्मसमाप्य च ॥ ४९ ॥

देवालयं प्रविश्यार्द्धं सकली कृतविग्रहम्
स्वासनस्यार्चनञ्चैव भस्मन्यासक्रमन्ततः ॥ ५० ॥

करशुद्धिक्रमञ्चैव प्राणवायोश्चरोधनम्
भूतशुद्धिं ततः कृत्वा न्यासक्रमविधानतः ॥ ५१ ॥

अन्तर्यागक्रमञ्चैव सामान्यार्घ्यं विधानतः
पुण्याहवाचनं कृत्वा शुद्ध्यर्त्थं प्रोक्षयेत्ततः ॥ ५२ ॥

सौरपूजादिकं सर्वं पूर्ववत्परिकल्पयेत्
प्रासादस्येशदिग्भागे पूर्वे वा चोत्तरेऽपि वा ॥ ५३ ॥

[[३४५]]

त्रयोदशकरं कार्यन्दशपञ्चकरन्तु वा
मण्टपं कारयेत्तत्र षोडशस्तम्भसंयुतम् ॥ ५४ ॥

श्रुतिद्वारसमायुक्तं वेदतोरणभूषितम्
दर्भमालासमायुक्तं वितानाद्युपशोभितम् ॥ ५५ ॥

दाडिमीफलसंयुक्तं कदलीपूगदण्डयुक्
गात्रवेष्टनसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ ५६ ॥

तन्मद्ध्ये वेदिकां कुर्याल्लक्षणेन समन्विताम्
द्वादशाङ्गुलमारभ्य तालमात्रविवर्द्धनात् ॥ ५७ ॥

सार्द्धचत्वारिहस्तन्तु नवधा चोच्छ्रयं भवेत्
चतुरङ्गुलमारभ्य त्रियङ्गुलविवर्द्धनात् ॥ ५८ ॥

नवधा चोपवेदी स्यादङ्गुलञ्चाष्टविंशतिः
नवधा हस्तमारभ्य चतुर्हस्तान्तवेदिका ॥ ५९ ॥

नवाङ्गुलेन संवृद्ध्या नवधा विस्तृताः क्रमात्
द्वादशाङ्गुलमारभ्य षडङ्गुलविवर्द्धनात् ॥ ६० ॥

—– द्धहस्तान्तमुत्सेधन्नवधा भवेत्
दर्पणोदरसङ्काशमुपवेदीञ्च कल्पयेत् ॥ ६१ ॥

चतुरङ्गुलमारभ्य द्वाविंशत्यङ्गुलान्तकम्
द्विद्व्यङ्गुलविवृद्ध्या तु नवधा विस्तृता तु सा ॥ ६२ ॥

विस्तारार्द्धसमोपेतां सर्वत्र समतां कुरु
अथवा मण्टपन्त्रेधा कृत्वा मद्ध्ये तु वेदिकाम् ॥ ६३ ॥

अरत्निमात्रसमुत्सेधान्दर्पणोदरसन्निभाम्
अष्टाङ्गुलप्रविस्तारविस्तारार्धसमन्विताम् ॥ ६४ ॥

वेद्यामूले तु परितश्चोपवेदीं प्रकल्पयेत्
चतुरङ्गुलमुत्सेधन्निम्नोन्नतविवर्जितम् ॥ ६५ ॥

गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः
शालिभिः स्थण्डिलं कुर्यादष्टद्रोणविनिर्मितैः ॥ ६६ ॥

[[३४६]]

तन्मद्ध्ये नलिनं कुर्यादष्टपत्रं सकर्णिकम्
यथोक्तमासनं कल्प्य स्थण्डिलेऽभ्यर्चयेत्क्रमात् ॥ ६७ ॥

शक्तिमुद्रां पद्ममुद्रां मुकुलीञ्च प्रदर्शयेत्
चन्दनोशीरकाश्मीरकर्पूरैलासुवासितैः ॥ ६८ ॥

वस्त्रपूतैर्जलैः पूर्य शिवकुम्भञ्च वर्द्धनीम्
कलशांस्तु तथापूर्य कृत्वा लङ्कारसंयुतान् ॥ ६९ ॥

शिवाख्यं कलशं मद्ध्ये स्थापयेदम्बुजोपरि
वर्द्धनीञ्चोत्तरे तस्य परितश्चाष्टकुम्भकान् ॥ ७० ॥

शिवाख्ये पञ्चरत्नाम्बु वर्द्धनी हेमसंयुताम्
सकूर्चौ सापिधानौ च फलपल्लवशोभिताम् ॥ ७१ ॥

नालिकेरफलोपेतौ वस्त्रयुग्मेन वेष्टितौ
कलशांस्तु तथाकृत्वा मद्ध्यकुम्भे शिवं यजेत् ॥ ७२ ॥

मनोन्मनीन्तु वर्द्धन्यां विद्येशानष्टदिक्षु च
पूजयित्वा विशेषेण गन्धपुष्पादिभिर्यजेत् ॥ ७३ ॥

गन्धपुष्पादिभिश्चैव पूजयेत्तु विशेषतः
ततो होमं प्रकुर्वीत पञ्चसंस्कारपूर्वकम् ॥ ७४ ॥

समिदाज्य चरून्लाजसक्तुबिल्वतिलांस्तथा
सर्षपञ्चयवव्रीहि कदलीफलमेव च ॥ ७५ ॥

हृदादीशानपर्यन्तैः प्रत्येकन्तु शताहुतिः
व्याहृतिञ्च ततो हुत्वा बीजमुख्येन होमयेत् ॥ ७६ ॥

क्षुरिकेण ततो हुत्वा द्रव्यान्ते पञ्चविंशतिः
पूर्णाहुतिं प्रकर्तव्यं पुनस्त्वादित्यमन्त्रतः ॥ ७७ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
कूश्माण्डाहुतिकं हुत्वा प्रायश्चित्तार्त्थकं हुनेत् ॥ ७८ ॥

परिषिच्य ततो वह्निं मन्त्रपूतेन वारिणा
परिधिस्थान्विष्टरस्थान्देवानुद्वासयेत्सुधीः ॥ ७९ ॥

[[३४७]]

स्नपनं पञ्चगव्यञ्च पञ्चामृतं तथैव च
पूर्ववत्स्थापनं कृत्वा पुण्याह प्रोक्षणैर्युतम् ॥ ८० ॥

द्वारपूजादिकं सर्वं प्रागुक्तविधिनाचरेत्
पुष्पं मूर्द्धनि विन्यस्य शुद्धाभिरभिषेचयेत् ॥ ८१ ॥

नमकञ्चमकञ्चैव पञ्चशान्तित्रियम्बकम्
हिरण्यं पवमानञ्च घृतसूक्तत्रयाक्षरम् ॥ ८२ ॥

शनैश्शनैर्जपित्वाथ युगाङ्गुलप्रमाणतः
अभिषेकं प्रकर्तव्यं यथा विभवविस्तरम् ॥ ८३ ॥

पञ्चामृतैः पञ्चगव्यैः फलपञ्चामृतैरपि
दधिक्षीरघृतान्नैस्तु शर्करातैलमाक्षिकैः ॥ ८४ ॥

नालिकेरोदकैश्चेक्षु रसैरर्घ्योदकैरपि
गन्धोदकैश्च बिल्वोदैस्सहस्रधारयापि वा ॥ ८५ ॥

अभिषेकः प्रकर्तव्यः मद्ध्ये शुद्धाम्बुमिश्रितम्
पञ्चब्रंहषडङ्गेन पूर्वाह्ने चाभिषेचयेत् ॥ ८६ ॥

पञ्चाक्षरं समुच्चार्य मद्ध्याह्ने चाभिषेचयेत्
व्योमव्यापिं समुच्चार्य सायं कालेऽभिषेचयेत् ॥ ८७ ॥

अर्द्धयामे द्विजश्रेष्ठो मूलमन्त्रेण पूजयेत्
अन्यसन्ध्योपसन्ध्यासु संहितामनुनायजेत् ॥ ८८ ॥

मनोभिलषितं यच्च द्रव्यं विद्ध्युक्तमार्गतः
अभिषेकं कृतं यत्नात्सत्फलं प्रतिपद्यते ॥ ८९ ॥

धूपदीपं ततः कृत्वा पुष्पं मूर्द्धनि विन्यसेत्
गन्धैः पुष्पैस्समभ्यर्च्य मूलमन्त्रमनुस्मरन् ॥ ९० ॥

धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम्
सिंहपादन्तु तत्रैवाप्यधर्मादीलिकान्न्यसेत् ॥ ९१ ॥

अनन्तारभ्य योगान्तं विष्टरे परिकल्पयेत्
तदूर्ध्वेस्नापयेल्लिङ्गं सद्येनैव तु मन्त्रतः ॥ ९२ ॥

[[३४८]]

स्थापितान्वेदिकायान्तु कुम्भानानीय देशिकः
लिङ्गाग्रेस्थापयेत्प्राग्वत् गन्धपुष्पादिभिर्यजेत् ॥ ९३ ॥

कुम्भाद्देवं समानीय मूलमन्त्रमनुस्मरन्
योजयेल्लिङ्गमद्ध्ये तु हृदयेन समन्वितः ॥ ९४ ॥

वर्द्धन्यां गौरीमादाय पिण्डिकायान्तु वामके
अनन्तादिशिखण्ड्यन्तान् प्रागाद्यावरणे न्यसेत् ॥ ९५ ॥

पञ्चब्रह्मशिवाङ्गैश्च कुम्भाद्भिरभिषेचयेत्
गौरीगायत्रिमन्त्रेण गौरीं पीठेऽभिषेचयेत् ॥ ९६ ॥

अनन्तादिशिखण्ड्यन्तान् तन्मन्त्रेणाभिषेचयेत्
अर्चनोक्तं समभ्यर्च्य परिवारगणैस्सह ॥ ९७ ॥

पञ्चवर्णहविर्दद्यात् शिवाय परमात्मने
ताम्बूलं दापयेत्पश्चात्मुखवाससमन्वितम् ॥ ९८ ॥

उपचारादिकं सर्वं प्राग्वत्परिकल्पयेत्
अष्टपुष्पन्ततो दत्वा मन्त्रपुष्पन्निदापयेत् ॥ ९९ ॥

आचार्यं भूषयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः
मूर्तिपान्परिचारांश्च दैवज्ञान् जापकानपि १००
दीनान्धकृपणादीनां पूजयेत्तु यथा तथा
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् १०१
इति पुण्याभिषेकविधिपटल एकोनपञ्चाशत्तमः