०४८ अष्टकलशचतुष्कलशस्नपनविधिपटलः

अष्टकलशचतुष्कलशस्नपनविधिपटलप्रारम्भः
अष्टभिः कलशैर्वक्ष्ये स्नपनं तत्र मण्टपे
चतुर्द्रोणयवैः कृत्वा स्थण्डिलन्तु सुवृत्तकम् ॥ १ ॥

कर्णिकाष्टदलोपेतं तत्र पद्मं समालिखेत्
कूटाक्षरं लिखेन्मद्ध्ये दलेष्वष्टसुचक्रमात् ॥ २ ॥

यकारादिवकारान्तं शकारार्द्धान्तमेव च
दिग्विदिक्ष्वक्षराण्यष्टलिखेत्पूर्वादितत्सुधीः ॥ ३ ॥

[[३४०]]

शिवयोः कुम्भयोर्मद्ध्ये पूर्ववत्स्थाप्य तद्बहिः
दलाग्रेषु क्रमात्स्थाप्य पाद्यादीनान्तथाष्टकम् ॥ ४ ॥

पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम्
क्षीरन्दधिघृतञ्चैव दलाग्रेषु च विन्यसेत् ॥ ५ ॥

एवमष्टभिरुद्दिष्टञ्चतुर्भिः कलशोच्यते
पूर्ववत्स्थण्डिलं कृत्वा ततः पद्मञ्चतुर्दलम् ॥ ६ ॥

आलिख्यकर्णिकामद्ध्ये त्वपोक्षरमथालिखेत्
पृथिव्यादीनि वर्णानि पूर्वादि क्रमशो भवेत् ॥ ७ ॥

पूर्ववत् शिवकुम्भन्तु वर्द्धन्या सह देशिकः
विन्यस्याथ घृतक्षीरन्दधिक्षौद्राणि च क्रमात् ॥ ८ ॥

पूर्वादिषु दलेष्वेतान् विन्यसेदथवा बुधः
पूरितो वान्यसेन्मन्त्री ततो यजनमारभेत् ॥ ९ ॥

शिवयोः कुम्भयोश्चैव पूर्ववत्सम्यगाचरेत्
धर्मादींश्च चतुर्ष्वेषु अर्च्चयेत्तु विधानतः ॥ १० ॥

एवमभ्यर्च्च्यतान्पश्चात्तैः कुर्यात्स्नपनं परम्
इति यः कारयेन्मर्त्यो स्नपनं विधिपूर्वकम् ॥ ११ ॥

सर्वयज्ञफलं प्राप्य शिवेन सह मोदते
वेदाग्निनयनप्रस्थैस्सम्पूर्णा स्याद्यथाक्रमम् ॥ १२ ॥

श्रेष्ठं मद्ध्यकनिष्ठन्तु कलशस्नापनोचिताः
सर्वेषां कलशानान्तु शिवकुम्भञ्चतुर्गुणम् ॥ १३ ॥

शक्तिकुम्भञ्च कलशात् द्विगुणं स्यात्प्रमाणतः ॥ १४ ॥

इति अष्टकलशचतुष्कलशस्नपन अष्टचत्वारिंशत्तमः