०४७ सहस्रधाराभिषेकविधिपटलः

सहस्रधाराभिषेकविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सहस्रधाराभिषेचनम्
अनावृष्टौ ज्वरोत्पन्ने सर्वव्याधिनिवारणम् ॥ १ ॥

सर्वदोषहरं पुण्यं सर्वतीर्त्थं तथैव च

[[३३९]]

सर्वपापहरञ्चैव सहस्रधाराभिषेचनम् ॥ २ ॥

सौवर्णमुत्तमं विद्धिमद्ध्यमं रजतं भवेत्
अधमं ताम्रमित्युक्तं पूर्णचन्द्रवदाकृतिः ॥ ३ ॥

तन्मद्ध्ये पद्मपत्रञ्च दलानामष्टसंयुतम्
सुषिरं सहस्रसंयुक्तं कल्पयेत्तु विचक्षणः ॥ ४ ॥

देवासहस्रधारायां सहस्रनयनस्य च
नामये वादिवृत्ते तु नहोदेति प्रकीर्तिता ॥ ५ ॥

आकाशं गमने गङ्गा धारया चाभिषेचनम्
सहस्रशीर्षमन्त्राणि जपं कृत्वा विशेषतः ॥ ६ ॥

सहस्रधारामुद्धृत्य लिङ्गस्योर्ध्वे तु कल्पयेत्
चतुरङ्गुलमेवन्तु लिङ्गमग्रे तु कल्पयेत् ॥ ७ ॥

ईशसङ्ख्या तु मन्त्रेण जपित्वा धारयेत् बुधः
तज्जलैरभिषेकं स्यात्सर्वदोषनिकृन्तनम् ॥ ८ ॥

पूजान्ते सहस्रधाराभिषेचनन्तु शनैश्शनैः
सर्वारिष्टविनाशं स्यात्सर्वतीर्त्थफलप्रदम् ॥ ९ ॥

सहस्रमुखगङ्गायां धारयेदभिषेचनम्
श्रीकरं विजयं पुण्यमायुरारोग्यवर्द्धनम् ॥ १० ॥

इति सहस्रधाराविधिपटलस्सप्तचत्वारिंशत्तमः