उष्णोदकविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेणाप्युष्णोदकविधिक्रमम्
सर्वशत्रुक्षयकरं सर्वोपद्रवनाशनम् ॥ १ ॥
[[३३८]]
वृश्चिके मासिपक्षे च धनुर्मासे समाचरेत्
मकरे कुम्भमासे च उत्तमो विधिरीरितम् ॥ २ ॥
जलधाराविधिप्रोक्तमुष्णोदकमथाचरेत्
तत्काले पूजनं कुर्यात्सर्वसम्पत्सुखावहम् ॥ ३ ॥
यामं प्रतिविशेषेणाप्युष्णोदकमथाचरेत्
उपसन्ध्योर्विशेषेण उष्णोदकं समाचरेत् ॥ ४ ॥
यामं प्रतिविशेषेण अभिषेकन्तु कारयेत्
स्त्रीश्यम्पुरुषवश्यं वा राजवश्यं तथैव च ॥ ५ ॥
शत्रुनाशकरन्नित्यमायुरारोग्यवर्द्धनम्
उष्णोदकं तथात्युष्णं सधूममतिशीतलम् ॥ ६ ॥
अतप्तं वर्जयेत्तोयमुष्णानुच्चन्तु सङ्ग्रहेत्
अत्युष्णे तु प्रजानाशं सधूमे द्रव्यनाशनम् ॥ ७ ॥
अतिशीते तु सन्नापमतप्ते सस्यनाशनम्
तस्मात्तदोष्णानुष्णेन सलिलेनाभिषेचयेत् ॥ ८ ॥
उष्णोदं मलवर्ज्यं स्यात्तस्मात्पूजाफलं भवेत्
पूर्ववत्पूजनं कुर्याद्वस्त्रकाञ्चनभूषणैः ॥ ९ ॥
गन्धपुष्पैश्च धूपैश्च दीपैरर्घ्यैश्च पूजयेत्
नैवेद्यन्दापयेत्तस्मै सव्यञ्जनसपूपकम् ॥ १० ॥
नृत्तगीतादिकं सर्वं बलिहोमं समाचरेत्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ११ ॥
इति उष्णोदकविधिपटल षट्चत्वारिंशत्तमः