जलधाराविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि जलधाराविधिक्रमम्
महामारीविनाशार्त्थमपमृत्युविनाशनम् ॥ १ ॥
सर्वरोगविनाशार्त्थं राष्ट्रदुर्भिक्षनाशनम्
वर्षार्त्थञ्च जयार्त्थञ्च विशेषात् ज्वरनाशनम् ॥ २ ॥
ग्रहपीडाविनाशार्त्थमारोग्यार्त्थं विशेषतः
सर्वसिद्धिकरं पुण्यमासर्क्षे तु त्रिजन्मनि ॥ ३ ॥
रविवारे सोमवारे जन्मर्क्षे कल्पयेद्बुधः
सङ्क्रान्तौ ग्रहणे चैव षडशीतिमुखेऽपिवा ॥ ४ ॥
विष्णुपद्याम्पितृलये कुर्वन्दर्शे विशेषतः
शुद्धिं कृत्वालयञ्चैव गोमयेनातुलेपयेत् ॥ ५ ॥
नित्यसन्ध्यावसाने तु जलधारां समाचरेत्
शिवाग्रे स्थण्डिलं कृत्वा स्थापयेत्पञ्चगव्यकम् ॥ ६ ॥
पञ्चामृतन्तु सङ्कल्प्य फलसारन्तथैव च
तैलं सङ्कल्प्य विधिवच्चालिपिष्टन्तथैव च ॥ ७ ॥
आमली रजनी कल्प्य नालिकेरस्य तोयकम्
गन्धतोयन्तथा कृत्वा शिवाग्रे स्थापयेद्बुधः ॥ ८ ॥
[[३३६]]
पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रमन्त्रतः
नवभाण्डानि सङ्गृह्य स्नानार्त्थमुदकं ग्रहेत् ॥ ९ ॥
वस्त्रपूरिततोयेन सुगन्धद्रव्यवासितैः
स्वच्छमर्कांशुसन्तप्तैर्जलद्रोणीञ्च पूरयेत् ॥ १० ॥
द्वारपूजान्ततः कृत्वा लिङ्गशुद्धिं समाचरेत्
वस्त्रेणोद्वर्त्तनं कुर्यादस्त्रमन्त्रेण देशिकः ॥ ११ ॥
सङ्ग्रह्य स्थापितान्द्रव्यान्तैलादीनभिषेचयेत्
पिष्टामलकचूर्णांश्च रजनीं घर्षयेत्पुनः ॥ १२ ॥
पञ्चगव्येन संस्नाप्य पञ्चामृतन्तदन्तके
तदन्ते फलसारञ्च गन्धोदकन्तदन्तके ॥ १३ ॥
नालिकेरोदकेनैव स्नापयेत्परमेश्वरम्
शीतलन्तज्जलं कृत्वा यथेष्टमभिषेचयेत् ॥ १४ ॥
वस्त्रेण वेष्टितं लिङ्गं गन्धमाल्यैश्च भूषयेत्
पाद्यमाचमनञ्चार्घ्यं हृदयेन प्रदापयेत् ॥ १५ ॥
धूपदीपं हृदा दत्वा पायसान्नन्निवेदयेत्
पानीयाचमनन्दत्वा ताम्बूलन्तु निवेदयेत् ॥ १६ ॥
सौवर्णं राजतं ताम्रमथवा मृण्मयं भवेत्
द्रोणत्रयेण सम्पूर्णञ्जलपात्रन्तु सङ्ग्रहेत् ॥ १७ ॥
कनिष्ठाग्रप्रमाणेन तत्पृष्ठे सुषिरं कुरु
वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पादिनार्च्चयेत् ॥ १८ ॥
मूलब्रह्मषडङ्गैश्च गन्धोदपरिपूरितम्
शिवगायत्रिमन्त्रेण कूर्च्चं तन्मद्ध्यमे न्यसेत् ॥ १९ ॥
शङ्खद्ध्वनिसमायुक्तं पणवद्ध्वनिसंयुतम्
यन्त्रिकोपरिपात्रन्तु विन्यसेल्लिङ्गमूर्द्धनि ॥ २० ॥
स्रावयेदभिषेकेनाविच्छिन्नाग्रधारया
श्रीरुद्रं रुद्रसङ्ख्यञ्च चमकञ्च पृथक्पृथक् ॥ २१ ॥
[[३३७]]
जपेयुर्ब्राह्मणास्सर्वे ननुसूत्रादिकं क्रमात्
पञ्चब्रह्मषडङ्गानि देशिकस्तु जपेद्बुधः ॥ २२ ॥
तदन्ते स्नापयेद्देवं शिवगायत्रिमन्त्रतः
शिवमन्त्रमनुस्मृत्य पुष्पं मूर्द्धनिदापयेत् ॥ २३ ॥
वस्त्रेणालम्बनं कृत्वा लिङ्गपीठं विशेषतः
कर्प्पूरागरुसम्मिश्रञ्चन्दनेन विलेपयेत् ॥ २४ ॥
पुष्पैर्नानाविधैरन्यैरलङ्कृत्य विशेषतः
पाद्यमाचमनञ्चार्घ्यं हृदयेन प्रदापयेत् ॥ २५ ॥
धूपदीपं हृदा दत्वा प्रभूतहविषन्ददेत्
पानीयाचमनन्दत्वा ताम्बूलन्तु निवेदयेत् ॥ २६ ॥
शान्तिहोमन्ततः कृत्वा शिवाग्निं कल्पयेद्बुधः
ब्राह्मणान् भोजयेन्नित्यं शैवान्वेदादिपारगान् ॥ २७ ॥
एकाहं वा त्रयाहं वा पञ्चाहं वा विधीयते
सप्ताहन्तु नवाहं वा रुद्राहन्तु विशेषतः ॥ २८ ॥
अथवा द्वादशाहं वा एकमाहमथापि वा
जपहोमार्चनं कायं ब्राह्मणाराधनादिकम् ॥ २९ ॥
विशेषयजनञ्चैव नित्यनैमित्तिकन्तु वा
एतत्सर्वं प्रकर्तव्यं विशेषफलसिद्धये ॥ ३० ॥
राज्यार्थी लभते राज्यं जयार्थी लभते जयम्
पुत्रार्थी लभते पुत्रं सुखार्थी लभते सुखम् ॥ ३१ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ३२ ॥
इति धाराभिषेकविधिपटलः पञ्चचत्वारिंशत्तमः