शीतकुम्भविधिपटलप्रारम्भः
[[३३२]]
अथवक्ष्ये विशेषेण शीतकुम्भविधिक्रमम्
सर्वलोकहितं पुण्यं सर्वदा सस्य वर्द्धनम् ॥ १ ॥
अनावृष्टौ ज्वरोत्पत्तौ महामारी प्रकोपने
प्रवर्त्तितेऽग्निदिग्दाहे ग्रामेऽपिनगरेऽपि वा ॥ २ ॥
वाहनानान्तु रोगार्त्तौ शीतकुम्भन्तु कारयेत्
प्रासादाग्रे तु कर्त्तव्ये मण्टपे स्थण्डिलं कुरु ॥ ३ ॥
शालिभिश्च वसुद्रोणैस्तस्यार्द्धैस्थण्डिलैरपि
हस्तद्वयप्रविस्तारन्तन्मद्ध्येऽब्जं समालिखेत् ॥ ४ ॥
स्थण्डिलं गन्धपुष्पाद्यैः पूजयेद्धृदयेन तु
पक्वबिम्बफलोपेतन्निष्कलङ्कं सुनिर्मलम् ॥ ५ ॥
द्रोणत्रयजलैः पूर्णं कृतं सत्कुम्भमुत्तमम्
मद्ध्यमं खारिसम्पूर्णं शिवत्रयजलावहम् ॥ ६ ॥
अन्न्यसञ्जातिविख्यातं सूत्रेणैव तु वेष्टयेत्
कुम्भं सद्येन सङ्गृह्य क्षालयेत्कवचेन तु ॥ ७ ॥
प्रोक्षयेत्पुरुषेणैव स्थापयेत्स्थण्डिलोपरि
मधुनाज्येन वादध्ना क्षीरेणेक्षुरसेन वा ॥ ८ ॥
गन्धादिभिर्वा सम्पूर्य कूर्च्चन्तत्रैव निक्षिपेत्
चन्द्रकान्तन्न्यसेत्तस्मिन्नथवा हेमपङ्कजम् ॥ ९ ॥
चतुर्त्थस्य द्वितीयेन प्रथमस्वरसंयुतम्
वारिबीजसमायुक्तं बिन्दुनादसमन्वितम् ॥ १० ॥
दशार्णैरेव संवेष्ट्य परितश्च दले न्यसेत्
वस्त्रैश्च सितवर्णैश्च चन्द्रं गन्धादिभिर्यजेत् ॥ ११ ॥
दर्शयेत्सुरभिमुद्रां विधानेन विधाय च
वस्त्रयुग्मेन संवेष्ट्य पायसान्नं निवेदयेत् ॥ १२ ॥
याज्ञिकैः स्तरुभिः कुर्यात्त्रिपादी लक्षणान्वितम्
रत्निमात्राधिकं लिङ्गं मूर्ध्निचोपरिकल्पयेत् ॥ १३ ॥
[[३३३]]
त्रिपाददैर्घ्यमेवं तु कल्पवित्तमः
युगाश्रं वासुवृत्तं वा द्वादशाङ्गुलनाहकम् ॥ १४ ॥
पक्षतालप्रमाणेन तदूर्द्ध्वे फलकां कुरु
अब्ध्यङ्गुलेन सुषिरं वृत्तमद्ध्ये प्रकल्पयेत् ॥ १५ ॥
क्षालयेत्पञ्चगव्यैश्च शिवतोयेन सेचयेत्
अधिवासनकाले तु पादानभ्यर्च्य देशिकः ॥ १६ ॥
गुणत्रयेण पादेषु गन्धपुष्पादिभिर्यजेत्
वस्त्रेण वेष्टयेत्पादान्प्रोक्षयेत्पुरुषेण तु ॥ १७ ॥
ब्रह्माणं दक्षिणे पूज्य विष्णुं वामे तु पूजयेत्
वृषभं पश्चिमे पूज्य त्रिपादेषु च देवताम् ॥ १८ ॥
महामायां न्यसेदूर्द्ध्वे फलकायास्वमन्त्रतः
देशिको मूर्त्तिपैस्सार्द्धं होमकर्मसमारभेत् ॥ १९ ॥
पञ्चाग्निर्वानवाग्निर्वाप्येकाग्निर्वा तु कारयेत्
ऐशान्यन्तु प्रधानन्तु महाशासु चतुर्ष्वपि ॥ २० ॥
विदिक्षु चतुरश्राणि प्रधानं वृत्तमेव च
नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा ॥ २१ ॥
त्रयाग्न्यायतनं वापि एकाग्न्यायतनन्तु वा
एकाग्न्यायतनञ्चेत्तु ईशान्यां सम्प्रकल्पयेत् ॥ २२ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमार्गतः
समिधाज्य चरून्लाजान्सर्षपांश्च यवांस्तिलान् ॥ २३ ॥
समिधं सद्यमन्त्रेण शेषांश्चान्यैर्हुनेत्क्रमात्
पलाशखदिराश्वत्थप्लक्षोदुम्बरमेव च ॥ २४ ॥
शमी च बिल्वपत्रञ्चाप्यपामार्गवटन्तथा
पलाशन्तु प्रधाने स्यात्समिच्चक्रादिषु क्रमात् ॥ २५ ॥
प्रत्येकं शकमर्द्धं वा तदर्द्धं वापि होमयेत्
पञ्चब्रह्मषडङ्गैश्च मूलेनैव हुनेत्पृथक् ॥ २६ ॥
[[३३४]]
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिन्तु शिरसा स्विष्टमग्नेति होमयेत् ॥ २७ ॥
स्तोत्रैश्च नृत्तगेयाद्यैरात्रिशेषं व्यपोह्य च
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः ॥ २८ ॥
प्रातस्सन्ध्यावसाने तु कुम्भारोहणमारभेत्
गव्यैस्संस्नापयेद्देवं पञ्चब्रह्ममुदाहरन् ॥ २९ ॥
आसनं कल्पयित्वा तु यथाविधिपुरस्सरम्
गन्धपुष्पैश्च धूपैश्च नैवेद्यैर्विविधैर्यजेत् ॥ ३० ॥
त्रिपादीन्स्थापयेद्धीमान्सूत्राग्नेः परिवर्जितम्
आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ ३१ ॥
निष्कत्रयाधमा ज्ञेया द्विगुणामद्ध्यमा स्मृता
त्रिगुणा चोत्तमा प्रोक्ता देशिकस्य तु दक्षिणा ॥ ३२ ॥
आदावन्ते गुरोरेव दक्षिणान्दापयेत् बुधः
मूर्तिपान्पूजयेत्पश्चात्प्रागुक्तविधिना सह ॥ ३३ ॥
सर्वलक्षणसंयुक्तं सर्वातोद्य समायुतम्
कुम्भमुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ३४ ॥
त्रिपादूर्द्ध्वे न्यसेत्कुम्भं व्योमव्यापिं समुच्चरन्
सुषिरं कुम्भपृष्ठे तु कारयेत्तु विचक्षणः ॥ ३५ ॥
माषमात्रं सुवर्णेन चतुरङ्गुलमानतः
नालन्तत्र प्रकर्त्तव्यं यवार्द्धसुषिरं कुरु ॥ ३६ ॥
तन्नालात्सततन्तोयं प्रावयेल्लिङ्गमूर्द्धनि
तद्द्रव्येण समापूर्य स्थण्डिलेऽप्युपकुम्भकम् ॥ ३७ ॥
स्थापयित्वा विशेषेण मन्त्रन्यासादि वर्जितम्
मद्ध्वादिशोषणात्पूर्वमुपकुम्भन्तु पूरयेत् ॥ ३८ ॥
मासं वाप्यर्द्धमासं वा अथवादिनसप्तकम्
पञ्चाहं वा त्र्यहं वापि दिनमेकमथापि वा ॥ ३९ ॥
[[३३५]]
यावन्निश्चित्यदिवसन्तावदेवं समाचरेत्
ब्राह्मणान्भोजयेत् नित्यं यथा वित्तानुसारतः ॥ ४० ॥
कुम्भादेवस्रवे कुर्यानित्यं नैमित्तिकन्तथा
पूर्वे निश्चित्य काले तु मद्ध्याह्ने त्ववरोहणम् ॥ ४१ ॥
कृत्वा सम्पूजयेद्देवं स्नपनं कारयेत्ततः
शान्तिहोमन्ततः कृत्वा पूजयेत्तु विशेषतः ॥ ४२ ॥
एवं यः कुरुते मर्त्यस्सोऽन्ते मोक्षमवाप्नुयात् ॥ ४३ ॥
इति शीतकुम्भविधिपटलश्चतुश्चत्वारिंशत्तमः