०४३ तैलाभ्यङ्गविधिपटलः

तैलाभ्यङ्गविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि तैलाभ्यञ्जनमुत्तमम्
तिलतैलेन कृत्वा तु सुगन्धकुसुमैर्युतम् ॥ १ ॥

गृहीत्वा नवकुम्भेन वर्मणावकुण्ठनं कुरु
लिङ्गं वा प्रतिमां वापि मृण्मये भित्तिचित्रके ॥ २ ॥

लिङ्गञ्च प्रतिमांशैलं लेपनं मर्दनेन तु
मृण्मये भित्तिचित्रे वा दर्पणस्य तु बुद्धिमान् ॥ ३ ॥

रत्नजे लोहजे चैव कूर्चेन प्रोक्षयेद्बुधः

[[३३१]]

वस्त्राणि सन्त्यजेदेव तत्पुरुषेण पूजयेत् ॥ ४ ॥

धूपदीपं हृदा दत्वा दन्तकाष्ठन्ददेद्बुधः
दर्पणन्दर्शयेद्धीमान्ताम्बूलन्दापयेद्धृदा ॥ ५ ॥

तैलमस्त्रेण सम्प्रोक्ष्य कवचेनावकुण्ठयेत्
अस्त्रमन्त्रेण संरक्ष्य तैलं हृदयबीजकम् ॥ ६ ॥

मर्दयेत् मस्तकं लिङ्गलेपनन्देशिकोत्तमः
पीठेन मार्जनं वाममघोरं मूलकेन तु ॥ ७ ॥

हरिद्रां सद्यमन्त्रेण स्नाापयेत्तु विशेषतः
अशुभानि रसत्कृत्वा शुभानान्दापयेत्कृतिः ॥ ८ ॥

गन्धोदकेन सम्पूज्य वस्त्रेणैव तु मार्जनम्
गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव तु योजयेत् ॥ ९ ॥

निवेदनञ्च कर्त्तव्यम् उपदंशसमन्वितम्
ताम्बूलन्दापयेत्पश्चात्स्वस्थानं पादमूलतः ॥ १० ॥

नित्ये नैमित्तिके वापि वारे पर्वद्वयेऽपि तु
उत्सवादीनि काम्यन्तु तीर्त्थमन्त्ये तु कारयेत् ॥ ११ ॥

परिवेषन्ततः कृत्वा गेयनृत्तसमाकुलम्
चूर्णन्तु कुट्टयेद्धीमान्महाव्योमेति मन्त्रतः ॥ १२ ॥

लूखलं पृथिवी चैव मुसलं मेरुकल्पयेत्
तन्मद्ध्ये रजनीन्तस्य सशुष्केण समन्वितम् ॥ १३ ॥

स्तोत्रस्तुत्य समायुक्तं सर्वालङ्कारसंयुतम्
ततो भक्तजनैस्सार्द्धं दापयेत्तैलकं विदुः ॥ १४ ॥

ताम्बूलन्दापयेत्पूर्वे सर्वत्र परिसेवितम्
यान्यान्कामयते देवं तान्तान्शर्वस्य सिद्धितः ॥ १५ ॥

इति तैलाभ्यङ्गविधिपटलस्त्रिचत्वारिंशत्तमः