०४२ एकादशरुद्राभिषेकविधिपटलः

एकादशरुद्राभिषेकविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि रुद्रमन्त्राभिषेचनम्
सर्वविघ्नविनाशार्त्थमपमृत्युविनाशनम् ॥ १ ॥

सर्वरोगविनाशार्त्थं राष्ट्रदुर्भिक्षनाशनम्
वर्षार्त्थं च जयार्त्थं च विशेषात् ज्वरनाशनम् ॥ २ ॥

ग्रहपीडविनाशार्त्थं सर्वोपद्रवनाशनम्
सर्वसिद्धिकरं पुण्यं मासर्क्षे जन्मनि त्रये ॥ ३ ॥

रविवारे सोमवारे जन्मर्क्षे विषुवायने
सङ्क्रान्तौ ग्रहणे चैव कल्पयेत्तु विशेषतः ॥ ४ ॥

शिवाग्रे स्थण्डिलं कृत्वा पुण्याहं पञ्चगव्यकम्
पञ्चामृतन्तु सङ्कल्प्य कुम्भसंस्थापनन्ततः ॥ ५ ॥

मद्ध्यकुम्भे शिवं पूज्य वर्द्धनीन्तस्य वामके
अष्टविद्येश्वरान्स्थाप्य विधिवत्पूजयेत् गुरुः ॥ ६ ॥

अग्निकार्योक्तमार्गेण होमं कुर्याद्विशेषतः
द्वारपूजान्ततः कृत्वा लिङ्गशुद्धिमथाचरेत् ॥ ७ ॥

आत्मार्त्थञ्च परार्त्थञ्च शुद्धशैवो जपेत्क्रमात्
अथवा ब्राह्मणान्विप्रान्शिवकुम्भसमन्वितान् ॥ ८ ॥

रुद्रसङ्ख्यान्समाहूय अर्द्धमण्टपसंस्थितान्

[[३३०]]

जपेत्सङ्कल्पपूर्वञ्च एकादशपरायणम् ॥ ९ ॥

तैलाद्यन्नपूजान्तमभिषेकमथाचरेत्
ओदनन्नालिकेरञ्च गुलताम्बूलसंयुतम् ॥ १० ॥

रुद्रपारायणान्ते च पुनःपुनर्न्निवेदयेत्
एकादशजपान्ते तु गन्धतोयाभिषेचनम् ॥ ११ ॥

मन्त्रान्नञ्च निवेद्याथ ततः कुम्भाभिषेचनम्
वस्त्रमाल्यैरलङ्कृत्य महानैवेद्यमाचरेत् ॥ १२ ॥

धूपदीपोपचारादीन्पूर्वोक्तविधिनाचरेत्
त्रिपक्षं वा द्विपक्षं वा पक्षमेकमथापि वा ॥ २३ ॥

एकादशदिने पूज्य यथावित्तानुसारतः
ब्राह्मणान्भोजयेन्नित्यं यथा विभवविस्तरम् ॥ २४ ॥

यथावित्तानुसारेण दक्षिणान्दापयेत्क्रमात्
एवमेव प्रकारेण कारयेद्देशिकोत्तमः ॥ २५ ॥

विपरीतन्नकर्त्तव्यं कर्त्तव्यं कर्त्तृनाशनम्
एवं सम्पूज्य विधिवत् एकाहे वा समाचरेत् ॥ २६ ॥

एवं यः कुरुते मत्तर्यस्सपुण्यां गतिमाप्नुयात् ॥ २७ ॥

इति एकादशरुद्राभिषेकविधिपटलः द्विचत्वारिंशत्तमः