महाभिषेकविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि महदप्यभिषेचनम्
[[३२३]]
धर्मार्त्थकाममोक्षार्त्थं शान्तिकं पौष्टिकन्तथा ॥ १ ॥
आयुश्श्रीकीर्तिजयदं व्याधिनाशं रिपुक्षयम्
ग्रामवृद्धिकरं पुण्यं सर्वोपहतिनाशनम् ॥ २ ॥
नवाहे वाथ सप्ताहे पञ्चाहे वा त्रयाहके
त्रिदिने तद्दिनात्पूर्वरात्रे वाङ्कुरमाचरेत् ॥ ३ ॥
यद्वासद्याङ्कुरं कुर्यादादिशैवः प्रशस्यते
रोहिण्यनिलसंयुक्तं पुष्यं वैष्णवमुच्यते ॥ ४ ॥
आदित्यहस्तमित्युक्तमष्टमी च चतुर्दशी
दशमी पूर्णमंसी च मासान्तं वाविशेषतः ॥ ५ ॥
कर्त्तुर्मरण ऋक्षं वा ग्रामऋक्षान्तमेव वा
नृपजन्मावसानर्क्षं प्रतिष्ठाहान्त ऋक्षकम् ॥ ६ ॥
नवाहं सौख्यदं प्रोक्तं सप्ताहं देविकं परम्
पञ्चाहं शान्तिकं प्रोक्तं त्रयाहन्तु शिवप्रियम् ॥ ७ ॥
एकाहं रोगशान्त्यर्त्थन्तस्मात्सम्पूजयेच्छिवम्
पूर्वरात्रौ तु कर्तव्यन्निर्वाणदीपमाचरेत् ॥ ८ ॥
क्षीराभिषेचनं कृत्वा कौतुकं बन्धयेत्ततः
शिवप्रस्थन्तु नैवेद्यं पायसं हविषन्ददेत् ॥ ९ ॥
प्रातः स्तात्वा शुचिर्भूत्वा देशिकश्शिष्यसंयुतः
गोमधालेपनं कृत्वा पुण्याह प्रोक्षणन्ततः ॥ १० ॥
जलभाण्डं वर्द्धनीञ्च कलशं पुष्पपात्रकम्
पाटली सदृशाकारं सर्वलक्षणसंयुतम् ॥ ११ ॥
सर्वपात्रन्ततः कृत्वा क्षालयेत्तत्वमन्त्रतः
दर्भासनोपरिस्थाप्य कवचेनाचकुण्ठनम् ॥ १२ ॥
निरीक्षणं हृदा चैव प्रोक्षणं पुरुषेण तु
ताडनं हुम्फडन्तेन स्पर्शनं सद्यमन्त्रतः ॥ १३ ॥
मीलनन्नेत्रमन्त्रेण मण्टपस्योत्तरे स्थितम्
[[३२४]]
वस्त्रपूतं हि सलिलं जलभाणे परिग्रहेत् ॥ १४ ॥
उदयादेवकर्त्तव्यं रात्र्यन्ते वाजलं ग्रहेत्
वर्णगन्धरसैर्हीनं कृमिशैवलकेशकम् ॥ १५ ॥
फेनबुद्बुदजुष्टञ्च तज्जलं परिवर्जयेत्
विवर्णं रोगदं पुंसां गन्धहीने रिपोर्भयम् ॥ १६ ॥
रसहीने तु -ारिद्र्यं कृमियुक्तं भयावहम्
शैवलं शोकसन्तापं केशयुक्बालनाशनम् ॥ १७ ॥
सर्षपं स्त्रीप्रजानाशं बुद्बुदं सस्यनाशनम्
वस्त्रपूतविहीने च मरणं भूभुजां ध्रुवम् ॥ १८ ॥
सस्मात्सनिर्मलन्तोयन्निर्दोषञ्च परिग्रहेत्
एलालवङ्गकर्पूरमगरुञ्चन्दनं लघु ॥ १९ ॥
अम्बुजञ्चैव तक्कोलं कच्चोलहरिबेरकम्
उशीरं चम्पकं कोष्ठं स्नानद्रव्यमिति स्मृतम् ॥ २० ॥
जलभाण्डे विनिक्षिप्य तदम्बुवासितं क्रियात्
पञ्चाङ्गभूषणैर्युक्तो देशिको मूर्त्तिपैस्सह ॥ २१ ॥
अङ्गन्यासकरन्यासमष्टत्रिंशत्कलान्न्यसेत्
प्राणप्रकृतियोगेन ज्ञात्वा पूजां समाचरेत् ॥ २२ ॥
प्राणो मन्त्र इति प्रोक्तः प्रकृतिः स्थापकं स्मृतम्
कुम्भञ्च वर्द्धनीञ्चैव घटं त्रिद्व्येकतन्तुभिः ॥ २३ ॥
वेदयित्वाथ तद्रन्ध्रं यवमात्रन्तु देशिकः
स्नपनं पञ्चगव्यञ्च पञ्चामृतं प्रकल्पयेत् ॥ २४ ॥
स्नानमण्टपमद्ध्ये तु शालिभिस्थण्डिलं कुरु
प्राक्सूत्रं वसुसूत्रं स्यादुदक्सूत्रन्तथैव च ॥ २५ ॥
सूत्रात्सूत्रान्तरन्तालम्मद्ध्ये नवपदं ग्रहेत्
अभितस्तस्य बाह्ये तु पदमेकं परित्यजेत् ॥ २६ ॥
वसुद्वारसमायुक्तं त्यजेत्गोमयवारिणा
[[३२५]]
द्विद्रोणशालिभिः कुर्यात्तिलतण्डुललाजकैः ॥ २७ ॥
शालिभिस्तण्डुलैस्त्वर्द्धैस्तस्यार्द्धैस्तु तिलैस्तथा
सूत्रपातं प्रकल्प्याथ दर्भैः पुष्पैः परिस्तरेत् ॥ २८ ॥
नवर्षी भूतवेदाग्निशक्तिदर्भैः परिस्तरेत्
पूर्वाग्रैश्चोत्तराग्रैश्च पदम्प्रतिपदम्प्रति ॥ २९ ॥
मद्ध्ये तु शिवकुम्भन्तु वीधिमद्ध्ये तु वर्द्धनीम्
पाद्यमाचमनञ्चार्घ्यं कस्तूरी गन्धतैलकम् ॥ ३० ॥
नीवारं कुङ्कुमञ्चैव मुरम्माञ्जी तिलन्तथा
प्रथमाचरणे चैव कलशानष्टदिक्षु च ॥ ३१ ॥
द्वितीयावरणे चैव पूर्वादिषु प्रकल्पयेत्
मधुकुष्ठं गुलञ्चैव ह्रीबेरञ्चन्दनं तथा ॥ ३२ ॥
तक्कोलञ्जातिकह्लारं शतपत्रञ्च मालती
द्रोणञ्च नालिकेरञ्च वेणुं सर्षपमेव च ॥ ३३ ॥
गोरोचनञ्च बिल्वञ्च द्रव्याण्येतानि षोडश
ब्रह्मविष्णुमहेशांश्च हृषीकेशश्च भास्करः ॥ ३४ ॥
कलानाथम्महासेनं शर्वरुद्रेश्वराधिपम्
प्रथमावरणे न्यस्य देवपाणि तले न्यसेत् ॥ ३५ ॥
द्वितीयावरणे देवान्यष्ट्वा चैवं पितामहः
इन्द्रादिलोकपालांश्च सोमाङ्गिरबृहस्पती ॥ ३६ ॥
पिङ्गलं मन्मथञ्चैव ब्रह्माणं ब्रह्मर्षिं तथा
वसिष्ठं श्रीधरञ्चैव क्रमात्षोडशकान्न्यजेत् ॥ ३७ ॥
हस्तपाणितले न्यस्य स्नपनं कल्पयेत् बुधः
दर्भैरेकादशैः कुम्भे देशिकः कूर्चमाचरेत् ॥ ३८ ॥
अग्रं वेदाङ्गुलञ्चैव ग्रन्थीं व्योमाङ्गुलं नयेत्
वर्द्धन्न्या नवभिः काशैः विस्तारं तालमात्रकम् ॥ ३९ ॥
पञ्चभिर्द्वादशाङ्गुल्य कलशानान्तु कूर्चकम्
[[३२६]]
गन्धपुष्पैः समभ्यर्च्य पूजयेत्स्वस्वनामभिः ॥ ४० ॥
प्रत्येकं नववस्त्रेण स्नपनञ्चैव दापयेत्
तस्य पश्चिमदिग्भागे पञ्चगव्यं निधाय च ॥ ४१ ॥
स्थण्डिलं शालिभिः कुर्यात् नवकोष्ठसमन्वितम्
पादेषु पञ्चकोष्ठानि मद्ध्यपूर्वे तु दक्षिणे ॥ ४२ ॥
उत्तरे पश्चिमे चैव परिस्तरणपूर्वकम्
लाजपुष्पतिलैश्चैव रन्ध्रकोष्ठेषु योजयेत् ॥ ४३ ॥
कलशं क्षालयित्वा तु त्रिपादूर्ध्वे तथैव च
क्षीरन्तु मद्ध्यमे स्थाप्य गोमूत्रं पूर्वकोष्ठके ॥ ४४ ॥
गोमयं दक्षिणे स्थाप्य पश्चिमे दधिविन्यसेत्
उत्तरे तु घृतं स्थाप्य पावके मधुविन्न्यसेत् ॥ ४५ ॥
नैर्ऋते फलसारञ्च वायव्ये गुलसारकम्
ऐशान्न्ये नालिकेरञ्च पूर्वादीनि क्रमान्न्यसेत् ॥ ४६ ॥
क्षीरन्तत्प्रस्थसंयुक्तं गोमूत्रं कुडवद्वयम्
गोमयं कुडवञ्चैव दधितत्कुडवत्रयम् ॥ ४७ ॥
आज्यं कुडवमित्युक्तं पयश्च कुडवत्रयम्
कुडवन्तु मधुप्रोक्तं फलसारञ्च तत्द्वयम् ॥ ४८ ॥
गुलसारं ततः प्रस्थं नालिकेरं तथा भवेत्
नवद्रव्यस्य सङ्ख्यातमधिदेवान्ततश्श्रुणु ॥ ४९ ॥
अगस्त्यञ्च पुलस्त्यञ्च विश्वामित्रञ्च भार्गवम्
गार्ग्यञ्च तुम्बुरुञ्चैव भारतीनाञ्च मुद्गलम् ॥ ५० ॥
ऋषिं ब्रह्मपदञ्चैव कलशं पाणी संस्थितम्
पुष्पैः कूर्चैस्समभ्यर्च्य स्वस्वमन्त्रेण देशिकः ॥ ५१ ॥
धूपदीपं ततः कृत्वा लिङ्गं सुरभिमुद्रया
तत्वमन्त्रेण सम्पूज्य दशमुद्रां प्रदर्शयेत् ॥ ५२ ॥
प्रधानकलशो मद्ध्ये सर्वं संयोजयेत् बुधः
[[३२७]]
सापिधानञ्च सर्वत्र शस्त्रमन्त्रेण बुद्धिमान् ॥ ५३ ॥
शिवस्य यजनार्त्थाय द्रव्यजातान् समाहरेत्
महाभिषेके द्रव्यस्य जलस्य हविषस्तथा ॥ ५४ ॥
गन्धस्यापि विशेषेण न प्रमाणं प्रजापते
मनोभिलषितं यच्च तत्सर्वं परिकल्पयेत् ॥ ५५ ॥
अथवान्यप्रकारेण तेषां मानं वदामि ते
चतुश्शतञ्च कदली लिकुचं शतमेव च ॥ ५६ ॥
नारङ्गञ्चैव पञ्चाशत्तत् द्वयं चूतमेव च
नालिकेरशतं प्रोक्तं पनसन्तु द्वयं भवेत् ॥ ५७ ॥
त्रिंशत्पलं शर्करा च घृतं द्विप्रस्थमेव च
तत् द्वयं माक्षिकं प्रोक्तं तच्चतुष्कन्तु तैलकम् ॥ ५८ ॥
तत् द्वयं क्षीरमित्युक्तं चन्दर्द्धमीरितं दधि
चतुर्विंशत्पलं गन्धं जलद्रव्यं पलं स्मृतम् ॥ ५९ ॥
तदर्द्धं घनसारादि रजन्यामलसक्तुकम्
षट्पलञ्चेति विख्यातं खारी स्यादन्नपूजनम् ॥ ६० ॥
द्रव्याण्यपि तथान्यानि चतुःप्रस्थेन कारयेत्
एवं द्रव्यस्य सङ्ख्याकमुपर्युपरिकल्पयेत् ॥ ६१ ॥
सर्वद्रव्याणि सङ्गृह्य प्रक्षाल्य प्रोक्षयेद्धृदा
शोधयित्वा तु सद्येन द्वारपूजां समाचरेत् ॥ ६२ ॥
द्वारमस्त्राम्बुना प्रोक्ष्य द्वारपालान्प्रपूजयेत्
गर्भगेहं प्रविश्याथ देशिकश्चोत्तराननः ॥ ६३ ॥
प्राणप्रकृतियोगेन ज्ञात्वा कर्मसमाचरेत्
सम्पूज्यमूललिङ्गन्तु शुद्धिं शिवास्त्रको भवेत् ॥ ६४ ॥
तुलसी बिल्वपत्रेण लिङ्गपीठन्तु घर्षयेत्
लेपयेन्मूलमन्त्रेण प्राणयोगं समाचरेत् ॥ ६५ ॥
अष्टत्रिंशत्कलान्यासम्मकुटादिक्रमान्न्यसेत्
[[३२८]]
न्यस्त्वा कुम्भस्थमीशानं लिङ्गस्थन्तु सदाशिवम् ॥ ६६ ॥
प्राकृतं भावमुत्सृज्य पूजयेदेकचित्ततः
स्नपनं पञ्चगव्यञ्चाप्यर्चनोक्तं विधीयते ॥ ६७ ॥
मूलब्रह्मषडङ्गैश्च गन्धतोयं प्रपूजयेत्
ऊर्द्ध्वश्वासमधःश्वासं सन्निरुद्ध्य परीक्षयेत् ॥ ६८ ॥
मौनञ्च द्रार्कनाशश्च सर्वपूजा निमित्तकम्
वेदाद्यद्ध्ययनं कुर्यादग्रमण्टपमद्ध्यमे ॥ ६९ ॥
चमकन्नमकञ्चैव पुंसूक्तं पवमानकम्
श्रीसूक्तं पञ्चशान्तिं च कलासूक्तं हिरण्यकम् ॥ ७० ॥
विप्रो वाथ चतुर्वेदी महाशैवोऽथ दीक्षितः
अदीक्षितो भक्तिहीनो मन्त्रहीनो न संस्पृशेत् ॥ ७१ ॥
लिङ्गार्च्चामपि तत्तुल्यैस्समयाय विशेषतः
वेदाध्ययनयुक्तस्सन् गन्धवारिप्रपूजयेत् ॥ ७२ ॥
गव्यं पञ्चामृतञ्चैव व्योमव्यापिं समुच्चरन्
दशाक्षरत्रयो मन्त्रैः पूजयेत्परमेश्वरम् ॥ ७३ ॥
लम्बकूर्चं लम्बमालां मूलब्रह
्मषडङ्गकैः
पिष्टामलकहारिद्र गन्धतोयैश्च पूजयेत् ॥ ७४ ॥
अष्टपुष्पैर्वस्त्रगन्धैस्सप्तसङ्ख्यानि वेदनम्
नृत्तगीतसमायुक्तं स्तोत्रमङ्गलवाचकैः ॥ ७५ ॥
नानादीपैरलङ्कृत्य धूपदीपं प्रदापयेत्
पञ्चानननिवेद्यञ्च पुराचमनन्ततः ॥ ७६ ॥
ताम्बूलमुखवासञ्च दर्पणन्दर्शयेत्ततः
शैवाग्निं सम्प्रकल्प्याथ वह्निकार्योक्तमार्गतः ॥ ७७ ॥
ब्रह्मवृक्षसमिद्भिस्तु समिदाज्य चरून्हुनेत्
होमद्रव्याणि सर्वाणि सद्योजातादिभिस्सह ॥ ७८ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
[[३२९]]
शेषाहुतिञ्च कूश्माण्डं स्विष्टकृत्जुहुयात्ततः ॥ ७९ ॥
पुनस्त्वादित्येतिमन्त्रेण पूर्णाहुतिं समाचरेत्
सर्वरोगनिवृत्यर्त्थं सर्वयागफलप्रदम् ॥ ८० ॥
सर्वसम्पत्करं नॄणां पुत्रपौत्राभिवर्द्धनम्
आचार्यं पूजयेत्पश्चात् दैवज्ञमृत्विजन्तथा ॥ ८१ ॥
एवं यः पूजनं कुर्यात्सर्वशान्तिमवाप्नुयात् ॥ ८२ ॥
इति महाभिषेकविधिपटल एकचत्वारिंशत्तमः