दण्डितविधानविधिपटलप्रारम्भः
ॐ सप्तसप्तपदकोष्ठमद्ध्यमे नन्दकोष्ठ सहितन्तुतद्बहिः ।
वीधिरेकपदमावृतन्त्यजेद्दिग्विदिक्षुगुणचन्द्रकोष्ठकम् ॥
[[३२१]]
इति पञ्चविंशतिस्नपनम्
नवनवेषु नवेषु च मद्ध्यमे नवतु पङ्कजमद्ध्यमभूतले ।
तद्बहिःपदके तु विवर्जिते दिक्ष्विदिक्षुरसवेदपदं क्रमात् ॥
इति एकोनपञ्चाशत्स्नपनम्
भुवनसूत्रनिबद्धितभूतले भवतु पञ्चकपञ्चकमद्ध्यमे ।
वीधिरेकपदमावृतन्त्यजेत् भानुदिक्षुविदिक्षुनवग्रहान् ॥
इति अष्टोत्तरशतस्नपनम्
अथ वक्ष्ये विशेषेण चण्डितस्य विधिक्रमम्
एकविंशतिसूत्राणि वृत्तवत्कारयेत् बुधः ॥ १ ॥
तालं सूत्रान्तरं प्रोक्तं विंशत्यावरणं क्रमात्
द्वारार्द्धञ्च महाशासु भ्रमन्सूत्राणि सन्न्यसेत् ॥ २ ॥
सकलं पदमेकं स्यात्पैशाचन्तु चतुष्पदम्
चत्वारिंशद्रसरन्ध्रैश्च सार्द्धपञ्चशतैर्युतम् ॥ ३ ॥
एतद्विशालमाख्यातं विप्रगर्भमथ श्रुणु
पीठं नवपदं प्रोक्तं महापीठन्तु षोडश ॥ ४ ॥
पञ्चपञ्चपदैस्सार्द्धमुपपीठमिति स्मृतम्
षट्षट्पदसमायुक्तमुग्रपीठमिति स्मृतम् ॥ ५ ॥
स्थण्डिलैकोनपञ्चाशन्मण्डूकञ्चाष्टचाष्टकम्
एकाशीति पदैर्युक्तमिन्द्रकान्तन्तु चण्डितम् ॥ ६ ॥
शतकोष्ठसमायुक्तमासनन्तस्य नामकम्
शताष्टपदकैस्सार्द्धं परमशायि पदं स्मृतम् ॥ ७ ॥
सप्तद्वयगुणैर्वेद सार्द्धं स्थानीयनायकम्
शतोर्द्ध्वेष्टाष्टरन्ध्रैश्च पदैर्दशधमुच्यते ॥ ८ ॥
ऊर्द्ध्वे षण्णवती सार्द्धं पदं भद्रमिति स्मृतम्
शतद्वयमनोपेतं महास्नपनमुच्यते ॥ ९ ॥
द्विशतोत्तरभूतेष्टपद्मगर्भपदैर्युतम्
[[३२२]]
पञ्चाशत् द्विशतोपेतं नियुतन्तस्य चण्डितम् ॥ १० ॥
अशीति द्विशतोपेतं वृत्तीं भौममिति स्मृतम्
त्रिशताष्टद्वयोपेतं कर्णाष्टकमिदं पदम् ॥ ११ ॥
षड्विंशत्त्रिशतोपेतं गणिकापदमेव च
चतुर्भूतपदं सूर्यं विशालन्तस्य चण्डितम् ॥ १२ ॥
सुसंहितपदञ्चैव चत्वारिंशच्चतुर्दश
शतदिक्क्षुशिवारीति पदैस्सुप्रतिकान्तकम् ॥ १३ ॥
चत्वारिंशद्रसण्डैश्च सार्द्धपञ्चाशतैर्युतम्
एतद्विशालमाख्यातं विप्रगर्भमथ श्रुणु ॥ १४ ॥
शतैः पञ्चपदोर्द्ध्वे तु षट्सप्तति समायुतम्
विप्रगर्भमिदन्नाम षडुक्तं पञ्चसंयुतम् ॥ १५ ॥
विश्वेशाख्यमिदन्नाम विपुलं भोगदं श्रुणु
षट्भिर्युतपदोर्द्ध्वे तु षट्सप्तति समायुतम् ॥ १६ ॥
विपुलं भोगदन्नाम विप्रतीकान्तमुच्यते
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥ १७ ॥
सप्तशतपदोर्द्ध्वे तु चतुराशीति संयुतम्
विशालाक्षमिदन्नाम चण्डितं सर्वसिद्धिदम् ॥ १८ ॥
अष्टाशतसुपञ्चाशत्पदं विप्रसुभक्तिकम्
विश्वेशसारमाख्यातं पदन्नन्दशतैर्युतम् ॥ १९ ॥
शिवषष्ट्याधिकान—— न्तेश्वरकान्तकम्
सहस्रैर्वेद षट्कोष्ठमिन्द्रकान्तन्तु चण्डितम् ॥ २० ॥
एतत्सुचण्डितं वेद सर्वकर्मानुसाधयेत् ॥ २१ ॥
इति चण्डितविधानविधिपटलश्चत्वारिंशत्तमः