०३९ अष्टोत्तरशतस्नपनविधिपटलः

अष्टोत्तरशतस्नपनविधिपटलप्रारम्भः
अष्टोत्तरशतं वक्ष्ये स्नपनं भुक्तिमुक्तिदम्
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ १ ॥

प्रोक्षणान्ते प्रतिष्ठान्ते चोत्सवान्ते विशेषतः
सङ्क्रान्तौ वाप्यमावास्यां षडशीति मुखेऽपिवा ॥ २ ॥

सिनीवाल्याङ्कुहौ चैव ह्याद्यायान्तु विशेषतः
राजाभिषेकसमये तस्य जन्मदिनेऽपि च ॥ ३ ॥

अन्यस्मिन्मङ्गले कार्ये प्रायश्चित्ते विशेषतः
स्नपनं कारयेद्धीमान्सर्वपापनिकृन्तनम् ॥ ४ ॥

भवनस्याग्रतः कुर्यात्मण्टपञ्चतुरश्रकम्
द्वादशन्दशहस्तं वा नवहस्ताष्टहस्तकौ ॥ ५ ॥

विप्रादीनां क्रमात्ग्राह्यं षोडशस्तम्भसंयुतम्
पङ्क्तित्रयसमायुक्तं पङ्क्तिमानमथोच्छ्रयम् ॥ ६ ॥

तलोत्सेधं युगाङ्गुल्यन्दर्पणोदरसन्निभम्
युगद्वारसमायुक्तं वेदतोरणभूषितम् ॥ ७ ॥

वितानदर्भमालाभिः स्नपनैर्विविधैर्युतम्
वितानद्ध्वजसंयुक्तम्मुक्तादामविराजितम् ॥ ८ ॥

अष्टमङ्गलसंयुक्तं मङ्गलाङ्कुरशोभितम्
गोमयालेपितं कृत्वा तरङ्गेणैव वेष्टयेत् ॥ ९ ॥

शिवाम्भसा तु सम्प्रोक्ष्य सूत्रपातन्तु कारयेत्
पूर्वाग्रञ्चुकलासूत्रं शालिपिष्टोक्तरज्जुना ॥ १० ॥

उदगग्रं तथैव स्याद्रन्ध्रतालप्रमाणतः
पञ्चपञ्चपदं मद्ध्ये परितोऽपि पदं त्यजेत् ॥ ११ ॥

एकविंशतिकोणेषु द्वारायान्न्यानि वर्जयेत्

[[३११]]

मद्ध्यमे तु शिवव्यूहमाग्नेयादिविदिक्षु च ॥ १२ ॥

व्यूहञ्चैव तु चत्वारो धर्मज्ञानादयः क्रमात्
तन्मद्ध्ये शालिभिश्चैव स्थण्डिलं कारयेत्ततः ॥ १३ ॥

शालीनामाढकं श्रेष्ठं त्रिप्रस्थं मद्ध्यमं भवेत्
द्विप्रस्थमधमं प्रोक्तं कलशानां पृथक्पृथक् ॥ १४ ॥

शिवं वै शिवकुम्भस्य षट्प्रस्थं वर्द्धनी स्मृतम्
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि ॥ १५ ॥

लाजपुष्पतिलैर्दर्भैर्विकिरेत्तु विशेषतः
प्रागग्रञ्चोत्तराग्रैश्च व्यूहेषु च परिस्तरेत् ॥ १६ ॥

पुण्याहं वाचयेत्तत्र स्थापयेत्कलशांस्थितान्
कालं भिन्नञ्च सुषिरं भेदञ्चेदञ्च लीनकम् ॥ १७ ॥

दुर्गन्धञ्च पुराणञ्च वर्जयेद्देशिकोत्तमः
कालञ्चकलहं विद्यात् भिन्नञ्चैव कुलक्षयम् ॥ १८ ॥

महावातप्रकोपञ्च सुषिरञ्च विशेषतः
छेदं विच्छेदनं कुर्यात् भेदं भेदाय वै तथा ॥ १९ ॥

लीनं व्याधिकरञ्चैव दुर्गन्धं बालनाशनम्
स्त्रीनाशं स्यात्पुराणन्तु सङ्ग्रहेत् बिम्बसन्निभम् ॥ २० ॥

तस्मात्सर्वप्रयत्नेन दोषयुक्तं विवर्जयेत्
कलशान्वेष्टयेद्विद्यानेकद्वित्रिकतन्तुभिः ॥ २१ ॥

एकद्वित्रियवान्तं स्याच्छिवकुम्भञ्च वर्द्धनीम्
अन्यांश्चकलशांश्चैव गवाक्षसदृशान्तरान् ॥ २२ ॥

मण्टपस्योत्तरे विद्यान्दर्भैश्चैव परिस्तरेत्
क्षालयेत्कलशांस्तत्र प्रोक्षयेत्पुरुषेण तु ॥ २३ ॥

अधोमुखांश्च कलशान्स्थापयेत्तु कुशोपरि
कलशानां स्वरूपाणां पादपृष्ठे मुखोद्भवम् ॥ २४ ॥

दन्तोष्ठरसजिह्वानि अस्थिमांसरुधिरस्तथा

[[३१२]]

स्त्रीपुन्नपुंसकं दाय जातिच्छन्दविकल्पनम् ॥ २५ ॥

ब्राह्म्यं दैविकमानुष्यं पैशाचं कलशं स्मृतम्
अत्यन्तरक्तवर्णानि कांस्यध्वनिसमन्वितम् ॥ २६ ॥

एवं लक्षणसंयुक्तं दैविकं कलशं स्मृतम्
श्वेतं रक्तं तथामिश्रं भिन्नं कांस्यध्वनिर्युतम् ॥ २७ ॥

पूर्वशब्दसमायुक्तं ब्रांहिकं कलशं स्मृतम्
कृष्णं रक्तं तथाश्वेतं धूम्रवर्णसमन्वितम् ॥ २८ ॥

दिशेदिशे शब्दभिन्नं मानुष्यं कलशं स्मृतम्
सर्ववर्णसमायुक्तमेकवर्णेन भूषितम् ॥ २९ ॥

मृत्तिकाशब्दसंयुक्तं पैशाचं कलशं स्मृतम्
स्त्रीणां ब्रंहादरञ्चैव पुल्लिङ्गं वाग्भवं बृहत् ॥ ३० ॥

आमूलाग्रसमञ्चैव नपुंसकघटानि च
भार्गवं मुखमित्याहुरोष्ठान्तं ग्रीवमुच्यते ॥ ३१ ॥

स्वरूपं रूपमित्याहुस्थण्डिलं पादमेव च
भूयस्थापृष्ठमोवोक्तं पुष्पमाला च बाहुकौ ॥ ३२ ॥

सूत्रमाभरणं यच्च कूर्चं जिह्वाविशेषतः
दन्तच्छिन्नञ्च पुष्पाणि जलेन प्राणमेव च ॥ ३३ ॥

अस्थिराधरे प्रोक्तं चर्मालङ्कृतवस्त्रकम्
शोणितं रक्तमृत्तेन शब्दं वै जलशब्दवत् ॥ ३४ ॥

प्रोक्षयेद्धृदयेनैव कलशोन्मीलनं कुरु
जलद्रोण्या जलञ्चैव वस्त्रेणैव तु शोधयेत् ॥ ३५ ॥

मद्ध्यमे शिवकुम्भन्तु पञ्चरत्नाम्बुसंयुतम्
मद्ध्यव्यूहस्य सौम्ये तु वर्द्धनीं स्थापयेद्धृदा ॥ ३६ ॥

हेमतोयसमायुक्तं कल्पयेत्कल्पवित्तमः
स्थापयेत्कलशान्सर्वान् पश्चात् द्रव्याणि विन्यसेत् ॥ ३७ ॥

पाद्यमाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षु च

[[३१३]]

दधिसर्पिर्मधुक्षीरमाग्नेयादि विदिक्षु वै ॥ ३८ ॥

तिलञ्च बिल्वपत्रञ्च चन्दनं मेघमेव च
चणकं हरिबेरञ्च सर्षपं नागकेसरम् ॥ ३९ ॥

तक्कोलञ्च फलं कुष्ठं कच्चोलञ्चैव लोहकम्
लवङ्गं पत्रकर्पूरं विन्यसेत्तु क्रमेण तु ॥ ४० ॥

द्रव्याणि षोडशैतानि पूर्वदिक्षु क्रमान्न्यसेत्
तृतीयावरणे सक्तूनाग्नेयादिषु पञ्चसु ॥ ४१ ॥

नैर्ऋत्यांविन्यसेत् भस्महारिद्रं वायवे न्यसेत्
ऐशान्यान्तु शकृच्चूर्णं क्रमेणैव तु विन्यसेत् ॥ ४२ ॥

धात्रीमग्नौ न्यसेत्तत्र नैर्ऋत्यां पदसप्तसु
नालिकेरन्न्यसेत्तत्र वायव्ये लिकुचन्न्यसेत् ॥ ४३ ॥

मातुलङ्गं न्यसेदीशे कलशेषु च सप्तसु
पञ्चमावरणे लक्ष्मीं कलशेषु नवस्वपि ॥ ४४ ॥

कलशेषु च नैर्ऋत्यां सह देवीञ्च विन्न्यसेत्
विष्णुक्रान्तं न्यसेद्वायौ कलशेषु यथाक्रमम् ॥ ४५ ॥

रुद्रवर्णीं न्यसेदैशे कलशेषु नवस्वपि
उत्तमं नवकाशैस्तु सप्तकाशैस्तु मद्ध्यमम् ॥ ४६ ॥

अधमं पञ्चकाशैस्तु रुद्रधर्मग्रहायुतम्
ग्रन्थिरेकाङ्गुलं प्रोक्तमग्रन्तु चतुरङ्गुलम् ॥ ४७ ॥

ग्रन्धिं तद्दक्षिणावर्तं कूर्चानां लक्षणं त्विदम्
ऊर्ध्वाग्रं पुष्टिदं प्रोक्तमधोग्रं शान्तिकं भवेत् ॥ ४८ ॥

सुसितं सूक्ष्मसुश्लक्ष्णमहतं सदशं भवेत्
उत्तमं सप्तहस्तं स्यात् षड् हस्तं मद्ध्यमं भवेत् ॥ ४९ ॥

अधमं पञ्चहस्तं स्यात् वस्त्रलक्षणमुच्यते
असितं स्थाननाशं स्यादसूक्ष्मं निधनं भवेत् ॥ ५० ॥

अश्लक्ष्णं ग्रामनाशं स्याद्राष्ट्रनाशमलक्षणम्

[[३१४]]

सदाशिवं यजेत्कुम्भे वर्द्धन्यान्तु मनोन्मनीम् ॥ ५१ ॥

सकूर्चौ सापिधानौ च वस्त्रयुग्मसमावृतौ
पूजयेत्तु विशेषेण गन्धपुष्पादिभिः क्रमात् ॥ ५२ ॥

प्रथमावरणे यद्वा वामादिनवशक्तयः
द्वितीयावरणे चाष्टलोकपालांश्च दिक्षु वै ॥ ५३ ॥

अन्तराले तथाचाष्ट विद्येशांश्च प्रपूजयेत्
तृतीया वरणे चैव विघ्नेशं चैव पञ्चसु ॥ ५४ ॥

निर्ऋत्यां च तथा स्कन्दं वायौ नन्दीशमेव च
तथैशेपि महाकालं पूजयेत्तु विशेषतः ॥ ५५ ॥

चतुर्त्थावरणे चाग्नौ गङ्गां सप्तपदेषु च
निर्ऋत्यां च तथालक्ष्मीं वायौ सरस्वतीन्तथा ॥ ५६ ॥

दुर्गामीशानदिग्भागे पदेष्वेव हि सप्तसु
पञ्चमावरणे चाग्नौ सूर्यरन्ध्रपदेषु च ॥ ५७ ॥

निर्ऋतौ चैव भृङ्गीशं पदेषु च नवस्वपि
वायौ नवपदेष्वेव तथैशे तु पदेषु च ॥ ५८ ॥

यथाक्रमेण गन्धाद्यैरश्विनीं सम्प्रपूजयेत्
सकूर्चान्सापिधानांश्च सवस्त्रां कलशांस्तथा ॥ ५९ ॥

ईशस्याभिमुखान्देवान्सर्वान्कलशहस्तकान्
सम्पूज्यगन्धपुष्पाद्यैः पदम्प्रतिपदम्प्रति ॥ ६० ॥

द्वारपूजां ततः कृत्वा पूर्वोक्तविधिना सह
गर्भगेहं प्रविश्याथ निर्माल्यं तु विसर्जयेत् ॥ ६१ ॥

घण्टान्तु ताडयेत्तत्र यवनीमपनीय च
लिङ्गशुद्धादिकं सर्वं प्रागुक्तविधिना ततः ॥ ६२ ॥

हृदयेन तु मन्त्रेण शिवकुम्भं तथोद्धरेत्
शिवमन्त्रं न्यसेल्लिङ्गे तत्तोयेनाभिषेचयेत् ॥ ६३ ॥

वर्द्धनीन्तु ततोद्धृत्य न्यसेच्छक्तिन्तु पिण्डिके

[[३१५]]

वर्द्धनीसलिलेनैव पिण्डिकामभिषेचयेत् ॥ ६४ ॥

यथासंस्थापितास्सर्वे तथाचोद्धारणं कुरु
पञ्चब्रह्मषडङ्गैश्च व्योमव्यापि पदैस्तथा ॥ ६५ ॥

क्षुरिका बीजमुख्याभ्यां स्नापयेदादिशैवकः
अर्चनोक्तं समारभ्य प्रभूतहविषन्ददेत् ॥ ६६ ॥

सव्यापसव्यमार्गेण त्रिः कृत्वस्तु प्रदक्षिणम्
प्रणम्य परिवाराणि क्षमस्वेति वदेद्गुरुः ॥ ६७ ॥

आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
सुवर्णं शालिवस्त्राणि चान्योपकरणानि च ॥ ६८ ॥

देशिकाय प्रदातव्यं भक्तांश्च परिचारकान्
दीनाननाधान्तत्काले पूजयेत्तु विशेषतः ॥ ६९ ॥

महेशस्नपनञ्चेत्तु विशेषं किञ्चिदस्ति हि
कुम्भे यजेन्महेशन्तु वर्द्धन्यान्तु गणाम्बिकाम् ॥ ७० ॥

अन्येषां सर्वकर्माणामविशेषं प्रजापते
नैमित्तिके तथायागे वर्तमाने च बुद्धिमान् ॥ ७१ ॥

काले च त्वयने प्राप्ते तत्कर्मेण सहैव तु
विशेषस्नपनञ्चैव कारयेत्तु विशेषतः ॥ ७२ ॥

नित्यकर्माणि सर्वाणि प्रकुर्वीत विशेषतः
एवं यः कुरुते मर्त्यः स्नपनं विधिपूर्वकम् ॥ ७३ ॥

इहैव धनवान्श्रीमान्सोन्ते सायुज्यमाप्नुयात्
इत्यष्टोत्तरशतस्नपनविधिपटल अष्टत्रिंशत्तमः
महास्नपनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण महास्नपनमुत्तमम्
सर्वविघ्नविनाशार्त्थं सर्वशान्तिकरं परम् ॥ १ ॥

प्रासादस्याग्रके वापि मण्टपं कारयेत्ततः

[[३१६]]

दक्षिणे चोत्तरे वापि सकुथाम्मन्त्रवित्तमः ॥ २ ॥

क्षेत्रं परिग्रहेत्पूर्वमस्त्रमन्त्रेण मन्त्रवित्
विंशद्धस्तप्रमाणेन कल्पयेच्चतुरश्रकम् ॥ ३ ॥

षट्त्रिंशत्गात्रसंयुक्तम्मद्ध्ये वेदाङ्घ्रिकान्न्यसेत्
श्रुतिद्वारसमायुक्तं चतुस्तोरणसंयुतम् ॥ ४ ॥

विताने नोर्द्ध्वमाच्छाद्य गात्रं वस्त्रेण वेष्टयेत्
दर्भमालासमायुक्तं दिक् द्ध्वजैश्च प्रलम्बितम् ॥ ५ ॥

मुक्तास्रक् दामविविधैस्तरङ्गेणावृतं बहिः
प्रथमं शोधयेत् भूमिमालेपेन द्वितीयकम् ॥ ६ ॥

तृतीयं सूत्रविन्यासञ्चतुर्त्थं स्थण्डिलं भवेत्
पञ्चमं कलशन्यासं कूर्चन्यासन्तु षष्ठकम् ॥ ७ ॥

सप्तमं द्रव्यविन्यासं देवतान्यासमष्टमम्
शरावन्नवमञ्चैव दशमं सूत्रवेष्टनम् ॥ ८ ॥

एकादशं गन्धपुष्पं द्वादशन्धूपदीपकम्
मुद्रात्रयोदशं प्रोक्तं प्रोक्षणन्तु चतुर्दशम् ॥ ९ ॥

पञ्चदश्यं घटोद्धारं षोडशं स्नपनं भवेत्
अस्त्रेण शोधयेत् भूमिं वामदेवेन लेपयेत् ॥ १० ॥

सूत्रन्यासमघोरेण स्थण्डिलं पुरुषेण तु
हृदयेन न्यसेत्कुम्भमीशानेन न्यसेत् कुशान् ॥ ११ ॥

मूलेन विन्यसेत् द्रव्यं सद्येन देवतान्न्यसेत्
शरावं बीजमुख्येन वस्त्राणि हृदयेन तु ॥ १२ ॥

ईशानेनैव गन्धादीन्धूपादीन्कवचेन तु
अघोरेणास्त्रमुद्रान्तु वाचयेत्पवमानकम् ॥ १३ ॥

प्रोक्षयेत्तु विशेषेण पुण्याहन्तु यथार्हकम्
प्रणवेन घटोद्धारम्महाव्योमेतिमन्त्रतः ॥ १४ ॥

पञ्चब्रह्मषडङ्गैश्च पूजयेत्परमेश्वरम्

[[३१७]]

मण्टपस्य तु तन्मद्ध्ये हस्तं सूत्रान्तरन्ततः ॥ १५ ॥

पूर्वापरेण मार्गेण युग्मसूत्रन्तु कारयेत्
दक्षिणोत्तरमार्गेण सूत्रपातन्तथाचरेत् ॥ १६ ॥

तस्य मद्ध्ये न्यसेत्शङ्कुं समन्त्रान्भ्रामयेत्बुधः
एकविंशति सूत्राणि वृत्तवत्कारयेत् बुधः ॥ १७ ॥

तालं सूत्रान्तरं प्रोक्तं विंशत्यावरणे क्रमात्
द्वारार्द्धकम्महाशासु भ्रमन्सूत्राणि सन्त्यजेत् ॥ १८ ॥

स्थण्डिलं कारयेन्मद्ध्ये प्यष्टद्रोणैश्च शालिभिः
तन्मद्ध्ये विलिखेत्पद्मं साष्टपत्रं सकर्णिकम् ॥ १९ ॥

तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
लाजपुष्पकुशैस्तीर्य पूजयेद्धृदयेन तु ॥ २० ॥

स्थण्डिलं शालिभिश्चैव कारयेत्कलशं प्रति
लाजपुष्पतिलैर्दर्भैर्विकिरेत्समलङ्कृतम् ॥ २१ ॥

मण्टपस्योत्तरे भागे दर्भोपरिविशेषतः
तन्तुना चित्रितान् कुम्भान् सदायेद्विधिपूर्वकम् ॥ २२ ॥

जलधारीं समादाय शुद्धिं कृत्वा तु विन्यसेत्
वस्त्रेणाच्छाद्य वक्त्रञ्चाप्युदकन्तत्र पूरयेत् ॥ २३ ॥

शिवकुम्भन्न्यसेन्मद्ध्ये गन्धोदकं प्रपूरयेत्
सकूर्चं सापिधानञ्च वस्त्रयुग्मेन वेष्टितम् ॥ २४ ॥

पद्ममुद्राम्प्रदर्श्याथ प्यर्चयेत्तु सदाशिवम्
तस्योत्तरे तु विन्यस्य वर्द्धनीं हेमतोयकाम् ॥ २५ ॥

सकूर्चां सापिधानाञ्च वस्त्रयुग्मेन वेष्टिताम्
गन्धपुष्पादिभिश्चैव पूजयेत्तु मनोन्मनीम् ॥ २६ ॥

प्रथमावरणे चाष्टकलशेषु विशेषतः
आग्नेयादिषु कोणेषु नवरत्नानि विन्यसेत् ॥ २७ ॥

द्वितीयावरणे चैव षोडशान्कलशान्न्यसेत्

[[३१८]]

चतुर्विंशतिकं प्रोक्तं तृतीयावरणे तथा ॥ २८ ॥

द्वात्रिंशत्कलशान्सम्यक्चतुर्त्थावरणे न्यसेत्
पञ्चमावरणे चैव षत्पञ्चाशद्विधीयते ॥ २९ ॥

षष्ठमावरणे चैव चतुष्षष्टिघटान्न्यसेत्
सप्तमावरणे चैव द्विसप्ततिः क्रमेण तु ॥ ३० ॥

चतुराशीति कलशानष्टमावरणे न्यसेत्
घटान्षण्णवतीन् चैव नवमावरणे तथा ॥ ३१ ॥

दशमावरणे चैव शतमेवं प्रकीर्त्तितम्
रुद्रावरणके चैव कलशांश्च चतुश्शतम् ॥ ३२ ॥

द्वादशावरणे तत्राप्यष्टोत्तरशतं भवेत्
त्रयोदशावरणे तु षट्भिर्दशशतं क्रमात् ॥ ३३ ॥

बाह्यकावरणे चैव न्यसेद्विंशच्छतन्तथा
प्रदक्षिणक्रमेणैव यजेदावरणं प्रति ॥ ३४ ॥

द्व्यन्तरे द्व्यन्तरे चैव वीधिषट्कं प्रकल्पयेत्
पाद्यादिभिस्सहस्रन्तु स्थापयेदीशमन्त्रतः ॥ ३५ ॥

पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम्
क्षीरन्दधिघृतञ्चैव प्रथमावरणे न्यसेत् ॥ ३६ ॥

द्वितीयावरणे चैव सुवर्णं प्रक्षिपेत्ततः
तृतीयावरणे न्यस्त्वा नालिकेरफलं क्रमात् ॥ ३७ ॥

चतुर्त्थावरणे चैव न्यसेदिक्षुरसन्तथा
पञ्चमावरणे चैव मधुविन्यस्य देशिकः ॥ ३८ ॥

नानाकुसुमसंयुक्तं षष्ठे तु विन्यसेत्क्रमात्
सप्तमावरणे चैव सर्वबीजानि विन्यसेत् ॥ ३९ ॥

अष्टमावरणे चैव विन्यसेत्कदलीफलम्
गोमयं शोषयित्वा तु शुद्धदेशे दहेत्पुनः ॥ ४० ॥

तत्भस्मना ततोद्धृत्य निक्षिपेन्नवमं क्रमात्

[[३१९]]

पञ्चगव्येन संयुक्तन्दशमावरणे क्रमात् ॥ ४१ ॥

एकादशे विशेषेन कषायन्तत्र विन्यसेत्
द्वादशावरणे सम्यक् धातुलोहानि विन्यसेत् ॥ ४२ ॥

विन्यसेत्तु क्रमेणैव अक्षतन्तु त्रयोदशे
वल्मीकादिमृदङ्ग्राह्य बाह्यकावरणे न्यसेत् ॥ ४३ ॥

सर्वगन्धं समाहृत्य सर्वकुम्भेषु निक्षिपेत्
पूजिताकलशा ह्येतैः यथालाभमथापि वा ॥ ४४ ॥

कलशेषु जलैः पूर्य यथालाभन्तु निक्षिपेत्
एतेषामप्यलाभे तु यद्द्रव्यं तु स्मरेद्बुधः ॥ ४५ ॥

तत्तत्द्रव्यञ्चसङ्कल्प्य पुष्पैर्वापि विनिक्षिपेत्
विधिनावस्त्रकूर्चाभ्यां प्रत्येकं कलशान्क्रमात् ॥ ४६ ॥

अनन्तादिशिखण्ड्यन्तान् प्रथमावरणे यजेत्
द्वितीये चैव चण्डेशं नन्दीशञ्च तृतीयके ॥ ४७ ॥

महाकालञ्चतुर्त्थे तु विघ्नेशं पञ्चमे यजेत्
षष्ठे तु वृषभं पूज्य भृङ्गीशं सप्तमे यजेत् ॥ ४८ ॥

अष्टमावरणे स्कन्दमनन्तन्नवमे यजेत्
पिनाकपाणिन्दशमे बाह्ये तु जयभद्रकम् ॥ ४९ ॥

द्वादशावरणे चैव विरूपाक्षं प्रपूजयेत्
त्रयोदशे यजेत्सूक्ष्मं तद्बाह्ये पिङ्गलेक्षणम् ॥ ५० ॥

गन्धपुष्पादिभिश्चैव स्वनामाद्यैर्विशेषतः
घटं प्रतियजेदेतान् तत्तदावरणेषु च ॥ ५१ ॥

वालुकैश्च महाशासु स्थण्डिलन्तु प्रकल्पयेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ५२ ॥

समिदाज्य चरुञ्चैव सद्यवामास्त्रमन्त्रकैः
प्रत्येकन्तु शतं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ५३ ॥

पञ्चब्रह्मषडङ्गैश्च मूलेनैव दशाक्षरैः

[[३२०]]

प्रत्येकञ्जुहुयाद्धीमान्पञ्चविंशतिसङ्ख्यया ॥ ५४ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिन्तु शिरसा यदस्येति तदन्तके ॥ ५५ ॥

उक्तानुक्तन्तु यत्किञ्चित्तत्सर्वं हृदयेन तु
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ५६ ॥

कन्यसं पञ्चनिष्कन्तु द्विगुणं मद्ध्यमं भवेत्
त्रिगुणञ्चोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा ॥ ५७ ॥

दक्षिणान्दापयित्वा तु मूर्त्तिपानथ पूजयेत्
द्वारपूजादिकं सर्वमर्चनोक्तन्तु कारयेत् ॥ ५८ ॥

शिवकुम्भन्ततोद्धृत्य मन्त्रलिङ्गे तु विन्यसेत्
तत्कुम्भस्थजलेनैव स्नापयेत्परमेश्वरम् ॥ ५९ ॥

वर्द्धन्यां बीजमादाय न्यसेल्लिङ्गस्य वामके
पिण्डिकायां जलैश्चैव स्नापयेत्तु विशेषतः ॥ ६० ॥

यथासंस्थापितान् कुम्भान् तथा चोद्धारणं कुरु
संस्नाप्य देवदेवेशमर्चनोक्तं समाचरेत् ॥ ६१ ॥

प्रभूतहविषन्दत्वा ताम्बूलन्तु निवेदयेत्
भक्तांश्च परिचारांश्च दीनानन्धान्प्रपूजयेत् ॥ ६२ ॥

स्नपनाङ्गानि वस्त्राणि देशिकाय प्रदापयेत्
एवं यः कुरुते मर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ ६३ ॥

स्नकारं सर्वसिद्धिस्स्यात्पकारं स्थितिरुच्यते
नकारं पापनाशं स्यात्तस्मात्स्नपनमुच्यते ॥ ६४ ॥

इति महास्नपनविधिपटल एकोनचत्वारिंशत्तमः