०३८ एकोनपञ्चाशत्स्नपनविधिपटलः

एकोनपञ्चाशत्स्नपनविधिपटलप्रारम्भः
वक्ष्ये ह्येकोनपञ्चाशत्स्नपनस्य विधिक्रमम्
मन्दिरस्याग्रतः कुर्यान्मण्टपञ्चतुरश्रकम् ॥ १ ॥

नवहस्तञ्चाष्टहस्तं सप्तहस्तमथापि वा
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥ २ ॥

[[३०८]]

वितानदर्भमालाभ्याम्मुक्तादामविभूषितम्
अष्टमं गलसंयुक्तम्मङ्गलाङ्कुरशोभितम् ॥ ३ ॥

गोमयालेपनं कृत्वा निम्नोन्नतविवर्जितम्
सद्येन प्रोक्ष्य तन्मद्ध्ये सूत्रपातन्तु कारयेत् ॥ ४ ॥

प्रागग्रन्दशसूत्रं स्यादुदगग्रन्तथैव च
मद्ध्ये नवपदं ग्राह्य लेपयेत्परितः पदम् ॥ ५ ॥

द्वाराष्टकसमायुक्तन्तालमात्रपदं भवेत्
स्थण्डिलं शालिभिः कुर्यात्तन्मद्ध्येऽब्जं समालिखेत् ॥ ६ ॥

लाजपुष्पतिलैर्दर्भैर्विकिरेत्तु विशेषतः
कलशान्लक्षणोपेतान् चतुःप्रस्थेन पूरितान् ॥ ७ ॥

सूत्रेण वेष्टयेत्सर्वान् गवाक्षसदृशान्तरान्
कलशान् क्षालयेत्पश्चात् अस्त्रमन्त्रेण सुव्रता ॥ ८ ॥

पुण्याहं वाचयेद्धीमान्स्थापनन्तु समारभेत्
मद्ध्यमे शिवकुम्भन्तु गन्धतोयेन पूरितम् ॥ ९ ॥

पञ्चरत्नसमायुक्तं सकूर्चं सापिधानकम्
वस्त्रयुग्मेन संवेष्ट्य पूजयेत्तु सदाशिवम् ॥ १० ॥

वर्द्धनीञ्चोत्तरे स्थाप्य स्थण्डिलोपरिविन्यसेत्
सकूर्चां सपिधानाञ्च वस्त्रहेमाम्बुपूरिताम् ॥ ११ ॥

मनोन्मनीं यजेत्तत्र गन्धपुष्पादिभिः क्रमात्
स्थापयेत्कलशान्पश्चात्द्रव्येण समपूरयेत् ॥ १२ ॥

पाद्यमाचमनञ्चार्घ्यं गव्यं पूर्वादिदिक्षु वै
क्षीरं दधिघृतञ्चैव मध्वन्नादिविदिक्षु च ॥ १३ ॥

तक्कोलं भस्मनिर्यासं गिरिबेरञ्च मञ्जरीम्
नालिकेरञ्च बिल्वञ्च जम्बूकच्छोलमेव च ॥ १४ ॥

पाटली चैव पुन्नागं शङ्खपुष्पन्तथैव च
लक्ष्मीव्याघ्री नखीसिंही धुत्तूरञ्चैव षोडश ॥ १५ ॥

[[३०९]]

द्रव्याण्येतानि सर्वाणि द्वितीयावरणे न्यसेत्
दूर्वा च सर्षपं त्वाम्रं नारङ्गं पनसं तथा ॥ १६ ॥

कदली शतपत्रञ्च धातकी श्वेतपद्मकम्
इक्षुसारञ्च लाजञ्च चम्पकं गन्धतैलकम् ॥ १७ ॥

नीवारं कुङ्कुमञ्चैव तिलमाञ्जिमुरन्तथा
सक्तुवैमातुलुङ्गञ्च चन्दनञ्चागरुं तथा ॥ १८ ॥

उशीरञ्च निशाचूर्णं तृतीयावरणस्य तु
इन्द्राद्यानष्टविद्येशान्प्रथमावरणे न्यसेत् ॥ १९ ॥

तत्तत्स्वनाममन्त्रैश्च गन्धपुष्पादिभिर्यजेत्
लोकपालान्वसूंश्चैव द्वितीयावरणे न्यसेत् ॥ २० ॥

विघ्नेशं द्वादशादित्यान्तथैकादशरुद्रकान्
पूर्वादिषु क्रमेणैव तृतीयावरणेन्न्यसेत् ॥ २१ ॥

तत्तत्स्वनाममन्त्रैश्च गन्धपुष्पादिभिः क्रमात्
पूजयेत्तु विशेषेण पदं प्रतिपदं प्रति ॥ २२ ॥

प्रविश्य गर्भगेहन्तु लिङ्गपीठस्थलं क्रमात्
शुद्धिं कृत्वा विशेषेण पश्चात्स्नपनमारभेत् ॥ २३ ॥

शिवकुम्भं ततोद्धृत्य लिङ्गमद्ध्ये शिवं यजेत्
तत्तुम्भस्योदकैरेव स्नापयेत्परमेश्वरम् ॥ २४ ॥

वर्द्धनीञ्च ततोद्धृत्य पिण्डिकायां मनोन्मनीम्
विन्यस्य स्नापयेत्तस्यां कलशैश्च शिवं तथा ॥ २५ ॥

शिवकुम्भाम्भसालिङ्गं पिण्डिकायां मनोन्मनीम्
विद्येशकलशाद्भिस्तु स्नापयेदभितः क्रमात् ॥ २६ ॥

स्नापयेत्पूजयेद्धीमानर्चनोक्तं विशेषतः
प्रभूतहविषन्दत्वा ताम्बूलन्तु निवेदयेत् ॥ २७ ॥

आचार्यं पूजयेदन्ते वस्त्रहेमाङ्गुलीयकैः
एवं यः कुरुते मर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ २८ ॥

[[३१०]]

इति एकोनपञ्चाशत्स्नपनविधिपटलस्सप्तत्रिंशत्तमः