०३७ पञ्चविंशतिस्नपनविधिपटलः

पञ्चविंशतिस्नपनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण स्नपनं पञ्चविंशतिम्
सर्वसिद्धिकरं पुण्यसर्वपापनिकृन्तनम् ॥ १ ॥

आलयस्याग्रतः कुर्यात् मण्टपञ्चाष्टहस्तकम्
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भसंयुतम् ॥ २ ॥

स्थलोच्चञ्चतुरङ्गुल्यं चतुरश्रसमं शुभम्
युगद्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ३ ॥

[[३०६]]

मङ्गलाङ्कुरसंयुक्तं पूर्णकुम्भैरलङ्कृतम्
मुक्तासृग्दामविविधैः ध्वजैश्चित्रैश्च शोभितम् ॥ ४ ॥

वितानदर्भमालाभ्यां दीपैश्च विविधैर्युतम्
गोमयालेपनं कृत्वा प्रोक्षयेद्धृदयेन तु ॥ ५ ॥

प्राक्सूत्रं वसुभिः कुर्यादुदक्सूत्रं तथैव च
सूत्रात्सूत्रान्तरं तालं मध्ये नवपदं लिखेत् ॥ ६ ॥

अभितस्तस्य बाह्ये तु पदमेकं परित्यजेत्
वसुद्वारसमायुक्तं त्यजेत्गोमयवारिणा ॥ ७ ॥

शालिभिस्थण्डिलं कृत्वा प्रोक्षयेद्धृदयेन तु
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ८ ॥

तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
लाजपुष्पैश्च दर्भैश्च विकिरेत्तु विशेषतः ॥ ९ ॥

पुण्याहं वाचयित्वा तु पश्चात्स्थापनमारभेत्
मण्टपस्योत्तरे भागे कलशान्स्थापयेत्ततः ॥ १० ॥

तन्तुनावेष्टयेत्कुम्भान् गवाक्षसदृशान्तरम्
प्रक्षाल्य सद्यमन्त्रेण कुम्भान्सर्वानधोमुखान् ॥ ११ ॥

दर्भोपरिन्यसेत्तत्र प्रोक्षयेत्पुरुषेण तु
शिवाख्यं कलशं मद्ध्ये स्थापयेत्तण्डुलोपरि ॥ १२ ॥

वर्द्धनीञ्चोत्तरे तस्य स्थापयेत्तु विचक्षणः
शिवाख्यं पञ्चरत्नाम्बु वर्द्धनी हेमसंयुतम् ॥ १३ ॥

सकूर्चौ सापिधानौ च वस्त्रयुग्मेन वेष्टितौ
सदाशिवं यजेत्कुम्भे वर्द्धन्यान्तु मनोन्मनीम् ॥ १४ ॥

पूजयित्वा विशेषेण गन्धपुष्पादिभिः क्रमात्
पाद्यन्तु पूर्वतः स्थाप्याचमनं दक्षिणे न्यसेत् ॥ १५ ॥

अर्घ्यन्तु पश्चिमे स्थाप्य पञ्चगव्यं तथोत्तरे
आग्नेयादिषु कोणेषु गन्धोदकं न्यसेत्ततः ॥ १६ ॥

[[३०७]]

वस्त्रेण वेष्टयेत्सर्वान्सकूर्चान्सापिधानकान्
वामादिशक्तयश्चाष्टौ शक्रादिषु क्रमान्न्यसेत् ॥ १७ ॥

मधूकुष्ठं गुलञ्चैव क्षीरञ्च सर्षपन्तथा
लवङ्गञ्चैव कक्कोलं दधिमेघं तिलन्तथा ॥ १८ ॥

उशीरञ्च घृतञ्चैव शकृच्चूर्णन्तु सक्तुकम्
नालिकेरञ्च हारिद्रं पूर्वादिषु क्रमान्न्यसेत् ॥ १९ ॥

सकूर्चं सापिधानञ्च प्रत्येकं वस्त्रवेष्टितम्
लोकपालांस्तथादिक्षु विद्येशानष्टदिक्षु वै ॥ २० ॥

पूजयेत्गन्धपुष्पाद्यैः स्वनाम्ना देशिकोत्तमः
गर्भगेहं ततः प्राप्य निर्माल्यन्तु विसर्जयेत् ॥ २१ ॥

लिङ्गशुद्ध्यादिकं सर्वमर्चनोक्तं समाचरेत्
शिवकुम्भं ततोद्धृत्य स्नापयेत्परमेश्वरम् ॥ २२ ॥

वर्द्धनीन्तु ततोद्दृत्य पिण्डिकामभिषेचयेत्
व्योमव्यापि समुच्चार्य पञ्चब्रह्मषडङ्गकैः ॥ २३ ॥

संस्नाप्यकलशाद्भिस्तु पूजयेत्तु सदाशिवम्
प्रभूतं हविषं दत्वा निर्माल्यन्तु विसर्जयेत् ॥ २४ ॥

निवेदयेत्तु ताम्बूलं मुखवाससमन्वितम्
देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ २५ ॥

भक्तानां परिचाराणां यथाशक्त्या तु दक्षिणाः ॥ २६ ॥

इति पञ्चविंशतिस्नपनविधिपटलः षट्त्रिंशत्तमः