अतःपरं पवक्ष्यामि पञ्चगव्यविधिक्रमम्
शिवाग्रे स्थण्डिलं कृत्वा आढकेनैव शालिभिः ॥ १ ॥
पदे तु शिवसाविद्या कलाश्च मणिबन्धनम्
पुरुषं कलशस्यान्ते तेजश्शान्तिप्रतिष्ठितौ ॥ २ ॥
करणमणिबुधश्चार्द्धं कृतचित्रकोष्ठम्
शुचिकरसुरभिबन्धाग्निक्रमेण कुर्यात् ॥ ३ ॥
नवपात्रन्तु सङ्गृह्य क्षालयेत् गन्धवारिणा
प्रोक्षयेत्पुरुषेणैव कवचेनावकुण्ठयेत् ॥ ४ ॥
षट्गव्यं पञ्चगव्यञ्च षडङ्गं पञ्चामृतन्तथा
षट्गव्यः पञ्चगव्यैर्वा प्रथमं जुहुमेव च ॥ ५ ॥
षडङ्गञ्चामृते चैव साये चैवार्द्धयामके
गोमूत्रं गोमयं क्षीरं दधिसर्प्पिश्च रोचना ॥ ६ ॥
षड्गव्यमिति विज्ञेयं षडङ्गेनाभिषेचयेत्
क्षीरन्दधिघृतञ्चैव गोमूत्रं गोमयन्तथा ॥ ७ ॥
पञ्चगव्यमिति प्रोक्तं पूजयेत्ब्रह्मपञ्चकैः
गोमूत्रं गोमयं क्षीरं दधिसर्पिकुशोदकम् ॥ ८ ॥
एतत्षडङ्गमाख्यातं पूजयेत्प्रणवेन तु
क्षीरन्दधिघृतञ्चैव मधुशर्क्करसंयुतम् ॥ ९ ॥
पञ्चामृतमिदं ब्रह्मपूजयेत्सूक्तमन्त्रतः
पूर्वाग्रन्तु चतुस्सूत्रमुत्तराग्रन्तथैव च ॥ १० ॥
तालमात्रप्रमाणेन कारयेद्देशिकोत्तमः
तिललाजैरलङ्कृत्य दर्भानुपरिसंस्तरेत् ॥ ११ ॥
एवन्तु पदसङ्कल्प्य पूजयेत्पूर्ववद्बुधः
[[३०२]]
गव्यं पापविनाशार्त्थं सर्वारिष्टविनाशनम् ॥ १२ ॥
सवपापविनाशार्त्थं सर्वशान्यर्त्थमुच्यते
कृष्णवर्णन्तु गोमूत्रं सङ्ग्राह्यन्तु विचक्षणः ॥ १३ ॥
काश्यपं घृतमेवन्तु कौशिकन्दधिरुच्यते
क्षीरन्तु भारद्वाजस्य गौतमो गोमयन्तथा ॥ १४ ॥
अगस्त्यश्चैव गोमूत्रम् ऋषयः पञ्चकीर्त्तताः
घृतं वै रुद्रदैवत्यं दधि वै सोमदेवता ॥ १५ ॥
क्षीरन्तु शुक्रदैवत्यं गोमयञ्चार्कदेवता
गङ्गायाञ्चैव गोमूत्रं पञ्चगव्याधिदेवताः ॥ १६ ॥
उत्तमं द्रोणमेवन्तु मद्ध्यमन्तु तदर्द्धकम्
तदर्द्धमधमं ज्ञेयं त्रिविधं परिकल्पयेत् ॥ १७ ॥
घृतं वै प्रस्थमेवन्तु दधिद्विप्रस्थमेव च
क्षीरं त्रिप्रस्थमित्युक्तं चतुःप्रस्थन्तु गोमयम् ॥ १८ ॥
षट्प्रस्थञ्चैव गोमूत्रम् उत्तमन्तु प्रशस्यते
प्रस्थार्द्धन्तु घृतञ्चैव प्रस्थन्तु दधिरुच्यते ॥ १९ ॥
प्रस्थं प्रस्थार्द्धकं क्षीरं द्विप्रस्थं गोमयं भवेत्
त्रिप्रस्थञ्चैव गोमूत्रं मद्ध्यमन्तु प्रशस्यते ॥ २० ॥
कुडवञ्च घृतञ्चैव दधि स्यात्कुडवद्वयम्
क्षीरञ्चैव त्रिपादन्तु प्रस्थं गोमयमुच्यते ॥ २१ ॥
प्रस्थं प्रस्थार्द्धगोमूत्रमधमन्तु प्रशस्यते
नित्यमेव समाख्यातं नैमित्तिकमथोच्यते ॥ २२ ॥
प्रत्येकं द्रोणसम्पूर्णान् कुम्भान्बिम्बसमप्रभान्
उत्तमं त्वितिविख्यातं प्रत्येकं शिवपूरितम् ॥ २३ ॥
मद्ध्यमं त्विति विख्यातं प्रत्येकञ्चाढकन्तथा
कन्न्यसं त्विति विख्यातं पञ्चगव्यं त्रिधाभवेत् ॥ २४ ॥
ससूत्रान्सापिधानांश्च सकूर्चान्हेमसंयुतान्
[[३०३]]
सवस्त्रान्पल्लवोपेतान्स्थापयेन्नवकुम्भकान् ॥ २५ ॥
क्षीरन्तु मद्ध्यमे स्थाप्य पूर्वे तु दधिरुच्यते
दक्षिणे तु घृतं स्थाप्य पश्चिमे गोजलन्ततः ॥ २६ ॥
उत्तरे गोमयं स्थाप्य शालिपिष्टन्तु चाग्निके
आमली निर्ऋतौ चैव वायव्यां रजनी तथा ॥ २७ ॥
गोरोचनान्तु ऐशान्न्यां षडङ्गन्तु विधीयते
गोरोचनां विना चैव पञ्चगव्यं विधीयते ॥ २८ ॥
कुशोदकयुतञ्चैव षडङ्गमिति कीर्तितम्
आप्यायस्वेति चक्षीरं दधिक्राविण्णेति वै दधि ॥ २९ ॥
शुक्रमसीति मन्त्रेण घृतञ्चैवाभिमन्त्रयेत्
गायत्रिया तु गोमूत्रं गन्थद्वारेति गोमयम् ॥ ३० ॥
कुशोदकन्तु गायत्र्या रोचना ब्रह्मपञ्चकम्
पिष्टञ्च हृदयेनैव आमलं शिरसेन तु ॥ ३१ ॥
रजनी कवचमन्त्रेण अभिमन्त्र्यसकृत्गुरुः
पुण्याहं वाचयेद्धीमान्प्रोक्षयेत्पुरुषेण तु ॥ ३२ ॥
पूजयेत्गन्धपुष्पाद्यैर्देशिकेन विचक्षणैः
गोमयं गोजले क्षिप्य गोजलं घृतमेव च ॥ ३३ ॥
घृतन्दद्ध्नौ तु सङ्क्षिप्य दधिं क्षीरे तु निक्षिपेत्
गोरोचनञ्च संयुक्तं कुशोदकसमन्वितम् ॥ ३४ ॥
षट्गव्यं पञ्चगव्यञ्च षडङ्गञ्च इहोच्यते
मद्ध्ये क्षीरन्तु संस्थाप्य पूर्वे दधि च विन्न्यसेत् ॥ ३५ ॥
दक्षिणे तु घृतं स्थाप्य उत्तरे गुलमेव च
पश्चिमे तु मधुस्थाप्य देवस्य त्वेगुलन्तथा ॥ ३६ ॥
मधुवातेति मन्त्रेण मधुश्चैवाभिमन्त्रयेत्
अन्यत्पूर्वोक्तवत्स्थाप्य देशिकेन विचक्षणः ॥ ३७ ॥
यथासंस्थापितास्सर्वे तथाचोत्तरणं गुरुः
[[३०४]]
अभिषेकं प्रकुर्वीत लिङ्गे वाकौतुकेऽपि वा ॥ ३८ ॥
प्रविश्य तु महादेवं गृहं गृहपतिर्यथा
ग्रहणे विषुवे चैव अयने युद्धसङ्कुले ॥ ३९ ॥
नृपाभिषेककाले तु माङ्गल्ये मन्त्रसाधने
अन्यादाने विवाहान्ते अतिवृष्टाववृष्टिके ॥ ४० ॥
दुर्भिक्षे दुर्निमित्ते च शत्रूणाञ्च प्रमर्दने
भूमिकं पेदिशादाहे दुःस्वप्ने दर्शने तथा ॥ ४१ ॥
प्रतिसूर्यप्रदृष्टे तु दुर्दिने शलभप्लवे
महामारिप्रकोपे च शिरो रोगादिसम्भवे ॥ ४२ ॥
अक्षिरोगसमुत्पन्ने ज्वरव्याधिस्तु जायते
एषान्दोषनिवृत्यर्त्थं स्नापयेत्पञ्चगव्यकैः ॥ ४३ ॥
इहैव धनवान्श्रीमान् सोन्ते सायुज्यमाप्नुयात्
इत्यन्यत्पञ्चगव्यविधिः
पञ्चामृतविधिपटलप्रारम्भः
पञ्चामृतमथोवक्ष्ये सर्वसम्पत्करन्नृणाम्
देवस्य पूर्वदिग्भागे स्थण्डिलं शालिना कुरु ॥ १ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णान्व्रीहीनास्तीर्य देशिकः
प्रागग्रञ्च चतुस्सूत्रमुदक्सूत्रन्तथैव च ॥ २ ॥
सूत्रात्सूत्रान्तरन्तालन्नवकोष्ठमिति स्मृतम्
धर्मादिकञ्च दिक्पत्रमधर्माद्यं विदिक्षु च ॥ ३ ॥
अक्षतैस्तिललाजैर्वा पुष्पैः काशैः परिस्तरेत्
कोष्ठपूजादिकं सर्वं प्रागुक्तवत्प्रकल्पयेत् ॥ ४ ॥
क्षीरं दधिघृतक्षौद्रं सितञ्चैव तु पञ्चमम्
पञ्चामृतमिति ख्यातं प्रतिदिक्स्थं पृथक्न्यसेत् ॥ ५ ॥
उत्तमं प्रस्थसम्पूर्णं मद्ध्यमन्तु तदर्द्धकम्
[[३०५]]
तदर्द्धमधमं ज्ञेयं त्रिविधं परिकल्पयेत् ॥ ६ ॥
दुगन्तु मद्ध्यमे साप्यं पूर्वस्यां स्थापयेद्दधि
———————– ॥ ७ ॥
सितमुत्तरदिक्देशे गन्धोदंशाङ्करे न्यसेत्
रम्भापनसचूतानामग्निनैर्ऋतिवायुषु ॥ ८ ॥
संस्थाप्याभ्यर्चयेदीशपुङ्घोरवामसद्यकैः
एकद्वित्रिचतुःपञ्चवारमे वाभिमन्त्र्य च ॥ ९ ॥
हृदयञ्च शिरश्चैव शिखामिश्रन्तु विन्यसेत्
कवचेनावकुण्ठ्याथ धेनुमुद्रां प्रदर्शयेत् ॥ १० ॥
खण्डाभावे तु सङ्ग्राह्यमभावे क्षुरसन्तथा
खण्डञ्चाप्यभिषेके तु जलेन लोलितं भवेत् ॥ ११ ॥
अभिषेकं पृथक्प्रोक्तं तोयस्नानान्तरान्तकम्
मद्ध्ये मद्ध्ये च धूपञ्च दीपञ्चैव प्रदापयेत् ॥ १२ ॥
पयसासर्वसौभाग्यं दधिपुत्रसमृद्धिदम्
घृतं रोगहरं प्रोक्तं क्षौद्रमायुष्करं भवेत् ॥ १३ ॥
सितं ज्ञानप्रदं विद्धि पञ्चामृतफलं भवेत्
देवं यः कुरुते मर्त्यस्सपुण्याङ्गतिमाप्नुयात् ॥ १४ ॥
इति पञ्चामृतविधिपटलष्षट्त्रिंशत्तमः