पञ्चगव्यविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण पञ्चगव्यविधिं श्रुणु
शिवाग्रे भूतले रम्ये गोमयालेपनं कुरु ॥ १ ॥
तन्मद्ध्यतः परिस्तीर्य ताराभैर्द्रोणतण्डुलैः
प्राक्सूत्रं युगसूत्रं स्यादुदक्सूत्रन्तथैव च ॥ २ ॥
सूत्रात्सूत्रान्तरन्तालन्नवकोष्ठन्तु लेखयेत्
लाजैर्दर्भैरक्षतैश्च तिलैः पुष्पैः परिस्तरेत् ॥ ३ ॥
दिक्दलञ्च चतुर्वेदं विदिक्दलं कृतादयः
पुण्याहप्रोक्षणं कृत्वा शोधयेन्नवकोष्ठकम् ॥ ४ ॥
मद्ध्यमे शिवतत्वन्तु पूर्वे तत्वं सदाशिवम्
विद्यातत्वं दक्षिणतस्सौम्ये पुरुषतत्वकम् ॥ ५ ॥
पश्चिमे कालतत्वन्तु वह्नौ नियतितत्वकम्
अप्तत्वं राक्षसे देशे मायातत्वन्तथानिले ॥ ६ ॥
ईशे प्रकृतितत्वन्तु कोष्ठपूजाविधीयते
तन्मद्ध्ये सुप्रतिष्ठञ्च पूर्वपात्रे सुशान्तकम् ॥ ७ ॥
तेजोरूपं दक्षिणतो रत्नोदकन्तथोत्तरे
अमृतोदं प्रतीच्यान्तु सुवृक्तमीशकोणके ॥ ८ ॥
पूर्वादीशानपर्यन्तं ज्योतिरूपन्तु पात्रकम्
एवमेव क्रमेणैव पात्रपूजाविधीयते ॥ ९ ॥
आप्यायस्वेतिमन्त्रेण मद्ध्ये क्षीरन्तु विन्यसेत्
दधिक्राविण्णेतिमन्त्रेण तत्पूर्वे विन्यसेद्दधि ॥ १० ॥
शुक्रमसीतिमन्त्रेण दक्षिणे विन्यसेत्घृतम्
गोमूत्रमुत्तरे देशे गायत्र्या विन्यसेत्क्रमात् ॥ ११ ॥
गन्धद्वारेति मन्त्रेण गोमयं पश्चिमे न्यसेत्
[[२९८]]
देवस्यत्वेतिमन्त्रेण कुशोदं शाङ्करे न्यसेत् ॥ १२ ॥
पावके विन्यसेत्पिष्टं कपित्थफलमात्रकम्
कदलीफलमात्रेण रजनीं राक्षसे न्यसेत् ॥ १३ ॥
न्यसेदामलकं वायौ ———– ॥ १४ ॥
शिखासिकवचैर्मन्त्रैर्विदिक्षु विन्यसेत्क्रमात्
ईशानेन तु दुग्धं स्यात् बाणसङ्ख्याभिमन्त्रितम् ॥ १५ ॥
पुरुषेण तु मन्त्रेण दधिवैवसुसङ्ख्यया
अघोरेण घृतं धातु सख्ययाचाभिमन्त्रयेत् ॥ १६ ॥
वामदेवेन गोमूत्रं वसुसङ्ख्याभिमन्त्रितम्
सद्येन गोमयं रत्नसङ्ख्यया चाभिमन्त्रयेत् ॥ १७ ॥
पावके पिष्टमेवोक्तं व्याहृत्याचैव षट्जपेत्
हृदयेनामलकं सप्तवारैश्चैवाभिमन्त्रयेत् ॥ १८ ॥
शिरोमन्त्रेण रजनीं वसुसङ्ख्याभिमन्त्रितम्
अस्त्रमन्त्रञ्जपेद्धीमान्दोषनिर्हरणार्त्थकम् ॥ १९ ॥
एवं सम्पूज्यविधिवत् धूपदीपं हृदाददेत्
क्षीरं वै रुद्रदैवत्यं दधि वै सोमदैवतम् ॥ २० ॥
घृतमीश्वरदैवत्यं गोमूत्रं वायुदैवतम्
गोमयं वह्निदैवत्यं कुशोदं ब्रह्मदैवतम् ॥ २१ ॥
पिष्टं वै विष्णुदैवत्यं रजनी चन्द्रदैवतम्
श्रियमामलके विद्यादधिदेवाः प्रकीर्तिताः ॥ २२ ॥
उत्तमं त्रिचतुः प्रस्थं मद्ध्यमन्तु तदर्द्धकम्
कन्यसन्तु चतुः प्रस्थं त्रिविधं परिकीर्तितम् ॥ २३ ॥
प्रस्थमाज्यं समाख्यातं दधिद्विप्रस्थमुच्यते
त्रिप्रस्थञ्चैव गोक्षीरञ्चतुः प्रस्थन्तु गोमयम् ॥ २४ ॥
षत्प्रस्थञ्चैव गोमूत्रं पलमात्रं कुशोदकम्
[[२९९]]
द्विपादं घृतसंयुक्तं दधिप्रस्थमिहोच्यते ॥ २५ ॥
प्रस्थार्द्धं क्षीरसंयुक्तं द्विप्रस्थं गोमयं भवेत्
त्रिप्रस्थञ्चैव गोमूत्रं पञ्चगव्यन्तु मद्ध्यमम् ॥ २६ ॥
एकपादघृतञ्चैव दधिपादद्वयं भवेत्
त्रिपादं क्षीरमित्युक्तं चतुष्पादन्तु गोमयम् ॥ २७ ॥
षत्पादञ्चैव गोमूत्रं पलमात्रं कुशोदकम्
एवमेव क्रमेणैव त्रिविधं पञ्चगव्यकम् ॥ २८ ॥
उत्तमं स्वर्णपात्रं स्यात् मद्ध्यमं कांस्यपात्रकम्
अधमं मृण्मयञ्चैव पात्रमेवमुदाहृतम् ॥ २९ ॥
कालं भिन्नञ्च सुषिरं कृष्णं छेदन्तु वर्जयेत्
धर्माङ्गुलोन्नतञ्चैव मात्राङ्गुलन्तु कल्पयेत् ॥ ३० ॥
त्रिंशत्देवाङ्गुलञ्चैव नाहं स्यात्परिमाणकम्
कण्ठं त्रियङ्गुलोपेतमोष्ठमेकाङ्गुलं भवेत् ॥ ३१ ॥
उत्तमं पात्रमित्युक्तम्मद्ध्यमन्तु प्रजापते
पञ्चाङ्गुलोन्नतञ्चैव नाहं सप्तदशाङ्गुलम् ॥ ३२ ॥
दलन्तु द्व्यङ्गुलं प्रोक्तमोष्ठमेकाङ्गुलं भवेत्
मद्ध्यमं पात्रमित्युक्तं कन्यसं पात्रमुच्यते ॥ ३३ ॥
देवाङ्गुलन्तथैवोच्चन्नाहं प्रोक्तन्नवाङ्गुलम्
कण्ठं त्रियङ्गुलोपेतं युगाङ्गुलसुविस्तरम् ॥ ३४ ॥
एवमेव क्रमेणैव त्रिविधं पात्रमुच्यते
गोमयं कृष्णवर्णायान्नीलायां गोजलं स्मृतम् ॥ ३५ ॥
कपिलायां घृतं विद्धि शुक्लायां दधिचेष्यते
पयश्च रक्तवर्णायां गवां वर्णं प्रकीर्त्तितम् ॥ ३६ ॥
अलाभे कपिलायास्तु सर्वं सङ्गाहयेद्बुधः
गोमूत्रं श्रीप्रदं विद्धि गोमयं रोगनाशनम् ॥ ३७ ॥
पयश्शत्रुविनाशं स्यात् दधिपुत्रविवर्द्धनम्
[[३००]]
घृतम्मोक्षप्रदञ्चैव पञ्चगव्यफलं क्रमात् ॥ ३८ ॥
पङ्कारं पापनाशं स्यात् चकारमात्मशुद्धिदम्
गकारं जन्मनाशं स्यात् व्यकारम्मोक्षहेतुकम् ॥ ३९ ॥
पञ्चगव्यस्य शब्दस्य प्रोक्तन्निर्वचनाक्षरम्
नित्ये नैमित्तिके काम्ये दृष्टदोषे महाभये ॥ ४० ॥
ज्वररोगादिपीडायां परराष्टभयेऽपिवा
दुर्न्निमित्ते दिशान्दाहे महामारिप्रकोपने ॥ ४१ ॥
क्षामक्षोभसमुत्पन्ने महावातप्रभेदने
भूमिकम्पेऽप्यनावृष्टौ सङ्क्रान्तिग्रहणादिके ॥ ४२ ॥
अन्यत्पुण्यदिने वापि संस्थाप्यपञ्चगव्यकम्
अभिषेकं प्रकुवीतशास्त्रदृष्टेन कर्मणा ॥ ४३ ॥
समानशिखयायुक्ताः कुशाश्चाष्टादशस्मृताः
वेण्या वेष्टिकया वापि तालमात्रन्तु दैर्घ्यकम् ॥ ४४ ॥
प्रोक्षणी कूर्चमुद्दिष्टं शान्तिकर्मसुसर्वदा
प्रातः कालेऽभिषेकन्तु ब्रह्मवर्गस्य वर्द्धनम् ॥ ४५ ॥
मद्ध्याह्ने त्वभिषेकन्तु नृपवर्गस्य वर्द्धनम्
सायङ्कालेऽभिषेकन्तु वैश्यवर्गविवर्द्धनम् ॥ ४६ ॥
सार्द्धयामेऽभिषेकन्तु शूद्रवर्गविवर्द्धनम्
उषःकाले विशेषेण सर्वसिद्धिकरं भवेत् ॥ ४७ ॥
मातृहा पितृहा चैव गोघ्नश्चैव कृतघ्नकः
भ्रूणहा च गुरुद्रोही पातको गुरुतल्पगः ॥ ४८ ॥
मुच्यते तत्क्षणेनैव पञ्चगव्याभिषेचनात्
पञ्चगव्यविहीनञ्च पूजनं क्रियते यदि ॥ ४९ ॥
न देवतायास्सान्निद्ध्यमित्थन्तत्र प्रजापते
एवं क्रमेण विधिवत्पञ्चगव्यपुरस्सरम् ॥ ५० ॥
अभिषेकः प्रकर्त्तव्यं यथाविभवविस्तरम्
[[३०१]]
इहैव धनवान्श्रीमान् सोन्ते रुद्रपदं लभेत् ॥ ५१ ॥
इति पञ्चगव्यविधिपटलपञ्चत्रिंशत्तमः