०३४ पुण्याहविधिपटलः

पुण्याहविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि पुण्याहस्य विधिक्रमम्
पुकारं पापनाशं स्यात् ण्याकारन्देहशुद्धिदम् ॥ १ ॥

हकारं स्थानशुद्धिस्स्यात् पुण्याहन्तु विधीयते
सर्वपापहरञ्चैव सर्वसिद्धिप्रदायकम् ॥ २ ॥

सर्वमङ्गलकार्यादौ पुण्याहप्रोक्षणं शुभम्
सर्वेषामुपरिष्टाच्च क्रियमाणस्य कर्मणः ॥ ३ ॥

पुण्याहं पूर्वमुद्दिष्टं क्रियासाफल्यहेतवे
अन्यथाशिवतुल्योऽपि विघ्नैरेवाभिभूयते ॥ ४ ॥

पुण्याहजलसङ्कीर्णं यस्मिन्कर्मणि नास्ति हि
तत्कर्म्मविफलं प्राहुः भूतप्रेतैः प्रबाद्ध्यते ॥ ५ ॥

प्रासादे मण्टपाग्रे वा मनोरम्य स्थले शुभे
गोमया लेपनं कृत्वा पिष्टचूर्णैरलङ्कृतम् ॥ ६ ॥

वितानदर्भमालाद्यैरलङ्कृत्य विशेषतः
सर्वकर्मकृतेः पूर्वं पुण्याहं तत्प्रवेशके ॥ ७ ॥

आचार्यस्सुप्रसन्नात्मा शुक्लवस्त्रोत्तरीयकः
भस्मोद्धूलितसर्वाङ्गो रुद्राक्षमालयान्वितः ॥ ८ ॥

मन्त्रतन्त्रत्रियामुद्रा भावनाद्ध्यनगर्भितः

[[२९४]]

नक्रकुण्डलधृक्वाग्मी सकलीकृतविग्रहः ॥ ९ ॥

पूर्वास्योदङ्मुखो वाथ कच्छपासनसंस्थितः
सामान्यार्घ्यन्तु सङ्कल्प्य स्थण्डिलं शालिभिः कुरु ॥ १० ॥

उत्तमं द्रोणमेवोक्तम्मद्ध्यमन्तु तदर्द्धकम्
कन्यसञ्चाढकं विद्धि त्रिविधं परिभाषते ॥ ११ ॥

तन्मद्ध्ये पद्ममालिख्य दर्भैः पुष्पैः परिस्तरेत्
सौवर्णं राजतन्ताम्रं कांस्यं वा मृण्मयन्तु वा ॥ १२ ॥

षोडशाङ्गुलमायामन्नाहं द्वाविंशदङ्गुलम्
ओष्ठमेकाङ्गुलं प्रोक्तं कण्ठन्तु चतुरङ्गुलम् ॥ १३ ॥

कुक्ष्योत्सेधन्दशाङ्गुल्यं पादमेकाङ्गुलं भवेत्
अष्टाङ्गुलमिदं वक्त्रन्तदर्द्धं पादविस्तृतम् ॥ १४ ॥

मूलादग्रं क्रमात्क्षीणादष्टषट्चतुरङ्गुलैः
एतैश्च लक्षणैर्युक्तं मृण्मये बिम्बसन्निभम् ॥ १५ ॥

शिवतोयेन सम्पूर्य षट्बाणप्रस्थकैस्तु वा
तन्तुनावेष्टयित्वा तु सहेमं कूर्चसंयुतम् ॥ १६ ॥

स्थण्डिले कर्णिका मद्ध्येरमांसं पूज्यदेशिकः
तस्योर्द्ध्वे विन्यसेत्पात्रं पूजयेद्धृदयेन तु ॥ १७ ॥

पृष्ठे प्रजापतिञ्चैव मद्ध्यमे विष्णुदैवतम्
अग्रं वै रुद्रदैवत्यम् ओष्ठं वै स्कन्ददैवतम् ॥ १८ ॥

घ्राणं विघ्नेशमित्युक्तं कण्ठं वै वसुदैवतम्
कुक्षौ वरुणदैवत्यं पादं भास्करदैवतम् ॥ १९ ॥

वक्त्रं वै चन्द्रदैवत्यं पार्श्वयोर्न्नन्दिकालकौ
मद्ध्यमे सप्ततीर्त्थं स्यात्कलशे च यथाक्रमम् ॥ २० ॥

गङ्गे च यमुने चैव गोदावरिसरस्वति
निर्मगे सिन्धुकावेरिजलेऽस्मिन्सन्निधिं कुरु ॥ २१ ॥

हेमवस्त्रविधानञ्च कारयेद्वर्जयेत्तु वा

[[२९५]]

स्वर्णरौप्यादिपात्रे वा तण्डुलैरुडुसन्निभैः ॥ २२ ॥

द्विप्रस्थमधमं प्रोक्तं द्विगुणं मद्ध्यमं भवेत्
शिवतण्डुलमित्युक्तमुत्तमन्तु प्रशस्यते ॥ २३ ॥

अभ्यर्च्यगन्धपुष्पाद्यैर्धूपदीपं हृदाददेत्
नागवल्लीदलैर्युक्तं पूगीफलसमायुतम् ॥ २४ ॥

नारङ्गलिकुचंरम्भा नालिकेरफलान्वितम्
नित्ये नैमित्तिके चैव काम्ये चैव तु कल्पयेत् ॥ २५ ॥

कर्मारम्भस्य तत्काले पूर्वं सङ्कल्प्य बुद्धिमान्
दर्भाणाञ्च द्वयं ग्राह्यं द्वादशाङ्गुलमायतम् ॥ २६ ॥

आचार्यो दक्षिणे हस्ते नामिकायां सुयोज्य च
प्राणायामत्रयं कृत्वा कर्णं संस्पृश्य दक्षिणम् ॥ २७ ॥

जानौ विन्यस्तापसव्यकरे सव्यं सुयोजयेत्
यावत्कर्मकरिष्यामि दर्भोद्वासनमुत्तरे ॥ २८ ॥

भूसुराणां द्वयं दत्वा देशिको दर्भयुग्मयुक्
आपः प्रयोगमाचार्ये शिवा आपश्च ऋत्विजः ॥ २९ ॥

गन्धप्रयोगमाचार्यस्सुगन्धाः प्रतिवाचकः
देशिकस्सुमनाश्चैव सौमनस्यञ्च ऋत्विजः ॥ ३० ॥

अक्षतं देशिको ब्रूयादन्येक्षतमरिष्टकम्
अन्वाहार्यस्तथाब्रूयात्सुमन्वाहार्य इत्यपि ॥ ३१ ॥

देशिको दक्षिणास्वस्ति दक्षिणाः प्रतिवाचकः
बहुदेयमस्त्वाचार्यो वदेयुर्भूसुरास्तथा ॥ ३२ ॥

देशिकस्तु जपं कृत्वा भूसुरेण समन्वितः
कुम्भमुद्धृत्य सहसा सापिधानं सकूर्चकम् ॥ ३३ ॥

उत्थायसमपादस्तु देशिकश्शान्तिसंयुतः
स्वस्तिमद्ध्ये तु यत्कर्म तत्कर्म स्वस्तिवाचकम् ॥ ३४ ॥

पदन्तेस्रावयेत्तोयं राक्षसानान्तु तृप्तये

[[२९६]]

पश्चादासीन एवाशु प्रजपेत्ब्रांहणैस्सह ॥ ३५ ॥

दधिक्राविण्णेतिमन्त्रं हिरण्यं पवमानकम्
शान्तिमन्त्रं जपेद्धीमान्दर्भैस्पृष्ट्वाविधानवित् ॥ ३६ ॥

एवं क्रमेण पुण्याहं कारयेत् भूसुरोत्तमैः
आचार्यमनसस्तृप्तिर्देवसां निद्ध्यकारणम् ॥ ३७ ॥

निष्कादिदशनिष्कान्नमाचार्यस्य तु दक्षिणा
द्रव्यशुद्धिनिमित्ताय शुद्धिपुण्याहमाचरेत् ॥ ३८ ॥

पञ्चब्रह्मं रुद्रसूक्तं श्रीरुद्रञ्चमकं तथा
पुंसूक्तं त्रिसुपर्णञ्च श्रीसूक्तं शान्तिपञ्चकम् ॥ ३९ ॥

जप्त्वासंस्नाप्य देवेशं पूजयेत्तु विचक्षणः
अघोरदक्षिणामूर्तिं शिवास्त्रं क्षुरिकास्त्रकम् ॥ ४० ॥

रुद्रास्त्रन्तु समुच्चार्य पूजयेत्तु शनैश्शनैः
पूर्वाह्ने चाभिषेकन्तु ब्रंहवर्गविवर्द्धनम् ॥ ४१ ॥

मद्ध्याह्ने चाभिषेकन्तु क्षत्रवर्गविवर्द्धनम्
सायाह्ने चाभिषेकन्तु वैश्यवर्गविवर्द्धनम् ॥ ४२ ॥

अर्द्धरात्रे तथाप्रोक्तं शूद्रवर्गविवर्द्धनम्
सर्वपापहरं पुण्यं सर्वसस्यादिवर्द्धनम् ॥ ४३ ॥

पुत्रपौत्राभिवृद्ध्यर्त्थं धनधान्यसुखप्रदम्
पुण्याहप्रोक्षणं यस्यां क्रियायां न करोति हि ॥ ४४ ॥

साक्रियाविफला प्रोक्ता क्रव्यादैः परिभूयते
तस्माद्विद्ध्युक्तमार्गेण पुण्याहप्रोक्षणं हितम् ॥ ४५ ॥

पुण्याहप्रोक्षणं हित्वाप्यन्यकर्मकरोतियः
वृधापरिश्रमन्तस्य सान्निद्ध्यं नापि तत्र वै ॥ ४६ ॥

तस्मात्पाशुपतं घोरम् अष्टोत्तरशतं पृथक्
जप्त्वा पुनश्च पुण्याहं कर्म वैकल्यशुद्धये ॥ ४७ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्

[[२९७]]

इति पुण्याहविधिपटलश्चतुस्त्रिंशत्तमः