०३३ नैवेद्यविधिपटलः

नैवेद्यविधिपटलप्रारम्भः
श्रुणु वक्ष्येऽथ नैवेद्यविधानन्तत्समासतः
आत्मनो हितमन्विच्छेत्तत् द्रव्यं प्राक्सुपक्वकम् ॥ १ ॥

दापयेत्परमेशाय तत्द्रव्यं सर्वसिद्धिदम्
अत्भुक्तञ्चेत्तदान्ने तु तद्द्रव्यं क्षीयते धनम् ॥ २ ॥

हेमशाली महाशाली रक्तशाली तथैव च
सितशाली कृष्णशाली सौगन्धिकमथोत्तमम् ॥ ३ ॥

वैणवञ्च यवं चैव ईषत् शाली च माधुरी
कुस्तुम्बुरी च नीवारं मद्ध्यमञ्चेति कीर्तितम् ॥ ४ ॥

विलाली सारिणी व्रीहि रीषत्कृष्णञ्च षष्ठिकम्
तथा वैसूकरी व्रीहिः ह्रस्ववक्त्री च कन्यसः ॥ ५ ॥

एतेषां तण्डुलं श्रेष्ठं नैवेद्याय शिवस्य तु
निधाय भूतले शुद्धे सन्तप्तं रविरश्मिना ॥ ६ ॥

चातुर्वर्णोद्भवस्त्रीभिस्सम्यगभ्युक्ष्यलूखले
प्रहृत्यमुसलेनैव कणकम्बूश्च वर्जयेत् ॥ ७ ॥

द्विशतैः पञ्चविंशत्या व्रीहिभिश्शुक्तिरुच्यते
तलं प्रकुञ्चः प्रसृतिः कुडवञ्च तथाञ्जलिः ॥ ८ ॥

प्रस्थं पात्राढकौ शैवं द्रोणं खारिक्रमेण तु
शुक्त्या च गणयेन्मन्त्री द्विगुणं तु पृथक्पृथक् ॥ ९ ॥

खारित्रः यन्तु भारं स्यादेवं हि परिमाणकम्
नित्यं नैमित्तिकं काम्यं नैवेद्यं त्रिविधं भवेत् ॥ १० ॥

नित्यं नवविधं प्रोक्तं तथा नैमित्तिकन्नव
यथेष्टं काम्यमित्युक्तं तेषां भेदस्तथोच्यते ॥ ११ ॥

आढकेनैव नैवेद्यमधमाधममुच्यते
कनिष्ठमद्ध्यमं शैवं द्रोणं स्यादधमोत्तमम् ॥ १२ ॥

खारिमद्ध्याधमञ्चैव सार्द्धार्धमथमद्ध्यमम्

[[२८०]]

मद्ध्यमोत्तममित्युक्तं चतुर्द्रोणैः कृतं हविः ॥ १३ ॥

उत्तमाधममित्युक्तं पञ्चद्रोणैः कृतं हविः
षट् द्रोणैस्तण्डुलैस्सिद्धं भवेदुत्तममद्ध्यमम् ॥ १४ ॥

उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु तण्डुलैः
एवं विशेषतः प्रोक्तं नित्यं नवविधन्तथा ॥ १५ ॥

अष्टद्रोणमथारभ्य यावद्वृद्ध्या नवोदिताः
यावत्द्वादशभारान्तमधमादित्रयं त्रयम् ॥ १६ ॥

नैमित्तिके तु नैवेद्यं नवधा समुदाहृतम्
प्रार्थितं यत्प्रमाणेन तत्प्रमाणन्तु काम्यकम् ॥ १७ ॥

ततः कुडवयुक्प्रस्थं पैशाचासनमुच्यते
पात्रन्तु चरुरित्युक्तमाढकं हविरुच्यते ॥ १८ ॥

नकल्पयेत्तु नैवेद्यमाढकार्द्धन्न तण्डुलैः
प्रागुक्तविधिनापूर्वं स्नात्वा तु परिचारकाः ॥ १९ ॥

शुक्लवस्त्रधराश्चैव शुक्लयज्ञोपवीतकाः
पवित्रपाणिनस्सर्वे पच्यन्ते हविषं क्रमात् ॥ २० ॥

पूरयेत्तु जलद्रोणीं वस्त्रपूतैर्जलेस्तथा
पात्रशुद्धिं हृदा कृत्वा क्षालयेयुश्च तण्डुलान् ॥ २१ ॥

जलेनैव तु षट्कृत्वः क्षालयेयुः पुनःपुनः
तण्डुलस्य प्रमाणस्याप्यर्द्धाधिकसमञ्जलम् ॥ २२ ॥

शोधयेत् बीजमुख्यैश्च पात्रस्थजलतण्डुलान्
तण्डुलैरर्चयेच्चुल्लीं सद्योजातेन देशिकः ॥ २३ ॥

पात्राण्यारोप्य शिरसा वह्निमन्त्रेण निक्षिपेत्
विस्फुलिङ्गयुतैश्चैव पिपीलिकायुतैस्तु वा ॥ २४ ॥

कृमिजुष्टैश्च काष्ठैश्च पावकञ्च नदीपयेत्
केशकीटोपविद्धञ्च शर्करा तुषकम्बुयुक् ॥ २५ ॥

अतिपक्वमपक्वञ्च नैवेद्यं परिवर्जयेत्

[[२८१]]

भेद्यन्तु वर्णगन्धाद्यैश्शीतलान्नं निवेदयेत् ॥ २६ ॥

केशेन मरणं विद्धिकीटेन रिपुवर्द्धनम्
शर्करासस्य हानिस्सात् तुषेण ग्रामनाशनम् ॥ २७ ॥

कम्बुनाज्वरपीडा च अतिपक्वैर्दरिद्रता
अपक्वेन प्रजानाशं शीतलेन धनक्षयम् ॥ २८ ॥

अत्युष्णेन भवेद्दुःखं भिस्सटासर्वनाशनम्
अत्युष्णानष्टहीनं यत्तदन्नं परिकल्पयेत् ॥ २९ ॥

शुद्धोदनक्रमं ह्येवं पायसान्नन्ततश्श्रुणु
तण्डुलत्रिगुणं क्षीरं क्षीरार्द्धन्तोयमाहरेत् ॥ ३० ॥

तोयार्द्धं मुद्गभिन्नं हि घृतयुक्पायसान्नकम्
तण्डुलार्द्धं समाख्यातं मुद्गसारन्तु निर्मलम् ॥ ३१ ॥

पक्वान्ने लवणोपेतं मरीचस्य तु चूर्णयुक्
तिलचूर्णकमिश्रन्तत् कृसरान्नमिति स्मृतम् ॥ ३२ ॥

तण्डुलस्य त्रिभागैकं मुद्गसारविमिश्रितम्
मुद्गान्नं पक्वमित्युक्तं प्रागुक्तपयसान्वितम् ॥ ३३ ॥

क्षीरार्द्धङ्गुलखण्डन्तु गुलार्द्धं घृतमिश्रकम्
कदली फलमत्रैव सम्मिश्रन्तद्गुलोदनम् ॥ ३४ ॥

एवं पञ्चहविः प्रोक्तन्नैवेद्याय प्रजापते
कृसरान्नं सद्यवक्त्रे वामवक्त्रे गुलोदनम् ॥ ३५ ॥

पायसमघोरवक्त्रे तु शुद्धान्नं पुरुषास्यके
मुद्गान्नमीशवक्त्रे तु पञ्चवक्त्रे निवेदयेत् ॥ ३६ ॥

यद्वक्त्रं द्वारसम्बन्धं तद्वक्त्रन्तु निवेदयेत्
वासुकी पञ्चवक्त्रेषु चैकवक्त्रे तु भुक्तिदम् ॥ ३७ ॥

तस्मान्नैवेद्यकन्दत्वा सदाशिवैकवक्त्रके
अग्रेविन्यस्य नैवेद्यं नेत्रेण च निरीक्ष्य च ॥ ३८ ॥

रसानाचार्य जिह्वाग्रात् भक्षायामि प्रजापते

[[२८२]]

यजनान्ते प्रदातव्यन्नैवेद्यं सोपदंशकम् ॥ ३९ ॥

तेनैव प्रीतिमतुलां प्राप्तोऽस्मि च न संशयः
अन्यथा सकलान्जीवान् दहेयमविचारतः ॥ ४० ॥

मुद्गमाषकुलुत्थञ्च निष्पावं शिम्बमाढकम्
तथा वैराजमाषञ्च तेषां भिन्नविमिश्रितम् ॥ ४१ ॥

कूश्माण्डपनसालाबुकालिङ्गं बृहतीद्वयम्
त्रपुषं कर्करी चैव सतुषं विदुलन्तथा ॥ ४२ ॥

कदलीकारवी व्याघ्री आम्रमुर्वारुकन्तथा
विल्लिमूलन्तथा कन्दमूलमन्यद्रसैर्युतम् ॥ ४३ ॥

नारिकेलामृताकाली चूतके सरकीद्वयम्
बिलालकारवल्ली च सिसुकन्दञ्च पिण्डिका ॥ ४४ ॥

पटोलञ्चैव बिम्बञ्च अलिकं ह्रस्वशूलिका
कारवल्ली च पत्रञ्च लाकुपत्रञ्च बाष्पदम् ॥ ४५ ॥

अौदुम्बरस्य माषाढकण्टकार्कोटसर्वशम्
प्रस्थस्येकपलं प्रोक्तम्माद्ध्वं वा पक्वमेव वा ॥ ४६ ॥

यथालाभोपदंशैश्च पाचयेत्तु विशेषतः
सर्वोपदंशकान्युक्तान्मरीचिलवणान्वितान् ॥ ४७ ॥

जीरकाम्ररसोपेतान्यथायोगं पचेत्पृथक्
कुलत्थचूर्णसिद्धार्त्थम्मरीचीजीरकान्वितम् ॥ ४८ ॥

सिता च लवणञ्चैव आम्रं तक्रे सुयोजयेत्
एवं पचेद्वैसूपन्तु कदली पनसे क्षिपेत् ॥ ४९ ॥

गवाङ्घृतं निवेद्यानाञ्च तु षष्ट्यंशमुच्यते
गुलमाषं कलांशं स्यादष्टांशन्दधिकीर्तितम् ॥ ५० ॥

वस्वंशं सूपमित्युक्तमेवं सङ्कल्पयेत् बुधः
पक्वान्ने तु बहिस्तोयैश्शुद्धिं कृत्वा विशेषतः ॥ ५१ ॥

त्रिपुण्ड्रं कारयेद्धीमान् अस्त्रेणैव तु मन्त्रतः

[[२८३]]

परिचारकान् समाहूय मार्गान्न्याशोद्ध्य भूतलम् ॥ ५२ ॥

सम्प्रोक्ष्य शुद्धतोयेन शङ्खकाहलनादयुक्
हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत्ततः ॥ ५३ ॥

नैवेद्योत्थापने काले लङ्घने च नरे द्विजाः
सस्यानान्नाशनं प्रोक्तं निर्म्माल्यन्तदुदाहृतम् ॥ ५४ ॥

तत्द्रव्यं यर्जयित्वा तु मूलमन्त्रं शतञ्जपेत्
पश्चात्पक्वामृतन्धीमान् शिवाय विनिवेदयेत् ॥ ५५ ॥

मण्टपे दक्षिणे भागे न्न्यसेन्मन्त्री यथाक्रमम्
द्रव्यलक्षणयुक्ताभे न्यसेन्मन्त्री यथाक्रमम् ॥ ५६ ॥

ओदनेषूपदंशेषु घृतेनैवाभिघारयेत्
सौवर्णे राजते ताम्रे ह्यथवा कदलीदले ॥ ५७ ॥

शुद्धकांस्ये न वा कुर्यात्पात्रमादाय बुद्धिमान्
त्रिपाद्यूर्द्ध्वे स्थले वाथ स्थलिकां स्थापयेत्ततः ॥ ५८ ॥

दर्व्यायुक्तन्न वा कुर्यात्पात्रमन्नेन पूरयेत्
हविं कृत्वा चतुर्भागं चतुर्त्थांशं निवेदयेत् ॥ ५९ ॥

उपदंशैस्समायुक्तं गोघृतेन समन्वितम्
कदलीपनसाम्राणां स्वयम्पक्वफलैर्युतम् ॥ ६० ॥

सूपेनदधिसंयुक्तन्तरुणाम्रफलैर्युतम्
आम्रकेन समायुक्तं हृदयेन निवेदयेत् ॥ ६१ ॥

एकेनैव तु भागेन परिवारबलिर्भवेत्
एकेन चाग्निकार्यार्त्थं पात्रशेषन्तु शेषितम् ॥ ६२ ॥

तच्छेषं परिचाराणां भोजनायेति कीर्तितम्
ताम्रेकांस्येऽथवा शुद्धे मृत्भाण्डे पूरयेज्जलम् ॥ ६३ ॥

नद्यांसरसिकूपे वा पानीयमुत्तमं स्मृतम्
वस्त्रपूतं सुशीतं स्यादेलादिपरिसेवितम् ॥ ६४ ॥

अनेन विधिनायुक्तं पानीयन्दापयेत्प्रभाः

[[२८४]]

आचमनन्ततः कृत्वा चण्डेशाय निवेदयेत् ॥ ६५ ॥

ततो वै भूतबल्यर्त्थमन्नं गन्धादिकन्तथा
गृहीत्वा द्वारपालानान्दापयेत्तु बलिं पुनः ॥ ६६ ॥

अथवा नन्दिमहाकालौ अस्त्रेणैव बलिं पुनः
मन्त्रोदनावसाने च बलिकर्म सुयोजयेत् ॥ ६७ ॥

बकारम्बलदंविद्धि लिकारं द्ध्यानसम्भवम्
बकारलिकारसंयुक्तं बलिशब्दः प्रकीर्तितः ॥ ६८ ॥

आदानद्ध्यानसम्बन्धात् बलिशब्दं प्रकीर्तितम्
वृषादिबलिपीठान्तं बलिं कृत्वा विशेषतः ॥ ६९ ॥

पूर्वे तु वृषभे चैव अगस्त्यञ्चाग्निगोचरे
याम्ये कात्यायनी प्रोक्ता नैर्ऋत्यान्तु गणेश्वरम् ॥ ७० ॥

ब्रह्माणं पश्चिमे चैव अनिलेषु गुहन्तथा
उत्तरे केशवश्चैव भास्करं शाङ्करे पदे ॥ ७१ ॥

बाह्ये पीठं प्रविश्याथ उत्तराभिमुखे स्थितः
आमोदश्च प्रमोदश्च प्रमुखो दुर्मुखस्तथा ॥ ७२ ॥

अविघ्नो विघ्नकर्ता च बलिपीठाधिदेवताः
इन्द्रादिलोकपालांश्च पीठस्थस्वस्वदिग् स्थितान् ॥ ७३ ॥

अक्षद्वयप्रमाणेन बलिरेवं प्रकीर्तितम्
पतङ्गञ्च भुवङ्गञ्च ऊर्ध्वाधस्सम्प्रकल्पयेत् ॥ ७४ ॥

द्विभुजौ च द्विनेत्रौ च सर्वाभरणभूषितौ
रक्ताक्षोरविवर्णश्च तद्वर्णाम्बरभूषितौ ॥ ७५ ॥

दक्षिणे तु शिरोन्यस्त्वा पादौ चैवोत्तरे तथा
द्विनेत्रौ पीतवर्णौ च भद्रकायौ भयं करौ ॥ ७६ ॥

कृताञ्जलिपुटोपेतौ शोधयेत्तत्प्रजापते
प्रागुक्तलक्षणोपेतौ द्ध्यायेतेतौ प्रजापते ॥ ७७ ॥

नित्ये दक्षिणपादे च बाह्यपादांस्तु वामतः

[[२८५]]

ग्रामे च द्विभुजं विद्यात् नगरादौ चतुर्भुजम् ॥ ७८ ॥

पत्तने षट्भुजं विद्यात् यथालाभं प्रकल्पयेत्
स्वायम्भुवे दैविके च गाणवे चार्षके तथा ॥ ७९ ॥

द्विभुजौ च त्रिणेत्रौ च ईलि स्यादधिदैवतम्
चतुर्भुजयुतौ चैव खट्गखेटकधारिणौ ॥ ८० ॥

एवन्ध्यानत्वाविशेषेण पूजयेत्तु समासतः
नित्योपादानकौ चैव द्वारपार्श्वद्वयेन्यसेत् ॥ ८१ ॥

द्विभुजौ च द्विनेत्रौ च श्वेताभौ चोग्ररूपिणौ
किङ्किणी मालया भूष्यौ व्यालाभरणभूषितौ ॥ ८२ ॥

अथवा न्यप्रकारेण लक्षणं श्रुणुपद्मज
चतुर्भुजौ भद्रकायौ मातुलुङ्गसमप्रभौ ॥ ८३ ॥

पूजयेत् द्वारपार्श्वे तु ग्रामादिषु च पूर्ववत्
द्विनेत्रौ द्विभुजौ सौम्यौ नीलशोणप्रभान्वितौ ॥ ८४ ॥

दंष्ट्राकरालवदनौ किङ्किणी मालयान्वितौ
तद्वर्णाम्बरदीप्ताङ्गौ किरीटमकुटान्वितौ ॥ ८५ ॥

षट्भुजौ भीमकायौ वा पक्वबिम्बफलाकृती
दण्डन्यास्तैकपादौ च दण्डविन्यस्तकूर्परौ ॥ ८६ ॥

सव्ये वामे च तर्जन्या युक्तौ दोर्दण्डमण्डितौ
सव्येङ्कुशं तथाखट्गं वामे पाशञ्च खेटकम् ॥ ८७ ॥

द्वारपार्श्वे यजेद्धीमान् पत्तने च विशेषतः
द्वारस्य मद्ध्यमे वापि दक्षिणे वा तथोत्तरे ॥ ८८ ॥

स्थानशुद्धिन्ततः कृत्वा तस्योर्द्ध्वे तु प्रकल्पयेत्
तस्योर्द्ध्वे बलिदानन्तु द्वारदेवादितृप्तये ॥ ८९ ॥

नालिकेरप्रमाणञ्चाप्युत्तमस्य विधीयते
कपित्थफलमात्रेण मद्ध्यमस्य प्रमाणकम् ॥ ९० ॥

कुक्कुटाण्डप्रमाणेन कन्यसं बलिदानकम्

[[२८६]]

अक्षद्वयप्रमाणं वा हस्तमुष्टिप्रमाणकम् ॥ ९१ ॥

शुक्तिमात्रप्रमाणं वा बलिं सर्वत्र दापयेत्
स्वयम्भूर्दैविकञ्चैव दिव्यम्मानुषमार्षकम् ॥ ९२ ॥

राक्षसं बाणलिङ्गञ्च सप्तधालिङ्गमुच्यते
दैविकन्तु भवादीनामिन्द्रादीनान्तु चार्षकम् ॥ ९३ ॥

भूतादीनां स्वयम्भूतं मानुषं परिवारकम्
वसूनां बाणलिङ्गञ्च विद्येशानान्तु दिव्यकम् ॥ ९४ ॥

यक्षादीनां राक्षसन्तु बलिदेवाः प्रकीर्तिताः
भवश्शर्वस्तथेशानः नीलः पशुपतिस्तथा ॥ ९५ ॥

उग्रोभीमो महादेव इत्यष्टौ मूर्त्तयः स्मृताः
पीतकुङ्कुमकृष्णञ्चारुणं भिन्नाञ्जनप्रभम् ॥ ९६ ॥

नीलं श्वेतन्तथारक्तमष्टमूर्त्तेस्तु वर्णकम्
अभयं वरदस्सर्वे पाशाङ्कुशञ्चतुर्भुजम् ॥ ९७ ॥

त्रिणेत्रमेकवक्त्रञ्च द्विपादञ्चैव नूपुरम्
जटामकुटसंयुक्तमष्टमूर्त्तिस्वरूपकम् ॥ ९८ ॥

देविकाख्यस्य लिङ्गस्य बलिदेवाः प्रकीर्तिताः
पुरन्दरोनलः कालो निर्ऋतिर्वरुणस्तथा ॥ ९९ ॥

वायुस्सोमस्तथैशानो ब्रह्माविष्णुश्च लोकपाः
मानुषाख्यस्य लिङ्गस्य बलिदेवाश्च लोकपाः १००
सम्वर्त्तं पूर्वतोऽन्यस्य श्यामार्त्तं वह्निगोचरे
कुण्डोदरं याम्यभागे नैर्ऋते दीर्घकायकम् १०१
वारुण्यां ह्रस्वपादन्तु वायव्यां सिंहरूपकम्
सोमे गजमुखं प्रोक्तमीशे प्रियमुखन्तथा १०२
श्वेतपीतप्रभं कृष्णं रक्तं श्यामञ्च धूम्रकम्
कुङ्कुमाभन्तथा नीलं भूतवर्णमुदीरितम् १०३
उग्ररूपन्तु दंष्ट्रास्यं द्विभुजञ्च द्विपादकम्

[[२८७]]

दण्डहस्तं वर्तुलाक्षं भूतरूपमिति स्मृतम् १०४
अष्टभूतमिति प्रोक्तं स्वायम्भुवबलिन्ददेत्
मद्ध्यहारञ्च हाराय वृषभादिप्रदक्षिणम् १०५
वृषभं पूर्वतः स्थाप्य वह्निमाग्नेय गोचरे
मातरो दक्षिणे देशे वीरविघ्नसमन्विताः १०६
विघ्नेशन्नैर्ऋते भागे सुब्रह्मण्यन्तु पश्चिमे
ज्येष्ठास्थानन्तु वायव्यां दुर्गास्थानन्तथोत्तरे १०७
चण्डेशमीशदिग्भागे भास्करं पूर्वतो दिशि
कूपस्थानन्तथैशान्यामाग्नेय्यां पचनालयम् १०८
परिवारालयं सर्वं बाह्ये बाह्यान्तरे तथा
भूतपीठस्य पार्श्वे तु शक्रं सम्पूजयेत्ततः १०९
अग्न्यादीशानपर्यन्तं स्वस्वस्थाने विचक्षणः
द्वारस्योत्तरपार्श्वे तु ब्रह्माणं परिकल्पयेत् ११०
पितामहेशयोर्मद्ध्ये द्वादशादित्यपूजनम्
भास्करं क्षेत्रपालञ्च शाङ्करे वा समर्चयेत् १११
शक्रपावकयोर्मद्ध्ये द्वावश्विन्यौ प्रकल्पयेत्
आग्नेययमयोर्मद्ध्ये संस्थाप्य सप्तरोहिणीम् ११२
याम्यनैर्ऋतयोर्मद्ध्ये पितृस्थानं विधीयते
निर्ऋतेश्च जलेशस्य मद्ध्यतश्चाप्सरोगणान् ११३
वरुणानिलयोर्मद्ध्ये मुनीनां स्थानमुत्तमम्
मरुत्कुबेरयोर्मद्ध्ये प्यष्टौ वसुधरा स्मृताः ११४
कुबेरेशानयोर्मद्ध्ये रुद्रास्त्वेकादशस्मृताः
प्रतिमायाञ्च पीठे वा इष्टिकायां प्रपूजयेत् ११५
बलिपीठन्ततः कृत्वा चतुर्दिक्षु विशेषतः
बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे तु विन्यसेत् ११६
अन्तरे सर्वदेवांस्तु पिशाचान्बाह्यपीठके

[[२८८]]

यक्षाणान्दक्षिणे पीठे राक्षसानान्तु पश्चिमे ११७
गन्धर्वाणान्तु सौम्ये तु भूतानां पूर्वदेशके
तदूर्द्ध्वे पद्ममित्युक्तमष्टशक्तिन्दले न्यसेत् ११८
सर्वदेवमयं पीठमग्रपीठं प्रकल्पयेत्
ततः पुरस्थिते पीठे बलिन्दद्याद्विशेषतः ११९
आमोदश्च प्रमोदश्च सुमुखोदुर्मुखस्तथा
अविघ्नो विघ्नकर्त्ता च बलिपीठाधिदेवताः १२०
आमोदम्मद्ध्यमे न्यस्य प्रमोदं पूर्वतो दिशि
मुमुखं दक्षिणे न्यस्य दुर्मुखं पश्चिमे यजेत् १२१
अविघ्नमुत्तरे स्थाप्य विघ्नकर्त्तारमीशके
आमोदश्श्यामवर्णस्तु प्रमोदः कृष्णवर्णकः १२२
सुमुखः स्फटिकप्रख्यो दुर्मुखः कुङ्कुमप्रभः
अविघ्नोविद्रुमाभश्च विघ्नकर्त्ता च धूम्रयुक् १२३
द्विभुजाश्च द्विनेत्राश्च टङ्कशूलसमन्विताः
उग्रदंष्ट्रसमायुक्ता भीमरूपामहाबलाः १२४
सर्वाभरणसंयुक्ता नागयज्ञोपवीतकाः
प्रासादाभिमुखास्सर्वे तीक्ष्णदंष्ट्रोत्कटाननाः १२५
पूर्वे च दक्षिणे चैव पश्चिमे चोत्तरे तथा
गर्भगेहस्य पञ्चांशञ्चतुष्कञ्चोत्तमोत्तमम् १२६
त्रिभागम्मद्ध्यमं प्रोक्तं द्विभागमधमं भवेत्
द्वारोत्सेधसमं श्रेष्ठं त्रिपादन्तु च मद्ध्यमम् १२७
द्वारार्द्धमधमं विद्धि विस्तारोत्सेधतत्समम्
विस्तारं संविभज्याथ भागेनैकेन विंशतिम् १२८
भागेनोपानमेकेन चतुर्भिर्जगतिस्तथा
कम्पं कृत्वा तु भागेन तदूर्द्ध्वैकेन पट्टिका १२९
कण्ठं कुर्याच्चतुर्भागैरेकेनैवात्र पट्टिका

[[२८९]]

महापट्टि द्वयांशेन द्वयांशाब्जदलोन्नतम् १३०
कर्णिका त्वेकभागेन प्रोक्तमुत्सेधमुत्तमम्
बलिपीठमिति ख्यातं सर्वेषां परितृप्तये १३१
यक्षराक्षसपैशाचभूतगन्धर्वकिन्नराः
सर्वदेव ऋषीणान्तु बलिं सर्वत्र तृप्तये १३२
आर्षकाख्यस्य लिङ्गस्य परिवारबलिन्ददेत्
सरो ध्रुवश्च सोमश्च आपश्चैवानिलोनलः १३३
प्रत्यूषश्च प्रभावश्च वसवश्चाष्ट एव च
बाणलिङ्गं तथायोग्यं बलिन्दद्यात्प्रकीर्तितम् १३४
अनन्तेशस्तथाभूक्ष्मश्शिवोत्तमश्चैकनेत्रकः
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः १३५
अष्टविद्येश्वराश्चैते दिव्यलिङ्गबलिस्तथा
पूर्वे यक्षगणाश्चैव राक्षसागणबाणवाः १३६
विश्वा च गणदाक्षिण्यां गा–गणनैर्ऋते
किन्नरोगणवारुण्यां पितॄणां गणवायवे १३७
दानवानां गणे सौम्ये ऐशेनागगणाः स्मृताः
अष्टानां गणदेवानां बलिदानन्तु राक्षसे १३८
नित्यास्योपादानकस्य प्रथमद्वारिपूजनम्
नन्दी चैव महाकाले द्वितीयद्वारिपूजनम् १३९
दण्डिनो मुण्डिनश्चैव तृतीयद्वारिपूजयेत्
आमोदस्य प्रमोदस्य चतुर्त्थद्वारकल्पनम् १४०
गणेशस्य गुहस्यैव पञ्चप्राकारकल्पनम्
द्वारदेशं समाख्यातं बलिन्तेषां प्रकल्पयेत् १४१
तण्डुलं प्रस्थपादं स्यात् बलिदाने प्रमाणकम्
नित्येनैमित्तिके चैव बलिं कुर्याद्विशेषतः १४२
त्रिसन्ध्यायां बलिं कुर्यादन्यकालेन कारयेत्

[[२९०]]

अथवान्यपकारेण काम्यार्त्थे च बलिन्ददेत् १४३
महाहविर्निवेद्यान्ते बलिन्दद्याद्विशेषतः
नैमित्तिकोपसन्ध्यायां हविषा च बलिन्ददेत् १४४
अभावे बलिदाने च ग्रामनाशन्धनक्षयम्
अतः कार्यं प्रयत्नेन बलिं सर्वत्र कल्पयेत् १४५
ताम्बूलन्दापयेच्छम्भोः प्रत्येकं प्रस्थसङ्ख्यया
फलाच्चतुर्गुणं पत्रं जिह्वाघ्राणविवर्जितम् १४६
अश्मचूर्णसमायुक्तं क्रमुकस्य फलद्वयम्
तत्भिन्नतैलसम्मिश्रन्दापयेत्तु शिवाय च १४७
नित्यमेवं समाख्यातं काम्यन्नैमित्तिकं श्रुणु
भूमिशुद्धिन्ततः कृत्वा प्रोक्षयेद्धृदयेन तु १४८
व्रीहीन्सम्यक्परिस्तीर्य वस्त्रेणोपरिसंस्तरेत्
तस्योर्द्ध्वे कदलीपत्रं पूर्वाग्रञ्चोत्तराग्रकम् १४९
परिस्तरे द्विशेषेण घृतेनैवाभिघारयेत्
हविष्यन्तु त्रिधाकृत्वा द्विभागन्तु निवेदयेत् १५०
एकन्तु पात्रशेषं स्यादुपदंशाज्यसूपयुक्
दधिताम्बूलपूगञ्च प्रभूतन्तु परिग्रहेत् १५१
अस्त्रं दिशासु विन्यस्य अस्त्रमुद्रां प्रदर्शयेत्
दापयेदेवदेवाय हृदयेन च देशिकः १५२
आचमनन्ततः कृत्वा ताम्बूलन्तु निवेदयेत्
देवसङ्कल्पितं वत्सनैवेद्यमष्टभागिकम् १५३
द्विभागं देवभागं स्यादेकभागन्तु शक्तिकम्
गणेशस्येकभागन्तु कुमारस्येकभागकम् १५४
बल्यर्त्थमग्निकार्यार्त्थमेकभागमिति स्मृतम्
देशिकस्येकभागं स्यात् पात्रशेषन्तु शेषकम् १५५
तच्छेषं परिवाराणां भोजनायेति कीर्तितम्

[[२९१]]

देवस्वं देवताद्रव्यं नैवेद्यं तं निवेद्यकम् १५६
चण्डद्रव्यञ्च निर्माल्यं षड्विधञ्चैव कीर्तितम्
ग्रामादीशस्वदैवस्वो देवद्रव्यं पटादिकम् १५७
नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं न संशयः
चण्डद्रव्यञ्च तद्दत्तं निर्माल्यं प्रेरितं बहिः १५८
तैलचूर्णञ्च भस्मानि ताम्बूलं स्नानतोयकम्
वस्त्रमाभरणञ्चैव गन्धतैलञ्च पुष्पकम् १५९
चन्दनञ्चैव शुद्ध्यर्त्थं निर्माल्यं न प्रकीर्तितम्
शिष्टलिङ्गार्चनञ्चेत्तु किञ्चित्पूजाविधीयते १६०
स्वयम्भुर्देविकं बाणं गाणवञ्चार्षकन्तथा
शिष्टलिङ्गमिति ख्यातं पूजां पूर्ववदाचरेत् १६१
शिष्टलिङ्गन्तु वाचेत्तु विशेषं किञ्चिदस्ति हि
तं निवेदितनिर्माल्यं शैवानां भोजनं हितम् १६२
शुभदं चित्तसंस्कारमायुष्यं बलवर्द्धनम्
स्फटिकं बाणलिङ्गञ्च स्थापितञ्चलमेव वा १६३
तन्निवेदितनिर्माल्यं न निर्माल्यं प्रकीर्तितम्
बालानां युवतीनाञ्च भोजयेत् बलवर्द्धनम् १६४
आत्मार्त्थकस्य लिङ्गस्य न निर्माल्यन्तु कत्थ्यते
लिङ्गञ्च द्विविधं विद्धि मानुषं शिष्टलिङ्गकम् १६५
तयोर्मानुषलिङ्गस्य निर्माल्यं भवति ध्रुवम्
शिष्टलिङ्गस्य निर्माल्यं न निर्माल्यमुदीरितम् १६६
गुरुपुस्तकनागानां भक्तानां हि गणस्य च
पार्वती यक्षमातॄणां निर्माल्यञ्च शिवाय च १६७
गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणम्
विहाय शेषनिर्माल्यं चण्डेशाय निवेदयेत् १६८
निर्माल्यं निर्मलं शुद्धं निर्मलात्मापरिग्रहेत्

[[२९२]]

मलबन्धशरीरेऽस्मिन् निर्माल्यन्तु न भोजयेत् १६९
निर्माल्यं निर्मलो भुङ्क्ते निर्मलत्वादनिन्दितम्
तस्माच्छिवस्य नैवेद्यं शुद्धद्रव्यमिति स्मृतम् १७०
मलबन्धशरीरस्स्यात् भोक्तुं तस्य न योग्यकम्
तिलार्द्धं शिवनिर्माल्यं नाश्नीयान्न परिग्रहेत् १७१
भक्षयन्नरकं याति यावच्चन्द्रार्कमेदिनी
परिग्रहे च स्वीकारे पश्यन्गांश्चमनुं स्मरेत् १७२
शिवेन दीक्षितत्वाच्च शिवब्रांहण उच्यते
तस्माच्छिवद्विजं विप्र शुद्धब्राह्मणमुच्यते १७३
निर्माल्यं तस्य योग्यन्तु अन्येषान्तु न योग्यकम्
सङ्गृहीतं तथाचान्ये अतिकृच्छ्रं समाचरेत् १७४
स्पशने पाणिपादौ च प्रक्षाल्याचम्म्य वारिणा
हरेत्प्रक्षालनं हस्तं प्राणायामत्रयं कुरु १७५
प्रमादात् भोजनं कृत्वा पञ्चगव्यं कुशाग्रकम्
भक्षयेद्दोषशान्त्यर्त्थं हृन्मन्त्रन्तु शतं जपेत् १७६
निर्माल्य लङ्घनं दानं भक्षणन्नरकं व्रजेत्
तिलादन्नस्य निर्माल्यन्नरकं चन्द्रदिवाकरौ १७७
जले वा पशुपूगे वा भूमौ वाग्नौ प्रदापयेत्
विघ्नेशस्य तु नैवेद्यं विप्रादीनान्तु भोजनम् १७८
उमादेव्याश्च नैवेद्यं सर्वेषां भोजनं हितम्
शुद्धं विष्णोश्च नैवेद्यं ब्राह्मणादिषु भोजनम् १७९
सकलादिनिवेद्यं स्यात् सर्वेषां भोजनम्मतम्
सुब्रह्मण्यस्य नैवेद्यं भोजनञ्च जयार्थिनाम् १८०
भास्करस्य तु नैवेद्यं भुक्तं व्याधिक्षयं भवेत्
शीतभानोश्च नैवेद्यं भुक्तं शीतज्वरापहम् १८१
परिवारादिदेवानां नैवेद्यं मुक्तिहेतुकम्

[[२९३]]

दक्षिणं वर्षद्धञ्च उच्छिष्टं जलशुद्धये १८२
अग्नीनां जिह्वया शुद्धं गोपृष्ठञ्चैव शुद्धये
उच्छिष्टं शिवनिर्माल्यं वामनं प्रेतचर्मजम् १८३
काकदृष्टिसमुद्भूतं पञ्चैतानि पवित्रकम् १८४
अमृतकदली सुगन्धपैशाचं गात्रकदली अभिषेकविशेषः
यातुकदली पर्वतसिह्ममिक्षुकदली नैवेद्य विशेषः १८५
इति नैवेद्यविधानविधिपटलस्त्रयस्त्रिंशत्तमः