०३२ सायरक्षाविधिपटलः

सायरक्षाविधिपटलप्रारम्भः
सायरक्षाविधिं वक्ष्ये सर्वप्राणिहितावहम्
सर्वरोगनिवृत्यर्त्थं सर्वदासस्य वर्द्धनम् ॥ १ ॥

लोकस्य नयनोच्छिष्टनिवृत्यर्त्थं प्रदोषके
कर्तव्यासायरक्षा तु पूजाद्रव्यसमन्विता ॥ २ ॥

लिङ्गे चोत्सवबेरे वा नटेशोत्सवयेत्सुधीः
सायं कालेर्चयेदेवं देवस्यावरणेन च ॥ ३ ॥

परिवारन्न कर्तव्यमर्चयेत्तु चतुर्मुखम्

[[२७६]]

रवेरस्तमयात्पूर्वे सायरक्षा त्रिनाडिका ॥ ४ ॥

दीपार्चनार्द्धनाडी च लम्बपूर्वात्रिपादकम्
दीपोपचारार्द्धनाडी मद्दलञ्चैव तालकम् ॥ ५ ॥

गीतञ्च शुद्धनृत्तञ्च एकनाडी प्रशस्यते
परिवेषं पदानाडी सायरक्षा विधिक्रमम् ॥ ६ ॥

महाप्रदोषे सम्प्राप्ते पूजासर्वं त्रिनाडिका
त्रिपादे सायरक्षान्तु दिवान्ते तु प्रजापते ॥ ७ ॥

मण्टपस्येशदिग्भागे मण्टपञ्चतुरश्रकम्
कृत्वा तु भूतपात्राणि सङ्गृह्यात्रैव विन्यसेत् ॥ ८ ॥

सौवर्णं राजतन्ताम्रम्मृण्मयं कांस्यमेव च
विंशत्यङ्गुलविस्तारम् ओष्ठमेकाङ्गुलं भवेत् ॥ ९ ॥

प्रोक्षयेत्पुरुषेणैव धेनुमुद्रां प्रदर्शयेत्
दीपाधारं ततः कुर्यात् शालिपिष्टमयेन तु ॥ १० ॥

चतुरङ्गुलविस्तारमुत्सेधञ्चाङ्गुलं भवेत्
ओष्टमद्ध्याङ्गुलं प्रोक्तं पूर्णचन्द्रवदाकृतिः ॥ ११ ॥

पञ्चदीपसमायुक्तमथवा चैकदीपकम्
तन्मद्ध्ये निक्षिपेद्दीपं गोघृतेन समायुतम् ॥ १२ ॥

विन्यसेद्दीपमेकन्तु तिलमेकन्तु निक्षिपेत्
सर्षपञ्चैकपात्रे तु राजिकालवणन्तथा ॥ १३ ॥

कार्पासबीजमेकन्तु निक्षिपेद्धृदयेन तु
दीपं सम्पूज्य विधिवदग्निबीजेन बुद्धिमान् ॥ १४ ॥

शङ्खदुन्दुभिनिर्घोषैस्ततो मङ्गलवाचकैः
स्तोत्रध्वनिसमायुक्तं वेदध्वनिसमन्वितम् ॥ १५ ॥

पाद्यं दद्यात्पुरास्त्रेण नेत्रेणाचमनन्ददेत्
द्रव्याण्यथाक्रमेणैवाप्यावृत्या वृतलिङ्गके ॥ १६ ॥

दीपेनैव त्रिधाभ्राम्यशिखामन्त्रेण बुद्धिमान्

[[२७७]]

नीराजनन्तु कर्तव्यं क्रमेण देशिकोत्तमः ॥ १७ ॥

भस्मानि दापयेच्छम्भोर्दिग्बन्धं चास्त्रमन्त्रतः
ललाटनयनस्योर्ध्वे रक्षया किम्प्रयोजनम् ॥ १८ ॥

सर्वद्रव्यं हुतं वह्नि न दोषाय प्रकल्पयेत्
ललाटनयनस्योर्ध्वे उष्णीषं पट्टबन्धके ॥ १९ ॥

वर्तुलञ्चोर्ध्ववक्त्रे च त्रिपुण्ड्रं पूर्ववक्त्रके
त्रिशूलं दक्षिणे वक्त्रे पश्चिमे चतुरश्रकम् ॥ २० ॥

उत्तरे दीपमेवन्तु सर्वाङ्गोद्धूलनं कुरु
मूर्ध्नि चैव ललाटे च कर्णे च हृदये तथा ॥ २१ ॥

बाहुद्वयौ च नाभौ च पादद्वयौ च वादयेत्
गङ्गाचन्द्रमपस्मारं नागकूर्मन्तु दापयेत् ॥ २२ ॥

सर्वाङ्गं लेपयित्वा तु बृहत्सामेति मन्त्रतः
दर्पणं दर्शयेदन्ते तदन्ते छत्रदर्शनम् ॥ २३ ॥

तदन्ते चामरञ्चैव तदन्ते व्रजनं तथा
व्यञ्जनञ्चाष्टपुष्पञ्च स्तोत्रञ्चैव निवेदयेत् ॥ २४ ॥

अथवा द्रव्यवर्ज्यन्तु दीपमेकं प्रयोजयेत्
तत्भस्म च समादाय स्वल्पञ्चण्डेश्वरस्य तु ॥ २५ ॥

ततो भक्तजनेभ्यश्च दद्यात्देशिकपूर्वकम्
रात्रौ च परिवेषे तु कर्तव्यं बिम्बकेग्रतः ॥ २६ ॥

दीपकाले न कर्तव्यं कर्तव्यं बिम्बनाशकृत्
वाहयित्वा तु नारीभिः पात्राणि भूसुरैस्तु वा ॥ २७ ॥

सर्वालङ्कारसंयुक्तं सर्वातोद्यसमन्वितम्
आलयं तु परिभ्राम्य परिवेषक्रमेण तु ॥ २८ ॥

पीठाग्रे वाध्वजाग्रे वा प्राकाराणान्तु बाह्यके
निक्षिपेत्तत्र दीपन्तु तिलञ्चैव तु सर्षपम् ॥ २९ ॥

राजिकालवणञ्चैव कार्पासबीजसंयुतम्

[[२७८]]

दीपाग्निनादहेत्तत्राप्यग्निबीजेन बुद्धिमान् ॥ ३० ॥

लोकोत्पतिस्थितिकरं सर्वसम्पत्करं वरम्
पादप्रक्षालनं कृत्वा प्रविशेदालयं प्रति ॥ ३१ ॥

नागदीपं समारभ्य घटदीपवशानकम्
दीपानाराधनं कुर्यात् नमस्सर्पादिमन्त्रतः ॥ ३२ ॥

प्रथमे षोडशकला द्वितीये पक्षवासरः
रुद्रं तृतीये निर्दिष्टं चतुर्त्थे सप्तमातरः ॥ ३३ ॥

निवृत्यादिकला पञ्च ततो मद्ध्ये सरस्वती
प्रथमं लोकरक्षार्त्थं द्वितीयं ग्रामरक्षकम् ॥ ३४ ॥

तृतीयं भूतरक्षार्त्थं त्रिवारं त्रिःप्रदक्षिणम्
प्रथमं दक्षिणे नेत्रे द्वितीयमपसव्यके ॥ ३५ ॥

तृतीयं फालदेशे तु गले चैव चतुर्त्थकम्
पादादिमस्तकान्तं वा त्रिवारं भ्रामयेद्बुधः ॥ ३६ ॥

मस्तके च ललाटे च कण्ठे वक्षसि पादयोः
प्रत्येकं प्रणवाकारं दीपं संवेदयेत् बुधः ॥ ३७ ॥

नीराञ्जनस्य पात्रे तु वृत्ते स्यात्सूर्यमण्डलम्
मद्ध्ये च वह्निदैवत्यमारात्रिके तथैव च ॥ ३८ ॥

नवदीपे नवशक्तिस्सप्तदीपे च मातरः
पञ्चमे पञ्चभूतं स्यात्तत्वत्रयं त्रिदीपके ॥ ३९ ॥

स्वाहादेव्येकदीपे च पूजयेत्तु स्वनामतः
पात्रेण दीपमादाय देवस्य शिरसोपरि ॥ ४० ॥

परिभ्राम्य तथामन्त्री शिखामन्त्रेण बुद्धिमान्
एवं यः कुरुते मर्त्यस्सोन्ते रुद्रपदं व्रजेत् ॥ ४१ ॥

इति सायरक्षाविधिपटलो द्वात्रिंशत्तमः

[[२७९]]