पूर्वसन्ध्यार्च्चितं पुष्पम् ईशानेन विसर्जयेत्
कनिष्ठा नामिका मद्ध्ये नवपुष्पं विनिर्गतम् ॥ १ ॥
अङ्गुष्ठतर्जनीभ्यान्तु पर्युषितं विसर्जयेत्
[[२६३]]
विसर्जने तु तत्काले पुष्पं मूर्ध्नि निधापयेत् ॥ २ ॥
पूजापर्युषितं सर्वञ्चण्डेशाय प्रदापयेत्
क्षालयेल्लिङ्गमस्त्रेण दक्षपाणितलेन वै ॥ ३ ॥
पीठं पाशुपतेनैव क्षालयेत्परितः क्रमात्
लिङ्गशुद्धिर्भवेदेवं मन्त्रशुद्धिन्ततश्श्रुणु ॥ ४ ॥
ओङ्कारादिनमोन्तश्च मन्त्रास्सर्वे विशेषतः
यजने तु प्रयोक्तव्यामन्त्रशुद्धिरुदाहृता ॥ ५ ॥
योवेत्तिपञ्चशुद्धिञ्च सपूजां कर्त्तुमर्हसि
यजनेर्केन्दुसञ्चारे निष्फलन्तदवाप्नुयात् ॥ ६ ॥
चन्द्रार्कनाशयजनं सर्वसिद्धिकरं शुभम्
सङ्क्रान्ते विषुवेपूजानकर्तव्या कदाचन ॥ ७ ॥
अग्नौ वा निर्ऋतौ वापि स्थित्वादेवं प्रपूजयेत्
आसनं कल्पयेदत्र शास्त्रदृष्टेन कर्मणा ॥ ८ ॥
आधारमासनं प्रोक्तमाधेयः परमश्शिवः
नादं लिङ्गमिति प्रोक्तं बिन्दुः पीठमिति स्मृतम् ॥ ९ ॥
नशिवेन विनाशक्तिर्नशक्तिरहितश्छिवः
पुष्पेषु गन्धवत् ज्ञेया तिलेषु तैलवत्तथा ॥ १० ॥
देहे च प्राणवच्छक्तिं तस्माद्युक्तं प्रपूजयेत्
शक्तिरेवासनं प्रोक्तं पञ्चनन्दादयः क्रमात् ॥ ११ ॥
पार्थिवाण्डमधः स्कन्दनालं वात्यन्तमेव च
ततो नन्दासनं पूर्वं सिंहासनद्वितीयकम् ॥ १२ ॥
योगासनं तृतीयन्तु चतुर्त्थं पद्मासनं भवेत्
पञ्चमं विमलाख्यन्तु पञ्चभूतादिकास्त्विमे ॥ १३ ॥
वृत्ताकारमनन्तन्तु सूर्यकोटिप्रभावृतम्
अधस्तात्कल्पयेदूर्द्ध्वे सिंहासनं प्रकल्पयेत् ॥ १४ ॥
धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च चतुष्टयम्
[[२६४]]
शुक्लाभं पद्मरागञ्च हैमं मरतकप्रभम् ॥ १५ ॥
धर्मादीनान्तु वर्णं स्यादाग्नेयादिक्रमेण तु
पादाश्चतुष्ककोणेषु सिंहरूपेण कल्पयेत् ॥ १६ ॥
दंष्ट्राकरालवदना त्रिणेत्रा भीमरूपिणा
कोटिसिंहैर्विशेषेण प्रत्येकं परिवारका ॥ १७ ॥
अधर्माज्ञानवैराग्या अनैश्वर्यस्तथैलिका ॥ १८ ॥
अर्चनाङ्गविधिपटलप्रारम्भः
अर्चनाङ्गविधिं वक्ष्ये सन्ध्यालक्षणपूर्वकम्
कालाश्च द्विविधो ज्ञेयः स्थूलसूक्ष्मोपलक्षितः ॥ १ ॥
स्थूलश्च लौकिको ज्ञेयस्सूक्ष्मश्चाद्ध्यात्मकस्मृतः
सर्वं स्थूलेन कर्तव्यं तत्कालं प्रोच्यतेधुना ॥ २ ॥
स्वस्थं नराक्षिनिमिषं चतुर्भागं क्षणं स्मृतम्
तत् द्वयं तु लवं प्रोक्तं निमिषं तत् द्वयं भवेत् ॥ ३ ॥
निमिषैश्च त्रिभिः काष्ठा तिथिकाष्ठा कलास्मृता
त्रिंशत्कलामुहूर्तञ्च तदेवघटिकाद्वयम् ॥ ४ ॥
सार्द्धेन नाडिकासप्तयामन्तत्सन्धिरुच्यते
सन्धिरष्टौ समाख्याता त्वहोरात्रं प्रजापते ॥ ५ ॥
यजनं प्रतियामन्तु उत्तमं त्वितिकीर्तितम्
उदये चैव मद्ध्याह्ने प्रदोषे चार्द्धयामके ॥ ६ ॥
यजनम्मद्ध्यमम्मद्ध्ये उदये स्तमने धमम्
परार्त्थेष्वेषु कालेषु पूजयेत्तु विशेषतः ॥ ७ ॥
द्विकालमेककालं वा आत्मार्त्थयजनं स्मृतम्
द्वारपूजादिबल्यन्तं यावत्सन्ध्याबलिं कुरु ॥ ८ ॥
ब्रह्मप्रीतिकरं पौष्टि द्विजानां प्रथमार्चनम्
शिवप्रीतिकरं राज्ञां द्वितीयार्चनशान्तिदा ॥ ९ ॥
[[२६५]]
रक्षाकरी च वैश्यानां तृतीयार्चाशुभप्रदा
शूद्राणां कामदञ्चैव गौरीप्रियतमं सुखम् ॥ १० ॥
अर्द्धरात्रे विशेषेणाप्यर्चनन्तु विधीयते
सन्ध्यातिक्रमणाद्दोषः कृतञ्चेत्तु न दोषभाक् ॥ ११ ॥
पूर्वाह्ने चैव मद्ध्याह्ने प्रदोषे बलिमाचरेत्
अन्यासु सर्वसन्ध्यासु नाचरेत्तु बलिक्रमम् ॥ १२ ॥
अर्द्धयामे बलिं कुर्यात् काम्यार्त्ती च विधानतः
नित्योत्सवेन युक्तञ्चेत्तस्मिन्संवत्सरोत्सवम् ॥ १३ ॥
शास्त्रातिक्रमणेनैव पूजावृद्धिर्न्नयच्छति
कारयेत्तद्विधानेनाप्यन्यथा च न कारयेत् ॥ १४ ॥
भास्करोदयमारभ्य यावत्तु दशनाडिका
प्रातः कालमिति प्रोक्तं पूर्वाह्नमिति कीर्तितम् ॥ १५ ॥
तत्कालन्तु समारभ्य यावत्तु दशनाडिका
मद्ध्याह्नमिति विज्ञेयं सायं कालमथोच्यते ॥ १६ ॥
मद्ध्याह्नान्तं समारभ्याप्याभूतदशनाडिका
सायं कालमिति प्रोक्तं प्रदोषमधुना श्रुणु ॥ १७ ॥
भास्करास्तमनात्पश्चात्सार्द्धेन सप्तनाडिका
प्रदोषमिति विख्यातमर्द्धयामन्ततश्श्रुणु ॥ १८ ॥
प्रदोषान्तं समारभ्यत्रिपादेन त्रिनाडिका
अर्द्धयाममिति प्रोक्तं मद्ध्यरात्रमिहोच्यते ॥ १९ ॥
अर्द्धयामं समारभ्य यावत्तु दशनाडिका
मद्ध्यरात्रमिति प्रोक्तं रात्रान्तकमथोच्यते ॥ २० ॥
भास्करस्योदयात्पूर्वे त्रिपादेन त्रिनाडिका
रात्रान्तकमिति प्रोक्तं ज्ञात्वेवं सर्वमाचरेत् ॥ २१ ॥
जलसङ्ग्रहणं पुष्पसङ्ग्रहं यजनन्तथा
उदयादेवकर्तव्यं रात्रान्तेवाजलङ्ग्रहेत् ॥ २२ ॥
[[२६६]]
वर्णगन्धरसैर्जुष्टं क्रिमिकेशादिसंयुतम्
तद्वारिवर्जयेत्तत्र दूषितं पल्वलोदकम् ॥ २३ ॥
अशुचिस्थानसंयुक्तं सूर्यरश्मिविवर्जितम्
वर्जयेत्तु प्रयत्नेन सङ्ग्रहेत्तु मनोरमम् ॥ २४ ॥
नद्यास्तटाके कूपे वा सम्भवन्तु जलं ग्रहेत्
वस्त्रपूतविहीनं यत्तज्जलं नोपयुज्यते ॥ २५ ॥
उत्तमन्तु नदीतोयं तटाकम्मद्ध्यमं भवेत्
अधमं कूपतोयं स्यात्जलभेदं प्रशस्यते ॥ २६ ॥
तीर्त्थञ्च स्थापनञ्चैव प्रोक्ततोयं ग्रहेत्पुनः
अस्तमानं समारभ्य यावत्सूर्योदयान्तकम् ॥ २७ ॥
न ग्राह्यं स्थानवारि स्यात्पानवारि तथैव च
मिहिरोदयमारभ्य यावदस्तमनान्तकम् ॥ २८ ॥
जलसङ्ग्रहणञ्चैव चेष्टमे तत्प्रकीर्तितम्
रात्रौ तु न गृहे द्वारि चान्यधास्वर्णदीपकम् ॥ २९ ॥
देवतास्थापनं तीर्त्थं प्रातः काले समाचरेत्
प्रातःकालं समारभ्य यावत्कौशिकनाडिका ॥ ३० ॥
तावद्वापि प्रकर्तव्यं तीर्त्थकार्यं प्रजापते
अङ्कुरार्पणकार्यञ्चाप्युत्सवस्याधिवासनम् ॥ ३१ ॥
सायञ्च प्रारभेद्धीमान् रक्षासूत्रप्रबन्धनम्
स्थापने प्रोक्षणे चैव गर्भन्यासे तथैव च ॥ ३२ ॥
अधिवासनानि सर्वाणि मद्ध्यरात्रौ तु कारयेत्
वारणादिषु कर्माणि अर्द्धरात्रौ प्रजापते ॥ ३३ ॥
रात्रान्तके विशेषेण सर्वदैवप्रियार्त्थकम्
कुर्यात्पञ्चमहाशब्दं तथाशुभनिवृत्तये ॥ ३४ ॥
दारुजं पृथिवीजातं शङ्खजं चाब्जमुच्यते
आग्नेयं लोहजं प्रोक्तं वायव्यं वंशजं भवेत् ॥ ३५ ॥
[[२६७]]
गेयं गगनजातिस्स्यात्पञ्चैते शब्दमुच्यते
सुषिरं गाननञ्चैव चर्मबन्धन्तथैव च ॥ ३६ ॥
तन्त्रीवाद्यसमायुक्तं शब्दं पञ्चमहान्तकम्
सन्ध्यालक्षणमाख्यातं पाद्यादीनां विधिं श्रुणु ॥ ३७ ॥
कुङ्कुमञ्चन्दनं दूर्वा सिद्धार्त्थो शीरकन्तथा
जलेनैव समायुक्तं पाद्यमुत्तममुच्यते ॥ ३८ ॥
उशीरञ्चन्दनञ्चैव दूर्वासिद्धार्त्थकन्तथा
उदकेन समायुक्तं मद्ध्यमं पाद्यमुच्यते ॥ ३९ ॥
चन्दनोशीरसंयुक्तं कन्न्यसं पाद्यमुच्यते
प्रत्येकं धारणं श्रेष्ठं तस्यार्द्धं मद्ध्यमं भवेत् ॥ ४० ॥
तस्यार्द्धं कन्न्यसं ज्ञेयं पाद्यद्रव्यं त्रिधोदितम्
द्विगुञ्जं माषकञ्चैव धारणं माषविंशतिम् ॥ ४१ ॥
धारणाष्टफलञ्चैव फलमुष्टिरिहोच्यते
उशीरं जातिकर्पूरं त्रुटितन्तुलवङ्गकम् ॥ ४२ ॥
मुरेण सलिलोपेतं श्रेष्ठमाचमनीयकम्
एलालवङ्गकर्पूर उशीरं जातिसंयुतम् ॥ ४३ ॥
जलेनैव समायुक्तं मद्ध्यमाचमनीयकम्
एलालवङ्गकर्पूरं जलैस्सार्द्धन्तु कन्न्यसम् ॥ ४४ ॥
एतेषान्तु प्रमाणन्तु पूर्ववत्समुदाहृतम्
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥ ४५ ॥
द्विगुणं मद्ध्यमं ज्ञेयमुत्तमं त्रिगुणं भवेत्
आपक्षीरकुशाग्रैश्चाप्यक्षतैर्यवतण्डुलैः ॥ ४६ ॥
तिलैस्सिद्धार्त्थकैश्चैव अर्घ्यमुत्तममुच्यते
लवसर्षपशाल्यद्भिस्तण्डुलर्मद्ध्यमार्घ्यकम् ॥ ४७ ॥
यवतण्डुलशाल्यद्भिर्भवेदर्घ्यन्तु कन्न्यसम्
अर्घ्यद्रव्यप्रमाणन्तु पूर्ववत्परिकीर्तितम् ॥ ४८ ॥
[[२६८]]
स्थापने चैव पूजान्ते विसर्जने तु प्रदापयेत्
त्रिप्रकारं ददेदर्घ्यं द्वितीयाचमनं तथा ॥ ४९ ॥
पाद्यं तथैकमाख्यातं नैवेद्यान्ते तथैव च
द्विधाचाचमनीयन्तु एकैकं पाद्यमुच्यते ॥ ५० ॥
कर्पूरं कुङ्कुमं पत्रं खड्गञ्चैव पलत्रयम्
चन्दनोशीरलोहञ्च गन्धमुत्तममुच्यते ॥ ५१ ॥
उशीरं चन्दनञ्चैव कर्पूरञ्च फलत्रयम्
घनं खड्गसमायुक्तं मद्ध्यमं गन्धमुच्यते ॥ ५२ ॥
हिमं घनञ्च कर्पूरं कन्न्यसं गन्धमुच्यते
द्रव्यं प्रतिपलं श्रेष्ठं तस्यार्द्धं मद्ध्यमं भवेत् ॥ ५३ ॥
यदर्द्धमधमं ज्ञेयं गन्धद्रव्यं त्रिधोदितम्
स्नाने चार्घ्ये विलेपे च त्रिषु गन्धन्तु दापयेत् ॥ ५४ ॥
गन्धमेवं समाख्यातं पुष्पाणां विधिरुच्यते
श्वेतं रक्तं तथापीतं कृष्णञ्चेति चतुर्विधम् ॥ ५५ ॥
श्वेतपद्मञ्च पुन्नागं शङ्खपुष्पञ्च मल्लिका
नन्द्यावर्तं श्रियावर्तं मन्दारं बहुकर्णिका ॥ ५६ ॥
द्विकर्णी कुरवञ्जाति लक्ष्मी च वकुलन्तथा
श्वेतार्कम्मालती द्रोणमतसीश्वेतलोध्रकम् ॥ ५७ ॥
विषङ्गासीसकुसुमं भद्रञ्चैव महा तथा
एकानिश्वेतपुष्पाणि सात्विकानि विनिर्दिशेत् ॥ ५८ ॥
रक्तपद्मं पलाशञ्च रक्तोत्पलञ्च पाटली
मौसली चैव धुत्तूरं बृहतीकरवीरकम् ॥ ५९ ॥
व्याघ्री च रक्तमन्दारं पट्टिका वैजिका तथा
रक्तान्येतानि पुष्पाणि राजसानि विनिर्दिशेत् ॥ ६० ॥
शौनक्यं कर्णिकारञ्च चम्पकं हेमधुर्द्धुरम्
आरग्वधञ्चकोरण्डं शैर्यागिरिकर्णिका ॥ ६१ ॥
[[२६९]]
एतानि मिश्रपुष्पाणि कृष्णानि तामसानि वै
मोक्षदं सात्विकञ्चैव पौष्टिकं राजसन्तथा ॥ ६२ ॥
मिश्रपुष्पाणि सिद्धार्त्थं पत्रं पुत्रवियर्द्धनम्
बिल्वपत्रन्तपस्वी च सह पत्री च धातकी ॥ ६३ ॥
अपामार्गं कुशं दूर्वा पञ्चबिल्वं शमी तथा
तुलसी चम्पकञ्चैव जम्बुकन्नागनन्दिकौ ॥ ६४ ॥
एकपत्रारविन्दञ्च विष्णुक्रान्तिन्तथैव च
ततो नीलोत्पलञ्चैव तामसानि विनिर्दिशेत् ॥ ६५ ॥
नीलोत्पलसमं पुष्पन्न भूतन्न भविष्यति
पत्रजातिषु सर्वेषु बिल्वपत्रं विशिष्यते ॥ ६६ ॥
पुष्पजातिषु सर्वेषु करवीरं विशिष्यते
तत्पुष्पं हेमपुष्पञ्च निर्माल्यन्न भवेत्सदा ॥ ६७ ॥
कुन्दाख्यं सुखबिल्वञ्च निजीवितकपित्थकम्
एतानि शूलपत्राणि पञ्चबिल्वमिति स्मृतम् ॥ ६८ ॥
यावत् शोभान्तथा कल्प्य तावदीशं प्रपूजयेत्
नन्द्यावर्त्तं श्रियावर्त्तं श्वेतार्कं श्वेतपङ्कजम् ॥ ६९ ॥
पुन्नागं पट्टिकाषाढमालतीमुदये ददेत्
पङ्कजं बृहतीव्याघ्री व्याघातं करवीरयुक् ॥ ७० ॥
उत्पलं पाटली द्रोणं मद्ध्याह्ने तु प्रदापयेत्
चम्पकं वैजिकापत्री धुत्तूरं बहुकर्णिका ॥ ७१ ॥
मालती मल्लिका चैव दापयेत्तु प्रदोषके
जाती नीलोत्पलञ्चैव बिल्वपत्रं कदम्बकम् ॥ ७२ ॥
द्विकर्णी चैव भद्रञ्च अर्द्धयामे प्रदापयेत्
अन्यपुष्पाणि सर्वाणि अन्यसन्ध्यासु दापयेत् ॥ ७३ ॥
अतिपक्वमपक्वञ्च मुकुलञ्च विसर्जयेत्
केशकीटोपविद्धञ्च लूतासूत्रवृतानि च ॥ ७४ ॥
[[२७०]]
स्वयम्पतितपुष्पाणि पञ्चितान्यपिवस्त्रके
एरण्डपत्रकानीतं करानीतमथापि वा ॥ ७५ ॥
अशुचिस्थानकानीतं रोगार्तापहृतान्यपि
एकाहोषितपुष्पाणि वर्जयेत्तु विशेषतः ॥ ७६ ॥
आवाहने तथार्घ्येषु पाद्ये स्नानेषु धूपके
विलेपने च नैवेद्ये विसर्गान्ते तथैव च ॥ ७७ ॥
अष्टकालेषु पुष्पन्तु दापयेत्तु यथोदितम्
अर्कपङ्कजबिल्वञ्च नन्द्यावर्तञ्च पाटली ॥ ७८ ॥
करवीरञ्चम्पकञ्च नीलोत्पलमथाष्टकम्
पद्मञ्चैवार्कपुष्पञ्च नन्द्यावर्तञ्च पाटली ॥ ७९ ॥
द्रोणपुष्पञ्च मन्दारं करवीरमथोत्पलम्
अष्टपुष्पमिति ख्यातं सर्वदेवात्मकं विदुः ॥ ८० ॥
करवीरद्वयञ्चैव नन्द्यावर्तन्तथैव च
महाद्रोणन्तथार्कञ्च मल्लिकाचम्पकन्तथा ॥ ८१ ॥
नीलोत्पलन्तथा श्रेष्ठमष्टपुष्पं सुयोजयेत्
मकुटे मूर्ध्निकर्णे च हृदयेनाभिगुह्यके ॥ ८२ ॥
जानुपादद्वये चैव अष्टपुष्पं सुयोजयेत्
अर्कपुष्पञ्च बिल्वञ्चापामार्गकरवीरकम् ॥ ८३ ॥
पङ्कजन्नागनन्दी च नन्द्यावर्त्तञ्च मल्लिका
अष्टपुष्पन्तथावत्सप्रातस्सन्ध्यासु पुष्पकम् ॥ ८४ ॥
द्रोणपुष्पन्तथा चैव मन्दारं शङ्खपुष्पकम्
श्वेतं पलाशधुत्तूरं व्याख्यातं व्याघ्रपुष्पकम् ॥ ८५ ॥
शमी चैव तु मद्ध्याह्नेऽप्यष्टपुष्पं सुयोजयेत्
अपराह्णार्चना पुष्पं भूमूलञ्चम्पकन्तथा ॥ ८६ ॥
वकुलं कृष्णवल्ली च मल्लिका द्वयमेव च
जाती च छान्दसंयुक्तं साये चैवार्द्धयामके ॥ ८७ ॥
[[२७१]]
पुष्पाभावे तु पत्रैश्च पत्राभावे तथैव च
सर्वबीजाङ्कुरैः पत्रैरर्चयेत्तु महादरात् ॥ ८८ ॥
पत्रच्छेदेन सम्पूज्य राक्षसानान्तु नाशनम्
पुष्पच्छेदो न कर्तव्यस्सर्वसम्पत्समृद्धये ॥ ८९ ॥
पुष्पलक्षणमाख्यातं श्रुणु धूपस्य लक्षणम्
चन्दनञ्चैव निर्यासं कुन्दुरूक्षञ्च कुङ्कुमम् ॥ ९० ॥
मेघञ्च कृष्णलोहञ्च कर्पूरञ्च क्रमेण तु
सप्तषट्भूतवेदांश्च अग्न्यश्विन्यम्बरांशकान् ॥ ९१ ॥
आहृत्यचूर्णधित्वा तु मधूना च परिप्लुतम्
एतच्छीतारिधूपन्तु शिवप्रीतिकरं शुभम् ॥ ९२ ॥
कृष्णलोहञ्च निर्यासं चन्दनञ्च क्रमेण तु
व्योमपक्षाश्विनी भागमीषत्कर्पूरमिश्रितम् ॥ ९३ ॥
उत्तमं धूपमाख्यातं मधुना च परिप्लुतम्
चन्दनोशीरसंयुक्तं लघुयुक्तं मधुप्लुतम् ॥ ९४ ॥
भागन्तु पूर्ववत्प्रोक्तं मद्ध्यमं धूपमुच्यते
गुग्गुलुं घृतसंयुक्तमधमं धूपमुच्यते ॥ ९५ ॥
दीप्ताङ्गारकसंयुक्तं घण्टां वामकरेण तु
धूपपात्रं समादाय दापयेद्विधिवत्बुधः ॥ ९६ ॥
अपिलाघृतेन दीपं स्यात्सितरक्तासितासु वा
अजाघृतमलाभे तु शुद्धतैलेन वा पुनः ॥ ९७ ॥
अपिलायाघृतं श्रेष्ठमन्यासां मद्ध्यमं भवेत्
अधमं स्यादजासर्पिश्शुद्धतैलन्तु कन्न्यसम् ॥ ९८ ॥
सात्विकं राजसञ्चैव तामसञ्च क्रमेण तु
कर्पूरावर्तितं दीपं दापयेत्सर्वसिद्धिदम् ॥ ९९ ॥
श्रेष्ठं युगाङ्गुलज्वाला मद्ध्यमन्तु गुणाङ्गुलम्
अधमं द्व्यङ्गुलज्वाला दीपमेवं प्रकीर्तितम् १००
[[२७२]]
वृक्षबीजोद्भवैः स्नेहैश्शिवदीपन्तु वर्जयेत्
माहिष्येन घृतेनैव शिवदीपन्न कारयेत् १०१
हीनवित्ते तथाश्रेष्ठं निर्गन्धं वासुगन्धयुक्
पूर्वसन्धिषु गान्धारम्मालवञ्च ततः परम् १०२
मद्ध्याह्ने तर्करागं स्यात्कौशिकञ्च ततः परम्
सायाह्नेचैन्दलं प्रोक्तमर्द्धरात्रे तु पञ्चमम् १०३
भरतोक्तं तथानृत्तं सन्ध्यायां प्रतिकारयेत्
एलालवङ्गकर्पूरं जातितक्कोलचूर्णकम् १०४
मधूषट्खण्डसम्मिश्रं मुखवासमिहोच्यते
पनसोनालिकेरञ्च मातुलुङ्गद्वयं तथा १०५
नारङ्गद्वयरम्भाम्रलिकुचं तिन्त्रिणीफलम्
फलोदकमिति प्रोक्तं गन्धोदकं ततश्श्रुणु १०६
चन्दनञ्चैव कुष्ठञ्च तक्कोलञ्चैव कुङ्कुमम्
कर्पूरं पिप्पली चैला कस्तूरी चागरुं तथा १०७
लवङ्गञ्च तथोशीरं चम्पकञ्चैव मौकुलम्
इत्थं गन्धोदकं प्रोक्तं पुष्पोदकविधिं श्रुणु १०८
कुसुमञ्च स्वकारञ्च मल्लिका चैव पाटली
केतकी करवीरञ्च पुन्नागं कुन्दपुष्पकम् १०९
नन्द्यावर्तं श्रियावर्तं मन्दारं करवीरकम्
जातिनीलोत्पलं पद्मं हरिबेरादिमिश्रितम् ११०
इत्थं पुष्पादकं प्रोक्तं पत्रोदकं ततश्श्रुणु
गोक्षुरा सहदेवी च विष्णुक्रान्तिकृताञ्जली १११
शिरीषेन्दीवरं रौद्री रेभिर्मार्जनमुच्यते
दूर्पाङ्कुरञ्च पद्मञ्च कुशाग्रं गौरसर्षपम् ११२
भद्राकृताञ्जली युक्तं परिमार्जनमुच्यते
तुलसी बिल्वपत्रञ्च तमालञ्च तपस्विनी ११३
[[२७३]]
अपामार्गं शमीयुक्तं पत्रतोयमिहोच्यते
पलाशोदुम्बराश्वत्थमधूकं प्लक्षपाटली ११४
जम्बूत्वक्भिस्समायुक्तं कषायोदकमुच्यते
पर्वते च नदीतीरे वल्मीके कर्कटावटे ११५
वृषश्रृङ्गे च सुक्षेत्रे समुद्रे गजदन्तके
अष्टमृद्भिस्समायुक्तम्मृदम्भः परिकीर्तितम् ११६
यवनीवारमुद्गञ्च सिद्धार्त्थं गुलव्रीहिणी
सुगन्धं हैमशालिन्तु बीजोदकमिदं शुभम् ११७
आवाहनार्घ्यपाद्येषु स्नाने चाचमने तथा
नैवेद्ये च विसर्गान्ते वारिसप्तसु योजयेत् ११८
माणिक्यञ्चेन्द्रनीलञ्च वैडूर्यञ्च प्रवालकम्
मुक्तावज्रन्ततः पुष्यरागं स्फटिकखण्डकम् ११९
रत्नम्मरतकञ्चैव नव तत्रादिपञ्चकम्
पञ्चरत्नमिति ज्ञेयमाद्याभावे द्वितीयकम् १२०
रत्नोदकमिति प्रोक्तं लोहोदकमतः परम्
स्वर्णं रजतताम्रं वा आयसन्त्रपुसीसकम् १२१
आरकूटन्ततः कांस्य युक्तं लोहोदकं स्मृतम्
सौराष्ट्रमञ्जनं श्यामा हरितालम्मनश्शिला १२२
गैरिकारोचनाचान्ते धात्वोदकमिति स्मृतम्
शूलं कपालहरिणी पिनाकं परशुस्तथा १२३
पाशाक्षमालं हेमाश्च तैरेवास्त्रोदकं भवेत्
उशीरो हरिबेरञ्च विपरी पुष्करस्तथा १२४
श्रीकण्ठश्चेति पञ्चैतैर्युक्तम्मूलोदकं स्मृतम्
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् १२५
एभिर्द्रव्यैस्समायुक्तं ब्रह्मकूर्चमिति स्मृतम्
कुशकाशास्तथा दूर्वा व्रीहयो मौञ्जयस्तथा १२६
[[२७४]]
विश्वामित्रयवाश्चैव सप्तदर्भाः प्रकीर्तिताः
कूर्चं कृत्वा तु सर्वेषां कुशोदकमिति स्मृतम् १२७
ओदनान्नाभिषेकन्तु आयुरारोग्यवर्द्धनम्
अन्नं प्राणात्मकं श्रेष्ठं सर्वजन्तु प्रतिष्ठितम् १२८
तस्मादन्नाभिषेकन्तु मम प्रीति प्रदायकम्
अन्नरूपं विशेषेण मम रूपं द्विधा स्मृतम् १२९
अन्नपूजापरं श्रेष्ठन्न भूतन्न भविष्यति
तस्मात्सर्वप्रयत्नेनाप्यन्नैरन्नाभिषेचनम् १३०
अन्नपूजाविधि प्रोक्तमुदकादभिषेचनम्
पूर्ववत्संस्कृतन्तोयं हेमपात्रे सुपूरितम् १३१
अथवारजते वापि ताम्रे वायज्ञवृक्षके
तज्जलस्य तु मद्ध्यस्थं स्थापयेद्दक्षिणेश्वरम् १३२
दूर्वातिलाक्षतं पुष्पं महेशाय प्रदापयेत्
गन्धं पुष्पञ्च धूपञ्च दीपञ्चैव निवेदयेत् १३३
सजलं सफलं साज्यं गुलान्नञ्च निवेदयेत्
जलपूजार्चनन्नित्यं राजराष्ट्राभिवृद्धिदम् १३४
जलार्चनञ्जपात् गुह्यं स्थितिकारं सुशोभनम्
सर्वसिद्धिकरं शुद्धं सर्वरोगविनाशनम् १३५
त्रियम्बकमुमारुद्रामापोहिष्ठेतिमन्त्रकम्
उमारुद्रायकद्रुद्रमिलेशञ्जुहुयोदकम् १३६
श्रीरुद्रञ्चमकञ्चैव त्र्यक्षरं पञ्चशान्तिकम्
हिरण्यं पुरुषं सूक्तं जातवेदं त्रियक्षरम् १३७
पृथक्पृथक्सकृत् जप्त्वा अभिषेकं शनैश्शनैः
जलार्चनमिदं प्रोक्तं सर्वशान्तिकरं शुभम् १३८
चण्डरुद्रो महामेढ्रो विबुधः पिङ्गलोत्तमः
विश्वरूपोविशालाक्षो भूतेशश्चाखुवाहनः १३९
[[२७५]]
एतद्विमानबालांश्च पूर्वादीनि क्रमान्न्यसेत्
वृक्षस्य मूलसेचेन यथाशाखोपशाखिनी १४०
तथाशास्त्रोक्तमार्गेण सृष्टिस्थितिविधानतः
आसनं पूर्वमुद्दिष्टमावाहनमनन्तरम् १४१
तृतीयं स्थापनं प्रोक्तञ्चतुर्त्थं सन्निधानकम्
पञ्चमं सन्निरोधञ्च षष्ठं स्यात्पाद्यमेव च १४२
सप्तमं स्यादाचमनमर्घ्यमष्टममुच्यते
नवमं स्थानकर्म स्याद्दशमं वस्त्रवेष्टनम् १४३
एकादशन्तु गन्धं स्याद्वादशन्त्वङ्गभूषणम्
त्रयोदशन्तु पुष्पं स्याद्धूपदीपञ्चतुर्दशम् १४४
नैवेद्यं पञ्चदशकं षोडशं बलिरेव च
अग्निकार्यं सप्तदशं गेयमष्टादशं भवेत् १४५
एकोनविंशतिं विद्यान्नित्योत्सवविधिं परम्
पादुकाराधनं विंशदेकविंशत्प्रदक्षिणम् १४६
द्वाविंशतिर्नमस्कारन्त्रयोविंशत् जपं भवेत्
चुलुकोदञ्चतुर्विंशदुपचाराः प्रकीर्तिताः १४७
इति अर्चनाङ्गविधिपटल एकत्रिंशत्तमः