नित्यार्चनविधिपटलप्रारम्भः
वक्ष्ये नित्यार्चनं पुण्यं शुभदं पापनाशनम्
महापातकदोषघ्नं सर्वयज्ञफलप्रदम् ॥ १ ॥
आत्मार्त्थञ्च परार्त्थञ्च पूजा द्विविधमुच्यते
दत्ते च गुरुणा लिङ्गे स्थण्डिले स्वयमात्मनि ॥ २ ॥
क्षणिके मण्डले तोयेऽप्यात्मार्त्थयजनं स्मृतम्
मण्डले तु शतं पुण्यं स्थण्डिले तु सहस्रकम् ॥ ३ ॥
अयुतं कौतुके लिङ्गे कोटिकोटिगुणं भवेत्
शैलजं रत्नजञ्चैव लोहजन्दारुजन्तथा ॥ ४ ॥
मृण्मयं क्षणिकञ्चैव षड्विधं लिङ्गमुच्यते
सिकतन्तण्डुलञ्चान्नन्नदीमृत्गोमयन्तथा ॥ ५ ॥
नवनीतञ्चरुद्राक्षं भस्मचन्दनकूर्चकम् ।
पुष्पमालागुलञ्चैव क्षणिकं द्वादशं भवेत् ॥ ६ ॥
मानसान्मण्डलं श्रेष्ठम्मण्डलात्क्षणिकं परम्
क्षणिकात्फलमुत्कृष्टं पटञ्चैव ततः परम् ॥ ७ ॥
पटादाभासमुत्कृष्टमाभासात् बिम्बमुच्यते
बिम्बाद्वै लिङ्गमुत्कृष्टं लिङ्गाद्वै निष्कलं परम् ॥ ८ ॥
सर्वयज्ञतपोदानतीर्त्थदेशेषु यत्फलम्
तत्फलं कोटिगुणितं शिवलिङ्गार्चनात्फलम् ॥ ९ ॥
सर्वेषां रक्षणार्त्थाय ग्रामादिषु विशेषतः
स्थापितं विधिना लिङ्गं सुरैर्वा मुनिभिर्नरैः ॥ १० ॥
स्वयमुद्भूतलिङ्गञ्च प्रतिमाञ्चेश्वरात्मकम्
तत्परार्थं समाख्यातं सर्वेषामात्मनः फलम् ॥ ११ ॥
सर्वेषामात्मरक्षार्थमिष्टलिङ्गार्चनं गृहे
आत्मार्त्थमिति विख्यातं परार्त्थञ्च ततश्श्रुणु ॥ १२ ॥
स्वयम्भूर्देविकञ्चैव दिव्यमानुषमार्षकम्
राक्षसं बाणलिङ्गञ्च सप्तैते लिङ्गमुच्यते ॥ १३ ॥
स्वयम्भूः स्वयमुत्पन्नं देव्यर्चनन्तु देविकम्
दिव्यं देवार्चनञ्चैव ऋषिपूजितमार्षकम् ॥ १४ ॥
मानुषैः स्थापितं लिङ्गं मानुषं परिकीर्तितम
असुरैः राक्षसैः पूज्यमासुरं राक्षसं भवेत् ॥ १५ ॥
बाणनामजलं प्रोक्तं तज्जातं बाणलिङ्गकम्
बाणेन पूजितं लिङ्गं बाणलिङ्गमिहोच्यते ॥ १६ ॥
विप्रक्षत्रियविट्शूद्रादीक्षिताश्च प्रवेशताः
आत्मार्त्थयजनं कुर्यात् न कुर्याच्छपरार्त्थकम् ॥ १७ ॥
आत्मार्त्थञ्च परार्त्थञ्च स्वादिशैवेन पूजितम्
आदिशैव इति प्राक्तस्सशिवब्राह्मणो गुरुः ॥ १८ ॥
शिवोद्भवन्तु शैवं स्याच्छैवोद्भवस्सदाशिवः
सदाशिवात्तु सम्भूता शिवसृष्टिरुदाहृता ॥ १९ ॥
शिवेनस्थापितं शैवं शैवेन स्थापितं शिवम्
शिवशैवविशुद्धात्मा शिवब्राह्मण इष्यते ॥ २० ॥
चतुर्वेदाधिकारित्वाच्छवसिद्धान्तपारगः ।
चातुर्वर्णाधिकारत्वादादिशैव इति स्मृतः ॥ २१ ॥
आदिशैवश्शिवो रुद्रो शुद्धात्मा शुद्धशैवकः
तस्माच्छैवः प्रकर्तव्यं प्रतिष्ठामुत्सवान्तकम् ॥ २२ ॥
उत्सवादिप्रायश्चित्तमादिशैवेन कारयेत्
आगमोक्तप्रकारेण प्रतिष्ठालिङ्गपूजनम् ॥ २३ ॥
आदिशैवस्य पूजा च सर्वसिद्धिकरी स्मृता
अन्यविप्रस्पृशेनैव सर्वैर्देवलको भवेत् ॥ २४ ॥
यदि मोहेन कुर्वीत राज्ञो राष्ट्रस्य दुस्थितिः
कोपी मलिनधारी तु शिवं स्पृशति यो द्विजः ॥ २५ ॥
स एकविंशति कुलं सोक्षयन्नरकं व्रजेत्
कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ॥ २६ ॥
अगस्त्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः
तेषां वंशेषुसञ्जाताश्शिवब्राह्मणनामकाः ॥ २७ ॥
विन्ध्याद्रेर्दक्षिणे देशे शैवोत्पत्तिः प्रकीर्तिता
कौशिकाद्याश्च ऋषयो प्यादिशैवाः प्रकीर्तिताः ॥ २८ ॥
शुद्धैश्शिवद्विजैर्मुख्यैस्सदाचारसमन्वितैः
क्षुद्रभद्रसमायुक्तैर्वेदवेदाङ्गपारगैः ॥ २९ ॥
एतैरधिष्ठितं विन्ध्यगिरेर्दक्षिणभूमिका
शैवन्तु द्विविधं ज्ञेयं कलाकलविभेदतः ॥ ३० ॥
कलं वै शिवगर्भं स्यादकलम् ऋषिगर्भकम्
प्रतिष्ठास्थापनन्नित्यपूजनं प्रोक्षणन्तथा ॥ ३१ ॥
उत्सवादीनिसर्वाणि काम्यकर्माणि यानि च
तानि सर्वाणि कार्याणि कलेन तु विशेषतः ॥ ३२ ॥
शास्त्रार्चनं क्षुद्रबिम्बपूजनञ्चान्यपूजनम्
स्वेष्टलिङ्गार्चनं ग्रामदेवताराधनन्तथा ॥ ३३ ॥
अकलेन प्रकर्तव्यं शैवतन्त्रानुसारिणा
नित्यन्नैमित्तिकं काम्यं वर्जनीयं परार्त्थके ॥ ३४ ॥
कर्षणादिप्रतिष्ठान्तमादिशैवेन कारयेत् ——– ———————————–॥ ३५ ॥
सदाशिवाख्यस्य शिवस्य वक्त्रे ये दीक्षिताः कौशिककाश्यपाद्याः
तेषाम्मुनीनां विधिवत्क्रमेण जाताश्शिवब्राह्मणनामधेयाः ॥ ३६ ॥
अनादिशैवस्सशिवस्त्वादिशैवश्शिवद्विजः
महाशैवन्तु विप्राणामनुशैवन्तु भूभुजाम् ॥ ३७ ॥
अवान्तरन्तु शूद्राणां पञ्चशैवोद्भवं क्रमात्
सर्वेषां भस्मधारीणां शैवं सर्वसमुच्चयम् ॥ ३८ ॥
आदौ येन शिवेनैव नियुक्तोऽपि शिवाद्ध्वरे
आदावनादिशैवेन दीक्षितस्त्वादिशैवकः ॥ ३९ ॥
शिवमुत्पद्यशैवं हि शैवेनोत्पद्यते शिवः
शिवशैवैक्यरूपत्वाच्छिवब्राह्मण उच्यते ॥ ४० ॥
इति नित्यं षडाधारन्ततः पूज्योदिवाकरः
विनासूर्यार्चनं कर्म ततो निष्फलतां व्रजेत् ॥ ४१ ॥
सौवर्णेन कृतं लिङ्गं भुक्तिमुक्तिप्रदं भवेत्
ताम्रजम्पुत्रदं प्रोक्तं रञ्जताश्रीकरं भवेत् ॥ ४२ ॥
सुखदं कांसमित्युक्तं पैत्तलं रोगनाशनम्
आयसं पुत्रनाशन्तु त्रिलोहम्मरणं भवेत् ॥ ४३ ॥
तस्माद्वै सर्वजातीनां बाणमेवोत्तमोत्तमम्
क्षुद्रं भद्रं द्विधा प्रोक्तं क्षुद्रमात्मार्द्धपूजनम् ॥ ४४ ॥
भद्रं परार्त्थमित्युक्तं ग्रामादौ स्थापनं हितम्
आत्मशुद्धिस्तु पूर्वं स्यात्स्थानशुद्धिर्द्वितीयकम् ॥ ४५ ॥
तृतीयं द्रव्यशुद्धिस्स्यात् चतुर्त्थं लिङ्गशोधनम्
पञ्चमं मन्त्रशुद्धिस्स्यादित्येताः पञ्चशुद्धयः ॥ ४६ ॥
विधिना स्नानकं कृत्वा देहशुद्धिरतः परम्
पादप्रक्षालनं कृत्वा समाचम्यविधानतः ॥ ४७ ॥
द्वाराग्रमण्टपं गत्वा पूजकस्तु सुखासनः
शास्त्रोक्तदहनं भस्मदेशिको धारयेत्क्रमात् ॥ ४८ ॥
अद्धूलने त्वशक्तश्चेत्त्रिपुण्ड्रं सर्वसन्धिषु
द्वात्रिंशत्सन्थिदेशेवाप्यथवा षोडशेष्वपि ॥ ४९ ॥
अष्टसन्धिषु वापञ्च स्थाने धार्यं त्रिपुण्ड्रकम्
सन्ध्यग्रे च निशीथे च शय्यापूर्वा वसानयोः ॥ ५० ॥
हुत्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिभिः
स्त्रीपुन्नपुंसकं शूद्रं बिडालं बकमूषिकम् ॥ ५१ ॥
स्पृष्ट्वा यथा विधावन्ते चाग्नेयस्नानमाचरेत्
देवाग्निगुरुविद्यानां समीपे यदि दर्शने ॥ ५२ ॥
अशुद्धभूतले मार्गे कुर्यान्नोद्धूलनं व्रती
भस्मवामकरे स्थाप्य दक्षिणेनाभिमन्त्रयेत् ॥ ५३ ॥
मद्ध्याङ्गुल्याजलैर्युक्तमपरैर्जलवर्जितम्
हस्तौ संशोद्ध्य चास्त्रेण सर्वाङ्गं धारयेत्क्रमात् ॥ ५४ ॥
मूर्ध्नि चैव ललाटे च हृदये गुह्यपादयोः
कर्णे चांसद्वये बाहौ कूर्परे मणिबन्धके ॥ ५५ ॥
पृष्ठे च पार्श्वयोश्चैव सर्वाङ्गं धारयेत्क्रमात्
पञ्चाङ्गुलेन मूर्ध्नि स्यात् प्रासादेन तु मन्त्रितः ॥ ५६ ॥
ललाटे च त्रयङ्गुल्यात्वीशतत्पुरुषेण तु
वक्षस्य घोरमन्त्रेण वाममन्त्रेण गुह्यके ॥ ५७ ॥
सद्योजातेन पादाभ्यां हृदये हृदयं भवेत्
शिरोमन्त्रेण कण्ठे च शिखामन्त्रेण हस्तयोः ॥ ५८ ॥
कूर्परे कवचेनैव मणिबन्धे च नेत्रतः
सर्वाङ्गमस्त्रमन्त्रेण धृत्वा सम्प्रोक्षयेत्ततः ॥ ५९ ॥
ब्रह्माविष्णुर्महेशश्च त्रयोरेखा इति स्मृताः
अधो ब्रह्मा ततो विष्णुस्तदूर्ध्वे तु महेश्वरः ॥ ६० ॥
त्रिपुण्ड्र द्वयरन्ध्रेषु मद्ध्ये च्छिद्रं प्रयत्नतः
षण्मुखश्च गणेशश्च द्विरेखा त्वधिदेवताः ॥ ६१ ॥
ललाटे हृदिबाह्वोश्च दैर्घ्यकन्तु षडङ्गुलम्
शेषमेकाङ्गुलं प्रोक्तं त्रिपुण्ड्रं धारयेत्क्रमात् ॥ ६२ ॥
ऊर्ध्वपुण्ड्रमनायुष्यं दीर्घपुण्ड्रं तपः क्षयम्
नेत्रयुग्मान्तमानेन धारयेत् भसितं क्रमात् ॥ ६३ ॥
द्विकालं जलसम्मिश्रं त्रिपुण्ड्रं धारयेत् द्विजः
विधूयसर्वपापानि सर्वकर्मार्हको भवेत् ॥ ६४ ॥
द्विकालमेककालं वा भसितं जलमिश्रकम्
त्रिपुण्ड्रधारणं कुर्यात्सर्वपापच्युतो भवेत् ॥ ६५ ॥
उत्तराभिमुखो भूत्वा रुचिरासनसंस्थितः
पद्मञ्च स्वस्तिकञ्चैव गोमुखं विशदन्तथा ॥ ६६ ॥
सूचितञ्चैकपादन्तु कुक्कुटं वीरमेव च
भद्रासनं तथाज्ञेयं कूर्मं विमलमेव च ॥ ६७ ॥
दण्डपिण्डञ्च गोकर्णं सिंहासनमतः परम्
वृत्तञ्च घटिकञ्चैव गजास्य गजकर्णिकम् ॥ ६८ ॥
आसनं विंशतिः प्रोक्तं श्रेष्ठं स्थिरसुखासनम्
ऊरुजानुद्वयञ्चैव पादाग्रञ्चैव सम्पुटम् ॥ ६९ ॥
ईषन्नासाग्रदृष्टिस्तु देहदीर्घन्तु तम्मृजुः ।
रुचिरासनमाख्यातं सर्वकार्येषु पूजितम् ॥ ७० ॥
गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्द्धचन्द्रकम् ।
वीरं योगासनञ्चैव षड्विधञ्चासनोत्तमम् ॥ ७१ ॥
वामजानूपरिन्यस्त्वा दक्षिणञ्जानुमण्डलम् ।
द्वयोः पादतले चैव विन्यसेत्पार्श्वपृष्ठयोः ॥ ७२ ॥
एवं कृत्वा तु सुस्निग्धं गोमखं विशदं स्मृतम्
ऊरुपार्श्वतले न्यस्त्वा जङ्घामग्नन्तु स्वस्तिकम् ॥ ७३ ॥
ऊरुपार्श्वतले न्यस्त्वा पद्मासनमिहोच्यते
ऊरुपरितले न्यस्त्वा द्वयोः पादतलेषु च ॥ ७४ ॥
गुल्फद्वयसमं कृत्वा तलौ जङ्घेन विन्यसेत्
अर्द्धचन्द्रं समाख्यातं वीरासनमथ श्रुणु ॥ ७५ ॥
लम्बितन्दक्षिणं पादं वामन्दक्षिणतोपरि
ततो वीरासनं प्रोक्तं योगासनमथ श्रुणु ॥ ७६ ॥
शरीरं जानुसम्बन्धं योगपट्टिकयावृतम्
कूर्परौ चैव विन्यस्तौ योगासनमिहोच्यते ॥ ७७ ॥
दशदिक्ष्वास्त्रमन्त्रेण दिशिरेचनमारभेत्
कूर्मन्दर्भन्तथाचर्मकम्बलं पीठमेव च ॥ ७८ ॥
आविकं त्वक्जसूत्रोत्थं रुचिरञ्चासनन्तथा
सर्वकर्मार्हकं प्रोक्तं पवित्रमिदमासनम् ॥ ७९ ॥
प्राणायामत्रयं कृत्वा प्रत्येकन्दशमात्रकम्
अपाने जिह्वति प्राणं प्राणात्प्राणमयन्ततः ॥ ८० ॥
प्राणापानसमायोगात्प्राणायामेति चोच्यते
रेचकं पूरकञ्चैव कुम्भकन्तु तृतीयकम् ॥ ८१ ॥
रेचनात् रेचकं प्रोक्तं पूरणात्पूरकन्तथा ।
कुम्भकन्तु निरोधेन प्रणवेन न्यसेत्त्रयम् ॥ ८२ ॥
रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम्
कुम्भकं रुद्रदैवत्यमधिदेवाः प्रकीर्तिताः ॥ ८३ ॥
अकारश्च उकारश्च मकारो बिन्दुरेव च
संयोगं बिन्दुनादाभ्यां प्राणायाममिदं विदुः ॥ ८४ ॥
उकारं सोमरूपन्तु पूरकादित्यसङ्ख्यया
मकारस्यार्करूपन्तु कलासञ्ज्ञस्य कुम्भकम् ॥ ८५ ॥
अकारस्याग्निरूपन्तु वायुसङ्ख्यस्य रेचकम्
प्रथमं वामनास्येन द्वितीयं सव्यनासिका ॥ ८६ ॥
पुनस्तृतीयं वामेन प्राणायामकृतन्तथा
औदरं वायुमङ्गुल्या नासिकां पीड्यरेचयेत् ॥ ८७ ॥
दूतिवत्पूरयेत्सम्यक् जठरे बाह्यवायुना
पूरकन्तु समाख्यातं पश्चात्कुम्भकमुच्यते ॥ ८८ ॥
अन्तर्बहिस्थितं वायुन्नगृह्णातिनमुञ्चति
पूर्णकुम्भसमं यस्मात्तस्मात्कुम्भकमुच्यते ॥ ८९ ॥
प्राणायामात्परं पुण्यन्न भूतन्न भविविष्यति
रेचकादित्रयं प्रोक्तं सर्वदोषनिकृन्तनम् ॥ ९० ॥
गुरुप्रसादात्सलभ्यमन्यधानोपलभ्यते
पूरकं कर्मविच्छेदं कुम्भकञ्चात्मबन्धनम् ॥ ९१ ॥
रेचकं कर्मनाशं स्यात्प्राणायामकृतन्तथा
अनामिकाकनिष्ठे द्वे प्यङ्गुष्ठञ्च तृतीयकम् ॥ ९२ ॥
नासापुटन्ततो बद्ध् वा प्राणायामस्य लक्षणम्
गङ्गा च दक्षिणे कर्णे नासिकाग्रे हुताशनम् ॥ ९३ ॥
उभयोः स्पृर्शनादेव सर्वपापैः प्रमुच्यते
पादादिजानुपर्यन्तं पृथिवी स्थानमुच्यते ॥ ९४ ॥
अम्भस्थानन्तु नाभ्यन्तं वह्निस्थानं गलान्तकम्
वायुस्थानं ललाटान्तन्तदूद्ध् र्वे द्वादशाङ्गुलम् ॥ ९५ ॥
आकाशस्थानमित्युक्तं मूर्द्धादिस्थानमुच्यते
तालमात्रं ललाटोद्ध् र्वे वितस्ति द्वादशाङ्गुलम् ॥ ९६ ॥
शिवस्थानमिदं गुह्यं प्रमाणं गदितं मया
तालमात्रादधस्तात्तु भ्रूमद्ध्ये ज्योतिरूपकम् ॥ ९७ ॥
विशुद्धं व्योमनिलयं बिन्दुस्थानमुदाहृतम्
बिन्दुस्थानं समाख्यातमूर्वादिस्थानपञ्चकम् ॥ ९८ ॥
चतुरश्रार्द्धचन्द्रञ्च त्रिकोणञ्च षडश्रकम्
सुवृत्तञ्च पृथिव्यादिमण्डलाकृतयः क्रमात् ॥ ९९ ॥
सुखदुःखस्य चरितं विसर्जनञ्च मैथुनम्
अन्येषु भूतवर्गस्स्यात् भूतात्मागुणतावहम् १००
इत्थमात्मन इत्युकं पूजाकालेषु दुर्लभम्
अकारमात्मासम्प्रोक्तमन्तरात्मात्विकारकम् १०१
ओङ्कारं परमात्मा तु तत्वात्मा वै ह्युकारकम्
एकारं सर्वभूतात्मा तेषां वर्णं प्रकीर्तितम् १०२
भूतात्मा योजयेद्विद्वानन्तरात्मा दहेत्पुनः
तत्वा त्मात्वमृतं पूर्यशुद्धात्माप्यानयेत्पुनः १०३
शिखाग्रे व्योमगे शुद्धे शिवतत्वे नियोजयेत्
कृत्वा कायन्दहेत्पश्चात्यान्तेनैव त्रिकोणके १०४
पादाङ्गुष्ठात्समारभ्य दहेद्यावच्छिरोन्तकम्
ज्वालामालासमाक्रान्तं शरीरन्दग्धरज्जुवत् १०५
प्रक्रियान्तस्थममृतं स्रवन्तञ्चिन्तयेत्सदा
प्रणवं श्वेतकमलं योगपीठमथो मुखम् १०६
चिन्तयेदमृतन्तस्मिन्सुषुम्नाभिन्नमस्तकम्
आपूर्यान्तस्ततो द्ध्यायेदात्मानममृतेन च १०७
आत्मानमानयेद्धीमानेषा शिवतनुः क्रमात्
शिखाग्रेद्वादशाङ्गुल्य वीणादण्डस्य पार्श्वयोः १०८
सुषुम्ना मद्ध्यगः प्राणमद्ध्येषु सुषिरन्तथा
जीवप्राणसमायुक्तं तेषु मद्ध्येषु सञ्चरेत् १०९
सञ्चारे त्रिषु तत्काले आधारेषु च संस्थिताः
आधेयवान्प्रयुक्तञ्च समाधिक्लेशमाश्रितम् ११०
इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः
मूलाधारे स्मरेदग्निं चन्द्रसूर्यसमन्वितम् १११
कुण्डल्यन्तु विधातारन्नाभौ विष्णुरुदाहृतम्
हृदये केवलं रुद्रं कण्ठमूले महेश्वरम् ११२
जिह्वामूले च नादाख्यन्नासाग्रे बिन्दुरेव च
नादाख्यन्तु ध्रुवोर्मद्ध्ये ललाटे शक्तिसञ्ज्ञिकम् ११३
ब्रह्मरन्ध्रे शिवं विद्यादूद्ध् र्वे नृत्तं विचिन्तयेत्
द्वादशान्तात्परो यस्मादतिसूक्ष्मस्थितो विदुः ११४
आनन्दनृत्तकस्साक्षात् देवदेवो जगद्गुरुः
शुक्लशोणितयोर्मद्ध्ये बिन्दुरूपं परात्परम् ११५
तस्य मद्ध्ये गतं प्राणो बिन्दुनादात्मकं शिवम्
एवं कृत्वा विधानेनाप्यथवान्यक्रमं श्रुणु ११६
गुदस्य पृष्ठभागे तु तदूद्ध् र्वे तु द्वयाङ्गुलम्
वीणादण्डस्य सम्बन्धात्कदम्बदलपद्मकम् ११७
मूलाधारे स्मरेच्चैव चन्द्रसूर्यसमन्वितम्
तस्य मद्ध्ये तु सम्बन्धाच्छिवाग्निं परमाणुकम् ११८
रूपमद्ध्ये स्थितो वायुर्वायुमद्ध्ये स्थितं मनः
मनो मद्ध्ये स्थितो नादं नादमद्ध्यस्थितोद्ध्वनिः ११९
ध्वनिमद्ध्ये स्थितो नादो नादमद्ध्ये स्थितश्शिवः
शिवमद्ध्ये गतं शान्तं शान्यतीतात्परात्परम् १२०
परात्परपरन्देवमित्येते शिवभावना
प्रथमन्तु करन्यासमङ्गन्यासमतः परम् १२१
शोधयेदस्त्रमन्त्रेण तलिकौ हस्तपृष्ठकौ
अस्त्रेण हुम्फडन्तेन द्विर्वामं शोधयेत्करम १२२
तेन मन्त्रेण सव्यन्तु ऊद्ध् र्वाधश्शोधयेत्त्रिधा
गन्धलिप्तकरौ कृत्वा शिवहस्तप्रकल्पनम् १२३
वामहस्ते जलं स्थाप्य वह्निहस्तन्तु दक्षिणम्
अग्निर्मलस्थशोधेन करन्यासं समाचरेत् १२४
अङ्गुल्यष्टदलम्बद्ममङ्गुष्ठद्वयकर्णिकम्
द्ध्यायेत्तत्रासनम्मूर्त्तिं शम्भुन्तद्व्यापकन्न्यसेत् १२५
अङ्गुष्ठादिकनिष्ठान्तं सृष्टिन्यासमुदाहृतम्
कनिष्ठाद्यङ्गुष्ठकान्तं यत्संहारन्न्यासमुच्यते १२६
ईशादिसद्यमन्त्रान्तं सृष्टिन्यासमुदाहृतम्
सद्यादीशानपर्यन्तं संहारन्यासमुच्यते १२७
दक्षिणाङ्गुष्ठमादि स्यात्कनिष्ठादीतरे ततः
दशबीजन्न्यसेद्धीमान्स्थितिन्यासमतः परम् १२८
तर्ज्जन्यान्तन्तु मद्ध्यादि क्रमादङ्गानि विन्यसेत्
न्यसेद्धस्ततले नेत्रे तर्जन्यास्त्रन्न्यसेत्क्रमात् १२९
शिवाङ्गान्येवमेवं स्याच्छिवं पर्वणिपर्वणि
गृहस्थस्सृष्टिमार्गेण करन्यसन्तु कारयेत् १३०
वानप्रस्थयतीनान्तु संहारक्रममेव हि
अपत्नीकवनस्थानां संहारन्यासमुच्यते १३१
नैष्ठिके तु स्थितिन्यासं सर्वकार्येषु पूजितम्
करन्यासं समाख्यातमङ्गन्यासं ततश्श्रुणु १३२
मूर्द्धादिसृष्टिरत्रोक्तं पादादिस्संहृतिर्भवेत्
स्वमूर्ध्निविन्यसेदीशं वक्त्रेवक्त्रन्तु विन्यसेत् १३३
न्यस्त्वाघोरं हृदिस्थाने वामङ्गुह्ये तु विन्यसेत्
सद्यमन्त्रौ न्यसेत्पादे ततस्त्वङ्गानि विन्यसेत् १३४
हृदयं हृदयेन्यस्य शिरश्शिरसि विन्यसेत्
शिखायान्तु शिखान्न्यस्य कवचं स्तनमद्ध्यतः १३५
लोचने तु न्यसेन्नेत्रमस्त्रम् अस्त्रप्रदेशके
अष्टत्रिंशत्कलान्यासं विधिनाकारयेत्ततः १३६
उत्सृज्य प्राकृतं भावं शिवोऽहमिति भावयेत्
एवं कृत्वा विशेषेणाप्यन्तर्यागं समाचरेत् १३७
नाभिचक्रं समाश्रित्य कारयेद्वह्निमण्डलम्
हृदये धारयेत्सोमं भ्रूमद्ध्येरविमण्डलम् १३८
हृदये यजनं कुर्याद्धोमन्नाभौ प्रकल्पयेत्
तथेश्वरन्तु भ्रूमद्ध्ये द्ध्यायेत्सर्वगतं प्रभुम् १३९
पञ्चावरणमार्गेण पूजयित्वाधिशेषतः
हृत्पद्मे चार्चयेन्नित्यं त्रिकालं वा द्विकालकम् १४०
अथवाप्येककालं वा संयजेनानसेन तु
आत्मशुद्धिरिति प्रोक्ता स्थानशुद्धिमतश्श्रुणु १४१
शिवाग्रे स्थण्डिलं कृत्वा हस्तमात्रन्तु देशिकः
आवाहयेत्ततो भूमिं सर्वाभरणभूषिताम् १४२
द्विभुजाञ्च द्विनेत्राञ्च करण्डमकुटान्विताम्
हेमयज्ञोपवीताढ्यां पीतनेत्रां सयौवनाम् १४३
पीताभां पीतवस्त्राञ्च पुण्डरीकदलेक्षणाम्
कृताञ्जलिपटोपेतां सनालोत्पलधारिणीम् १४४
सुप्रसन्नां भूमिदेवीं सर्वावयवसुन्दरीम्
गन्धादिभिस्समभ्यर्च्य हृदयेनैव मन्त्रतः १४५
अस्त्रेणैव तु मन्त्रेण दिग्विरेचनमारभेत्
स्थानशुद्धिरिति प्रोक्ता द्रव्यशुद्धिन्ततश्श्रुणु १४६
शरावं पाद्यपात्रञ्च शङ्खमाचमनीयकम्
जलभाण्डं वर्द्धनीञ्च पुष्पपात्रार्घ्यपात्रकौ १४७
अस्त्रेण क्षालयेद्धीमान्निरीक्ष्य हृदयेन तु
कवचेनावकुण्ठ्याथ तेनैवोन्मीलनं कुरु १४८
वर्द्धनीं शङ्खकेनैव पूरयेत्तु शिवाम्भसा
पञ्चब्रह्मषडङ्गानि तोयमद्ध्ये तु विन्यसेत् १४९
पिधायदक्षहस्तेन दशबीजन्न्यसेत्ततः
दर्शयेल्लिङ्गमुद्रान्तु पद्ममुद्रां प्रदर्शयेत् १५०
पात्राणि च हृदाप्रोक्ष्य शङ्खतोयेन सर्वशः
क्षीरन्दधिघृतादींश्च गन्धं पुष्पञ्च धूपकम् १५१
वर्द्धनीतोयमादाय प्रोक्षयेत्पुरुषेण तु
द्रव्यशुद्धिर्भवेदेवं लिङ्गशुद्धिन्ततश्श्रुणु १५२
देवदेवन्नमस्कृत्य द्वारदेवान्प्रपूजयेत्
पतङ्गञ्च भुवङ्गञ्चाप्यूद्ध् र्वाधस्सम्प्रपूजयेत् १५३
पतङ्गोर्ध्वे गणेशञ्च तस्य वामे सरस्वतीम्
पतङ्गस्योद्ध् र्वमद्ध्ये तु महालक्ष्मीं यजेत् बुधः १५४
दक्षिणे तु भुवङ्गस्य गङ्गान्नन्दीशमेव च
यमुनाञ्च महाकालन्तस्य वामे तु पूजयेत् १५५
द्विभुजञ्च द्विनेत्रञ्च सर्वाभरणभूषितम्
रक्ताक्षं रक्तवर्णञ्च तद्वर्णाम्बरभूषितम् १५६
दक्षिणे तु शिरोन्यस्य पादमुत्तरतो दिशि
हृदिविन्यस्तहस्तञ्च पतङ्गद्वारिपूजयेत् १५७
पीतवर्णं द्विनेत्रञ्च भद्रकायं भयं करम्
पीतवस्त्रदधानञ्च करण्डमकुटोज्वलम् १५८
कृताञ्जलिपुटोपेतं भुवङ्गं भावयेदधः
भुवङ्गदक्षिणे पार्श्वे गणेशं विधिना यजेत् १५९
गजाननं त्रिणेत्रन्तु श्यामवर्णञ्चतुर्भुजम्
लड्डुकं परशुं वामे सव्ये दन्ताक्षमालिकाः १६०
नागयज्ञोपवीतञ्च लम्बोष्ठन्तु गणाधिपम्
पतङ्गवामपार्श्वे तु पूजयेत्तु सरस्वनीम् १६१
चतुर्भुजां द्विनेत्राञ्च श्वेतवर्णां सलक्षणाम्
अक्षमालाञ्च सव्ये तु पुस्तकं वामहस्तके १६२
अभयं वरदोपेतामथवा वामहस्तके
गण्डिकां सव्यहस्ते तु पङ्कजं वापि धारयेत् १६३
सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम्
पतङ्गस्योर्ध्वमद्ध्ये तु पद्ममद्ध्ये च संस्थिताम् १६४
द्विभुजाञ्च द्विनेत्राञ्च सरत्नमकुटान्विताम्
पीतवर्णसमायुक्तां सर्वावयवसुन्दरीम् १६५
पङ्कजं दक्षिणे हस्ते श्रीफलं वामहस्तके
हस्तद्वयं द्विपार्श्वे तु सोर्ध्वहस्तयुतैर्वरैः १६६
घटैस्तस्यान्तु संयोज्याप्यभिषेकं समाचरेत्
दक्षिणे तु भुवङ्गस्य नन्दिनं रक्तवर्णकम् १६७
त्र्यक्षञ्चतुर्भुजोपेतमभयं वरदान्वितम्
उग्रतोमरशूलञ्चाप्यक्षमालासमन्वितम् १६८
तस्यैव वामपार्श्वे तु द्विनेत्रं द्विभुजन्तथा
गङ्गायाश्शुक्लवर्णन्तु मकरासनसंस्थितम् १६९
नीलोत्पलं सव्यहस्ते पूर्णकुम्भन्तु वामके
चित्रवस्त्रसमायुक्तं सर्वाभरणभूषितम् १७०
द्वारस्य दक्षिणे गङ्गां नन्दिनं पूजयेद्बुधः
भुवङ्गवामपार्श्वे तु महाकालं घनद्युतिम् १७१
चतुर्भुजं त्रिणेत्रञ्च कपालं शूलमेव च
दक्षिणे भयटङ्कञ्च वामे पाशसमावहम् १७२
जटामकुटसम्युक्तं नागयज्ञोपवीतकम्
तस्यैव दक्षिणे पार्श्वे यमुनाञ्चैव कल्पयेत् १७३
द्विभुजञ्च द्विनेत्रञ्च श्यामवर्णसमन्वितम्
कूर्मासनसमारूढं सर्वाभरणभूषितम् १७४
पूर्णकुम्भन्तु वामे तु उत्पलं सव्यहस्तके
यमुनायास्वरूपन्तु सर्वावयवसंयुतम् १७५
विमलञ्च सुबाहुञ्च पूजयेत्तु कवाटयोः
पट्टिकास्कन्दमभ्यर्च्य वलये चन्द्रभास्करौ १७६
सुषिरे नवशक्तिन्तु पूजयेद्देशिकोत्तमः
वृषभं पूजयेदग्रे गन्धपुष्पादिभिः क्रमात् १७७
अन्तर्मण्डलकञ्चैव प्रथमन्तु प्रकल्पयेत्
अन्तर्हारं द्वितीयन्तु मद्ध्यमर्या तृतीयकम् १७८
चतुर्त्थमद्ध्यमर्यादि महामर्यादि पञ्चकम्
पञ्चप्राकारमेवोक्तं प्राकारे बलिमाचरेत् १७९
गर्भग्रहस्य द्वारे वाप्यर्द्धमण्टपकेऽथवा
अथवा मण्टपस्येव उत्तमं मद्ध्यमाधमौ १८०
तद्वारे द्वारपालांस्तु आसीनो वा स्थितोऽथवा
डिण्डीनां सव्यपार्श्वे तु मुण्डीनां वामपार्श्वके १८१
रक्तवर्णं द्विनेत्रञ्च नागयज्ञोपवीतकम्
भीमरूपं सुदंष्ट्रञ्च द्विभुजञ्चैकवक्त्रकम् १८२
विस्मयाविष्टवक्त्राढ्यं दण्डायुधसमन्वितम्
सव्यपार्श्वे स्थितन्देवं डिण्डीनां रूपमुच्यते १८३
कृष्णवर्णं चतुर्हस्तमेकास्यं भीमरूपकम्
दंष्ट्राकरालवदनं दण्डन्यस्तैकपादकम् १८४
किङ्किणीमालयाभूष्यं दण्डाग्रन्यस्तपाणिनम्
कुन्नलालङ्कृतास्यञ्च डिण्डीनान्तु स्वरूपकम् १८५
द्वारेषु देवतास्सर्वाः परस्परनिरीक्षणाः
प्रत्यङ्मुखास्तथाकुर्युः पूजाकाले विशेषतः १८६
पूजान्ते पूर्ववत्कृत्वा द्वारपालांस्तथैव च
घण्टान्तु ताडयेद्धीमानस्त्रमन्त्रं समुच्चरन् १८७
पूजाकाले तु घण्टान्तु ताडनात्किं प्रयोजनम्
यक्षराक्षसपैशाच दानवाब्रंहराक्षसाः १८८
देवसान्निद्ध्यपूजार्त्थं गच्छन्ति मणिशब्दतः
आवाहने च पूजान्ते पूजारम्भे विसर्जने १८९
अर्घ्ये विलेपने स्नाने दीपे गन्धाभिषेचने
अभिषेके च धूपे च नैवेद्ये बलिकर्मणि १९०
अन्येषु सर्वकार्येषु महाघण्टां प्रताडयेत्
अर्चनादित्रियाकाले प्रच्छन्नपटमुत्तमम् १९१
पापरोगीपरिभ्रष्टो नास्तिकश्शिवनिन्दकः
वेदविक्रयकश्चैव ग्रन्थविक्रयकस्तथा १९२
दुर्मुखश्च दुराचारो मूर्खश्च गुरुनिन्दकः
पाषण्डः प्रतिलोमश्च शिवद्रव्यापहारकः १९३
लिङ्गच्छेदीबृहद्बीजी सुरापायी च हेममुक्
मातृहापितृहास्तेयी गुरुद्रव्यापहारकः १९४
प्रविश्यदर्शनं कृत्वा पूजाया निष्फलं भवेत् १९५
प्रच्छन्नपटलं कल्प्य सर्वदोषनिकृन्तनम्
द्वाराधिक्यन्तु विस्तारमायामद्विगुणं भवेत् १९६
वस्त्रमेवं समाख्यातं प्रच्छन्नपटमुत्तमम्
यवनिकां परित्यज्य हृदयम्मन्त्रमुच्चरन् १९७
गर्भगेहं ततः प्राप्य लिङ्गशद्धिं समाचरेत्
स्वयम्भूर्दैविकं बाणं गाणवञ्चार्षकन्तथा १९८
शिष्टलिङ्गमिति ख्यातं पूजां पूर्ववदाचरेत्
शिष्टलिङ्गे विशेषेणावाहनोद्वाहनन्नहि १९९
सर्वत्र व्यापिनं देवं परमेशं सदाशिवम्
अभीमुखीकरणं यच्च तदावाहनमुच्यते २००
विमुखीकरणं यच्च तदुद्वासनमुच्यते
पूजापरिसमाप्तौ तु विमुखन्तु विसर्जनम् २०१
यथा कुण्डगतस्याग्नेर्वायुनाज्वनं भवेत्
तथा च लिङ्गमन्त्रेण जायते भगवान् शिवः २०२
देवैश्च मुनिभिश्चैव पशुभिः पक्षिजालकैः
मृगादिगणपैश्चैव स्वायम्भुवं प्रतिष्ठितम् २०३
रक्षरक्षो गणैश्चैव यल्लिङ्गन्तु प्रतिष्ठितम्
तच्छिष्टलिङ्गमित्युक्तं शिवसान्निद्ध्यकारणम् २०४
तस्मादावाहनं नास्ति न चैवोद्वासनक्रिया
आवाहनं कुतोदेवकुतोदेवासनं ततः २०५
सुराणां देवतानाञ्च विस्मरन्ति विसर्जनम्
लिङ्गमावाहनञ्चैव लिङ्गमूर्तिरिति स्मृता २०६
आचार्यं सन्निधौ कृत्वा दर्पणश्च तथैव हि
दीपात्दीपसहस्राणि मूलदीपन्न लिप्यते २०७
यस्य देवार्चनं लिङ्गं मूललिङ्गन्नयेत् बुधः
गो इत्यनेकवर्णानि क्षीरमेकं समुद्भवम २०८
मन्त्रमेकं समुत्पन्नं तन्त्रञ्च बहुरूपकम्
कुलालचक्रमृद्भिस्तु नानारूपेण दृश्यते २०९
आचार्यं मनसा द्ध्यात्वा दृक्छायापरमेश्वरम्
शिलामृद्दारुचित्रेषु देवता यत्र कल्पिते २१०
आकल्पितस्वयञ्ज्योतिरात्मनो देवता हि सा
काष्ठादग्निघटे चन्द्रः स्वयमावाहयेत्ततः
यद्देवमर्चयित्वा तु तद्देवमात्मभावनम् २११
कृत्वा हृद्गतमञ्जलिञ्च कुसुमं प्रासादमन्त्रं पठन्
भक्त्यानिष्कलगोचरस्समरसीभावं गतस्साधकः ।
द्ध्यायेद्विक्रमतस्तु शक्तिभवने नादे तथा बिन्दुके
निष्क्रान्तः क्रमतस्तु शक्तिभवने स्यादेवमावाहनम् २१२
पीतं शुक्लं तथारक्तं कृष्णाभं धूम्रवर्णकम्
तथोदीनि बीजानि लवरयहकारकाः २१३
प्रथिव्यादीनि भूतानि ब्रह्माद्याः पञ्चमूर्तयः
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः २१४
अधिदेवास्त्विति ख्याताश्चोर्व्यादीनां यथाक्रमम्
हृच्छिरश्चूलिकामन्त्रैर्वर्मणास्त्रेण बुद्धिमान्
पृथिव्यादीनि बीजानि योजयेत्तु क्रमेण तु २१६
पञ्चोद्धातश्चतस्रश्च त्रयञ्च द्वयमेककम्
पाशुपतेन चास्त्रेण पञ्चग्रन्धिस्तु च्छेदयेत् २१७
पञ्चग्रन्धिं ततः कृत्वा तस्मात्प्रकृतिनिश्चयः
पञ्चग्रन्थितथाच्छेद्य प्रारभेदात्मयोजनम् २१८
जानुग्रन्थिस्तु प्रथमन्नाभिग्रन्थिर्द्वितीयकम्
गलग्रन्थिस्तृतीयन्तु ललाटे तु चतुर्त्थकम् २१९
पञ्चमन्तु शिरोग्रन्थि च्छेदयेत्तु हृदा पुरा
मूर्तिमन्त्रेण सङ्ग्राह्य जीवं हुङ्कारमूर्द्धनि २२०
कुम्भकेन समोपेतं वायुमूद्ध् र्वगतन्नयेत्
तेनैव द्वादशान्तस्थ शिवेन सह योजयेत् २२१
आत्मयोजनमेतत्स्यात्ततो भूतानि शोधयेत्
पृथिव्यादौ पयोवह्नि द्वौ द्वौ शोद्ध्यपरस्परम् २२२
आकाशञ्च विशोधेन यथाशोद्ध्यन्तदुच्यते
निवृत्यादीनि भूतानि ता—द्ध् व—कम् २२३
व्याप्यव्यवस्थितादीनि मत्वातानि विशोधयेत्
दहनं वाथ भूतानां परस्परविशोधनम् २२४
मण्डलादिसमायुक्तं भूतशुद्धिरिहोदिता
शोद्ध्यापरागरहितं कलामात्रव्यवस्थितम् २२५
विचिन्त्य दिव्यदेहार्त्थमत्र चाल्पावनन्नयेत्
ध्यात्वा कुण्डलिनीं शक्तिं मन्त्रतैकस्वरूपिणीम् २२६
तदुत्भूता मृतस्रावैस्सिक्तादेवकलां स्मरेत्
भुजङ्गाकृतिमत्युग्रां प्रबोधैकस्वरूपिणीम् २२७
सप्ताख्यकुण्डलाकारवलयां होमसन्निभाम्
भ्रूमद्ध्यात्तालमात्रस्थ ब्रह्मरन्ध्रे विचिन्तयेत् २२८
तदुत्पञ्चैकपीयूषैरार्द्रं शुद्धं विभावयेत् ।
ग्रन्धिपञ्चकमुच्छेद्य शुद्धात्मानं विभावयेत् २२९
कृत्वा हृद्यासनन्तस्मिन् मूर्त्त्यात्मानं समानयेत्
पुनराप्लवनं कृत्वा करन्यासं समाचरेत् २३०
नाभेस्तु चतुरङ्गुल्यमधस्थादग्निमण्डलम्
कदम्बपुष्पसङ्काशमष्टपत्रं त्रिकोणकम् २३१
मूलाधारमधःप्रोक्तं द्वितीयन्नाभिमूलके
भुजङ्गवलयाकाराप्यष्टवर्त्तुलसंयुता २३२
कुण्डलाख्यामहानाडी भानुमण्डलमुच्यते
आत्मानं गृह्यसंहारमुद्रयाविग्रहाश्रितम् २३३
पञ्चात्मनविधानेन देहादीन्तत्प्रमाणतः
आत्मानमन्तरात्मानं परमात्मानमेव हि २३४
तत्वात्मानन्तथापूतपूर्वात्मानन्तु पञ्चकम्
आत्मा तु दण्डमद्ध्यस्थमन्तरात्मा तदन्तरम् २३५
परमात्माब्जमद्ध्यस्थन्तत्त्वात्मापार्श्वदक्षिणम्
भुतात्मावामपार्श्वे तु पञ्चात्मास्थानमुच्यते २३६
इडा च पिङ्गला चैव सुषुम्नात्रिविधा मता
स्थितोद्धृतानम्रमुखास्त्रिविधास्तत्गुणामताः २३७
पञ्चात्मस्थानमेवोक्तं पार्श्वमद्ध्ये तु ऊहितम्
आत्मानं सात्विकं प्रोक्तमन्तरात्मा च तामसम् २३८
परमात्मा परन्ध्यात्वा तत्वात्मा रजतो मुखम्
भूतकामत्रियाहारविकार —– च २३९
राजावर्तनिभास्सर्वे प्रागादिषु प्रकल्पयेत्
गुणत्रयेण सञ्छाद्य सिंहासनं प्रकल्पयेत् २४०
भुतरूपेषु कोणेषु पादाः कृतयुगादयः
श्वेतं रक्तन्तथा कृष्णं पीतन्त्रेधादिवर्णकम् २४१
अव्यक्तो नियतिः कालो कला चेति चतुष्टयम्
अव्यक्तः स्फटिकाभासो नियतिश्चाञ्जनद्युतिः २४२
कालोदाडिमपुष्पाभः कलाभिन्नाञ्जनप्रभा
प्रागादिष्वेलकाप्रोक्ता मद्ध्यपादस्तु केशवः २४३
एवं योगासनं प्रोक्तं पद्मासनन्ततोपरि
मायातत्वं बृहत्गन्धिश्शुद्धविद्यात्मशोभितम् २४४
विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम्
विद्यातत्वमयन्तत्र कर्णकायां प्रपूजयेत् २४५
बीजं प्रवालवर्णाभमङ्कुरा रजतप्रभम्
तस्य नालन्तुवैडूर्यं कर्णिकारक्तपिङ्गलम् २४६
शङ्खवर्णादलाग्राश्च रक्ताश्वेतदलास्मृताः
किञ्चिल्लोहितपीतानि मद्ध्ये स्यात्केसराणि च २४७
तन्मद्ध्ये कल्पयेद्धीमान् कर्णिकाङ्कनकप्रभाम्
नवबीजानि तन्मद्ध्ये हेमाभानि प्रकल्पयेत् २४८
वामादिशक्तयश्चाष्टौ केसरेषु प्रकल्पयेत्
इन्द्रादीशानपर्यन्तन्न्यसेन्मद्ध्ये मनोन्मनीम् २४९
आत्मतत्वन्न्यसेत्सव्ये विद्यातत्वन्त वामके
मद्ध्यमे शिवतत्वन्तु कल्पयेत्कल्पवित्तमः २५०
एवं पद्मासनं प्रोक्तं तस्योद्ध् र्वे विमलासनम्
मण्डलत्रयमत्रैव कल्पयेद्विपुलासनम् २५१
सिंहासनञ्चतुष्कोणमनन्तञ्च त्रिकोणकम्
पद्मञ्च वर्तुलाकारं षट्कोणं विमलासनम् २५२
योगासनञ्चाष्टकोणमासनं परिकल्पयेत् ।
आवाहनासनं योगे स्नाने सिंहासनं भवेत् २५३
अर्चनायाम्महापद्मं विमलाख्यन्तु भोजने
स्तोत्रसङ्गीतनृत्तेष्वनन्तासनमिहोच्यते २५४
चतुरश्रस्य पीठस्य स्थित्वा लिङ्गमिहोच्यते
सुवृत्तम्मासनं प्रोक्तमष्टाश्रं यनं भवेत् २५५
उपानं पादुका चैव जगती जङ्घमेव च
कुक्षिन्तत्कुमुदं ज्ञेयं बाहुस्स्यात्कम्पमेव च २५६
कण्ठं कण्ठमिति ज्ञेयमधरे त्वधरं भवेत्
महापट्टिललाटन्तं केशान्तं घृतवारिणा १५७
आसीनं वासुनृत्तं वा स्थितं वाशयनन्तु वा
पूजाकाले सुखासीनमन्यकालेषु पूर्ववत् २५८
आसनम्मूर्तिमावाह्याप्येतत्त्रितयमद्ध्वनि
व्याप्तिव्यापकभावेन ज्ञात्वा यजनमारभेत् २५९
आसनं शुद्धविद्यान्तमूर्त्तिशक्त्यन्तगोचरम्
आवाह्यास्य शिरोमूर्त्तिमूर्त्तिमानुपरिस्थितः २६०
देहस्थस्सकलो ज्ञेयो निष्कलोदेहवर्जितः
आप्तौ वादेशग ——————- स्थितः २६१
हंसहंसेति यो ब्रूयाद्धंसोदेवस्सदाशिवः
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् २६२
तिलेषु च यथा तैलं पुष्पे गन्धस्सदाश्रितम्
पुरुषस्य शरीरेऽस्मिन् बाह्याभ्यन्तरसंस्थितम् २६३
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्यतान्त्यजेत्
ज्ञानेन ज्ञेयमालोक्य तथाज्ञानं परित्यजेत् २६४
सकलं पुष्पवत्तत्र गन्धस्यैव तु निष्कलम्
वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कलम् २६५
सकलन्निष्कलाभावे सर्वत्रैव व्यवस्थितम्
लिङ्गं त — सञ्ज्ञात्वा कल्पयेदासनन्तथा २६६
स्वयम्भौ देविके बाणे कल्पयेदेकमासनम्
आर्षे च गाणपेवत्सकल्पयेदासनत्रयम् २६७
मानुषे चैव कर्त्तव्यं पञ्चासनमिति स्मृतम्
आवाहनादियत्कर्म पूर्ववत्परिकल्पयेत् २६८
पूर्वाह्ने सितवस्त्रन्तु मद्ध्याह्ने रक्तवस्त्रकम्
पीतवस्त्रन्तु सायाह्ने सार्द्धयामे तु सर्वशः २६९
आवाहयेत्ततो देवं सद्योजातेन मन्त्रतः
स्थापयेद्वाममन्त्रेणाप्यघोरेण तु सन्निधिः २७०
पुरुषेण निरोधञ्चेशानेन स्वागतं भवेत्
आगतस्य शिवस्यात्र पादौ पाद्यं हृदाददेत् २७१
मुखेष्वाचामनन्दद्यादर्घ्यं शिरसि निक्षिपेत्
अष्टत्रिंशत्कलान्यासम्मकुटादिक्रमेण तु २७२
पञ्चब्रह्मषडङ्गैश्च व्योमव्यापिं समुच्चरन्
जलेनस्नापयेत्पश्चाद्दधिक्षीरघृतैरपि २७३
नालिकेरोदकेनैव मधुनाब्रह्मपञ्चकैः
हृदा वै शालिपिष्टेन घर्षयेल्लिङ्गमादरात् २७४
शिवाम्भसा त संस्नाप्य घर्षयेदामलेन तु
लेपयेद्रजनीं पश्चात् स्नापयेत् गन्धवारिणा २७५
आचमनन्ददेत्पश्चात्पञ्चवक्त्रेषु बुद्धिमान्
वस्त्रेण लिङ्गपीठे तु कारयेत् लम्बनं बुधः २७६
हृदयेन तु मन्त्रेण पुष्पम्मूर्द्धनिदापयेत्
घण्टान्तु ताडयेत्तत्र क्षिपेद्यवनिकान्ततः २७८
वस्त्रोपवीतगन्धञ्च मकुटं कुण्डलन्तथा
हारकेयूरमालाञ्च हृदयेन प्रदापयेत् २७९
धूपदीपं हृदादत्वा पञ्चमावरणान्न्यसेत्
कर्णिकायान्तथैशानं पूजयेत्तु विशेषतः २८०
पूर्वे तत्पुरुषञ्चैव कफोरन्दक्षिणे यजेत् ।
पश्चिमे तु यजेद्वामं सद्योजातन्तु सौम्यके २८१
ईशानं मद्ध्यमे पूज्य पञ्चवक्त्रे तथार्चयेत्
शुद्धस्फटिकमीशानं पुरुषं कुङ्कुमाकृतिम् २८२
सद्योजातन्तु गोक्षीरं पञ्चवक्त्रेषु भावयेत् २८३
सद्योजातं स्थितं देवं वामदेवं सुखासनम्
अघोरन्धनुराकारं पुरुषं वामरूपकम् २८४
ईशानन्नृत्तरूपन्तु पञ्चमन्त्रात्मकं परम्
[[२५०]]
शूलं पाशन्तथा सद्यं वामं परशुमङ्कुशम् २८५
अघोरं खट्गबाणञ्च पुरुषं वज्रनागकम्
अभयं वरदञ्चैव त्वीशानाकृतिरुच्यते २८६
हृदयं पावके पूज्य निर्ऋतौ तु शिखां यजेत्
कवचं वायुदेशे तु शिरोवैशानगोचरे २८७
अस्त्रन्तु दक्षिणे पूज्य ईशाने नयनं भवेत्
शुक्लपीतारुणञ्चैव रक्तं श्यामञ्च कृष्णकम् २८८
वर्णानि च षडङ्गानि त्रिणेत्राश्च चतुर्भुजाः
सव्ये शूलाभयञ्चैव वामे वरकपालकम् २८९
षडङ्गस्यैव वर्णन्तु प्रथमावरणे यजेत्
गर्भावरणमेवन्तु दलमूले तु संयजेत् २९०
अनन्तेशस्तथा सूक्ष्मश्शिवोत्तमश्चेकनेत्रकः
एकरुद्रस्त्रिमूर्त्तिश्च श्रीकण्ठश्च शिखण्डिनः २९१
अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः
अभयं वरदोपेतां टङ्कशूलसमन्विताम् २९२
रक्तं श्वेतन्तथा नीलं पीतं कृष्णञ्च कुङ्कुमम्
शोणं भिन्नाञ्जनप्रख्यं क्रमाद्विद्येशवर्णकम् २९३
अनन्तादिशिखण्ड्यन्तान् प्राक्दलेषु प्रकल्पयेत्
द्वितीयावरणं प्रोक्तं तृतीयावरणं श्रुणु २९४
उत्तरे तु यजेत् गौरीं पूर्वेषु वृषभं यजेत्
गणेशं याम्यदेशे तु गुहं वै वारुणे यजेत् २९५
नन्दिनन्दिमहाकालौ भृङ्गीशञ्चण्डमूर्तिनम्
आग्नेयादिषु कोणेषु पूजयित्वा यथा विधि २९६
द्विनेत्राद्विभुजाश्यामा करण्डमकुटान्विता
किरीटमकुटोपेता केशबन्धयुता तथा २९७
सर्वाभरणसंयुक्ता पादजालसमन्विता
[[२५१]]
दुकूलवसनोपेता चित्रवस्त्रेण वेष्टिता २९८
सर्वावयवसं पूर्णा सर्वलक्षणसंयुता
दक्षिणे कटकं वापि वामहस्तं प्रलम्बितम् २९९
आभङ्गस्यवशात्तत्र लम्बयेत्सूत्रमादरात्
— पुष्पेण तेनैव किम्प्रयोजनम् ३००
भक्तानां सर्वजन्तूनां लोकोपकृतिकारणम्
तस्मात् गौरीकरस्थञ्चाप्युत्पलं ज्ञानहेतुकम् ३०१
गौर्याकृतिस्समुद्दिष्टा सौम्म्यदेशे समर्चयेत्
चतुष्पादं वेदरूपमग्निरूपन्तु श्रृङ्गकम् ३०२
ब्रह्मविष्णोश्च रुद्रस्य रूपं वृषभमुच्यते
एकवक्त्रश्चतुष्पादोऽप्युदरेण खुराकृतिः ३०३
वृषभः श्वेतवर्णस्तु तीक्ष्णश्रृङ्गो महाबलः
प्रासादस्य वृषाणीमाङ्गोश्रृङ्गं मण्टपाकृतिः ३०४
प्राकारे नन्दने चैव शुभानि वृषभालयम् ३०५
केशान्तरे मूर्द्धनि नेत्रमद्ध्ये मुखान्तरे ग्रीवहृदन्तरे च
नाभेश्च मद्ध्ये नलकस्य मद्ध्ये वदन्ति सन्तो वृषभस्य सूत्रम् ३०६
उक्षञ्च गोपतिञ्चैव शङ्खुकर्णन्तथैव च
तीक्ष्णश्रृङ्गं तथैव ————— ३०७
महोदरं त्वष्टमञ्च गोमातारञ्च मद्ध्यमे
स्थितं वा शयनं वापि युगपादं खुरान्वितम् ३०८
सम्पुटत्रयपादन्तु एकपादं बहिस्थितम्
धर्मदेवाकृतिं द्ध्यात्वा वामनं वृषभं तथा ३०९
चणकं मुद्गमाषञ्च तण्डुलं तिलमेव च
प्रत्येकं मुष्टिमात्रं स्यान्नालिकेरगुलान्वितम् ३१०
मुष्टिप्रीहिस्तु मुख्यं वा वृषभं पूजयेत्ततः ३१०
एवं प्रतिदिनं कुर्यात् ग्रामशान्तिकरं शुभम्
[[२५२]]
वृषभस्यार्चनं कुर्यात्पूर्वे चैव विशेषतः ३११
मण्टपे दक्षिणे पार्श्वे सौम्याभिमुखमास्थितम्
रक्तवर्णसमायुक्तं रुचिरासनसंस्थितम् ३१२
चतुर्भुजं त्रिणेत्रञ्च नागयज्ञोपवीतकम्
महोदरं बृहत्कायं गजकर्णं गजाननम् ३१३
लम्बोष्ठं गजहस्तं स्यात्कपित्थलाजधारिणम्
ल”ुकं केतकीपुष्पं सव्यपार्श्वे तु हस्तयोः ३१४
आम्रदन्तं दधानञ्च वामपार्श्वे तथैव च
करण्डमकुटोपेतं पञ्चतालप्रमाणकम् ३१५
गणेशं पद्मपीठस्थं दक्षिणे तु समर्चयेत्
पश्चिमे सव्यपार्श्वे तु गुहेशं सम्यगर्चयेत् ३१६
चतुर्भुजं द्विनेत्रञ्च द्विपादं मकुटोज्वलम्
श्यामवर्णसमायुक्तं मयूरासनसंस्थितम् ३१७
नानारत्नप्रभामौलिमुष्णीषमुत्तरीयकम्
कर्णयोः पत्रपिण्डन्नु नक्रकुण्डलमेव वा ३१८
वज्रशक्तिसमोपेतं वरदाभयहस्तकम्
नानादीप्ताम्बरोपेतं सर्वाभरणभूषितम् ३१९
योगिनीं वामपार्श्वे तु भोगिनीं सव्यपार्श्वके
कुङ्कुमाभाञ्च रक्ताभां तत्तद्वर्णां बरान्विताम् ३२०
उत्पलं पङ्कजं कृत्वा धारयन्तीं क्रमेण तु
आसीनो वा स्थितो वापि प्रभामण्डलसंयुतः ३२१
गुहस्य लक्षणं प्रोक्तं पश्चिमे चैव पूजयेत्
नन्दिनं पावके पूज्य द्विनेत्रं द्विभुजन्तथा ३२२
श्यामवर्णसमायुक्तमुग्रतोमरशूलकम्
जटामकुटसंयुक्तं पूजयेत्तु विशेषतः ३२३
नैर्ऋते तु महाकालं कृष्णवर्णं द्विनेत्रकम्
[[२५३]]
द्विभुजं शुक्लवस्त्राढ्यं द्विपादं भीमरूपकम् ३२४
पाशदण्डसमायुक्तं सर्वाभरनभूषितम्
वायुदेशे समभ्यर्च्य भृङ्गिणञ्च द्विनेत्रकम् ३२५
द्विपादं रक्तवस्त्रञ्च द्विभुजं टङ्कविस्मयम्
सर्वाभरनसंयुक्तं जटामकुटमण्डितम् ३२६
चण्डेशमीशदेशे तु द्विनेत्रं द्विभुजान्वितम्
कर्णस्थपत्रपिण्डाढ्यं श्यामाभण्टङ्कधारिणम् ३२७
द्विपादं श्यामवसनं सर्वाभरणभूषितम्
स्वर्णमकुटसंयुक्तं चण्डरूपमिति स्मृतम् ३२८
तृतीयावरणं प्रोक्तं चतुर्त्थावरणं श्रुणु
इन्द्रादिलोकपालादीनैन्द्रदिक्षुप्रकल्पयेत् ३२९
अनन्तं निर्ऋतौ पूज्य — मीशगोचरे
द्विभुजा च द्विनेत्रा च श्यामवर्णसमायुता ३३०
सव्यहस्ते वज्रधरा वामहस्ते भयन्तथा
रक्ताम्बरसमायुक्ता सर्वाभरणभूषिता ३३१
हस्तिवाहनसंयुक्ता चेन्द्रस्याकृतिरुच्यते
द्विभुजा च द्विनेत्रा च रक्तवर्णसमन्विता ३३२
त्रिपादेन समारक्ता शलाकान्तोर्ध्वकेशका
पीतवस्त्रसमायुक्तसर्वपुष्पैरलङ्कृता ३३३
शुक्लयज्ञोपवीता च शुक्लस्त्रोत्तरीयका
सृवं सव्यकरे ————- ३३४
अजवाहनसंयुक्ता वह्नेराकृतिरुच्यते
कालाञ्जननिभाकारा विद्युत्सदृशदंष्ट्रका ३३५
द्विभुजारक्तकेशा च कुञ्चितभ्रूसविभ्रमा
दण्डायुधसमायुक्ता महिषासनसंस्थिता ३३६
द्विनेत्रा द्विपदा सौम्या सर्वाभरणभूषिता
[[२५४]]
यमस्याकृतिराख्याता भीमरूपं प्रजापते ३३७
द्विभुजञ्च द्विनेत्रञ्च कृष्णवर्णसमन्वितम्
हेमवस्त्रपरीधानं खड्गखेटकसंयुतम् ३३८
नरवाहनसंयुक्तं दंष्ट्राकराललोचनम्
सर्वाभरणसंयुक्तं राक्षसं रूपमुच्यते ३३९
शङ्खकुन्देन्दुधवला द्विभुजा च द्विनेत्रका
सर्वाभरणसंयुक्ता कुण्डलाभ्यं विराजिता ३४०
सव्ये ———————-
सर्वलक्षनसंयुक्ता वरुणाकृतिरुच्यते ३४१
कृष्णवर्णं द्विनेत्रञ्च कुञ्चितभ्रूसविभ्रमम्
द्विपादं शुक्लवस्त्रञ्च द्विहस्तं शुक्लभूषणम् ३४२
सव्येङ्कुशं वहन्वामे प्रलम्बकटकं महत्
मिश्रवर्णाम्बरधरं मृगारूढं सुयौवनम् ३४३
वायुरूपमिति ख्यातं सर्वलक्षणलक्षितम्
द्विभुजा च द्विनेत्रा च श्वेतवर्णसमायुता ३४४
शुक्लवस्त्रपरीधाना सुरत्नमकुटोज्वला
गदाञ्च सव्यहस्ते तु ———- ३४५
अश्ववाहनसंयुक्ता कुबेराकृतिरुच्यते
चतुर्भुजा त्रिणेत्रा च शुक्लवर्णा सुयौवना ३४६
शुक्लयज्ञोपवीता च वृषारूढा सुशान्तका
शूलञ्चाभयहस्तञ्च मृगीटङ्कं तथैव च ३४७
———- व्याघ्रचर्माम्बरान्विता
ऐशानाकृतिराख्याता द्विभुजं वापि कारयेत् ३४८
ब्रह्मा चतुर्मुखा पीतश्चतुर्दोर्दण्डसंयुतः
स्रक्दण्डाक्षकुशाग्रश्च किरीटी हंसवाहनः ३४९
विष्णुश्चतुर्भुजो मौली शङ्खचक्रगदाब्जधृक्
[[२५५]]
नीलाम्बुजप्रतीकाशो गरुडासनसंस्थितः ३५०
चतुर्त्थावरणं ह्येवं पञ्चमावरणं श्रुणु
वज्रादिपद्मवर्यन्तं पूर्वादिषु यथाक्रमम् ३५१
वज्रं शक्तिञ्च दण्डञ्च खड्गं पाशाङ्कुशं तथा
गदात्रिशूलं चक्रञ्च पद्मञ्चैव दशायुधम् ३५२
मद्ध्ये च सप्तमं तारमाशाधिपगणेशयोः
याम्ये तु वीरभद्रेण विघ्नेश्वरसमन्वितम् ३५३
ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डासप्तमातरः ३५४
दक्षिणे दक्षिणे चैव वीरभद्रविनायकौ
ब्राह्मी तु पीतवर्णा स्याद्धंसवाहनसंस्थिता ३५५
चतुर्भुजयुताब्रांही माहेश्वरी महेश्वरः
कौमारी षण्मुखश्चैव वैष्णवी विष्णुरेव च ३५६
वाराही च यमश्चन्द्रो माहेन्द्रीमसृजस्तथा
कालरात्री उमा चैव रूपवाहनचिह्नकैः ३५७
वक्त्रं प्रतिविशेषेण प्रतिवक्त्रं द्विलोचनम्
अभयं वरदञ्चैवाप्यक्षमालाञ्च कुण्डिकाम् ३५८
सर्वाभरणसंयुक्तं जटामकुटसंयुतम्
ब्रांही लक्षणमाख्यातं माहेश्वरीं ततश्श्रुणु ३५९
त्र्यक्षञ्चतुर्भुजं शान्तं शुक्लवर्णसमायुतम्
जटामकुटसंयुक्तामेकवक्त्रसमन्विताम् ३६०
अभयं वरदोपेतां मृगं टङ्कञ्च धारिणीम्
वाहनं वृषभं धन्वा माहेश्वरीं तथैव च ३६१
ईश्वरी लक्षणं प्रोक्तं कौमारी लक्षणं श्रुणु
एकवक्त्रं द्विनेत्रञ्च नीलवर्णस्वरूपकम् ३६२
चतुर्भुजसमायुक्तं द्विपादेन समन्वितम्
[[२५६]]
मयूरं वाहनं कृत्वा जटामकुटमण्डितम् ३६३
अपरे वज्रशक्तिञ्च वराभयकरान्वितम्
कौमारी रूपमाख्यातं वैष्णवीरूपमुच्यते ३६४
त्र्यक्षाचतुर्भुजाशान्ताश्यामवर्णासुयौवना
शङ्खचक्रधरां सौम्यां वराभीतिकरान्विताम् ३६५
वाहनं गरुडं कृत्वा सर्वाभरणभूषिताम्
वैष्णव्याकृतिराख्याता वाराही रूपमुच्यते ३६६
द्विनेत्रा च चतुर्हस्ता मेघवर्णासुमद्ध्यमा
हलञ्च मुसलञ्चैव वरदाभयसंयुताम् ३६७
वाहनम्महिषं कृत्वा सर्वावयवसुन्दरीम्
वाराह्याकृतिराख्याता माहेन्द्राकृतिरुच्यते ३६८
चतुर्भुजा त्रिणेत्रा च तप्तकाञ्चनसन्निभा
वज्रशक्तिसमोपेता वरदाभयहस्तका ३६९
वाहनं वारणं कृत्वा जटामकुटमण्डिता
पीतांशुकसमायुक्ता सर्वाभरणभूषिता ३७०
माहेन्द्र्याकृतिराख्याता चामुण्डाकृतिरुच्यते
चतुर्भुजात्रिणेत्रा च कालाञ्जनसमद्युतिम् ३७१
कटकं शूलहस्तञ्च कपालञ्च धरं करे
कालांशुकसमायुक्ता दरत्स्मेरमुखाम्बुजा ३७२
वाहनं स्यन्दनं कृत्वा दंष्ट्राघोरमुखाम्बुजम्
सर्वाभरणसम्पूर्णं चामुण्डारूपमिष्यते ३७३
पुष्पादिभिश्च —— सुमनादेस्ततोत्तमः
तत्ताडयेत् पटन्तत्र ——- नीय च ३७४
धूपदीपसमायुक्तन्दर्पण ——-
नैवेद्यं दापयेत्पश्चादुपदंशसमन्वितम् ३७५
गुलखण्डसमायुक्तमाज्ययुक्तन्दधिप्लुतम्
[[२५७]]
मन्त्रान्नन्तु कथन्देव ब्रूहि मे त्रपुरान्तक ३७६
मन्त्रं रहस्यमित्युक्तम्मथनादन्नमुच्यते
रहस्यत्वोदनं यत्तु मन्त्रान्नमिति कथ्यते ३७७
त्रिपाद्युपरिविन्यस्य स्थालिकादि गतं हविम्
पेयं लेह्यञ्च चोष्यञ्च युक्तियुक्तन्तु विन्यसेत् ३७८
सम्प्रोक्ष्य हृदयेनैव शोषयित्वा तु हेतिना
अमृतीकृत्यगोस्तन्या —– न्यसेत् ३७९
नैवेद्यं दक्षिणे हस्ते दद्यात्पानीयमुत्तमम्
मिश्रतोयञ्च हंसानां पानं लवायसमुत्तमम् ३७९
देवानां भुक्तिमात्रेण नैवेद्यमपि तत्समम्
कपित्थस्य फलं सारं यावत्कुञ्जरभक्षणम् ३८०
तथैव देवताभुक्तिर्मन्त्रेणैव निवेदयेत्
ईशानस्याभिषेकन्तु नैवेद्यं पुरुषानने ३८१
अघोरस्यार्चनाप्रीतिर्वामस्य प्रार्त्थनाप्रिया
सं ———- पञ्चवक्त्राणि चिन्तयेत् ३८२
गन्धं वाममुखे चैव पुष्पमीशानगोचरे
धूपन्तु सद्यवक्त्रे च दीपं घोरानने स्मृतम् ३८३
नैवेद्यं पुरुषे चैव भावयेत् देशिकोत्तमः
पेयं लेह्यस्य शुद्धान्नं पुरुषे गौलमोदनम् ३८४
अघोरे कृसरान्नञ्च वामे हारिद्रमोरनम्
मुद्गान्नं सद्यवक्त्रे तु कारयेत्तु विशेषतः ३८५
बहुनालघटञ्चैव जलमेकेन पूरितम्
समनालं तृप्तियोरं पुधुषे च निवेदयेत् ३८६
शुद्धान्नं पायसम्मुद्गं गुलान्नं कृसरान्नकम्
हरिद्रान्नन्तिलान्नञ्च घृतान्नन्तु यवोदनम् ३८७
दिनेदिने निवेद्यार्त्थं कल्पयेद्देरिकोत्तमः
[[२५८]]
नैवेद्यं पुरतोन्यस्त्वा चतुस्संस्कारसंस्कृतम् ३८८
कृत्वा सुरभिमुद्राञ्च अन्नमुद्रां प्रदर्शयेत्
परिषेचनन्ततः कृत्वा मेरुमुद्रां प्रदर्शयेत् ३८९
दधिमुद्रां क्षीरमुद्रां घृतमुद्रान्तथैव च
माक्षिकाख्याञ्च मुद्राञ्च मुष्टिमुद्रां प्रदर्शयेत् ३९०
द्रव्याभावे तु नैवेद्ये दर्शयेत् द्रव्यमुद्रिकाम्
अन्नस्योष्णोपशान्त्यर्त्थं शङ्खमुद्रां प्रदर्शयेत् ३९१
पूजाकाले तु नैवेद्यं सर्वलोकस्य शान्तये
दापयेद्विधिनानेनाप्यहमस्मीति मन्त्रतः ३९२
तदाभावे च नैवेद्ये लोकस्थान्भक्षयेद्धरम्
तस्मात्सर्वप्रयत्नेनाप्यर्चनान्ते निवेदयेत् ३९३
पञ्चवक्त्रेषु नैवेद्यन्दद्यात्वरदमुद्रया
अथवाप्यूर्द्ध्ववक्त्रे च नैवेद्यमपि कारयेत् ३९४
हविः प्रदानकाले तु दत्वा चाचमनीयकम्
पाययस्वेति पञ्चानामास्ये तर्पणमाचरेत् ३९५
तत्परं लिङ्गनैवेद्यं सप्तपञ्चत्रिवारकम्
अथवाप्येकवारं वा नैवेद्यन्दापयेत्क्रमात् ३९६
आचार्यो हस्तमुद्धृत्य गौरीहस्ते निवेदयेत्
गौरी हस्तं समुद्धृत्य शिवहस्ते निवेदयेत् ३९७
गौरी हस्तं समुद्धृत्य पुत्रोच्छिष्टन्तु
तस्माच्छिवस्य नैवेद्यं भक्तानान्तु निवेदयेत् ३९८
जलेनाचमनन्दत्वा दिक्बन्धञ्च ततः कुरु
पुनराचमनन्दत्वा चण्डेशाय निवेदयेत् ३९९
द्वारस्य दक्षिणे पार्श्व नन्दिने बलिमाचरेत्
महाकालायवामे तु वृषभाय तदग्रतः ४००
ताम्बूलन्दापयेत्पश्चात्सद्येन तु विशेषतः
[[२५९]]
परिवारबलिन्दत्वा नित्याग्निं कारयेत्बुधः ४०१
सर्वलोकहितार्त्थन्तु नित्योत्सवमतः परम्
नीराञ्जनन्ततः कुर्यात्पुष्पार्घ्ये पात्रके क्षिपेत् ४०२
तन्मद्ध्यमे यजेदस्त्रं गन्धपुष्पादिभिर्बुधः
अघोरेण तथा तिस्रो भ्रामयेल्लिङ्गमूर्द्धनि ४०३
जलेन निक्षिपेदर्घ्यं हृदासं प्रोक्षयेच्छिवम्
दर्शयेल्लिङ्गमुद्रान्तु मन्त्रेण नयनेन च ४०४
सौख्यं कुर्यात्तदन्ते तु शास्त्रदृष्टेन कर्मणा
अर्चनानवधासम्यक् पूजयेत्तु विशेषतः ४०५
दीपाद्यन्तं निवेद्यान्तं बल्यन्तं कन्यसत्रयम्
होमान्तमुत्सवान्तन्तु स्तोत्रान्तं मद्ध्यमत्रयम् ४०६
सौख्यान्तं चुलिकोदान्तं प्राणाग्निहोत्रमेव च
उत्तमत्रयमाख्यातं सापूजाफलदायका ४०७
दीपान्तमर्चनं प्रोक्तन्निवेद्यान्तन्तु पूजनम्
बल्यन्तं शान्तिदं प्रोक्तं फलं वै कन्यसत्रयम् ४०८
होमान्तं विजयं प्रोक्तमुत्सवान्तन्तु शान्तिकम्
स्तोत्रान्तं पौष्टिकं प्रोक्तं फलं वै मद्ध्यमत्रयम् ४०९
सौख्यान्तमुत्तमं विद्धि चुलिकान्तं श्रियावहम्
प्राणाग्निहोत्रं सफलं त्रिविधं परिभाषते ४१०
साङ्गोपाङ्गञ्च प्रत्यङ्गं पूजयेत्त्रिविधं स्मृतम्
स्नानतोयञ्च पाद्यञ्च तथा चाचमनीयकम् ४११
वस्त्रमाभरणञ्चैव सुगन्धं लेपनन्तथा
अर्घ्यञ्च मन्त्रपुष्पञ्च साङ्गञ्चेति प्रकीर्तितम् ४१२
उपाङ्गन्धूपदीपं स्यात्सायरक्षा तु भस्मना
छत्रचामरकञ्चैव दर्पणं दर्शयेत्ततः ४१३
नृत्तगेयसमायुक्तमुपाङ्गञ्चेति कीर्तितम्
[[२६०]]
नैवेद्यं बलिदानञ्च होमन्नित्योत्सवन्तथा ४१४
चुलिकोदञ्च प्रत्यङ्गं त्रिविधं समुदाहृतम्
पाद्यं पादतले न्यस्त्वा आचमनन्तु हस्तयोः ४१५
अर्घ्यं शिरसिविन्यस्य गन्धं कायानुलेपनम्
पुष्पम्मूर्द्धनिविन्यस्य धूपन्नासापुटद्वये ४१६
दीपन्नेत्रेषु विन्यस्याप्यन्नादिविन्यसेत्करे
गन्धतैलन्तथाभ्यङ्गं गव्यपञ्चामृतं फलम् ४१७
गन्धोदकञ्च काषायं वस्त्रमाभरणन्तथा
पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्च धूपकम् ४१८
दीपाथारञ्च दीपञ्च हविश्चैवोपदंशकम्
ताम्बूलम्मुखवासञ्च नीराजनञ्च दर्पणम् ४१९
चामरन्तालवृत्तञ्च छत्रं वै पादुकान्तथा
स्वर्णपात्रञ्चरुस्थालीमुदभाण्डञ्च वर्द्धनीम् ४२०
शङ्खपात्राणि पत्राणि स्नपनार्त्थघटन्तथा
जलद्रोणीञ्च घण्टाञ्च त्रिपादीं शोधयेद्धृदा ४२१
तत्तद्द्रव्याणि पात्राणि प्रत्यहं शोधयेद्बुधः
आवाहनन्तु प्रथमं स्थापनन्तु द्वितीयकम् ४२२
तृतीयं पाद्यतोयं स्यादाचमनञ्चतुर्त्थकम्
पञ्चमञ्चार्घ्यविन्यासं षष्ठञ्चैवाभिषेचनम् ४२३
सप्तमं वस्त्रगन्धञ्चाप्यष्टमं पुष्पपूजनम्
नवमन्धूपदीपं स्याद्दशमन्तु निवेद्यकम् ४२४
एकादशं बलिं कुर्यात् द्वादशं होमकर्म च
त्रयोदशं श्रीबलिञ्च गेयवाद्यञ्चतुर्दशम् ४२५
नृत्तं पञ्चदशञ्चैवाप्युद्वासनन्तु षोडशम्
आवाहनं स्थापनञ्च गन्धपुष्पञ्च धूपकम् ४२६
दीपन्नैवेद्यमेवञ्चाचमनञ्च विसर्जनम्
[[२६१]]
दशोपचारं विज्ञेयं सर्वकर्मार्त्थसाधनम् ४२७
पाद्यमाचमनञ्चार्घ्यं स्नानं वस्त्रविलेपनम्
पुष्पञ्च धूपदीपञ्च नैवेद्यञ्च ततः परम् ४२८
मुद्राबन्धनमस्कारं मन्त्राणाञ्जपमेव च
एवं द्वादशभेदं स्यादुपचारं प्रजापते ४२९
आवाहनासनन्तस्य द्वादशम्मात्रमुच्यते
पाद्यन्तु पञ्चमात्रं स्यात्त्रिमात्रमाचमनीयकम् ४३०
एकमात्रं भवेदर्घ्यं षाण्मात्रं गन्धलेपनम्
पुष्पं द्वादशमात्रं स्यात् धूपं पञ्चदशं भवेत् ४३१
दीपन्तु — मात्रं नीराजनन्तु षोडशम्
भस्मानि दापयेत्पश्चात्सप्तमात्रन्तु कारयेत् ४३२
नीराजनं त्रिमात्रं स्यात् चामरं द्वादशं भवेत्
छत्रन्तु पञ्चमात्रं स्यात् मुनिमात्रन्तु दर्पणम् ४३३
चुलुकोदं त्रिमात्रं स्यात् नैवेद्यं दशपञ्चकम्
बलिदानं तथाकुर्यात् मात्रालक्षणमुच्यते ४३४
घण्टान्तु वामहस्तेन देशिकस्ताडयेत्क्रमात्
गन्धहीने भयोत्पत्तिः पुष्पहीने तु सङ्कटम् ४३५
धूपहीने ध्रुवं रोगं दीपहीने धनक्षयम्
नैवेद्यहीने दुर्भिक्षमग्निहीने तु सङ्कटम् ४३६
बलिहीने ग्रामनाशं नृत्तहीने तु दुःखदम्
मन्त्रहीने तु मरणं क्रियाहीने तु व्याधयः ४३७
सावश्यं धूपदीपं स्यात्सौभाग्यं हविषान्तकम्
बल्यन्तं शान्तिकं प्रोक्तं नृत्तान्तं पौष्टिकं तथा ४३८
सावश्यन्तु त्रिपादान्तं सौभाग्यं पञ्चनाडिका
सौख्यं धामान्तकं प्रोक्तं पादमेकादशं भवेत् ४३९
शान्तिके पौष्टिके चैव नाडिकाक्रममुच्यते
[[२६२]]
दशोपचारदीपान्तं हविष्यन्तन्तु षोडशम् ४४०
बल्यन्तं पञ्चविंशच्च षट्त्रिंशत्ताण्डवान्तकम्
मन्त्रहीनं त्रियाहीनं द्रव्यहीनन्तु यत्कृतम् ४४१
तत्सर्वं कृपयादेव क्षमस्वपरश्वेर
घटिकाद्वौ भवेत्स्नानं घटिकैकार्चनं भवेत् ४४२
घटिकार्द्धन्तु नैवेद्यं बलिदानन्तु तत्समम्
नित्याग्निकार्यमर्द्धन्तु नित्योत्सवं त्रिनाडिका ४४३
स्तोत्रसगीतनृत्तेषु सप्तार्द्धञ्चुलुकोदकम्
पश्चिमद्वारहर्म्ये तु किञ्चित्भेदं शिवार्चने ४४४
उपचाराणि सर्वाणि सद्यवक्त्रे प्रदापयेत्
आसनावरणादीनि पूर्ववत्परिकल्पयेत् ४४५
शिवमन्त्रं जपेत्पश्चाद्यथाशक्तिविशेषतः
प्रदक्षिणनमस्कारमात्मनोर्पणमेव च ४४६
पूजाफलञ्च तत्सर्वमुदकेन प्रदापयेत्
अञ्जलिन्दक्षिणं हस्तं कुञ्चितं चतुरङ्गुलम् ४४७
पुष्पवारिगृहीत्वाथ पादमूले प्रदापयेत्
चुलुकोदमिति ख्यातं पूजयेत्तु प्रजापते ४४८
संहिताञ्च ततः पूज्य गन्धपुष्पादिभिर्बुधः
एवं क्रमेण विधिवत् यजनं चोत्तमं भवेत् ४४९
हविष्यान्तमशक्तश्चेत् दीपान्तं वापि पूजयेत्
एवं यः कुरुते नित्यं सपुण्याङ्गतिमाप्नुयात् ४५०
इति अर्चनाविधिपटलस्त्रिंशत्तमः