०२९ स्नानविधिपटलः

स्नानविधिपटलप्रारम्भः
अथ स्नानविधिं वक्ष्ये शौचाचमनपूर्वकम्
हिताय देशिकादीनां शिवस्य यजनाय च ॥ १ ॥

प्राणिनां नित्यकर्मत्वादावश्यकरणात्पुरा
ब्राह्मे मुहूर्ते चोत्थाय सञ्चिन्त्यगुरुपादुकाम् ॥ २ ॥

शिवसंस्मरणञ्चैव स्तोत्रं बहुविधं वदेत्
गुरूपदिष्टमार्गेण शिवं सञ्चिन्तयेद्धृदि ॥ ३ ॥

ब्राह्मे मुहूर्ते यो विप्रश्शयनं भार्यया सह
कुरुते यदि मूढात्मा सवैकर्मबहिष्कृतः ॥ ४ ॥

ब्राह्मे मुहूर्ते दम्पत्यौ शयाते यत्र मन्दिरे
तत्गृहं पापभूयिष्ठं सदेशः प्रेतमेदिनी ॥ ५ ॥

अतोद्ध्यानं प्रकर्तव्यं निद्रां हित्वा समाहितः
उत्थाय च बहिर्गामात् छौमूर्द्धा च दण्डधृत् ॥ ६ ॥

वामयज्ञोपवीतिश्चाप्येकाकीवाग्यमस्सुधीः
पूर्वापराह्णयोर्भानोर्मण्डलं दक्षिणं यथा ॥ ७ ॥

दक्षिणाभिमुखो रात्रौ तृणमादाय भूतले
मूत्री कृत्वा तु तस्योद्ध् र्वे न शीघ्रं विसृजेन्मलम् ॥ ८ ॥

अनावृत्य शिरोमोहाद्योविप्रो मलमूत्रयोः
उत्सर्गं कुरुते पापी सतुवैब्रह्महा भवेत् ॥ ९ ॥

गोवासे जलतीरे वा नद्यास्तीरे श्मशानके
कूपे चैव द्रुमच्छायां चत्वरे च समुद्रगे ॥ १० ॥

शैत्यवृक्षे च वल्मीके हलाकृष्टस्थलेऽपि वा
देवागारे भूधरे च दृषदादौ च शाड्वले ॥ ११ ॥

स्त्रीणां गोविप्रलिङ्गानां सम्म–न्द्र—:
विरामूत्रौ च न कर्तव्यौ ग्रहे वा वश्यकक्रियाम् ॥ १२ ॥

स्नानमाचमनञ्चैव सन्ध्योपासनमेव च
सर्वमन्त्रात्मकत्वाच्च कूपस्नानन्न दोषभाक् ॥ १३ ॥

तृणलोड्योपलेनाथ मृत्पिण्डेनैव वागुदम्
प्रमृजेद्वामहस्तेन शेफं सङ्गृह्य बुद्धिमान् ॥ १४ ॥

दक्षिणेन मृदं ग्राह्य सम्प्रविश्य जलाशयम्
तीरं प्रक्षाल्य तद्देशे मृदं क्षिप्त्वाथशर्कराम् ॥ १५ ॥

तृणमूल्यादिकान्त्यक्त्वा जलेनार्द्री कृतान्तुताम्
आमलीफलमात्रेण सव्येनादाय वामके ॥ १६ ॥

निक्षिप्य वामहस्तेन घर्षयेत्तु पुनःपुनः
जलन्नीत्वा तु सव्येन सप्तापाने करेनव ॥ १७ ॥

मृदाशोद्ध्य गृहस्थस्य द्विगुणं ब्रह्मचारिणाम्
गृहस्थत्रिगुणं ज्ञेयं यतीनान्तु चतुर्गुणम् ॥ १८ ॥

यावन्मानं मनश्शुद्धिस्तावच्छौचं विधीयते
वामे तराणां यज्ञन्तु कृत्वा चैवोत्तराननम् ॥ १९ ॥

दन्तानन्तर्बहिश्शोद्ध्य दन्तकाष्ठैस्तु घर्षयेत्
करञ्जरी च बिल्वात्थं खादिरञ्चार्जुनन्तथा ॥ २० ॥

अपामार्गञ्च बुत्बूरं वटप्लक्षञ्च केशरम्
अम्रैर्जम्बुपलाशैर्वा निम्बेन दन्तधावनम् ॥ २१ ॥

सङ्गृह्य दन्तकाष्ठन्तु कनिष्ठाङ्गुलिनाहकम्
वस्वङ्गुलन्तु दैर्घ्यं स्याद्दन्तधावनमाचरेत् ॥ २२ ॥

प्राङ्मुखो वाथ पादौ च हस्तौ प्रक्षाल्य तन्मुखम्
वामपादञ्जले स्थित्वा स्थले दक्षिणपादकम् ॥ २३ ॥

जानुमद्ध्यकरोभूत्वा हस्ते गोकर्णवत्कृते
माषमग्नजलं ग्राह्य निर्दोषं त्रिःपिबेत् बुधः ॥ २४ ॥

आस्यं द्विःप्रमृजेदस्त्रं सकृत्मृज्यमुखं शनैः
पादावभ्युक्ष्यमूर्द्धानमङ्गुष्ठानामिकेन तु ॥ २५ ॥

चक्षुषिसंस्पृशेद्विद्वान् तर्जन्यङ्गुष्ठकेन तु
नासिद्वारपुटौ स्पृष्ट्वा कनिष्ठाङ्गुष्ठकेन तु ॥ २६ ॥

श्रोत्रौ स्पृष्ट्वा जलोपेतम्मद्ध्याङ्गुष्ठेन बाहुकौ
नाभिमङ्गुष्ठकेनैव सर्वाङ्गुल्यग्रपिण्डितम् ॥ २७ ॥

हृत्प्रदेशन्तु संस्पृश्य सर्वाङ्गुल्यग्रमूर्द्धनि
ऋग्यजुस्सामवेदानां त्रिःपानं तृप्तिरिष्यते ॥ २८ ॥

आस्यद्विमार्जनादत्राप्यथर्वेदेतिहासयोः
सकृन्मार्जनाद्वक्त्रस्य गणेशस्य प्रियं भवेत् ॥ २९ ॥

पाच्छिरोभ्युक्षणेनैव ऋषीणान्तु प्रियं भवेत्
नयनस्पर्शनेनैव प्रियं स्यात्सोमसूर्ययोः ॥ ३० ॥

नासिका स्पर्शनेनैवाप्यश्विन्योस्तु प्रियं भवेत्
श्रोत्रसंस्पर्शनेनैव दिशाप्रीतिकरं भवेत् ॥ ३१ ॥

इन्द्रविण्वनलानाञ्च बाहुनाभिहृदस्पृशात्
मूर्ध्निसंस्पर्शनेनैव शिवप्रीतिकरं भवेत् ॥ ३२ ॥

क्षुधे च कफजाते च सद्यश्चाचमनं कुरु
स्पर्शयित्वा ततश्श्रोत्रमङ्गुष्ठेनास्यकम्मृजेत् ॥ ३३ ॥

आचम्येवंविधानेन स्नानार्त्थाय मृदं पुनः
शुद्धिं सङ्ग्राह्यतीरे तु त्रिधा कृत्वा तु शोधिताम् ॥ ३४ ॥

प्राक्पिण्डम्मूलमन्त्रेण याम्यपिण्डं हृदा तथा
अघोरेणैव मन्त्रेणाप्युत्तरञ्चाभिमन्त्रयेत् ॥ ३५ ॥

अस्त्रेण प्रक्षिपेद्दिक्षु दशस्वपि यथाक्रमम्
याम्यपिण्डं समादाय स्वाङ्गमालिप्य मन्त्रवित ॥ ३६ ॥

मूर्द्धानं वक्त्रहृदये गुह्यं पादौ तु भागशः
हृदयेनास्त्रमन्त्रेण सर्वाङ्गानि स्पृशेत्क्रमात् ॥ ३७ ॥

सौम्यपिण्डं क्षिपेदप्सु बाहुभ्रमणकान्तरे
अवगाह्य जले तत्र मूलमन्त्रमनुस्मृरन् ॥ ३८ ॥

स्नायाद्राजोपचारैस्तु रजन्यामलकादिभिः
स्वसूत्रोदितमार्गेण सन्ध्योपस्थानमाचरेत् ॥ ३९ ॥

जप्त्वा ब्रह्मषडङ्गानि तीर्त्थं सङ्ग्राह्य चात्मनि
जलादुत्तीर्य तद्वस्त्रमात्रं त्यक्त्वा समाहितः ॥ ४० ॥

देवानृषीन्पितृृंश्चैव वामाघोरकसद्यकैः
कनिष्ठाङ्गुष्ठमूलाभ्यां देवांस्तर्प्योदपुष्पयुक् ॥ ४१ ॥

कङ्गुल्यग्रेण हस्ताभ्यां मुनीन्तर्प्यकुशैस्तथा
कनिष्ठाङ्गुलिमूलाभ्यां मनुष्याणां तथैव च ॥ ४२ ॥

यज्ञं कृत्वापसव्यन्तु जलैस्तु तिलमिश्रकैः
दक्षिणाङ्गुष्ठतर्जन्योर्मूलेनैव पितृृनपि ॥ ४३ ॥

प्रत्येकमेकविंशद्भिस्सङ्ख्याभिस्तर्पयेद्गुरुम्
आचम्म्यपुनराचम्म्यपुष्पहस्तो विशेत् गृहम् ॥ ४४ ॥

वारुणं स्नानमाख्यातं भस्मस्नानमथ श्रुणु
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् ॥ ४५ ॥

तत्फलं कोटिगुणितं भस्मस्नानाञ्च सिद्ध्यति
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥ ४६ ॥

लोकवश्यकरं पुण्यं भस्मस्नानं दिनेदिने
ज्वरापस्मारपैशाचब्रह्मराक्षसनाशकृत् ॥ ४७ ॥

भुक्तिदम्मुक्तिदं दिव्यं साक्षात्कैवल्यदायकम्
गङ्गास्नानसहस्रन्तु मन्त्रस्नानं सदक्षिणम् ॥ ४८ ॥

विभूतेरणुमात्रेण सर्वस्नानफलं भवेत्
निष्कद्वयन्तथानिष्कं निष्कार्द्धकमथापि वा ॥ ४९ ॥

भस्मस्नानार्त्थमुद्दिष्टं पापनिर्हरणक्षमम्
भस्मदेवाकृतिं वक्ष्ये विशेषेण महेश्वरम् ॥ ५० ॥

त्रिणेनं त्रिशिरं रौद्रं त्रिहस्तं गुणवक्त्रकम् ।
त्रिपादं वह्निनयनं भस्मकुण्ठितविग्रहम् ॥ ५१ ॥

ताण्डवाडम्बरं भीमं रक्तपुष्पोपशोभितम्
रक्षामन्त्रेश्वरं देवं द्ध्यात्वाशान्तिं लभेन्नरः ॥ ५२ ॥

कपिलागोमयं ग्राह्यमथवासितगोमयम् ।
भूमौ वा पतितं तेन पिण्डम्मूलेन कारयेत् ॥ ५३ ॥

संशोद्ध्य सद्यमन्त्रेण वामदेवेन पाचयेत्
अघोरेणैव मन्त्रेणाप्यग्निहोत्रेऽथवा पुनः ॥ ५४ ॥

मृत्पात्रे लाबुपात्रे वा नीत्वा तु बहुरूपिणा
प्रक्षाल्यपाणिपादौ चाप्याचम्म्य पुनराचरेत् ॥ ५५ ॥

सकृत् जप्त्वा तु मन्त्राणि भस्मोद्धूलनकं कुरु
उद्धूलने त्वशक्तश्चेत्त्रिपुण्ड्रं सर्वसन्धिषु ॥ ५६ ॥

त्रिपुण्ड्रं भस्मना कृत्वा सार्द्रेण धवलेन च
यथा गङ्गाजलं शुद्धं तथा भस्मापि पावनम् ॥ ५७ ॥

भासयत्यखिलं ज्ञानं नित्यं भासयते च यत्
भक्षणात्सर्वपापघ्नं भस्मेति परिगीयते ॥ ५८ ॥

भस्मस्नानविहीनस्तु शिवपूजान्न कारयेत्
भस्मस्नानं पुरा कृत्वा शिवपूजां समाचरेत् ॥ ५९ ॥

विप्राणां क्षत्रियाणाञ्च मूलादिचरणान्तकम्
विशान्तु शूद्रजातीनां नाभ्यन्तं परिकीर्तितम् ॥ ६० ॥

अन्येषां सर्वजातीनां भस्मस्नानं विनाचरेत्
उद्धूलने त्वशक्तश्चेत्त्रिपुण्ड्रादीनि धारयेत् ॥ ६१ ॥

षडङ्गुलप्रमाणेन ब्रांहणानां त्रिपुण्ड्रकम्
नृपाणां चतुरङ्गुल्यं वैश्यानान्तु त्रयङ्गुलम् ॥ ६२ ॥

शूद्राणां द्विरङ्गुलं प्रोक्तं स्त्रीणामेकाङ्गुलं भवेत्
अनुलोमादिसर्वेषां त्रिपुण्ड्रं पितृवत् ॥ ६३ ॥

त्रिपुण्ड्रञ्चैव विप्राणां वर्तुलं नृपवैश्ययोः
अर्द्धचन्द्रन्तु शूद्राणामन्येषामूर्ध्वपुण्ड्रकम् ॥ ६४ ॥

भस्मवामकरे स्थाप्य दक्षिणेनाभिमन्त्रयेत्
मद्ध्याङ्गुलिजलैर्युक्तमपरे जलवर्जितम् ॥ ६५ ॥

त्रिपुण्ड्रं विधिनाधार्यं सर्वदोषनिकृन्तनम्
ब्रह्माविष्णुर्महेशश्च रेखात्रयमिति स्मृताः ॥ ६६ ॥

अधोब्रह्मा ततो विष्णुस्कन्धोर्ध्वे तु महेश्वरः
द्वात्रिंशत् सन्धिदेशेषु ह्यथवा षोडशेष्वपि ॥ ६७ ॥

अष्टसन्धिषु वा मन्त्री त्रिपुण्ड्रं विधिना कुरु ।
मूर्द्धाललाटकर्णौ च चक्षुषीघ्राणकस्तथा ॥ ६८ ॥

आस्यङ्ग्रीवा तथाप्यंसौ बाहुकूर्परके तथा
मणिबन्धौ च हृन्नाभि मेढ्रं पायुस्तथैव च ॥ ६९ ॥

ऊरू च जानुकौ चैव जङ्घे स्फिजौ तथैव च
पादद्वयं तथैव स्युः द्वात्रिंशत्सन्धयः क्रमात् ॥ ७० ॥

प्रियं वै चाष्टमूर्तीनां विद्येशानां भवादिनाम्
दिक्पालानां वसूनाञ्च मूर्द्धादिपरिकल्पयेत् ॥ ७१ ॥

ग्रीवाललाटमंसौ च बाहू च कूर्परे तथा
हृदयं जठरञ्चैव पार्श्वे च मणिबन्धकौ ॥ ७२ ॥

नाभिपृष्ठञ्च विज्ञेयास्सन्धयः षोडशक्रमात्
शिरोललाटकर्णञ्च बाहू च हृदयन्तथा ॥ ७३ ॥

नाभिः पृष्ठमिति ज्ञेयास्त्वष्टौ वै सन्धयः क्रमात्
शिरोललाटहृन्नाभि पादानि पञ्चसन्धयः ॥ ७४ ॥

शिरईशानमन्त्रेण पुरुषेण मुखन्तथा
हृत्प्रदेशमघोरेण गुह्यं वै वाममन्त्रतः ॥ ७५ ॥

सद्यो जातं न्यसेत्पादे सर्वाङ्गं प्रणवेन तु
शिवादिपञ्चमूर्तीनां वामादीनां तथैव च ॥ ७६ ॥

अश्विन्योस्तु प्रियं ज्ञेयं मूर्द्धादिपरिकल्पयेत्
क्रमेण ब्रांहणानाञ्च देवतानां प्रियं भवेत् ॥ ७७ ॥

पञ्चाङ्गुलेन मूर्ध्नि स्यात्प्रासादेन तु मन्त्रतः
ललाटे तु त्रयङ्गुल्यं शिरोमन्त्रेण देशिकः ॥ ७८ ॥

सद्येन दक्षकर्णौ तु वामदेवेन वामतः
अघोरेण तु कर्णौ च मद्ध्याङ्गुल्येन संस्पृशेत् ॥ ७९ ॥

हृदये हृदयेनैवाप्यङ्गुल्यैस्त्रिभिरेव च
विन्यस्य दक्षिणे बाहौ शिखामन्त्रेण देशिकः ॥ ८० ॥

वामबाहौ न्यसेद्धीमान् कवचेन त्रयङ्गुलम्
संस्पृश्य नाभावीशेन कारयेत्तु विचक्षणः ॥ ८१ ॥

शिरस्थाने स्वयं ब्रह्मा ललाटेस्कन्द एव च
कर्णे भुजङ्ग एवोक्तं बाहुयुग्मे च केशवम् ॥ ८२ ॥

हृदये चैश्वरः प्रोक्तो नाभौ चैव प्रजापतिः
जानुनोरश्वनीदेवौ पादाभ्यां पन्नगस्तथा ॥ ८३ ॥

भस्मालेपनमात्रेण स्वस्था मद्ध्या भवन्ति हि
भस्मस्नानं जलस्नानात्पुण्यं कोटिगुणाधिकम् ॥ ८४ ॥

निक्षिपेन्मूलमन्त्रेण सर्वज्ञानार्हको भवेत्
भस्मस्नानं समाख्यातम्माहेन्द्रस्नानमुच्यते ॥ ८५ ॥

आदित्यरश्मिसम्बन्धं वृष्टीनां यत्र सम्भवेत्
पदसप्तोत्तरे गम्य मूलमन्त्रमनुस्मरन् ॥ ८६ ॥

वर्तमानेर्करश्मिश्च वृष्टौ सततमिष्यते
प्राङ्मुखश्चोद्ध् र्वबाहुश्च वामे सव्येतरे स्थिता ॥ ८७ ॥

वामपादाग्रविन्यस्य सव्यपादैकमूलके
मूलमन्त्रं जपित्वाथ यावद्वै पदसप्तकम् ॥ ८८ ॥

आदित्याभिमुखः पश्चात्तन्नमस्कृत्य बुद्धिमान्
एवं कृते महापापान्मुच्यते नात्र संशयः ॥ ८९ ॥

स्नानम्माहेन्द्रमित्युक्तं मारुतं त्वधुना श्रुणु ।
पूर्वाह्ने वा पराह्ने वा रजसागोद्धृते न तु ॥ ९० ॥

अभिषिक्तस्तदा मन्त्री मूलमन्त्रमनुस्मरन् ।
मारुतस्त्रानमित्युक्तं मन्त्रस्नानं ततः श्रुणु ॥ ९१ ॥

मन्त्रस्नानन्तदेतेषां सर्वपापनिकृन्तनम्
मारुतस्नानमन्त्रे तु प्रक्षाल्यजानुपादयोः ॥ ९२ ॥

प्रक्षाल्यपादावाचाम्य पात्रे क्षिप्त्वा जलन्तथा
व्योमव्यापि पदैश्चैव षडङ्गैर्ब्रह्मपञ्चकैः ॥ ९३ ॥

मूलेनैव तु तत्तोयमभिमन्त्र्य सकृत्सकृत्
संस्पृशेत्तेन तोयेन मूलमन्त्रेण वर्मणा ॥ ९४ ॥

मूर्द्धादिपादपर्यन्तं त्रिधा संस्पर्शयेत्ततः
मन्त्रस्नानं समाख्यातं सर्वपापक्षयो भवेत् ॥ ९५ ॥

सर्वव्याधिविनिर्मुक्तिस्सर्वसिद्धिकरं परम्
वारुणं भस्ममाहेन्द्रम्मारुतम्मन्त्रसञ्ज्ञकम् ॥ ९६ ॥

एवं पञ्चविधं स्नानं सर्वकार्येषु पूजितम् ॥ ९७ ॥

इति स्नानविधिपटल एकोनत्रिंशतिः