०२८ मुद्रालक्षणपटलः

मुद्रालक्षणपटलप्रारम्भः
अथ वक्ष्ये विशेषेण मुद्राणां लक्षणं परम्
मदं करोति देवानां द्रावयत्यसुरांस्तथा ॥ १ ॥

मोदनाद्रावणाच्चैव मुद्रेयं सम्प्रकीर्तिता
लिङ्गमुद्रा नमस्कारा तालाख्या शङ्खमुद्रिका ॥ २ ॥

सुरभी मुकुली चैव वाराही चैव निष्ठुरा
बीजाख्या पञ्च वक्त्री च द्रव्यमुद्राशिखाख्यका ॥ ३ ॥

संहारमुद्रिका चैव सादाख्या चैव मुद्रिका
आसनी च महेशाख्या वज्राख्या शक्तिमुद्रिका ॥ ४ ॥

दण्डमुद्रा तथा खट्गा पाशमुद्राङ्कुशाख्यका
गदामुद्रा च शूलाख्या पद्ममुद्रा तथैव च ॥ ५ ॥

चक्रमुद्रा तथा टङ्का महामुद्रा तथैव च
घण्टामुद्रास्त्रमुद्रा च शरमुद्राधनुस्तथा ॥ ६ ॥

मुद्राणामुच्यते चैव द्वात्रिंशल्लक्षणं परम्
अङ्गुष्ठञ्चोद्ध् र्वगम्मुष्टिं कृत्वा वामेन वेष्टयेत् ॥ ७ ॥

लिङ्गमुद्रा तु विख्याता प्रच्छन्नेति प्रदर्शयेत्
मणिबन्धौ तु संयोज्य चाङ्गुल्यश्चोद्ध् र्वगाः क्रमात् ॥ ८ ॥

सन्निवेश्य हृदिस्थाने नमस्कारेति चोच्यते
हस्ताभ्यान्तडयेत्तालमुद्रां कुर्यात्तु शोथने ॥ ९ ॥

तर्जनीमूलपर्वस्थावगुष्ठावञ्जली कृतौ ।
एषा हि शङ्खमुद्रा स्यात्स्नानकाले प्रदर्शयेत् ॥ १० ॥

मणिबन्धन्ततः कृत्वा चाङ्गुष्ठौ तलमद्ध्यगौ
तर्जनी मद्ध्यमे लग्नौ कनिष्ठाभ्यामनामिके ॥ ११ ॥

मुद्रे यं सुरभिख्याता द्रव्यशुद्ध्यर्त्थकारिणी
संयोज्यं तेन हस्ते तु चान्तरे सुषिरन्तयोः ॥ १२ ॥

बिसिनी मुकुला कारा स्नानान्ते तु प्रदर्शयेत्
कृत्वा करतलेङ्गुष्ठौ श्लिष्टोद्ध् वाशेषतः क्रमात् ॥ १३ ॥

कृते च वराहनीख्याता कुर्यादावाहने तथा
मुष्टिं कृत्वा तु हस्तौ च करपृष्ठौ च योजयेत् ॥ १४ ॥

कनिष्ठौ प्रसृतौ दीर्घौ निष्ठुरौ सन्निरोधने
अङ्गुष्ठौ प्रक्षिपेन्मद्ध्ये कनिष्ठौ प्रसृतौ युतौ ॥ १५ ॥

बीजमुद्रे यमाख्याता दर्शयेच्छक्तिकल्पने
द्वौ हस्ततलिको योज्य मद्ध्याङ्गुल्यग्रसंयुतौ ॥ १६ ॥

तर्जन्न्यानामिकौ योज्या चाङ्गुष्ठाभ्यां कनिष्ठके
इयं पञ्चमुखीख्याता दर्शयेद्वक्त्रकर्मणि ॥ १७ ॥

कराभ्यामञ्जलिं कृत्वा सवक्त्रो स्यादनामिके
तयोरग्रौ तु संलग्नौ शेषाश्च प्रसृतास्तथा ॥ १८ ॥

द्रव्यमुद्राभवेदेषा द्रव्याभावे प्रदर्शयेत्
उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ॥ १९ ॥

प्रसार्यमद्ध्यमे ज्ञेयौ शिखाख्यस्थापने तथा
वामाङ्गुलयःप्रसृता चाङ्गुष्ठद्वयसंस्थितम् ॥ २० ॥

दक्षिणे मुष्टिबन्धस्थमङ्गुष्ठञ्चोद्ध् र्वसंस्थितम्
तन्मुष्टिमूद्ध् र्वकं कृत्वा सामुद्रासंहृतावरा ॥ २१ ॥

उत्तानौ तु करौ कृत्वा वेणिबन्धन्तु कारयेत्
तर्जन्यौ च कनिष्ठौ च प्रसृतौ संयुतौ तथा ॥ २२ ॥

मुद्रासदाशिवाख्याता वाहनान्ते प्रदर्शयेत् ।
उत्तानौ तु करौ कृत्वा वेणिबन्धं तथा कुरु ॥ २३ ॥

प्रसार्य मद्ध्यमाङ्गुष्ठौ तर्जन्याङ्गुष्ठसंयुतौ
निधायाङ्गुष्ठशिरसा तर्जन्यग्रे विशेषतः ॥ २४ ॥

अनामिकाग्रौ संलग्नौ वक्रेणैव समायुतौ
कनिष्ठौ चोद्धृतौ युक्तौ मद्ध्यमन्तु तथा भवेत् ॥ २५ ॥

आसनाख्या तथा कुर्यात् सिंहासनं प्रकल्पयेत्
उत्तानौ तु करौ कृत्वा वेणिबन्धन्ततः कुरु ॥ २६ ॥

प्रसार्य मद्ध्यमाङ्गुष्ठौ कनिष्ठौ च समायुतौ
महेशाख्या तु सामुद्रा प्रतिष्ठान्ते प्रदर्शयेत् ॥ २७ ॥

उत्तानौ तु करौ कृत्वा कनिष्ठाङ्गुष्ठसंयुतम्
तर्जन्यनामिका मद्ध्या प्रसृता च तथा भवेत् ॥ २८ ॥

सव्योपरिस्थिताया च वज्रमुद्रा प्रकीर्तिता
उत्तानौ तु करौ कृत्वा चाङ्गुष्ठौ तलमद्ध्यगौ ॥ २९ ॥

शेषाः परस्परं प्रोक्ष्य तर्जनी प्रसृतौ युतौ
शक्तिमुद्रेति विख्याता मुष्टिं कृत्वा तु दक्षिणम् ॥ ३० ॥

तर्जनी प्रसृतौ दीर्घौ दण्डेयं परिकीर्तिता
पताकादक्षिणं कृत्वा बाह्योच्छचलनन्तथा ॥ ३१ ॥

खट्गमुद्रेति विख्याता पूजादौ तु प्रदर्शयेत्
उत्तानौ तु करौ कृत्वा मुष्टिं बद्ध् वा विशेषतः ॥ ३२ ॥

प्रसार्य चाङ्गुष्ठतर्जन्यावधश्चोद्ध् र्वं प्रयोजयेत्
उत्तराङ्गुष्ठतर्जन्न्यामुत्तराङ्गुष्ठयोगतः ॥ ३३ ॥

पाशमुद्रा भवेदेषा पाशच्छेदनहेतुका
उत्तानौ तु करौ कृत्वा कुञ्चितावामतर्जनी ॥ ३४ ॥

प्रसार्य तर्जनी सव्यान्यस्त्वामुष्टियथाङ्कुशा
उत्तानौ तु करौ कृत्वा मद्ध्यमौ प्रसृतौ युतौ ॥ ३५ ॥

अन्यावक्रास्समायुक्ता गदाख्येयं प्रकीर्तिता
द्विहस्ताङ्गुलयश्चोद्ध् र्वमद्ध्यतर्जन्यनामिकाः ॥ ३६ ॥

कनिष्ठाङ्गुष्ठकालग्नौ मुद्रेयं शूलसञ्ज्ञका
उत्तानौ तु करौ कृत्वा वेणिबन्धन्तु कारयेत् ॥ ३७ ॥

मद्ध्यमे कुञ्चिताङ्गुष्ठौ शेषाः प्रविरलास्तथा
पद्ममुद्राभवेदेषा तलोपरितलन्न्यसेत् ॥ ३८ ॥

कनिष्ठाङ्गुष्ठसुव्यक्तौ चक्रमुद्रा प्रकीर्तिता
उत्तानौ तु करौ कृत्वा मणिबन्धन्तु कारयेत् ॥ ३९ ॥

प्रसार्य मद्ध्यमा युक्तौ तर्जनी कुञ्चितावुभौ
टङ्कमुद्रा भवेदेषा सर्वशत्रुविनाशिनी ॥ ४० ॥

हस्ताभ्यां संस्पृशेद्धीमान् कादिपादान्तकं यथा
एषामुद्रामहामुद्रा करसंस्कारकर्मणि ॥ ४१ ॥

उत्तानौ तु करौ कृत्वा वेणिबन्धन्तु कारयेत्
प्रसार्य मद्ध्यमौ द्वौ तु शेषामुष्टिस्तु कुण्डलौ ॥ ४२ ॥

घण्टामुद्राभवेदेषा भूतपैशाच नाशिनी
उत्तानौ तु करौ कृत्वा हस्तयोस्तत्परस्परम् ॥ ४३ ॥

अङ्गुष्ठतर्जनीभ्यान्तु स्फोटनञ्चास्त्रमुद्रिका
उत्तानौ तु करौ कृत्वा सव्यमूद्ध् र्वे तु दक्षिणम् ॥ ४४ ॥

प्रसार्य मद्ध्यमौ द्वौ च त्वधश्वोद्ध् र्वं विचक्षणः
शरमुद्रा भवेदेषा सर्वायुधजिता भवेत् ॥ ४५ ॥

उत्तानौ तु करौ कृत्वा मुष्टिबन्धद्विहस्तयोः
दक्षिणं कर्णमूले वा कर्षयेद्वामहस्तकम् ॥ ४६ ॥

धनुर्मुद्रा भवेदेषा सर्वशत्रुविनाशिनी ॥ ४७ ॥

इति मुद्रालक्षणपटल अष्टाविंशतिः