कलान्यासविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण कलान्यासविधिक्रमम्
कूटब्रह्मकलां वक्ष्ये कलाशक्तिसमन्विता ॥ १ ॥
कलाः पुमांस इत्युक्तास्तत्कलाशक्तयस्त्रियः
निष्कलाश्चेति विख्याता तत्कलाशक्तयः कलाः ॥ २ ॥
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कला
अघोरस्य कलाश्चाष्टौ वामदेवे त्रयोदश ॥ ३ ॥
अष्टौ सद्यकलाश्चैव मकुटादिक्रमान्न्यसेत्
ईशानश्चेश्वरो ब्रह्मा शिवश्चेति सदाशिवः ॥ ४ ॥
तत्पुरुषश्च महादेवो रुद्रश्चेति प्रचोदयात्
अघोरश्चाप्यघोरश्च घोरघोरतरस्तथा ॥ ५ ॥
सर्वतस्सर्वशर्वश्च रुद्रस्य घोरकस्य तु
वामो ज्येष्ठश्च रुद्रश्च कलाश्चैव कलास्तथा ॥ ६ ॥
विकरीणो बलश्चैव विकरेणौ बलस्तथा
बलप्रमथनस्सर्वभूतश्चात्मन एव च ॥ ७ ॥
सद्योजातश्च सद्यश्च भवश्च भव एव च
तथानादिभवश्चैव भवस्वेति भवोद्भवः ॥ ८ ॥
कलास्त्वेतास्समाख्याताः कलाशक्तिरथोच्यते
शशिनी चाङ्गदा चेष्टा मरीची ज्वालिनी तथा ॥ ९ ॥
पञ्चैताश्शक्तयः प्रोक्ताः कलानां पञ्चमस्य तु
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ॥ १० ॥
चतस्रश्शक्तयः प्रोक्ताः कलानां पुरुषस्य तु
तमो मेधाक्षया निष्ठाधृः तिक्षान्तिः स्मृतिः क्षितिः ॥ ११ ॥
अघोरस्य कलानान्तु चाष्टौ वैशक्तयः स्मृताः
रजोरक्षारतिः पाल्या वामासंयमनीक्रिया ॥ १२ ॥
तृष्णामोहाक्षुधापीताग्रामणीभ्रामणी तथा
वामदेवकलानान्तु शक्तयस्तु त्रयोदश ॥ १३ ॥
ऋद्धिवृष्टिर्द्युतिर्लक्ष्मीर्मेधाकान्तिर्बुधाः प्रजाः
सद्यमन्त्रकलानान्तु ह्यष्टौ वै शक्तयस्मृताः ॥ १४ ॥
ईशानस्य कलाः पञ्च न्यसेदीशानमूर्द्धसु ।
पूर्वे च पश्चिमे याम्ये सौम्ये चैव क्रमेण तु ॥ १५ ॥
चतुष्टयेषु वक्त्रेषु पुरुषस्य कलान्न्यसेत् ।
हृदये कण्ठदेशे चाप्यंसयोरुदरेऽपि च ॥ १६ ॥
नाभौ पृष्ठौ रसश्चैव घोरस्यैव कलान्यसेत्
गुह्ये गुदे च मेढ्रे चाप्यूर्वोर्जान्वोश्च जङ्घयोः ॥ १७ ॥
स्फिक् द्वयोश्चैव कट्याश्च वामदेवकलान्न्यसेत्
पादयोरुभयोश्चैव हस्तद्वितलयोरपि ॥ १८ ॥
बाह्वोरास्ये शिरश्चैव सद्योजातकलां न्यसेत्
उक्तस्थाने कलाश्चैव विन्यसेच्छक्तिसंयुतः ॥ १९ ॥
गौरी कलास्त्वहं वक्ष्ये गौरी बीजसमुद्भवाः
ताराचेशकला ज्ञेया विद्यावक्त्रकलास्मृताः ॥ २० ॥
मृत्युः श्रद्धारजो मेधा स्वधा स्वस्तिश्च वर्मणा
पालिनी ज्वालिनी तृष्णा धृतिः क्षामा मतिः प्रजा ॥ २१ ॥
चिन्ताभूतिः क्रियाक्षान्तिर्वामदेवकला इमे
शान्तिर्दान्तिर्दयासूतिर्द्युतिस्सिद्धा तु सद्यजा ॥ २२ ॥
पञ्चविंशत्कला ह्येते गौरीदेहे तु विन्यसेत्
तारञ्च विन्यसेन्मूर्ध्नि वक्त्रे विद्याञ्च विन्न्यसेत् ॥ २३ ॥
हृदये च गले चांसौ जठरे नाभिदेशके
अघोरस्य कलान्न्यस्त्वा योनौ गुह्यप्रदेशके ॥ २४ ॥
ऊर्वोर्जानुद्वयोश्चैव जङ्घयोश्च प्रकोष्ठके
उभयोः पार्श्वयोश्चैव वामदेवकलान्न्यसेत् ॥ २५ ॥
पादयोरुभयोश्चैव हस्तयोरुभयोरपि
स्तनयोरुभयोश्चैव सद्योजातकलान्न्यसेत् ॥ २६ ॥
उक्तस्थाने कला चैव विन्न्यसेच्छक्तिसंयुतम्
कलावर्णञ्च तत्वञ्च पदमन्त्रञ्च भौवनम् ॥ २७ ॥
एवं षडध्वमार्गेण मन्त्रेन्यासं समारभेत्
पञ्चब्रह्मकलाब्रह्मपञ्चपूर्वोक्तवन्न्यसेत् ॥ २८ ॥
एवमक्षमतो वापि केवलन्तु कलान्यसेत्
एवं लिङ्गप्रतिष्ठान्तं न्यासं कुर्वति देशिकः ॥ २९ ॥
महेशप्रतिमानान्तु ऊद्ध् र्ववक्त्रप्रदेशके
ईशानस्सर्वविद्यानां शशिन्याद्याश्चमूर्ध्निषु ॥ ३० ॥
तत्पुरुषाय विद्महे भूते चेति वक्त्रके
समानञ्चैव सर्वेषामघोरादि क्रमेण तु ॥ ३१ ॥
अघोरस्य कलाश्चैव वामदेवकलास्तथा
सद्योजातकलाश्चैव वामदेवकलास्तथा ॥ ३२ ॥
सद्योजातकलाश्चैव प्येकविंशत्कलान्यसेत्
एकविंशत्कलाह्येते गौरीदेवीन्तु विन्यसेत् ॥ ३३ ॥
अन्यासां देवतानाञ्च प्रतिष्ठायां तथाक्षरान्
अक्षराणान्तु विन्यासं प्रवक्ष्यामि प्रजापते ॥ ३४ ॥
आदौ नादस्समुत्पन्नो नादात् बिन्दुः प्रजायते
बिन्दोश्शक्त्या कृतिर्जाता शक्तेराद्यः स्वरो भवेत् ॥ ३५ ॥
तस्मात्स्वरद्वये जातास्तेषां भेदास्त्रयोदश
स्वराष्षोडशका जीवा कादयोऽपि च संस्मृताः ॥ ३६ ॥
प्राणोपाधिविभेदेन पञ्चाशन्मातृका स्मृताः
तैरेव चार्चिता देवास्सर्वशास्त्रे प्रजापते ॥ ३७ ॥
अकारादिक्षकारान्तं मातृकां विन्यसेत्क्रमात्
शिरोललाटनेत्रेषु कर्णयोस्तु द्विगण्ढयोः ॥ ३८ ॥
नासिकोष्ठद्वयोश्चैव दन्तपङ्क्तिद्वयोरपि
जिह्वायां तालुमूले च स्वराष्षोडशविन्यसेत् ॥ ३९ ॥
कवर्गं सव्यहस्ते तु चवर्गं वामहस्तके
टवर्गं दक्षिणे पादे तवर्गं वामपादके ॥ ४० ॥
पफौ दक्षिणपार्श्वे तु बभौ वै वामपार्श्वके
कण्ठदेशे मकारन्तु कुक्षौ पृष्ठे तथान्यसेत् ॥ ४१ ॥
रसत्वग्रक्तमेदोऽस्थिमज्जाशुक्रधातुषु
यकारादिसकारान्तं क्रमेणैव तु विन्न्यसेत् ॥ ४२ ॥
हकारं हृदिविन्यस्य लकारं वृषणे तथा
क्षकारं मेढ्रदेशे तु प्रणवेन समन्वितम् ॥ ४३ ॥
बिन्दुनादसमायुक्तं नमस्कारयुतन्न्यसेत् ॥ ४४ ॥
इति कलान्यासविधिपटलस्सप्तविंशतिः