०२६ आचार्यलक्षणपटलः

आचार्यलक्षणपटलप्रारम्भः
आचार्यलक्षणं वक्ष्ये लिङ्गसंस्थापनाय च
पञ्चशैवास्समाख्यातास्सिद्धान्ते तु प्रजापते ॥ १ ॥

प्रथमो नादिशैवस्तु सशैवस्तु सदाशिवः
आदिशैवोद्वितीयस्तु सशिवब्राह्मणस्मृतः ॥ २ ॥

आदौ सदाशिवेनैव दीक्षितस्त्वादिशैवकः
कौशिकः काश्यपश्चैव भारद्वाजोऽथ गौतमः ॥ ३ ॥

अगस्त्यश्चैव पञ्चैते पञ्चवक्त्रेषु दीक्षिताः ।
कौशिकश्शिवमूर्त्या तु दीक्षितश्शिवगोचरः ॥ ४ ॥

काश्यपस्त्वीश्वरेणैव शिखागोचरसंस्थितः ।
ईशानेन भरद्वाजो दीक्षितो ज्योतिगोचरः ॥ ५ ॥

गौतमो ब्रह्ममूर्त्त्या तु सावित्री गोचरस्थितः
अगस्यश्चोद्ध् र्ववक्त्रेण दीक्षितो व्योमगोचरः ॥ ६ ॥

ऋषीणामेव पञ्चानां गोचरास्सम्प्रकीर्तिताः ।
आदिशैवा इमे ख्याताः गोचरं कुलमुच्यते ॥ ७ ॥

कुलेष्वे तेषु सञ्जाता स्थापनादिक्रियार्हकाः
सदाप्रवर्त्तकास्त्वेते ह्यादिशैवा इति स्मृताः ॥ ८ ॥

तृतीयन्तु महाशैवस्सशैवो विप्र उच्यते
चतुर्त्थश्चानुशैवोक्तो नृपश्चैव तथास्मृतः ॥ ९ ॥

पञ्चमोऽन्तरशैवस्तु शूद्रश्चेति तथामतः
बिन्द्वर्द्धेनाश्रितः प्रोक्तस्त्वादिशैव इति स्मृतः ॥ १० ॥

आदिशैवा इति प्रोक्ता महाशैवस्तु कथ्यते
महाशैवाश्रितः प्रोक्तश्चानुशैव इति स्मृतः ॥ ११ ॥

अनुशैवाश्रितः प्रोक्तश्चानुशैवोऽपि कथ्यते
महाशैवानुशैवाश्च तथा चान्तरशैवकाः ॥ १२ ॥

आत्मार्त्थयजनं कुर्यान्नकुर्यात्तु परार्त्थकम्
तेषु मन्त्रेण शूद्रस्तु ज्ञात्वा सम्पूजयेच्छिवम् ॥ १३ ॥

आदिशैवस्य कर्त्तव्यम् आत्मार्त्थञ्च परार्त्थकम्
स्थापनं यजनं सर्वञ्चादिशैवार्हको विदुः ॥ १४ ॥

कृतञ्चेदन्यथा स्यातामभिचाराय चैव हि
यथागोरन्न्यवत्सव्यन्नदु ऋत्येव तद्रसम् ॥ १५ ॥

तस्मात्सर्वप्रयत्नेन आदिशैवेन कारयेत्
कुमारी हिमवन्मद्ध्यं पूतं कृष्णमृगोद्भवम् ॥ १६ ॥

जातश्चात्रादिशैवश्च आचार्याः परमस्मृताः
अद्ध्यापकञ्चाद्ध्ययनं याजनं यजनन्तथा ॥ १७ ॥

दानप्रतिग्रहञ्चैव षट्कर्मनिरतस्सदा
जातस्तत्रादिशैवस्तु तथा चार्यवरस्त्रयः ॥ १८ ॥

शैवसिद्धान्ततत्वज्ञो देवाग्निगुरुभक्तिमान् ।
सर्वाचारसमायुक्तस्तपस्वी जनवत्सलः ॥ १९ ॥

सहिजिष्णुर्जितश्रीमान् जितेन्द्र्यो विगतस्पृहः
हेयोवेदार्त्थतत्वज्ञस्तत्वार्थे तु व्यवस्थितः ॥ २० ॥

धर्मत्रियादिनिपुणो वीतरागोविमत्सरः
परापवादहीनश्च रन्ध्रान्वेषिणहीनकः ॥ २१ ॥

परतत्वे सदाद्ध्यायी शिवशासनतत्परः
सर्वशास्त्रार्त्थकुशलस्समयाचारपालकः ॥ २२ ॥

ग्रहस्थस्सरसो वाग्मी सुशीलः प्रियदर्शनः
शिखी च बद्धकेशो वाश्मश्रु रोमादिवर्जितः ॥ २३ ॥

अरोगीदीक्षितश्शैव मन्त्रमुद्राक्रियान्वितः
पदवाक्यप्रमाणज्ञः पशुशास्त्रपराङ्मुमुखः ॥ २४ ॥

शिवतन्त्रैकचित्तात्मा सर्वप्राणि हितेरतः
वास्तुविद्या कृताभ्यासश्शल्योद्धारविशारदः ॥ २५ ॥

सर्वावयवसम्पूर्णस्सर्वलक्षणलक्षितः
ईदृक् लक्षणसम्पन्नस्थापकश्रेष्ठ उच्यते ॥ २६ ॥

पिङ्गाक्षोडाम्भिकः कुब्जो वामनः कुनखी कृशः
व्यसनी निर्दयस्तब्धः चपलः पारदारिकः ॥ २७ ॥

व्रतच्युतश्शठः क्लीबो दीनोनैपुण्यवर्जितः
सन्यासी तार्किकश्शुद्धः शिवशास्त्रच्युतो वरः ॥ २८ ॥

पण्याङ्गनोपजीवी च कृतघ्नो नास्तिकः खलः
गुरुदेवद्विजातीनां निन्दकोदन्तुरो भिषक् ॥ २९ ॥

खल्वटश्श्यावदन्तश्च कुसुमाक्षी च पातकः
शिपिविष्टोधिकाङ्गश्च नास्तिकश्चातिदीर्घकः ॥ ३० ॥

हीनाङ्गः विशुनश्चैव दुश्शीलो दन्तहीनकः
बालो बहुगुणोपेतो वृद्धो विकटदन्तकः ॥ ३१ ॥

परापवादो व्यसनी बधिरश्विबुकस्तथा
अतिस्थूलश्च काणश्च धूर्तो वै रक्तकेशकः ॥ ३२ ॥

गायकोनर्तकश्चैव खञ्जोनग्नो व्रतच्युतः
दुराचारी जडः पङ्गुः पतितः पापकर्मभुक् ॥ ३३ ॥

आलस्यो विकटाङ्गश्च रोमशस्त्वतिभोजकः
एभिस्सलक्षणैर्युक्तो गर्हितस्सर्वकर्मसु ॥ ३४ ॥

आदिशैवकुले जातास्तादृशास्थापकास्मृताः
देशिकारब्धतन्त्रे तु निपुणावीतसंशयाः ॥ ३५ ॥

स्थापकाश्चानुकूलास्ते त्वभिप्रायविदस्तथा
मूर्त्तिज्ञामूर्त्तिपास्सर्वे सर्वकर्मसुपेशलाः ॥ ३६ ॥

आचार्यस्साधकश्चैव पुत्रकस्समयस्तथा।
दीक्षिताश्च प्रतिष्ठाश्च आचार्यस्यैव योग्यकः ॥ ३७ ॥

व्याख्याता शिवशास्त्राणामुत्सवे स्नपनेऽपि च
पवित्रारोपणञ्चैव शान्तिके पौष्टिके तथा ॥ ३८ ॥

अन्येष्वपि च सर्वेषु मन्त्रकर्मसुयोग्यकः
तस्यैव साधकस्यापि दीक्षास्थापनवर्जितः ॥ ३९ ॥

त्रियासर्वास्त्वयोग्यास्स्युः पुत्रकस्तु विशेषतः
व्याख्यानं वर्जयेत्ताभ्यां समयीनामनन्तरम् ॥ ४० ॥

कुर्यादात्मार्त्थमर्चाञ्च शुश्रूषा देशिकादिषु
अन्यकर्मविशेषेण वर्जयेत्तु विचक्षणः ॥ ४१ ॥

पञ्चानां कौशिकादीनां गुरुस्थापनमुच्यते
कौशिकस्य महच्छत्रं काश्यपस्य उपानहम् ॥ ४२ ॥

भरद्वाजमुनेश्चैव नाभोद्भवं प्रकीर्तितम्
नातिगीरिकञ्चतुर्त्थस्य चण्डोमं पञ्चमस्य तु ॥ ४३ ॥

ऋषीणाञ्चैव पञ्चानां गुरुस्थानं प्रकीर्तितम्
शिवगोचराविज्ञेया गुह्यमन्त्रेण संयुताः ॥ ४४ ॥

शिखागोचरविख्यातो वाममन्त्रेण संयुतः
ज्योतिर्गोचरसञ्ज्ञेयो घोरमन्त्रेण संयुतः ॥ ४५ ॥

सावित्री गोचरो यस्तु बहुरूपेण संयुतः
व्योमगोचरगो यस्तु चैशमन्त्रेण संयुतः ॥ ४६ ॥

गोचरस्त्विति विख्यातो वर्गिणश्च ततश्श्रुणु
कौशिको नन्दको दक्षो विश्वामित्रस्सुनन्दनः ॥ ४७ ॥

वाल्मीकी च मुनिस्सत्यं पुलस्त्यो विपुलस्तथा
अतिदीर्घश्च वक्राङ्गो बोधायनस्सनातनः ॥ ४८ ॥

सनत्कुमारो मेधावी वाल्मीको मद्ध्यमस्तथा
आश्लायनश्चाङ्गिश्च शिवगोचरवर्गिणः ॥ ४९ ॥

काश्यपोङ्गिरसस्थूलः कर्दपश्च्यवनोदकः
नाट्यायनश्च शाण्डिल्यश्शङ्कुकर्णः पुरान्तनः ॥ ५० ॥

शङ्खस्थूलशिखिश्चैव मुख्यो वै रोमहर्षणः
आपस्तम्भा इमे सर्वे शिखा गोचरवर्गिणः ॥ ५१ ॥

भारद्वाजस्त्रिशङ्कुश्च मार्क्कण्डेयो शनोरजः
सुमहादेवलोजङ्खः पिङ्गलोवरुणस्तथा ॥ ५२ ॥

विश्वसृड्व्याघ्रपादश्च रोमश्चान्तरवाजसः
कृष्णश्चैव इमे सर्वे ज्योतिर्गोचरवर्गिणः ॥ ५३ ॥

गौतमोगलपश्चैव मुद्गलोवयवस्तथा
गव्यश्च विजयश्चैव बिन्दुश्चोपन्तवस्तथा ॥ ५४ ॥

ऋग्यश्वाङ्गो वसिष्ठश्च कात्यायनो बृहस्पतिः
सावित्रिगोचराश्चैव पुनस्ते व्योमगोचराः ॥ ५५ ॥

भूधरोगौ तमश्चैव श्वेतःकौत्सोविभावसुः
पराशरश्च बिलशश्शम्बरो नीललोहितः ॥ ५६ ॥

पलवश्च इमे सर्वे व्योमगोचरवर्गिणः
कुलेष्वे तेषु सञ्जातास्त्वादिशैवा इति स्मृताः ॥ ५७ ॥

एतेषां सङ्करं ज्ञात्वा वैवाह्यङ्कुरुदेशिक
शैवञ्चतुर्विधं ज्ञेयं शैवं पाशुपतन्तथा ॥ ५८ ॥

सोमं लागुलमित्येते चतुर्भेदाः प्रकीर्तिताः
एतेषु शैवभेदेषु यदातेनैव देशिकः ॥ ५९ ॥

तत्तन्मन्त्रेण कर्त्तव्या स्थापनादिक्रियान्विताः
एतेषु दीक्षितेष्वेषु सर्वान्वै स्थापनादिकान् ॥ ६० ॥

यः करोत्यन्यतन्त्रेण तन्त्रसङ्करमुच्यते
तेन दोषेण तद्वास्तु राजाराष्ट्रञ्च नश्यति ॥ ६१ ॥

तस्मात्सर्वप्रयत्नेन वर्जयेत्तन्त्रसङ्करम्
वामदक्षिणसिद्धान्तस्त्रिविधं शुद्धशैवकम् ॥ ६२ ॥

मूलावतारतन्त्रादि शास्त्रं यद्वामशैवकम्
तत्भेदानि च सर्वाणि प्रोक्तं द्विजमयापुरा ॥ ६३ ॥

स्वच्छन्दादीनि शास्त्राणि दक्षिणं शैवमुच्यते
आचार्येण समायुक्तं मया प्रोक्तं पुरा तथा ॥ ६४ ॥

कामिकादीनि तन्त्राणि सिद्धान्ता इति कीर्तिताः
सङ्करन्दोषमतेषां वर्जयेत्तु प्रयत्नतः ॥ ६५ ॥

कामिकं योगजं चिन्त्यं कारणं त्वजितन्तथा
दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान्सुप्रभेदकम् ॥ ६६ ॥

विजयञ्चैव निश्वासं स्वायम्भुवमथानिलम्
वीरञ्च रौरवञ्चैव मकुटं विमलन्तथा ॥ ६७ ॥

चन्द्रज्ञानञ्च बिम्बञ्च प्रोद्गीतं ललितन्तथा
सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च ॥ ६८ ॥

किरणं वातुलं त्वेतास्त्वष्टाविंशतिसंहिताः
वातुलान्ताः कामिकाद्याः प्रादुरासन् शिवास्यतः ॥ ६९ ॥

एतेषामेकभेदत्वान्न दोषन्न तु सङ्करम्
कश्चिदेषविशेषोऽस्ति तं विशेषं श्रु द्विज ॥ ७० ॥

प्रारब्धं येन तन्त्रेण तत्तन्त्रेण समापयेत्
नोक्तञ्चेदन्यतन्त्रेण तत्सर्वन्तु समाचरेत् ॥ ७१ ॥

समापयेद्यागकार्यं यागार्त्थञ्च व्रतञ्चरेत्
सम्भवे सूतकप्रेते चाशौ चन्नतुसंस्पृशेत् ॥ ७२ ॥

येनैव वर्तमानायाः त्रियायाः कारणं विना
साचान्येन कृता चेत्तु तत्स्यादाचार्यसङ्करः ॥ ७३ ॥

गुरुणाकरणस्यैव विरोधे सति यत्र तु
सात्रिया तस्य शिष्येण कर्तव्या तेन शास्त्रतः ॥ ७४ ॥

अन्यधासा कृता चेत्तु कर्तृनाशं न संशयः
ज्ञात्वाचार्यस्य सद्भावं त्रिया करणकौशलम् ॥ ७५ ॥

ज्ञात्वा सिद्धान्नवैदूष्यं पाठकर्मबलन्तथा
एवमादीन् परीक्ष्याथ कारकं सङ्ग्रहेद्गुरुः ॥ ७६ ॥

अज्ञात्वा तस्य वृत्तान्तं गुरुसङ्ग्रहणं कृतम्
तत्कृतं विफलं प्राहुः कर्तृनाशं धनक्षयम् ॥ ७७ ॥

अज्ञेनस्थापितं बिम्बं पुनः संस्थापयेद्बुधः
स्थापनादावभावे तु राज्ञां मरणमादिशेत ॥ ७८ ॥

अतस्संस्थापनं दक्षैः करणीयं विशेषतः ॥ ७९ ॥

इति आचार्यलक्षणपटलष्षड्विंशतिः