यागशालालक्षणपटलप्रारम्भः
समानतो यागशाला लक्षणं वक्ष्यतेऽधुना
मण्टपं कुण्डवेदीञ्च स्रुक्स्रुवावष्टमङ्गलम् ॥ १ ॥
दशायुधवितानञ्च दर्भमाला च दिक् ध्वजम्
कदलीपूगदामानि दुकूलकबरीकचम् ॥ २ ॥
नारङ्गलिकुचंस्रक्च गात्रवेष्टनदर्पणम्
तोरणं पुष्पमाला च कुम्भं तस्य च वर्द्धनम् ॥ ३ ॥
घटं वा कलशं वापि नालिकेरं तिलाक्षतम्
गन्धपुष्पगुलञ्चैव द्रव्याण्यन्यानि यानि च ॥ ४ ॥
होमद्रव्याणि सर्वाणि समापाद्य विधानवित्
उत्सवे च प्रतिष्ठायां दीक्षायां प्रोक्षणेऽपि च ॥ ५ ॥
स्नपनादिषु कार्येषु यागमण्टपमुच्यते
प्रासादस्याग्रतो वापि पूर्वे याम्ये च वारुणे ॥ ६ ॥
सौम्ये दिशीशके वापि पावके वा विधीयते
त्रिपञ्चरससप्ताष्ट नवपङ्क्तिश्च रुद्रयुक् ॥ ७ ॥
भानुत्रयोदशं विंशत् द्वात्रिंशत् हस्तमानकम्
एतैर्मानैः क्रमात्कुर्यान्मण्टपञ्चतुरश्रकम् ॥ ८ ॥
आशोद्ध्यवसुधां सम्यक् जानुपर्यन्तमेव च
समीकृत्वौ पलिप्याथ तस्मिन्वास्तु समर्चयेत् ॥ ९ ॥
मण्टपं कारयेद्धीमान्मात्राङ्गुलवशात्क्रमात्
मण्टपेषु च सर्वेषु पूर्वे वाष्टादशक्रियाम् ॥ १० ॥
गुप्तशल्यनिवृत्यर्त्थं प्रकुर्यात्तु विचक्षणः
उत्तमत्रयलिङ्गेषु द्वात्रिंशद्धस्तमिष्यते ॥ ११ ॥
विंशतिर्मद्ध्यमेषूक्तो कन्यसेष्टादशङ्करम्
रसाष्टद्वादशं हस्तः पवित्रादिषु कर्मसु ॥ १२ ॥
बाणसप्तत्रिहस्तं वा चललिङ्गेङ्कुरेऽपि वा
मानमादौ विनिश्चित्य मण्टपं कारयेत्सुधीः ॥ १३ ॥
लिङ्गस्य स्थापने चैव सकलस्थापने तथा
उत्सवे प्रोक्षणे चैव दीक्षायां बाणलिङ्गके ॥ १४ ॥
प्रकर्त्तव्यं विधानेन पदे भुवनसञ्ज्ञके
विमानस्थापने चैव त्रिशूलस्थापने तथा ॥ १५ ॥
विमानप्रोक्षणे चैव तत्पवित्राधिवासने
कार्यं रुद्रपदे चैव गेहद्वादशसूत्रकैः ॥ १६ ॥
चललिङ्गप्रतिष्ठायामष्टबन्धनकर्मणि
प्रायश्चित्तादिके कार्ये सकलप्रोक्षणेऽपि च ॥ १७ ॥
कार्यन्नन्दपदे धीमान् शेषं युक्त्या प्रकल्पयेत्
सूत्रपातं प्रकुर्वीत प्रागग्रञ्चोत्तराग्रम् ॥ १८ ॥
शालिपिष्टार्द्धसूत्रेण पङ्क्तिसूत्रमथाचरेत्
मण्टपाभ्यन्तरं सर्वमेकाशीति पदं कुरु ॥ १९ ॥
ब्राह्म्यन्नवात्मकं प्रोक्तं दैविकं षोडशं क्रमात्
चतुर्विंशतिसङ्ख्यञ्च मानुषं पदमीरितम् ॥ २० ॥
द्वात्रिंशदात्मकं ज्ञेयं पैशाचं यागवेश्मनि
मानुषञ्च पदन्तत्र देशिकस्थानमुच्यते ॥ २१ ॥
मद्ध्ये ब्रह्मपदे वेदी देविके मङ्गलाष्टकम्
मानुषे च पदे कुण्डं पैशाचे तोरणं भवेत् ॥ २२ ॥
मद्ध्ये त्वेकपदे कुम्भं प्रधानं वर्द्धनीमुमाम्
अभितः पदविद्येशान्देविकेषोडशाह्वये ॥ २३ ॥
अष्टमङ्गलमित्युक्तञ्चतुर्विंशतिसञ्ज्ञके
मानुषे कुण्डमित्युक्तं द्वात्रिंशत्पदसञ्ज्ञके ॥ २४ ॥
पैशाचे तोरणञ्चैव कलशश्च यथाक्रमम्
वृक्षञ्च खादिरञ्जातिक्रमुकन्नालिकेरकम् ॥ २५ ॥
न्यग्रोधं वेणुदण्डञ्च पङ्क्तिमानमथोच्छ्रयम्
नाहं विंशतिरङ्गुल्यं क्रिमिकाटरवर्जितम् ॥ २६ ॥
मण्टपं वापि कूटं वा प्रपां वापि प्रकल्पयेत्
नालिकेरदलेनैव तालपूगदलेन वा ॥ २७ ॥
ऊद्ध् र्वमाच्छादयेत् मन्त्री नीरन्ध्रन्तु सलक्षणम्
द्वादशस्तम्भसंयुक्तं षोडशस्तम्बसंयुतम् ॥ २८ ॥
षट्त्रिंशत्स्तम्भसंयुक्तञ्चतुष्षष्ट्यङ्घ्रिसंयुतम्
दशाष्टषट्करोत्सेधैश्श्रेष्ठादीनामनुक्रमात् ॥ २९ ॥
षड्विंशद्धस्तदीर्घं स्यादष्टतालसु विस्तरः
वितानमद्ध्ययोर्मद्ध्ये यागसद्मनिदेशिकः ॥ ३० ॥
कलातालोत्तमं विद्धि मद्ध्यमं रवितालकम्
कन्यसं वसुतालं स्यात् तोरणञ्चार्द्धविस्तरम् ॥ ३१ ॥
षडङ्गुलं समारभ्य यावन्मन्वङ्गुलान्तकम्
तोरणाङ्घ्रिं प्रकुर्वीत याज्ञिकैः पादपैस्तथा ॥ ३२ ॥
तद्विस्तारं त्रिधाभज्य तेषु शूलन्न्यसेद्बुधः
शूलं रसाङ्गुलायामं नेत्राङ्गुलसुविस्तरम् ॥ ३३ ॥
व्योमाङ्गुलघनन्तत्र कल्पयेद्देशिकोत्तमः
ऋषिबाणाग्निदर्भाग्रैर्विंशत्यङ्गुललम्बनम् ॥ ३४ ॥
सप्तद्वित्र्यङ्गुलं योज्यं कारयेद्दर्भमालिकाः
नेत्राङ्गुलमिदं रज्जु बन्धयेत्तोरणाग्रके ॥ ३५ ॥
अष्टदिक्षुद्ध् वजानष्टौ लम्बयेत्तु प्रदक्षिणम्
पूर्वस्यां पीतवर्णन्तु पावके रक्तवर्णकम् ॥ ३६ ॥
नीलाम्बुजनिभं याम्ये धूमाभं राक्षसे ध्वजम्
क्षीराभं वारुणे देशे शबलाभन्तु मारुते ॥ ३७ ॥
तप्तहेमनिभं सौम्ये स्फटिकाभन्तुशाङ्करे
गायत्र्यङ्गुलविस्तारं द्विकलाङ्गुलमायतम् ॥ ३८ ॥
विस्तारेण समं पुच्छं पुच्छार्द्धं शिखरं भवेत्
ध्वजमद्ध्ये लिखेद्धीमान् दिग्गजांश्च विशेषतः ॥ ३९ ॥
चतुःपुच्छं त्रिपुच्छं वा पुछद्वयमथापि वा
पूर्वद्वारोत्तरे कुम्भे नन्दिशान्ति द्विकुम्भकौ ॥ ४० ॥
तद्याम्ये त्रिषु कुम्भेषु शककालरविं यजेत्
अग्निञ्चानलदिक् भागे कुम्भमेकं प्रपूजयेत् ॥ ४१ ॥
याम्यस्य पूर्वदिक्भागे भृङ्गिविद्या द्विकुम्भकौ
तत्पश्चाद्यमविघ्नेशौ कुम्भयुग्मं प्रपूजयेत् ॥ ४२ ॥
नैर्ऋत्यां त्रिषु कुम्भेषु ब्रह्मानिर्ऋतिकेशवम्
प्रतीच्यान्दक्षिणे भागे वृषभञ्च निवृत्तिकम् ॥ ४३ ॥
तस्योत्तरत्रिकुम्भेषु स्कन्दोमावरुणान्यजेत् ।
वायौ च वायुविघ्नेशौ कुम्भयुग्मं प्रपूजयेत् ॥ ४४ ॥
उदीच्यां पश्चिमे भागे द्विकुम्भे संयजेत् गुरुः
गौरीप्रतिष्ठा तत्पूर्वे तथा सोमञ्च चण्डकम् ॥ ४५ ॥
ईशाने त्रिषु कुम्भेषु गुरुमीशविधिं यजेत्
वास्तुपन्निर्ऋतिं विष्णुं द्विपदे तु प्रकल्पयेत् ॥ ४६ ॥
तथा च वरुणस्कन्दौ श्रियञ्च द्विपदे क्रमात्
गुरुमीशविधिञ्चैव द्विपदे तु प्रशस्यते ॥ ४७ ॥
अन्येषां सर्वदेवानां तत्तत्स्थानेषु पूजयेत्
दिव्यन्तरिक्षभूमिष्ठ विघ्नानुद्वास्य बुद्धिमान् ॥ ४८ ॥
दक्षजङ्घासमुत्क्षिप्य वामजङ्घां विवर्जयेत्
दक्षिणाग्रे पार्ष्णिदेशं चतुरङ्गुलमुन्नतम् ॥ ४९ ॥
भूमौ त्रिताडनं कृत्वा पार्ष्णिघातं विधीयते
शान्तिभूतिबलारोग्य तोरणेषु प्रकल्पयेत् ॥ ५० ॥
उत्तमं त्रिंशदङ्गुल्यं मद्ध्यमं षोडशाङ्गुलम्
अधमं द्वादशाङ्गुल्यं वेदिकोत्सेधमुच्यते ॥ ५१ ॥
कुण्डं सलक्षणं कुर्यात् मानाङ्गुलवशेन तु
उत्तमन्तु शिलाधानं मद्ध्यमं त्विष्टिका तथा ॥ ५२ ॥
कन्न्यसं मृण्मयं प्रोक्तं त्रिविधं कारयेत्क्रमात्
कुण्डं हस्तप्रविस्तारं त्रिमेखलसमायुतम् ॥ ५३ ॥
त्रिमेखलं त्रितत्वञ्च ब्रह्मविष्ण्वीशरूपकम्
मूले चैव विधातारं मद्ध्यमे विष्णुदैवतम् ॥ ५४ ॥
अग्रे शिवमयं कृत्वा त्रिमेखलाधिदैवतम्
शिवमेखलविस्तारम् उत्सेधन्तु यथाङ्गुलम् ॥ ५५ ॥
अग्न्यङ्गुलन्तु विस्तारमुत्सेधं विष्णुमेखला
अङ्गुलद्वयविस्तारमुत्सेधं शिवमेखला ॥ ५६ ॥
चतुरश्रं त्रयश्रञ्च षडश्रञ्च पुमान्भवेत्
योन्याकारं धनुः पद्मं स्त्रीरूपं सम्प्रकीर्तितम् ॥ ५७ ॥
सुवृत्तमष्टकोणञ्च नपुंसकं हुताशन
अष्टाश्रं चतुरश्रञ्च वृत्तञ्चेति षडश्रकम् ॥ ५८ ॥
पुमान्कुण्डमिति प्रोक्तं स्थितं वा कुण्डमुच्यते
योन्याकारं त्रिकोणञ्च वर्तुलं पद्मकुण्डकम् ॥ ५९ ॥
आसीनन्तु प्रकर्तव्यं स्त्रीरूपमिह चोदितम्
अर्द्धचन्द्रञ्च पञ्चाश्रमष्टाश्रं शयनं भवेत् ॥ ६० ॥
नपुंसकमिति ज्ञेयं त्रिविधन्तु प्रजापते
ब्रंहणाञ्चतुरश्रन्तु राज्ञां वर्तुलमिष्यते ॥ ६१ ॥
वैश्यानामर्द्धचन्द्राभं शूद्राणां त्रयमीरितम्
चतुरश्रन्तु सर्वेषामष्टमे सर्वतां त्रिकम् ॥ ६२ ॥
कुण्डस्वरूपं जानीयात् परमं प्रकृतेर्वपुः
वृत्तपीठस्य लिङ्गस्य वृत्तमेवमुदाहृतम् ॥ ६३ ॥
पद्मपीठस्य पद्मं स्यात् चतुरश्रयुतस्य च
पीठस्य तु युगाश्रं स्यात्कुण्डं मानाङ्गुलेन तु ॥ ६४ ॥
मेखलात्रितयं कुण्डे पादत्रयमिहोच्यते
योनौ योनिं विजानीयात्खातं कुक्षिं विचिन्तयेत् ॥ ६५ ॥
परिधित्रितयं बाहु नाभौ नाभिञ्च भावयेत्
एकज्योतित्रिपादञ्च चतुश्शृङ्गं द्विधाशिराः ॥ ६६ ॥
सप्तजिह्वा सप्तहस्ता सप्त—–
ऊर्ध्वास्यस्सुमुखो भूत्वा सुखासनसमन्वितः ॥ ६७ ॥
स्वाहास्वधा च तत्पत्नी दक्षिणे वामके तथा
—— चतुरङ्गुल्यमविच्छिन्नं घृताहुतिः ॥ ६८ ॥
पञ्चाननं शिरोग्रीवं पञ्चादश सुलोचनम्
दशहस्तं वृषारूढं त्रिपदाग्निसदाशिवम् ॥ ६९ ॥
पूर्वे चाहवनीयाग्निर्दक्षिणे वैदिकं यजेत्
पश्चिमे केवलाग्निश्च गार्हपत्यमुदक् दिशि ॥ ७० ॥
ईशाने च प्रधानन्तु वह्निरूपं विशेषतः
हिरण्यायां समिद्धूयात्कनकायां घृतं हुनेत् ॥ ७१ ॥
रक्तायान्तु यवं प्रोक्तं कृष्णायामन्नकं हुनेत्
सुप्रभायां हुनेत्सक्तुमतिरिक्ता तिलन्तथा ॥ ७२ ॥
सिद्धार्त्थं बहुरूपायां सर्वासु व्याहृतिं हुनेत्
द्रव्याण्येतानिसर्वाणि कनकायां हुनेत्ततः ॥ ७३ ॥
यो जिह्वा तु न जानाति तद्धुतन्निष्फलं भवेत्
तस्मात्सर्वप्रयत्नेन कनकायां हुनेत्क्रमात् ॥ ७४ ॥
समिधायां शिवं प्रोक्तमाज्ये च परमेश्वरी
चरोस्तु परमो विष्णुर्लालानामृषिरेव च ॥ ७५ ॥
सर्षपञ्चाग्निदैवत्यं सक्तूनां सूर्यदेवता
मधूनां सोमदैवत्यमिक्षूणां वायुरेव च ॥ ७६ ॥
तिलस्य पितरः प्रोक्ता मुद्गस्य वरुणस्तथा
माषमीश्वरदैवत्यं नीवारं वृषभेश्वरम् ॥ ७७ ॥
आढकीशुकदैवत्यं शालीनां सोमदेवतम्
दधिनां माधवं प्रोक्तं क्षीरस्य श्रुतिरेव च ॥ ७८ ॥
अपूपस्य गणेशन्तु गुलस्य स्कन्ददैवतम् ।
होमद्रव्यादि सर्वेषामधिदेवाः प्रकीर्तिताः ॥ ७९ ॥
सूकरी च मृगीहंसी होममुद्रास्त्रयस्मृताः
तर्जनी मद्ध्यमाङ्गुष्ठैश्शान्तिकर्मणि हंसिका ॥ ८० ॥
मद्ध्यमानामिकाङ्गुष्ठैः काम्यार्त्थे च मृगीस्मृता
सर्वैरङ्गुलिभिश्चोग्रकार्येषु सूकरीस्मृता ॥ ८१ ॥
मुद्राहीनन्तु यद्धोमं तद्धोमं निष्फलं भवेत्
घृतं कर्षार्द्धहोमं स्यात् क्षीरस्य मधुनस्तथा ॥ ८२ ॥
शक्तिमात्रं हुनेद्दध्ना —– पायसस्य तु
कर्षाधं सर्वभक्ष्याणां लाजानां मुष्टिरेव च ॥ ८३ ॥
खण्डत्रयन्तु मूलानां स्वप्रमाणविमिश्रितम्
ग्रासार्द्धञ्चैवमन्नानां —— ॥ ८४ ॥
इक्षोरापर्विकम्मानं भूतानामङ्गुलद्वयम्
पत्रं पुष्पं स्वमानेन समिधो द्वादशाङ्गुलम् ॥ ८५ ॥
चन्द्रचन्दनकाश्मीर कस्तूरी यक्षकर्दमान्
कला —– गुग्गुलं बदरास्थि ॥ ८६ ॥
कन्दानामष्टभागन्तु अपूपं सप्रमाणतः
नालिकेरं तथाभिद्यदशांशं होमयेत्ततः ॥ ८७ ॥
फलानि स्वप्रमाणेनाप्यन्नमक्षप्रमाणतः
तिलञ्च सर्षपं शुक्त्या होमयेत्तु यथाविधि ॥ ८८ ॥
इतियागशाला लक्षणपटलः पञ्चविंशतिः