०२४ स्रुक्स्रुवलक्षणपटलः

स्रुक्स्रुवलक्षणपटलप्रारम्भः
अतस्रुक्स्रुवयोर्वक्ष्ये लक्षणन्तु प्रजापते
यज्ञोक्तलक्षणैर्वृक्षैः कारयेत्स्रुक्स्रुवौ बुधः ॥ १ ॥

वैकङ्कतशमीबिल्वचूतन्यग्रोधखादिराः
अश्वत्थोदुम्बरप्लक्षपनसंश्च शिरीषकाः ॥ २ ॥

यज्ञवृक्षास्समाख्याताः प्रागुक्तलक्षणान्विताः
मूलाग्रन्तु विनिश्चित्य वृक्षसङ्ग्रहकालके ॥ ३ ॥

मूलाग्रेण च तेनैव कार्यं मूलाग्रकं तयोः
स्रुक्स्रुवावेकवृक्षार्द्धात् मद्ध्ये सारं प्रगृह्य च ॥ ४ ॥

द्विधा विभज्य तद्वक्षं त्वक्पार्श्वे बिलमाचरेत्
मूलं स्रुक्स्रुवयोर्दण्डे तरोरग्रे तु पङ्कजम् ॥ ५ ॥

कृत्वा सलक्षणं ह्येवं सर्वदोषविवर्जितम्
मानहीने भवेद्रोगं भिन्ने प्राणिकुलक्षयम् ॥ ६ ॥

अधिके शत्रुवृद्धिस्स्यात्स्फुटिते मूर्तिनाशनम्

विलक्षणे त्रियानाशं खाताधिक्ये धनक्षयम् ॥ ७ ॥

तस्मात्सर्वप्रयत्नेन यथोक्तं सम्यगाचरेत्
उत्तमं मद्ध्यमञ्चैव कन्न्यसं त्रिविधं मतम् ॥ ८ ॥

वस्वङ्गुलैस्त्रिगुणितैः स्रुवदैर्घ्यमुक्तमृक्षाङ्गुलैर्भवति तस्य तुमूलनाहम्। आस्याग्रनाहमपि मूलवदेव कुर्यात्कर्णस्य नाहमिदमद्ध्यममुक्तमेव ॥ ९ ॥

नासापुटप्रतिमपुष्करमास्यकार्यं कर्षाज्य पूरमनलाङ्गुलदैर्घ्यमुक्तम् ।
मूलात्क्रमेण कृशतानपि तद्गलान्तं कुर्वीतसर्वभवनेषु मनोज्ञरूपम् ॥ १० ॥

त्रितालायामसम्पन्नविस्तारे कलशद्वयोः
कालोत्सेधसमोपेता स्रुग्भवस्तस्य कर्मणा ॥ ११ ॥

सप्ताङ्गुलं भवेदास्यं विस्तारायामतोबहिः
त्रिभागादेकमग्रं स्यात्कण्ठायामं कलार्द्धतः ॥ १२ ॥

वेदिकां सम्यगाकल्प्य तन्मुखौ चतुरी कृताः
तन्मद्ध्ये तु बिलं कुर्याद्वर्तुलं श्वभ्रशोभनम् ॥ १३ ॥

पार्श्वेष्टपत्रसंयुक्तं प्रान्तरेखाविभूषितम् ।
तत्परं पक्षिकां कुर्यात्तस्याः कर्णप्रमाणतः ॥ १४ ॥

परितः पवमानन्तु तत्परं पत्रचित्रितम्
बाह्ये वेदिकयायुक्तं दण्डाग्रे गण्डिकात्रयम् ॥ १५ ॥

मुखमेवं प्रकल्प्यैव मग्रे स्यात्तु तदर्द्धकम्
गण्डिकां पद्मचित्रं वा दण्डमूले स्रुवे भवेत् ॥ १६ ॥

स्रुवमायाममानेन तथारत्नमिदं भवेत्
षडङ्गुलपरीणाहमग्रे स्यात्तत्तदर्द्धकम् ॥ १७ ॥

गोपादसदृशाकारं भद्रे स्यात्तु पुटद्वयम्
कर्षप्रमाणपूर्णन्तत्स्रुवमेवं विधीयते ॥ १८ ॥

इति लक्षणसंयुक्तौ न्यस्त्वातौ होमसाधनैः ।
वेदभानुयुगनागतुङ्गकमन्यमेतदृषिभिः पुरातनैः ।
कुम्भदण्ड उपदेशका तथा वेदिका गलकृतं मुखं क्रमात् ॥ १९ ॥

तस्य दण्डपरीणाह षट्पुनः गर्तमस्य चतुरं गुलं बुधैः ।
खातव्योमा अग्निपरितोत्रवेत्रयुक्पद्मपुष्पमथ पृष्ठदेशके ॥ २० ॥

कनिष्ठताराकृतवर्द्धनीस्रुवं गर्तगण्डिपरितो इदं स्रुवम् ॥ २१ ॥

त्रित्रिहस्तं समारभ्य यावद्रुद्रकरान्तकम्
तोरणस्योच्छ्रयं विद्यादधमादित्रयन्त्रयम् ॥ २२ ॥

भित्यूर्ध्वोत्सेधकार्द्धन्तु तस्याकारमिति स्मृतम्
तद्विस्तारं त्रिधाभज्य एकभागप्रमाणतः ॥ २३ ॥

मद्ध्ये शूलं प्रकर्तव्यं पाताग्रेऽपि तथैव च
तद्विस्तारद्वयाङ्गुल्यं खनमेकाङ्गुलं भवेत् ॥ २४ ॥

रसाङ्गुलं समारभ्य यावन्मन्वङ्गुलान्तकम्
द्वारोत्सेधस्तथोत्सेधद्वारविस्तारविस्तृतम् ॥ २५ ॥

तोरणाग्रे तु शूलं स्यात्त्रिःत्रिःकीलसमावृतम्
सप्ताङ्गुलस्य विस्तारं युगाङ्गुलघनं भवेत् ॥ २६ ॥

तोरणस्येवमाख्यातमष्टमङ्गलमुच्यते
देवाष्टमं गलञ्चैव द्विजानामष्टमङ्गलम् ॥ २७ ॥

नृपाष्टमङ्गलञ्चैव वैश्यानामष्टमङ्गलम्
देवानाञ्च विशेषेण अष्टमङ्गलमुच्यते ॥ २८ ॥

दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम्
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ २९ ॥

देवाष्टमङ्गलं प्रोक्तं द्विजाष्टमङ्गलं श्रुणु
पताकाशं खचक्रञ्च पूर्णकुम्भं सपत्रकम् ॥ ३० ॥

छत्रं लक्ष्मीप्रदीपञ्च द्विजानामष्टमङ्गलम्
द्विजाष्टमङ्गलं प्रोक्तं नृपाष्टमङ्गलं श्रुणु ॥ ३१ ॥

भेरीवृषो गजश्चैव चामरी केसरी झषः
पताका च प्रदीपञ्च भूभुजामष्टमङ्गलम् ॥ ३२ ॥

नृपाष्टमं दलं प्रोक्तं वैश्याष्टमङ्गलं श्रुणु
सवस्त्रस्ये तु पतका भेरी कुम्भञ्च दीपिका ॥ ३३ ॥

नन्द्यावर्तञ्च देवानां वैश्यानामष्टमङ्गलम्
वैश्याष्टमङ्गलं प्रोक्तं शूद्राष्टमङ्गलं श्रुणु ॥ ३४ ॥

दर्पणं पूर्णकुम्भञ्च पताकाछत्रभेरिका
श्रीवत्सं स्वस्तिकं पद्यं शूद्राणामष्टमङ्गलम् ॥ ३५ ॥

एवं पञ्चविधं ज्ञेयं लक्षणं वक्ष्यते श्रुणु
याज्ञिकं वृक्षमादाय कारयेत्सप्रमाणतः ॥ ३६ ॥

उत्सेधं षोडशाङ्गुल्यं विस्तारन्तु तदर्द्धकम्
तद्विंशांशं घनं प्रोक्तं ग्राहयेत्फलकाष्टकम् ॥ ३७ ॥

एतदन्यत्प्रकारेण विस्तारोत्सेधमुच्यते
विस्तारं पूर्ववत्ग्राह्यमर्घ्याङ्गुलविहीनकम् ॥ ३८ ॥

उत्तमोत्तममारभ्य तन्न्यसस्याधमान्तकम्
उत्सेधञ्चैवमाख्यातं विस्तारं तद्वयं क्षयेत् ॥ ३९ ॥

नवधामानमित्युक्तं फलकानां प्रजापते
अथवान्यप्रकारेण विस्तारोत्सेधमुच्यते ॥ ४० ॥

षोडशाङ्गुलमायामं विस्तारन्तु तदर्द्धकम्
अधस्तात्पद्मपीठन्तु चतुरङ्गुलमानतः ॥ ४१ ॥

तदूर्ध्वे दर्पणादीनि लेखयेदथ कारयेत्
दर्पणं दर्शनञ्चैव पूर्णकुम्भन्तु कुम्भकम् ॥ ४२ ॥

वृषभे वृषभञ्चैव सव्यानो युग्मचामरैः
श्रीवत्से चैव श्रीदेवी स्वसिकेतुसरस्वती ॥ ४३ ॥

शङ्खे च विमलं प्रोक्तो दीपे तु ज्वलनं स्मृतः
स्वस्वनाम्नासमभ्यर्च्य सूत्रपातन्तु कारयेत् ॥ ४४ ॥

दर्पणस्यह्युमादेवी पूर्णकुम्भस्य जाह्नवी
वृषभस्य स्वधादेवी करवी युग्मचामरे ॥ ४५ ॥

श्रीवत्सस्य तु श्रीदेवी स्वस्तिके तु सरस्वती
शङ्खस्य शशिनीदेवी दीपस्य स्कन्ददेवता ॥ ४६ ॥

ऊर्वशी मेनका चैव रम्भा चैव तिलोत्तमा
सुमुखी दुर्मुखी चैव कामुकी कामवर्द्धनी ॥ ४७ ॥

एताश्चाप्सरसः प्रोक्तास्त्वष्टमं गलधारिकाः
अष्टमङ्गलमाख्यातमायुधानान्ततश्श्रुणु ॥ ४८ ॥

वज्रं शक्तिञ्च दण्डञ्च खट्गं पाशाङ्कुशन्तथा
गदात्रिशूलं चक्रञ्च पद्मञ्चैव दशायुधम् ॥ ४९ ॥

द्वारतारप्रमाणं वा तस्यार्द्धं वा तदर्द्धकम्
युक्तीनाञ्चैव सर्वेषां शिल्पिनाञ्जनसाथवित् ॥ ५० ॥

वज्रवृक्षेण कर्त्तव्यं पूर्ववद्रूपमेव च
इन्द्रानलयमाश्चैव राक्षसो वरुणस्तथा ॥ ५१ ॥

वायुस्सोमस्तथैशानो ब्रह्माविष्णुश्च देवताः
वज्रादिपद्मपर्यन्तं खट्गानान्त्वधिदेवताः ॥ ५२ ॥

विलासिनी रूपिणी चाथ धारिणी विमुखी तथा
निर्मुखी दुर्मुखी चैवमतिभ्रङ्गी सुमालिनी ॥ ५३ ॥

सरस्वती च लक्ष्मी च शक्तयः परिकीर्तिताः ।
विपुला च शचीदेवी स्वधास्वाहा च पार्श्वयोः ॥ ५४ ॥

नीली च कालकर्णी च जालकेशी सुकेशिनी
हर्षणी च हृदार्दी च मङ्गरीमांसिषी तथा ॥ ५५ ॥

ऋद्धिश्चैव निवृत्तिश्च स्वरूपी च निवृत्तिका
सावित्री भारती चैव श्रीदेवी पृथिवी तथा ॥ ५६ ॥

इत्येवं लोकपालानां शक्तिद्वयमुदाहृतम्
भेदिनी मोहिनी माया ह्लादिनी लोकमातरी ॥ ५७ ॥

क्षेत्रभर्वी च वीरेशी मालिनी भूतमातरी
सुप्रिया च सुकेशी च जृम्भिणी वैरवी तथा ॥ ५८ ॥

इत्येवं द्वारपालानां शक्तिद्वयमुदाहृतम् ।
मङ्गलं शक्तिकुम्भञ्च कटकञ्च सरोरुहम् ॥ ५९ ॥

चामरं मुकुरञ्चैव दीपोदेव्याष्टमङ्गलम्
नाराचञ्चत्रिशूलञ्च घण्टां खट्वाङ्गमेव च ॥ ६० ॥

कपालं डमरूञ्चैव ध्वजपादन्तथैव च
वेतालसूरिपाशञ्च देवीनान्तु दशायुधम् ॥ ६१ ॥

इति स्रुक्स्रुवलक्षणपटलश्चतुर्विंशतिः