०२३ वह्निरूपविधिपटलः

वह्निरूपविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि वह्निरूपं प्रजापते
वकारो वर्धते ज्ञानं ह्निकारेण मलक्षयः ॥ १ ॥

प्रज्ञोत्पन्नोमलच्छेदात वह्निरित्यभिधीयते
वागीशी अग्निमाता च पितावागीश्वरस्तथा ॥ २ ॥

वागीशी सम्भवा गौरी वागीशस्तु महेश्वरः
अर्षणाप्रतिष्ठान्तं प्रतिष्ठाद्युत्सवान्तकम् ॥ ३ ॥

प्रायश्चित्ते तथान्यस्मिन् मङ्गले शान्तिकर्मणि
कर्मारम्भेषु सर्वेषु वह्निरूपो महेश्वरः ॥ ४ ॥

पूजनीयो विशेषेण रूपद्ध्यानपुरस्सरम्
सर्वदेवमयोवह्नि सर्वमन्त्रमयस्तथा ॥ ५ ॥

सर्वविद्यात्मकश्चासौ सर्वज्ञानातकस्तथा

तस्मात्सर्वेषु कार्येषु ध्यातव्यो विधिमार्गतः ॥ ६ ॥

अग्निपूजाविनायत्र तत्र वै निष्फलं भवेत्
बिन्दुस्थानात्परेशाख्य क्षोभात्सञ्जायते नलः ॥ ७ ॥

अतस्तद्रूपममलं मार्ताण्डकोटिसन्निभम्
ज्वलदग्निसमप्रख्यमेवमेवं विचिन्तयेत् ॥ ८ ॥

सदाशिवस्य हृदये शक्तिश्शिवहृदि शिवा
उभयोरन्तरं नास्ति वायुरम्बरयोरपि ॥ ९ ॥

शिवशक्तिसमायोगाच्छिवाग्निस्तु समुद्भवः
शिवाग्नेस्तु सहस्रांशात् गार्हपत्य समुद्भवः ॥ १० ॥

गार्हपत्यसहस्रांशात् दक्षिणाग्निसमुद्भवः
दक्षिणाग्निसहस्रांशादाहवनीयमुद्भवः ॥ ११ ॥

तस्मात्सर्वप्रयत्नेन अग्निरुद्भवमुच्यते
अग्नित्रयमिदं प्रोक्तं बालयौवनवृद्धकाः ॥ १२ ॥

दीक्षाशान्तिस्तु बालाग्निः प्रोक्षणोत्सवयौवनम्
प्रतिष्ठानित्यवृद्धाग्निरग्निभेदं त्रिधाभवेत् ॥ १३ ॥

नामान्तं बालमग्निस्स्यादावृतान्तं तु यौवनम्
विवाहान्तन्तु वृद्धाग्निरग्नित्रयमिति स्मृतम् ॥ १४ ॥

शिवाग्निः प्रथमं विद्यात् द्वयञ्चाहवनीयकम्
वृद्धाग्निश्च तृतीयं स्यात् दक्षिणाग्निश्चतुर्त्थकम् ॥ १५ ॥

पञ्चमं यौवनाग्निश्च गार्हपत्यञ्च षष्ठकम्
बालाग्निं सप्तमञ्चैव अष्टमं केवलाग्निकम् ॥ १६ ॥

सामान्याग्निश्च नवममग्निभेदं प्रकीर्तितम्
अग्निभेदं तथावक्त्रं जिह्वाभेदानुरूपकम् ॥ १७ ॥

बीजभेदं त्रियाद्रव्यं ज्ञात्वासर्वं समाचरेत्
पूर्वतो वसतो वह्निः पूर्वतस्तच्छिवद्विजः ॥ १८ ॥

अग्निमन्त्रं शतं जप्त्वा प्रीतिप्रत्यङ्मुखो भवेत्

पाशमद्ध्ये च सौम्ये च याम्ये राक्षसके भवेत् ॥ १९ ॥

पूर्वाग्नौ रुद्रदिग्भागे सुरस्यादीनि योजयेत्
पूर्ववद्रूपसंयुक्ता स्वाहादेवी च भावयेत् ॥ २० ॥

प्रतिष्ठोत्सवकाले तु दीक्षाकाले तथैव च ।
वृद्धरूपं प्रतिष्ठाग्नि उत्सवादीनि यौवनम् ॥ २१ ॥

दीक्षाग्निं बालरूपन्तु अग्नित्रयमिति स्मृतम् ।
नित्याग्नौ वृद्धयः प्रोक्ता यौवनाग्नौ च उत्सवः ॥ २२ ॥

बालाग्नौ तु प्रतिष्ठा च अग्निरूपमिहोच्यते
बालाचवृद्धा च सुयौवना च त्रेताग्निरूपं कथितं प्रशस्तम् ।
बालाग्निरूपं कथितं प्रतिष्ठा नित्याग्निवृद्धोत्सवयौवनाग्निः ॥ ॥ २३ ॥

गार्हपत्याहवनीयदक्षिणान् बालयौवनवृद्धस्वरूपकान् ।
स्थापनोत्सवनित्यविधौ सदा पूजयेत्तु शिवाग्निस्वरूपकान् ॥ २४ ॥

अनलशतसहस्रं रूपभूतञ्च वक्त्रं स्रुवमभयपरशुं खड्गघण्टाञ्चसव्ये। वरदमनलखेटञ्चाङ्कुशञ्चान्यहस्तं दधतिजनितरूपं शैवमाहुश्शिवाग्निम् ॥ २५ ॥

पञ्चवक्त्रयुतं रक्तं पञ्चजिह्वासमायुतम् ॥ २६ ॥

अजवाहनसंरूढं सृष्टिसंहारकारणम्
दशहस्तसमायुक्तं शैवमग्निस्वरूपकम् ॥ २७ ॥

वृद्धरूपत्रियक्षचतुर्भुजमक्षपिङ्गमथो वृषवाहनम्
दीप्तमग्निसमुज्वलितावरश्शक्तिपाणिश्शिवाग्निमथाचरेत् ॥ २८ ॥

सर्वत्राहवनीयाग्निमावाह्याभ्यर्च्य हूयते
यदि भेदेन किङ्कार्यं ब्रूहिचन्द्रार्द्धशेखर ॥ २९ ॥

विवाहादिशुभे कार्ये गार्हस्थ्यं समुदाहृतम्
पितृयुक्तेषु कार्येषु दक्षिणाग्निं प्रकल्पयेत् ॥ ३० ॥

देवकार्येषु सर्वेष्वाहवनीयं तथैव च

रक्तवर्णं द्विनेत्रञ्च एकवक्त्रं चतुर्भुजम् ॥ ३१ ॥

शुक्लवस्त्रसमायुक्तं शुक्लयज्ञोपवीतिनम्
जटामकुटसंयुक्तं सर्वाभरणभूषितम् ॥ ३२ ॥

त्रिपादयुक्तञ्चैष्वेकं कुञ्चितोर्ध्वे व्यवस्थितम्
दक्षिणे भयहस्तञ्च वामे वरदसंयुतम् ॥ ३३ ॥

स्रुक्स्रुवौ तु द्विहस्ते च धारणन्तु प्रशस्यते
मेषारूढोग्ररूपं स्यात्सशक्तिसहितस्तथा ॥ ३४ ॥

एवञ्च गार्हपत्याग्नौ दक्षिणाग्निरथोच्यते
रक्तारूपाङ्गनेत्रं श्रुतिकरवदनं पक्षशृङ्गन्तु चैवं
रक्तावस्त्रावृतं स्यादभयवरदके स्रुक्स्रुवोर्ध्वेवहन्तम् ।
हारङ्केयूरमालागुणचरणजटालङ्कृतं सत्रिपादम्
अश्वारूढं सशक्तिं रथगजध्वजयुतं गार्हपत्याग्निरूपम् ॥ ३५ ॥

द्विमुखं षट्भुजं सूत्रं सितं हसितवर्णकम् ॥ ३६ ॥

जटामकुटसंयुक्तं षण्णेत्रं पिङ्गलप्रभम्
रौद्रदंष्ट्रं महाकायं किञ्चित्प्रहसिताननम् ॥ ३७ ॥

सर्वे भयं स्रुवं खट्गन्धारीतञ्चाभयं करम् ।
वरदं कूर्च्चकं फालं वामांशे धारितं पुनः ॥ ३८ ॥

उक्षारूढं त्रिपादन्तु स्वाहासञ्चिभरूपकम्
दक्षिणाग्निस्वरूपन्तु विस्पष्टं गद्यते मया ॥ ३९ ॥

वक्ष्ये चाहवनीयाग्निरूपमुद्भवपूर्वकम्
दक्षिणाग्नेस्सहस्रं स्यादुत्भूतस्य चतुर्मुखम् ॥ ४० ॥

द्विमुखञ्च त्रिपादञ्च नासिकाद्वयसंयुतम्
त्रिमेखलसमायुक्तं षण्णेत्रं पिङ्गलप्रभम् ॥ ४१ ॥

चतुश्शृङ्गोवृषारूढो बालार्कसमकेशधृक्
सप्तजिह्वासमायुक्तन्तेषु त्रीणि च वामके ॥ ४२ ॥

सव्यवक्त्रे चतुर्जिह्वा वामवक्त्रे त्रयन्तथा

सव्यभागे वेदहस्तमग्निहस्तमपसव्यके ॥ ४३ ॥

स्रुक्स्रुवौ चाक्षमाला च सशक्तिस्सव्यहस्तके
चामरव्यञ्जनञ्चैव घृतपात्रन्तु वामके ॥ ४४ ॥

हिरण्याकनकारक्ता कृष्णा चैव तु सुप्रभा
अतिरक्ताबहुरूपा सप्तजिह्वाः प्रकीर्तिताः ॥ ४५ ॥

एवमावाहनीयाग्निस्वरूपञ्चाधुनोच्यते
एकवक्त्रं द्विनेत्रञ्च द्विभुजञ्च द्विपादकम् ॥ ४६ ॥

रक्तवर्णनिभञ्चैव अजारूढं स्मिताननम्
ब्राह्मणानां विशेषेण वैदिकाग्निस्वरूपकम् ॥ ४७ ॥

दिक्पतेश्च सहस्रांशात् केवलाग्निसमुद्भवः
द्विनेत्रो द्विभुजश्चण्डो वरदाभयसंयुतः ॥ ४८ ॥

शुक्लवस्त्रपरीधानश्चेतवर्णस्मरद्युतिः
केवलाग्निरिति ख्यातो महासनमिहोच्यते ॥ ४९ ॥

केवलाग्नेस्सहस्रांशादुद्भवश्च महासनम्
एकवक्त्रो द्विबाहुश्च मेषारूढो वृषासनः ॥ ५० ॥

रक्ताम्बरसमायुक्तस्त्रिशिखश्च ज्वलत्कचः ।
चतुश्शृङ्गं त्रिणेत्रञ्च स्रुवं स्याद्दक्षिणे करे ॥ ५१ ॥

प्रसार्य च करोपेतो हिताङ्गो वृषरूढधृत्
महासनमिति ख्यातो व्यक्तरूपं पितामहः ॥ ५२ ॥

रक्तनिभषण्णयनयुग्ममुखजिह्वासप्तगुणपादकरसप्तकरयुग्मम्
दक्षकरशक्तिस्रुवस्रुक्नयनमालाञ्चामरव्यजनं घृतपात्रकरमन्न्ये ॥ ५३ ॥

तेषु वत्स्या कृतिं विप्र प्रथमं प्रोच्यतेधुना
द्विभुजञ्च द्विपादञ्च रक्तकुञ्चितमूर्द्धजः ॥ ५४ ॥

रक्तवस्त्रपरीधानो रक्तमाल्यानुलेपनम्
शुक्लयज्ञापवीतञ्च शुक्लवस्त्रोत्तरीयकम् ॥ ५५ ॥

स्रुवं सव्ये वहन्वामे स्रुक्सन्धाय वै तथा

दिव्याभरणसंयुक्ता शान्तरूपस्थितानना ॥ ५६ ॥

एवं वह्न्याकृतिः ख्यातमरूपमधुनोच्यते
त्रिणेत्रञ्चतुर्भुजञ्चैव ज्वालामालाभिशोभितम् ॥ ५७ ॥

खट्गखेटकहस्तञ्च शरचापधरं प्रभुम्
कालाग्निरुद्रदेवानां रूपञ्चैव ततोच्यते ॥ ५८ ॥

अग्निश्चैव विवाहाग्निः कालाग्निश्चामलाग्निकः
यागाग्निश्चैव बालाग्निस्सर्वपापहराग्निकः ॥ ५९ ॥

पूर्वाद्यैशानपर्यन्तं वह्न्यावृतन्ततोच्यते
पूर्वतो वसतो वह्निं पूर्वतस्थः द्विजस्थिताः ॥ ६० ॥

अग्निमन्त्रशतञ्जप्त्वा ततः प्रत्यङ्मुखो भवेत्
अग्निकर्णे हुतं कुर्याद्व्याधिभिः परिभूयते ॥ ६१ ॥

नासिकायां हुतन्दुःखन्नेत्रे होतुर्विनाशनम् ।
शिखास्थाने हुतञ्चैव राजराष्ट्रं विनश्यति ॥ ६२ ॥

तस्मात्सर्वप्रयत्नेन जिह्वायां होममाचरेत्
यत्र काष्ठन्तु तत्श्रोत्रं यत्र धूमन्तु नासिकम् ॥ ६३ ॥

यत्राल्पज्वलितन्नेत्रं यत्र भस्म तु तच्छिरः
यत्र ज्वलितजिह्वायां तथा होमं समाचरेत् ॥ ६४ ॥

अश्वत्थो दुम्बरप्लक्षवटाः पूर्वादिदिक्षु च।
शमीखदिरबिल्वार्क्का विदिक्षुक्रमशस्तथा ॥ ६५ ॥

प्रधानस्य पलाशन्तु समिधस्सम्प्रकीर्तिताः
द्वादशाङ्गुलमायामं कनिष्ठाङ्गुलनाहकम् ॥ ६६ ॥

समिधं षोडशं हुत्वा हुनेदिध्मं पृथक्पृथक्
समिदाज्य चरुं लाजान् सर्षपम्माषमुद्गकौ ॥ ६७ ॥

तिलवेणुयवाश्चैव ततो हूयात्क्रमेण तु
शतद्वयं शतं वापि अर्द्धं वा जुहुयात्तथा ॥ ६८ ॥

सद्येन समिधं हत्वा घृतं वामेन मन्त्रतः

हृदयेन चरुं हुत्वा लाजं हुत्वा शिरेण तु ॥ ६९ ॥

सर्षपं कवचेनैव माषमीशेन मन्त्रतः
मुद्गन्तु घोरमन्त्रेण तिलं तत्पुरुषेण तु ॥ ७० ॥

वेणुं वै बीजमुख्येन यवमस्त्रेण हूयते
उक्तानुक्तन्तु यत्सर्वं मूलमन्त्रेण होमयेत् ॥ ७१ ॥

प्रत्येकं व्याहृतिं हुत्वा शेषाहुतिमथाचरेत्
आज्याहुतिस्तु प्रथमं द्वितीयं समिधा हुतिः ॥ ७२ ॥

तृतीयन्तु चरुं हुत्वा चतुर्त्थन्तिलमेव च
पञ्चमं सर्षपञ्चैव षष्ठ–माषमेव च ॥ ७३ ॥

सप्तमं लाजमेवन्तु अष्टमं सक्तुरुच्यते
नवमं क्षीरमित्युक्तन्दशमन्दधिरुच्यते ॥ ७४ ॥

द्रव्याहुतिर्द्वादशपर्वपूरितं पक्वाहुतिर्बादरिकं प्रमाणम् ।
आज्याहुतिर्माषनिमग्नमात्रं हुताशनस्योपरिषोडशाङ्गुलम् ॥ ७५ ॥

स्थण्डिलं भूमिदैवत्यं कुण्डन्तु विष्णुदैवतम्
वर्द्धनी ब्रह्मदैवत्यं प्रोक्षणी देवपुष्करम् ॥ ७६ ॥

प्रणीतावरुणन्देवं परिधिर्भव दैवतम्
परिस्तरे ऋषिः प्रोक्तं समिधञ्चेन्द्रदैवतम् ॥ ७७ ॥

अङ्गारे गुरुदैवत्यमाज्यस्थाल्यां वसुस्तथा
आज्यङ्कालाग्निदैवत्यमिद्ध् मं सर्वाधिदैवतम् ॥ ७८ ॥

मन्त्रं सारस्वतं प्रोक्तं स्वरं सवितृदैवतम्
पुष्पपात्रे श्रियं विद्यात् चरुस्थाल्यां कलानिधिः ॥ ७९ ॥

अक्षतं योगदैवत्यं गन्धं च क्षितिदैवतम्
पुष्पं गन्धर्वदैवत्यमर्घ्यं श्रीदेविरुच्यते ॥ ८० ॥

दीपं प्रजापतिन्देवं धूपं वै भृगुदैवतम्
लाजन्नक्षत्रदैवत्यमित्येतास्त्वधिदेवताः ॥ ८१ ॥

कुम्भस्य वदने रुद्रो मद्ध्ये विष्णुः प्रकीर्तितः

मूले हिरण्यगर्भस्तु जले गङ्गाप्रकीर्तिता ॥ ८२ ॥

रत्ने चन्द्रमसन्थ्यायेत्कूर्चे वाक् देवतां स्मरेत्
अपादाने महालक्ष्मीमपान्ते वरुणं स्मरेत् ॥ ८३ ॥

शालीनां वृषभो देवस्तण्ढुलानान्तु षण्मुखः
तिले चकाममूर्त्तिस्तु पार्वती च परिस्तरे ॥ ८४ ॥

रेखायामष्टदिक्पालो लेपिते भूमिदेवता
वेद्यान्तु वेदिकामूर्त्तिरुपवेद्यां सरित्पतिः ॥ ८५ ॥

आसने नृत्तमूर्त्तिस्तु सुन्दरीमङ्गलाष्टके
अङ्कुरेषु च सोमस्स्याद्दीपे ज्वलनदेवता ॥ ८६ ॥

वर्द्धन्यां वदने गौरीत्येवं धीमान्प्रकल्पयेत्
होमारम्भस्य पूर्वे तु स्रुक्स्रुवञ्चेन्धनन्तिलम् ॥ ८७ ॥

परिधिश्चैव दर्भांश्च समिदाज्य चरुन्तथा
गन्धाक्षतञ्च पुष्पञ्च विष्टरं घृतपात्रकम् ॥ ८८ ॥

दीपं वै द्रव्यपात्राणि प्रोक्षणीं वर्द्धनीन्तथा
प्रणीतां पुष्पपात्रञ्च चरुपात्रन्तथैव च ॥ ८९ ॥

आहृत्यहोमसम्भारान् कुण्डं प्रतिविशेषतः
प्रथमं कुण्डसंस्कारं द्वितीयं ज्वलनोज्वलम् ॥ ९० ॥

तृतीयं परिस्तरणञ्चतुर्त्थं पात्रसादनम्
पञ्चमन्तु पवित्रञ्च षष्ठं वै प्रोक्षणन्तथा ॥ ९१ ॥

सप्तमं सङ्ग्रहेद्द्रव्यमष्टमं घृतसङ्ग्रहः
नवमं परिधिन्यासन्दशमं परिषेचनम् ॥ ९२ ॥

एकादशञ्चोद्ध् र्वहोमं द्वादशं होममाचरेत्
समिदाज्यान्नशालिस्तु यवगोधूमवैणवम् ॥ ९३ ॥

नीवारलाजसक्तुश्च माषमुद्गकुलुत्थकम्
निष्पावतरलञ्चैव लाजमाषाढकन्तिलम् ॥ ९४ ॥

प्रियङ्गुसर्षपञ्चैव मधुदधिपयोघृतम्

फलापूपन्तु ताम्बूलं षड्विंशद्रव्यमुच्यते ॥ ९५ ॥

हिरण्याहेमवर्णाभा कनकाश्यामलाकृतिः
रक्ता च रक्तवर्णाभा कृष्णा चैव हरित्प्रभा ॥ ९६ ॥

सुप्रभापीतवर्णा चातिरिक्ताश्वेतवर्णिका
बहुरूपाग्निवर्णा च जिह्वावर्णं प्रकीर्तितम् ॥ ९७ ॥

हिरण्याकनकाशान्ता रक्तावश्यकरी भवेत्
कृष्णा च मारणी प्रोक्ता सुप्रभा मोक्षकारिणी ॥ ९८ ॥

बहुरूपातिरक्ता च सर्वाभीष्टप्रदा भवेत्
सद्यो जातेन पूर्वायां समिद्धोमं समाचरेत् ॥ ९९ ॥

आग्नेय्यां हृदयेनैव याम्यायां गुह्यमन्त्रतः
नैर्ऋत्यां शिखया हुत्वा वारुण्यां वाममन्त्रतः १००
वायव्यां कवचेनैव सौम्यायां पुरुषेण तु
ऐशान्यां शिरसा हुत्वा मद्ध्यमे मूलमन्त्रतः १०१
विवाहे पश्चिमे जिह्वां जातकर्मे च मद्ध्यमे
चौलोपवीतयोस्सौम्ये पितृकार्येष दक्षिणे १०२
आग्नेय्यां शान्तिहोमं स्यादीशाने चोग्रकर्मणि
पूर्वे पुंसवनं प्रोक्तमेतद्धोमस्य लक्षणम् १०३
ईशाने मुक्तये होमः पुरुषे चाणिमादिकम्
प्रायश्चित्तादिकं घोरे तथास्येक्रूरकर्म च १०४
वश्याकर्षणमोहार्त्थं वामदेवे तु होमयेत्
नित्यकर्मविधानन्तु वक्त्रेस्मिन्पश्चिमे हितः १०५
वश्याकर्षणयोराद्या कनकास्तम्भने हिता
विद्वेषमोहयो रक्ता कृष्णामारणकर्मणि १०६
सुप्रभाशान्तिके प्रोक्ता सुरक्तोच्चाटने मता
एकैवबहुरूपा च सर्वकामफलप्रदा १०७
मूलं कर्मविनाशाय मद्ध्येन पुत्रनाशनम्

अग्रतो व्याधिदञ्चैवाप्येकहस्तेन निर्धनम् १०८
मूलमद्ध्याग्रतश्चैवाप्युपहस्तात्समिद्धुनेत्
स्वकारो सूतकं विद्यादाकारो रिपुवर्द्धनम् १०९
हकारो ब्रह्महत्यानामाहुतिः कुत्रदीयते
नादान्ते चाहुतिं कुर्यात्सर्वसिद्धिकरं भवेत् ११०
आज्यहोमे नशयनं शेषमासीन एव वा
तथेन्द्रे मेखलापादं द्विभुजौ दक्षिणोत्तरे १११
पश्चिमे तु शिरोविद्यात् शिखा तद्योनिरुच्यते
तत् ज्वाला —- यस्य तन्नालन्नाभिरुच्यते ११२
अनलं प्राणमित्युक्तं कुण्डमूर्तिरुदाहृता ११३

इति वह्निरूपविधिपटलस्त्रयोविंशतिः