०२२ अग्निकार्यविधिपटलः

अग्निकार्यविधिपटलप्रारम्भः
अग्निकार्यविधिं वक्ष्ये सर्वलोकहिताय च
कुण्डं वा स्थण्डिलं वापि अग्निरायतनं द्विधा ॥ १ ॥

चतुरश्रा कृतिं विप्र सर्वकामार्त्थसाधनम्
प्रजावृद्धिकरं योनौ चार्द्धचन्द्रेरिपुक्षयम् ॥ २ ॥

गुणाश्रे शान्तिदं प्रोक्तं पर्जन्यार्द्धन्तु वर्तुले

पञ्चाश्रे रोगनाशार्त्थञ्जयार्थञ्चैव पद्मके ॥ ३ ॥

वस्वश्रे पुष्टिदं प्रोक्तं सप्ताश्रे सस्य वर्द्धनम्
कुण्डानाञ्च फलं ह्येवं स्थण्डिलञ्चाधुनोच्यते ॥ ४ ॥

गोमयालेपितां भूमिमभिसम्मृज्य वै हृदा
निकुड्योत्तरमादाय प्रोक्ष्यसौम्ये विवर्जयेत् ॥ ५ ॥

शुद्धदेशोद्ध् र्वसिकतैरनाद्यैरस्तविस्तृतम्
अङ्गुलत्रयमानोच्चं समन्निम्नोन्नतं तथा ॥ ६ ॥

प्रागग्रास्तिस्ररेखास्तु तद्वत्सौम्याग्ररेखया
ब्रह्मावैवस्वतस्सोमो मद्ध्ये दक्षिणवामयोः ॥ ७ ॥

तिसृृणां प्रागग्राणामधिदेवाः प्रकीर्तताः
रुद्रोविष्णुश्च शक्रश्च मद्ध्ये पश्चिमपूर्वयोः ॥ ८ ॥

तिसृृणामुदगग्राणामधिदेवाः प्रकीर्तिताः
कुण्डञ्चेत् शोधनञ्चैव क्षालनं शोषणन्तथा ॥ ९ ॥

पावनं प्रोक्षणञ्चैव सद्यादि ब्रह्मपञ्चकैः ।
सूर्यकान्तोद्भवं श्रेष्ठं काष्ठजं मद्ध्यमं भवेत् ॥ १० ॥

श्रोत्रियागारजं वह्निः कन्न्यसञ्चेति कीर्तितम्
शरावेताम्रपात्रे वा पावकन्तु समानयेत् ॥ ११ ॥

होतुरग्रे तु विन्न्यस्य सम्प्रोक्ष्य बहुरूपिणा
गन्धादिभिस्समभ्यर्च्य वर्मणाचावकुण्ठयेत् ॥ १२ ॥

प्रक्षिप्येन्धनमग्नौ तु वह्निरायतनान्तरे
स्थण्डिले चैव षड्रेखान् ब्रह्मादीनां प्रपूजयेत् ॥ १३ ॥

नाभिमद्ध्ये तु वागीशीन्नीलोत्पलसमप्रभाम्
ऋतुस्नातां सकूर्चस्थान्ध्यात्वा तन्मूलमन्त्रतः ॥ १४ ॥

सम्पूज्याग्निं समादाय सम्भ्राम्यायतनन्त्रिधा
योनिमार्गेण निक्षिप्य वह्निबीजमनुस्मरन् ॥ १५ ॥

उपस्थानञ्च कृत्वा तु मन्त्रजुष्टोतदूनकम्

सदर्भैरिन्धनं क्षिप्त्वा दर्भाग्रैर्हृदयेन तु ॥ १६ ॥

गर्भाधानमिदं प्रोक्तं कुर्यात्पुंसवनन्तथा
हृदयेन जपेदीशमेतत्पुंसवनं स्मृतम् ॥ १७ ॥

अघोरेण यजेदर्घ्यं सीमन्तस्यादिकन्तथा
अग्निं प्रज्वाल्यवक्त्रेण पुष्वाक्षतसमायुतम् ॥ १८ ॥

निक्षिप्य शिरसा मन्त्री जातकर्मविधिं श्रुणु
द्विमुखञ्चैकहृदयञ्चतुश्रोत्रं द्विनाहिकम् ॥ १९ ॥

आस्यद्वयञ्च षण्णेत्रं पिङ्गलं सप्तहस्तकम्
त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समायुतम् ॥ २० ॥

चतुश्शृङ्गं वृषारूडं बालादित्यसमप्रभम्
उपवीतसमायुक्तञ्जटामकुटमण्डितम् ॥ २१ ॥

सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके
स्रुक्स्रुवौ चाक्षमाला च सशकिर्दक्षिणे करे ॥ २२ ॥

चामरं व्यजनञ्चैव घृतपात्रन्तु वामके
सव्यवक्त्रे चतुर्जिह्वा वामवक्त्रे त्रयस्तथा ॥ २३ ॥

हिरण्याकनकारक्ता कृष्णा चैव तु सुप्रभा
अतिरक्ताबहुरूपा सप्तजिह्वाः प्रकीर्तिताः ॥ २४ ॥

हिरण्यादिचतस्रस्तु जिह्वादक्षिणवक्त्रके
तिस्रस्तु सुप्रभादिस्स्याज्जिह्वा वै वामवक्त्रके ॥ २५ ॥

हिरण्यावारुणे जिह्वा कनका मद्ध्यमस्थिता
रक्ताचोत्तरजिह्वा स्यात्कृष्णायाम्यदिशिस्तथा ॥ २६ ॥

सुप्रभापूर्वजिह्वा स्यादतिरक्तग्नौ व्यवस्थिता
बहुरूपेशजिह्वा स्यात् जिह्वास्थानं प्रकीर्तितम् ॥ २७ ॥

सर्वसिद्धिप्रदं ह्येतत् वह्निरूपं प्रजापते
अग्निमद्ध्ये स्थितन्ध्यात्वा सासीनं पश्चिमाननम् ॥ २८ ॥

सम्प्रोक्ष्यैशानमन्त्रेण दत्वार्घ्यं पुष्पमिश्रितम्

तन्नामकरणं प्रोक्तमेवं संस्कारपञ्चयुक् ॥ २९ ॥

दर्भेणेन्धनमग्नौ तु उपस्थानं हृदा क्षिपेत्
दर्भैश्चैव परिस्तीर्य प्रतिदिग्दशभिस्ततः ॥ ३० ॥

दक्षिणाश्चोत्तराश्चैव उत्तराश्चाधरास्तथा
पूर्वाग्राश्चोत्तराग्राश्च प्रागादीनि क्रमात्क्षिपेत् ॥ ३१ ॥

देवस्य त्वेतिमन्त्रेण पूर्वे चैव परिस्तरेत्
स्रुक्स्रुवौ च घृतस्थालीं प्रणीता प्रोक्षणी तथा ॥ ३२ ॥

समित्कूर्च्चञ्चरुन्दर्वीं विहरञ्च कमण्डलम्
द्रव्यपात्राणि सर्वाणि वामे काशोपरिन्यसेत् ॥ ३३ ॥

अधोमुखानि पात्राणि द्वन्द्वपात्राणि साधयेत्
प्रोक्षणी पात्रमादाय जलेनैव प्रपूरयेत् ॥ ३४ ॥

वितस्तिमात्रमायामं तन्मद्ध्ये ग्रन्धिसंयुतम्
अङ्गुष्ठानामिकाभ्यान्तु उदकोत्प्लवनं कुरु ॥ ३५ ॥

संस्कृत्य तेन तोयेन प्रोक्ष्य पात्राणि वर्मणा
स्रुक्स्रुवौ चेन्धनादीनि सर्वद्रव्याणि दक्षिणे ॥ ३६ ॥

संस्थाप्य तेन तोयेन प्रोक्षयेत्स्नानशेषकान् ।
द्रव्यान्होमार्हकान्विद्धि पात्राण्यूद्ध्र्वाननं कुरु ॥ ३७ ॥

बद्ध् वा तु सप्तभिर्दर्भैः कूर्च्चं होतुश्च दक्षिणे
निधायार्घ्यं विरिञ्चिन्तु ब्रह्मबीजेन बुद्धिमान् ॥ ३८ ॥

प्रणीतान्तोयसम्पूर्णान् कूर्चपुष्पाक्षतान्वितान्
होतुर्वामे न्न्यसेदूद्ध् र्वे मेखलोपरिमद्ध्यमे ॥ ३९ ॥

गन्धपुष्पादिभिश्चैव विष्णुबीजेन पूजयेत्
वह्नौ तु दक्षिणे पूर्वे चओत्तराभिमुखस्थितः ॥ ४० ॥

अन्न्येषु प्राङ्मुखो भूत्वा होमं कुर्याद्विचक्षणः
घृतेन पात्रमापूर्य नीत्वाङ्गाराणि पश्चिमे ॥ ४१ ॥

तस्योद्ध् र्वे तु न्यसेत्पात्रे द्विकुशाग्रं विनिक्षिपेत्

पर्यग्निञ्च कुशाग्रञ्च कृत्वाग्नौ तु विनिक्षिपेत् ॥ ४२ ॥

प्रादेशमात्रकूर्च्चेन मद्ध्यग्रन्धियुतेन च
हृदयेन तु मन्त्रेण त्रिस्सम्प्लवनमाचरेत् ॥ ४३ ॥

ग्रन्धिं विसृज्य सम्प्रोक्ष्य वह्निमद्ध्ये विनिक्षिपेत्
घृतं प्रदक्षिणं नीत्वा योन्यूद्ध् र्वे तु निधापयेत् ॥ ४४ ॥

स्रुवं प्रक्षाल्य तोयैश्च दर्भाग्रैर्हृदयेन तु
सम्मृज्यमद्ध्यमं मद्ध्ये मूलं मूलैश्च शोधयेत् ॥ ४५ ॥

अग्रमग्रेण संस्पृश्य प्रन्तप्याधोमुखं स्रुवम्
क्षिप्त्वा परिधयस्तत्र पाशभृद्याम्यसौम्म्ययोः ॥ ४६ ॥

वर्मनेत्रास्त्रमन्त्रैश्च प्रक्षिपेत्तु यथाक्रमम्
पलाशोदूम्बराश्वत्थप्लक्षन्यग्रोधजास्त्विह ॥ ४७ ॥

शमीखादिरबिल्वार्क अपामार्गं यथाविधि
द्वादशाङ्गुलमात्रेण इध्मञ्चाष्टादशाङ्गुलम् ॥ ४८ ॥

तेष्वपि द्वन्द्वसमिधौ संयोज्यानीलानलयोः
क्षिपेदग्नौ तथैशान्यां हृदा च शिरसा कुरु ॥ ४९ ॥

अनुयाज्ञं समित्तत्र प्रणीतोर्ध्वे न्यसेद्धृदा
पावकं गन्धपुष्पाद्यैः पूजयेत्तु विशेषतः ॥ ५० ॥

लोकपालान्न्यथास्थाने पूजयेद्देशिकोत्तमः ।
परिषेचनं ततः कृत्वा कदितेन्वादिमन्त्रकैः ॥ ५१ ॥

प्रागग्रां प्रथमं याम्ये ततोदीच्यान्तु पश्चिमे
त्रित्रीयमुत्तरे प्राच्यां चतुर्त्थञ्च समन्त्रकम् ॥ ५२ ॥

आज्याभिघारं तत्रैव नेत्रेणास्त्रेण बुद्धिमान्
क्षुरेणोद्धाटयेदास्य मस्त्रेणैव तु निष्कृतिः ॥ ५३ ॥

गृह्यपञ्चदशेध्मानि सकृन्मूलेन होमयेत्
सद्योजातेन मन्त्रेण वायव्याग्नेयमाहुतिम् ॥ ५४ ॥

हृदयेन तु मन्त्रेण नैर्ऋतेशानमाहुतिम्

अघोराहुतिरेवं स्यादाज्यभागमतः परम् ॥ ५५ ॥

सौम्ये तत्पुरुषं हुत्वा बहुरूपन्तु याम्यके
शिखामन्त्रं तथैन्द्रे तु जुहुयान्नेत्रपश्चिमे ॥ ५६ ॥

मद्ध्यमे तु शिखामन्त्रं जुहुयाद्देशिकोत्तमः
अग्निबीजमनुस्मृत्य हुत्वा वै पञ्चविंशतिः ॥ ५७ ॥

अन्नप्राशनमेवं स्यात् चौलोपनयनं स्मृतम्
समावर्तनमेवं स्यात्सद्यादिब्रह्मपञ्चकैः ॥ ५८ ॥

यथाक्रमेण जुहुयात्सप्तसङ्ख्या पृथक्पृथक्
अग्निमद्ध्ये विशेषेण आसनं परिकल्पयेत् ॥ ५९ ॥

ध्यात्वा सदाशिवं देवं पञ्चमावरणान्वितम्
गन्धपुष्पादिभिश्चैव पूजयेत्तु विशेषतः ॥ ६० ॥

शिवे दशाहुतिः प्रोक्तमन्येषामाहुतिर्भवेत्
शिवाग्निजनितो ह्येवं होमकुर्याद्विचक्षणः ॥ ६१ ॥

अग्निकर्णे हुतं द्रव्यं कुर्याद्व्याधिञ्च पीडनम्
अन्धतां नेत्रयोर्हुत्वा कण्ठे तु गुरुनाशनम् ॥ ६२ ॥

लिङ्गे तु स्थाननाशाय जानुरुच्चाटनं भवेत्
मरणं पादमूले तु जिह्वायां सर्वकामदम् ॥ ६३ ॥

तस्मादग्नौ विशेषेण जिह्वायां होममाचरेत्
हिरण्यायां हुनेदिध्मं कनकायां घृतञ्चरुम् ॥ ६४ ॥

जुहुयाल्लाजञ्च कृष्णायां रक्तायाञ्च यवं हुनेत्
सुप्रभायां हुनेत्सक्तुमतिरक्तौ तिलाहुतिम् ॥ ६५ ॥

सिद्धार्त्थं बहुरूपायां सर्वासु व्याहृतिं हुनेत्
द्रव्याण्येतानि सर्वाणि कनकायां हुनेत्क्रमात् ॥ ६६ ॥

वह्नेस्तु रक्तजिह्वानि ज्ञात्वाकर्मसमाचरेत्
शब्दं वर्णञ्च गन्धञ्च शिखाधूम्रन्तथैव च ॥ ६७ ॥

भेर्याश्च गजनादाश्च शब्दास्त्वेति शुभास्मृताः

खरस्वरो महानादो वयश्शब्दस्त्वशोभनम् ॥ ६८ ॥

शातकुम्भमयञ्चैव वैढूर्यादित्य सन्निभम्
सिन्दूरमिन्दुकोपाभं पिङ्गलञ्चन्द्रमण्डलम ॥ ६९ ॥

रौप्यं वज्रं हरीतालं नीलाभं कृष्णवर्णकम्
रौप्यनीलहरीतालं कृष्णाभान्यशुभानि वै ॥ ७० ॥

अन्न्यानि सर्ववर्णानि सर्वसिद्धिकराणि हि
उशीरपाटले चैव पुन्नागं चम्पकन्तथा ॥ ७१ ॥

आज्यगुग्गुलुगन्धानि सर्वसिद्धिकराणि च
स्विन्नगन्धं तथा मूत्रं विष्ठा च खरपूतिकम् ॥ ७२ ॥

एतान्यशुभगन्धानि सर्वदोषकराणि हि
शिखाशिखाप्रतीकाशाश्छत्राकारस्तु कम्पकम् ॥ ७३ ॥

एताश्च शुभदाःप्रोक्ताः कुररावर्तुलाशुभा
कुन्दकाशनिभं धूम्रं सर्वसिद्धिप्रदं स्मृतम् ॥ ७४ ॥

कपोतशुकपिञ्छाभं धूम्रं तदशुभं भवेत्
अप्रदक्षिणमावर्तं सस्फुलिङ्गञ्च दर्शनम् ॥ ७५ ॥

तथापसव्यगमनमपशब्दञ्च मक्षिकम्
करणानि तथैतानि सर्वदोषकराणि तु ॥ ७६ ॥

तिर्यक्प्रदक्षिणञ्चैव मद्ध्यभागमधो गतिः
पुनरावर्तकञ्चैव घानाञ्च शुभानि वै ॥ ७७ ॥

अशुभैर्लक्षणैर्युक्तं प्रायश्चित्तन्तु कारयेत्
अस्त्रेणैव तु मन्त्रेण हुनेदष्टशतं क्रमात् ॥ ७८ ॥

दशाहुतिञ्च कर्तव्यं व्याहृतिञ्च विशेषतः
तदूर्ध्वे समिधौ चैव वर्मणापरिधिः क्रमात् ॥ ७९ ॥

तन्मन्त्रेण क्षिपेदग्नौ आघारसमिधौ तथा
प्राग्गुप्तब्रह्मकूर्चस्य ग्रन्धिं मुक्त्वाविसर्जयेत् ॥ ८० ॥

अनुयाजिं समादाय वह्निमायोप्य रक्षयेत्

आरोपणस्य मन्त्रन्तु योन्ते योनिर्ऋत्वियः ॥ ८१ ॥

अथवाग्नौ विनिक्षिप्य अनुयाजत्रियां द्विज
प्रणीतापात्रमादाय प्रोक्षण्याद्भिस्तु सेचयेत् ॥ ८२ ॥

प्रणीतातोयं प्राच्यादिप्रणीताद्भिः स्पृशेद्बुधः
प्रणीताधोमुखं कृत्वा तेनैव प्रोक्ष्यसर्वतः ॥ ८३ ॥

आज्यशेषं समादाय नैर्ऋत्यांस्रावयेत् भुवि
राक्षसेन्द्रश्च तेनैव तृप्तिमाप्नोति नित्यशः ॥ ८४ ॥

दर्भास्तरणमानीय साग्रमेकं विहाय वै
ततश्चाभ्युज्यदर्भांश्चक्रमादग्रादहेत्ततः ॥ ८५ ॥

तदेकं प्रोक्ष्य वह्नौ तु क्षिपेदग्रं दहेत्ततः
तद्भस्मसङ्गृहीत्वा तु त्रिपुण्ड्रं पापनाशनम् ॥ ८६ ॥

श्रीकरं विजयं पुण्यमायुरारोग्यवर्द्धनम् ॥ ८७ ॥

इति पूर्वकारणे प्रतिष्ठातन्त्रे अग्निकार्यविधिपटलाद्वाविंशतिः