कुण्डलक्षणविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण कुण्डानां लक्षणं श्रुणु
सर्वलोकहितं पुण्यं सर्वदेवप्रियार्त्थकम् ॥ १ ॥
श्रुत्यश्रं योनिचापाश्रमग्न्यश्रं वतुलाकृतिम्
भूताश्रं पङ्कजाश्रञ्च वस्वश्रञ्च विधीयते ॥ २ ॥
कोट्याहुत्याष्टहस्तं स्यात् लक्षहोमन्तु षट्करम्
अयुतस्य चतुर्हस्तन्तथैवाष्टसहस्रकम् ॥ ३ ॥
द्विहस्तं पञ्चसाहस्रे हस्तं साहस्रहोमके
रक्तिमात्रं शताहुत्यामुष्टिमात्रं शतार्द्धके ॥ ४ ॥
मुष्टिमात्रमधोमानमष्टहस्तात्परन्नहि
मात्राङ्गुलेन कर्त्तव्यमन्न्यमानेन कारयेत् ॥ ५ ॥
कुण्डविस्तारमानेन कुर्यादवटकन्ततः
कुण्डं त्रिमेखलोपेतमेकमेखलमेव वा ॥ ६ ॥
त्रिमेखलोद्ध् र्वमानन्तु श्रुत्यग्न्यश्विनिकाङ्गुलैः
षडङ्गुलोच्चविस्तारं कर्तव्यं ह्येकमेखला ॥ ७ ॥
एवं हस्तप्रमाणस्य कुण्डस्य परिकीर्तितम्
द्विहस्ते ऋतुभूतांशौ मेखलाङ्गुलयः क्रमात् ॥ ८ ॥
चतुष्करे तु वस्वब्धिकौशिकाङ्गुलयः क्रमात्
षडस्ते दशरन्ध्राष्टमेखलाङ्गुलयः क्रमात् ॥ ९ ॥
अष्टहस्तं तथा कुर्यात् भानुरुद्रदशाङ्गुलम्
यदा काराणि कुण्डानि तदाकारा च मेखला ॥ १० ॥
अग्न्यङ्गुलन्तु विस्तारं भूताङ्गुलन्तु दैर्घ्यकम्
क्रमेण कृशतां योनिः कुर्यात्पिप्पलपत्रवत् ॥ ११ ॥
योनिलक्षणमेवोक्तं कुण्डास्यै करस्य तु ।
विस्तारस्य त्रिभागैकमुत्सेधं परिकीर्तितम् ॥ १२ ॥
द्विहस्तादि समारभ्य यावदष्टकरान्वितम्
विस्तारे त्वङ्गुलाधिक्यं दैर्घ्याश्विन्न्यङ्गुलाधिकम् ॥ १३ ॥
योनिलक्षणमेवं स्यान्मेखले परिकल्पयेत्
पक्षाङ्गुलं समुत्सेधं च लताङ्गुलन्तु विस्तरम् ॥ १४ ॥
पद्माकारन्तथा नाभिं कुर्यात्कुण्डस्य मद्ध्यमे
द्विभागदलमानं स्यात् एकभागन्तु कर्णिका ॥ १५ ॥
द्विहस्तादिसमारभ्य वसलस्तान्तकं क्रमात्
विस्तारे चाङ्गुलाधिक्य -त्सेसधार्द्धाङ्गुलाधिकम् ॥ १६ ॥
नाभिलक्षणमेवं स्याद् कर्णमानं प्रकल्पयेत्
कुण्डस्य परितश्चाश्वाङ्गुलेनैव हस्तकम् ॥ १७ ॥
हस्तद्वयं समारभ्य यावद्वसुकरान्तकम्
अर्द्धाङ्गुलवि–या तु विष्टरं सम्प्रकल्पयेत् ॥ १८ ॥
योन्न्याष्टनाभिनेमीनामुक्तमच्छ्रायविस्तरम।
योनौ योनिर्न कर्त्तव्या पद्मेनाभिन्नकारयेत् ॥ १९ ॥
सुधापक्तेष्टकाभिर्वा मृदा चैव तु कारयेत् ।
सन्निकृष्टदिने चैव स्थण्डिलं कारयेत् बुधः ॥ २० ॥
कुण्डानां वर्द्धनार्थाय चतुरश्रं तु साधयेत् ।
प्राक्सूत्रं तु न्न्यसेत्पूर्वं मत्स्यन्तु दक्षिणोत्तरम् ॥ २१ ॥
कुर्यात्पश्चिमपूर्वन्तु यावत्कुण्डस्य विस्तरम्
पूर्वापरायतं सूत्रं मद्ध्यात्प्रागायतं समम् ॥ २२ ॥
पूर्वापरसमानेन सूत्रेणोत्तरदक्षिणे
अङ्कयेदपरानेकान् पूर्वानपि तथैव च ॥ २३ ॥
तत्तत्क्षेमार्धमानेन मत्स्यं कोणेषु साधयेत्
तत्र सूत्रप्रधानेन चतुरश्रं भवेदिह ॥ २४ ॥
चतुरश्रं पुनः कृत्वा चतुष्कोष्ठसमन्वितम्
कुण्डानामपिसर्वेषां वेदाश्रं योनिरुच्यते ॥ २५ ॥
श्रोत्रार्द्धार्द्धाशमानेन क्षेत्रार्त्थं पार्श्वयोस्ततः ।
क्षेत्रार्द्धावधिकं भ-म्याक्षेत्रपञ्चैकभागिकम् ॥ २६ ॥
तत्पुरस्तात् बहिन-स्त्वा तस्मात्तद्वयपार्श्वयोः ।
सूत्रे संयोजिते क-णं भवेत्पिप्पलपत्रवत् ॥ २७ ॥
श्रोत्रार्द्धन्तु परिग्राह्य क्षेत्रार्द्धे तु विनिक्षिपेत्
द्विधाकृत्वाधिकन्तत्र याम्योनिरप्रदेशयोः ॥ २८ ॥
एकैकांशन्न्यसेत् बाहो सूत्रादभ्यन्तरे ततः
तन्मानेन भ्रमेद्विद्वान् चापाभ–चोत्तरे क्रमात् ॥ २९ ॥
क्षेत्रे तु भूतभागे तु –केकांशन्तु पार्श्वयोः
विन्न्यस्येच्छफरन्तत्र नैर्ऋते व–देशके ॥ ३० ॥
त्रिकोणाभ्यन्तरे सत्रं कृत्वा वै –यपुच्छके
संयोज्य त्रिगुणानेव त्रिकोणाय –स्मृतम् ॥ ३१ ॥
श्रोत्रार्द्धन्तु परिग्राह्य क्षेत्रार्द्धन्तु विनिक्षिपेत्
द्विधाकृत्वाधिकन्तत्र व्योमांशो बाह्यतो न्यसेत् ॥ ३२ ॥
वर्त्तयेत्तेन मानेन वर्त्तुलं कुण्डमुत्तमम्
तत् षट् भागैकभागेन क्षेत्रार्द्धेनैव वर्त्तुलम् ॥ ३३ ॥
तद्वृत्ताकारमादाय रव्यंशं विभजेत्ततः
धात्वंशेन भुजं कुर्यात् भूताश्रन्तु भवेत्स्फुटम् ॥ ३४ ॥
तत्क्षेत्रमष्टधा कृत्वा भागैकं पार्श्वयोर्बहिः
तयोर्मद्ध्यं गृहीत्वार्धं सूत्रेणैव भुजं तथा ॥ ३५ ॥
षट्सूत्रं परितः कृत्वा षट्कोणं तद्भवेदिह
अष्टभागकृतक्षेत्रे दिक्षु चैकांशकं न्यसेत् ॥ ३६ ॥
तत्पुरस्तात्बहिर्न्यस्त्वा तस्मात्तु द्वयपार्श्वयोः
सूत्रे संयोजिते कुण्डं भवेत् पिप्पलपत्रवत् ॥ ३७ ॥
चतुर्भागकृतं क्षेत्रमेकैकांशं न्यसेत्ततः
क्षेत्रार्द्धन्तेन मानेन मत्स्यं कृत्वा विचक्षणः ॥ ३८ ॥
तन्मद्ध्यमाच्चतुर्दिक्षु चतुष्पत्रन्तु वर्तुले
बिसिनी कुण्डमेवन्तु क्षेत्रे गायत्रिभाजिते ॥ ३९ ॥
तदेकांशं बहिर्न्यस्त्वा परितश्चतुरश्रकम्
कर्णार्त्थं सूत्रमानेन कोणात्कोणन्तु लाञ्च्छयेत् ॥ ४० ॥
चतुर्दिक्ष्वष्टकोणाख्यं कुण्डं कुर्यात्सलक्षणम्
सप्तभागैकभागेन क्षेत्रार्द्धेनैव वर्तुलम् ॥ ४१ ॥
क्षेत्रं षोडशभागैकं क्षेत्रार्द्धेनैव योजयेत्
वर्त्तयेत्तेन मानेन धात्वश्रं भवति स्फुटम् ॥ ४२ ॥
मानहीने महाव्याधिरधिके शत्रुवर्द्धनम्
भग्ने चैव त्वनावृष्टिः स्फुटिते सस्यनाशनम् ॥ ४३ ॥
इति पूर्वकारणे प्रतिष्ठा तन्त्रे कुण्डलक्षणविधिपटल एकविंशतिः
त्रिभक्तचतुरश्रन्तु षोडशस्तं भसं युतम्
नासिकाभिर्द्विरष्टाभिर्युक्तम्मद्ध्येङ्कणान्वितम् ॥ १ ॥
मद्ध्योद्ध् र्वकूटयुक्तं वा प्रभावादविधानतः
कृत्वैकाशीतिभागान्निशितविपुलधीमण्टपाभ्यन्तरन्तस्तन्मद्ध्ये वेदिर्नवांशा भवति ततस्त्रीणि भागानि मद्ध्ये । अश्रं योन्न्यर्द्धचन्द्र गुणभुजमपरं वै सुवृत्तं षडश्रं पद्मं वस्वश्रकुण्डं सुरपति भवनादिक्क्रमेणैव कुर्यात् ॥ ॥ २ ॥
नवनव केनकेन तु वेदि नवनव मद्ध्यपदेकपदेकः ।
नवनवकुण्डमधाष्टमादधाना नवनव देवता होममिदं स्यात् ॥ ॥ ३ ॥
अस्त्रविस्मृतिघातवत् चतुष्कोटिकन्दिशिदिशित्रिसूत्रकम् ।
सतिमेखलमथ द्विकन्तुवा धातुभूतगणमात्रकोन्नतम् ॥ ॥ ४ ॥
व्यासमन्ध्यनलपक्षमात्रकैर्योनिमूद्ध् र्व इहेष्टवत्कुरु । ॥ ५ ॥
तारदैर्घ्यकसमुद्गमञ्चतुष्षण्णवाङ्गुलिभिरग्निसम्मुखः ।
देवं नयनाङ्गुलोन्नतं मेघयुतन्तु वा पुनः ॥ ॥ ६ ॥
तालं गाढमथवैकमेखलं सर्वकुण्डकं कर्णयोनिकम् ।
वृत्तसन्निभमधोतदा कृतिर्वायुकेषु रसमात्रवै पुनः ॥ ॥ ७ ॥
व्यासवेदगुणतुङ्गकनाभिमब्जमिवकुण्डमद्ध्यमे ।
न्यस्यैकांशपञ्चभागैः पुरस्तात् कोणस्यार्द्धार्द्धं गृहीत्वातस्तत् ॥ ॥ ८ ॥
कोणं यावत् भ्रामयेत्तद्वदन्यं योन्न्याकारं स्याद्विसूत्रप्रयोगात् ।
व्यासेधर्म्मां शशमूद्ध् र्वादधस्तात् नीत्वैवर्जा पातयित्वा च सूत्र ॥ ९ ॥
तन्मानेन भ्रामयेदर्द्धचन्द्रं कुण्डं युक्त्या वास्तुविद्वा विधिज्ञैः ।
क्षेत्रव्यासो षट्कृते चाष्टभागे मानेनानेन त्रिसूत्रप्रयोगात् ॥ ॥ १० ॥
त्र्यश्रं प्रोक्त्यब्धिन्नवांशेशकन्तत् बाह्ये न्न्यस्यभ्रामयेद्वृत्तकुण्डम् ।
व्यासे बुद्धिकांशं चांशकं पुच्छयोस्तत् बाह्येन्न्यस्यानेन मद्ध्यात् ॥॥ ११ ॥
मत्स्यं कृत्वा युग्यदद्विपश्चात् षट्कोणं स्यात्पातयेत्सूत्रषट्कम् ।
वृत्तं कृत्वा पूर्ववत् तस्य मद्ध्ये वृत्तं ग्राम्ये द्वयं मद्ध्यतस्तत् ॥ ॥ १२ ॥
पद्मस्याकारं यथा कर्णिकादीन् विद्यान्न्यापक्षे येन योग्यान् ।
क्षेत्रव्यासे षट्चतुर्भागिकेस्मिन् भागं बाह्ये न्यस्यसूत्रं समन्तात् ॥ ॥ १३ ॥
कोणस्यार्द्धं कोणकाख्यानलिख्येदष्टाश्रं स्यादष्टसूत्रप्रयोगात् ।
सैक्यत्वेदाष्टांशकैः पट्टदैर्घ्यं सप्तसप्तसूत्रप्रयोगात् ॥ १४ ॥
तत्तर्द्धेलोपात्तभागेषु तत्तत् भागं कृत्वा प्राग्निपैकैकभागे ।
न्यूनाधिक्ये नाश्रनाहस्य तुल्यं युक्त्याधीमान् योजयेत्सर्वकुण्डम् ॥ १५ ॥
अथवान्न्यप्रकारेण कुण्डलक्षणमुच्यते
रत्निमात्रसमं कृत्वा मुष्टिमात्रन्तदर्द्धकम् ॥ १६ ॥
त्रिमेखलसमायुक्तमथवा एकमेखलम्
षडङ्गुलप्रमाणेन विस्तारोत्सेधमेखलः ॥ १७ ॥
ऊद्ध् र्वमेखलसंयुक्तञ्चतुरङ्गुलविस्तृतम्
मद्ध्ये त्रियङ्गुलञ्चैव आधारे द्व्यङ्गुलस्य तु ॥ १८ ॥
उत्सेधन्तु समं ज्ञेयं विस्तारन्तत्समं भवेत्
चतुरश्रं त्रियश्रञ्च षडश्रञ्च पुमान् भवेत् ॥ १९ ॥
योन्न्याकारन्धनुः पद्मं स्त्रीरूपं प्रतिकीर्तितम्
सुवृत्तमष्टकोणञ्च नपुंसकं हुताशनः ॥ २० ॥
पर्वस्यांसृष्टिबहुलं कन्न्यालाभन्तु पावके
शत्रुक्षयं स्याद्याम्ये तु नैर्ऋत्यांरोगनाशनम् ॥ २१ ॥
पश्चिमे सस्यवृद्धिस्स्याद्वायौ वायुप्रदं भवेत्
उत्तरे धनवृद्धिस्स्यादीशाने भुक्तिमुक्तिदम् ॥ २२ ॥
इन्द्र ईशानयोर्मद्ध्ये सर्वप्राणिसुखावहम्
मद्ध्ये ब्रह्मपदे वेदी दैविके मङ्गलायुतौ ॥ २३ ॥
मानुषे च पदे कुण्डं पैशाचे तोरणन्न्यसेत्
वह्नौ तु दक्षिणे पूर्वे चोत्तराभिमुखस्ततः ॥ २४ ॥
अन्न्येषु प्राङ्मुखो भूत्वा होमं कुर्याद्विचक्षणः
भवश्शर्वस्तथेशानः पशुवतिर्नील एव च ॥ २५ ॥
उग्रो भीमो महादेवो विद्ध्यष्टमूर्त्तयस्मृताः
पूर्वादीशानपर्यन्तं कुण्डानामधिदेवताः ॥ २६ ॥
पञ्चाग्न्यायतनञ्चेत्तु ब्रह्मादिपञ्चमूर्त्तयः
एकाग्न्यायतनञ्चेत्तु यथा कुण्डे सदाशिवः ॥ २७ ॥
स्थण्डिलं भूमिदैवत्यं कुण्डन्तु विष्णुदैवतम्
वर्द्धनी ब्रह्मदैवत्यं प्रोक्षणी देवपुष्करम् ॥ २८ ॥
प्रणीतावरुणदैवत्यं परिधी भव देवता
परिस्तरो ऋषिदैवत्यं समिधश्चैन्द्रदेवताः ॥ २९ ॥
अक्षतन्नागदैवत्यं गन्धमश्विनिदेवता
पुष्पं गन्धर्वदैवत्यं व्याघ्रं श्रीदेविरुच्यते ॥ ३० ॥
दीपं प्रजापतिर्देवं प्रोक्षणी भृगुदैवतम्
लाजानक्षत्रदैवत्यमित्येते अधिदेवताः ॥ ३१ ॥
प्राक् भूतकुम्भन्तदेकाग्निकुम्भं दाक्षिण्यवेदैन्नैर्ऋत्यदाग्निम् ।
वारुण्यषट्कन्ततश्चाग्निवायौ सोमे युगस्यात्त्रयकुम्भमीशे ॥ ३२ ॥
इति विशेषकुण्डलक्षणविधिरेकविंशतिपटलः