०२० अङ्कुरार्पणविधिपटलः

अङ्कुरार्पणविधिपटलप्रारम्भः
अतःपरं प्रवक्ष्यामि अङ्कुरार्पणमुत्तमम्
उत्सवे स्नपने चैव प्रोक्षणे स्थापने तथा ॥ १ ॥

अन्यस्मिन्मङ्गले कार्ये मङ्गलाङ्कुरमुच्यते
द्विविधं तत्समाख्यातं भद्रं क्षुद्रन्तथैव च ॥ २ ॥

सर्वेषु यागपूर्वेषु नवमे सप्तमे हनि
पञ्चमे वा शिवं पूज्य कारयेदङ्कुरार्पणम् ॥ ३ ॥

अधिवासनानि रात्रौ तु तद्दिनात्पूर्वरात्रके
अङ्कुरार्पणकार्ये तु निश्चित्यदिवसं तथा ॥ ४ ॥

नवाहे चैवसप्ताहे पञ्चाहे त्रत्र्यहेपि वा
सद्योङ्कुरार्पणं वापि कारयेदङ्कुरार्पणम् ॥ ५ ॥

बीजानामधिपश्चन्द्रः तस्मात्तु निशि निर्वपेत्
अनङ्कुरन्तु यत्कर्म तत्कर्मनिष्फलं भवेत् ॥ ६ ॥

अङ्कुरादङ्कुरं नास्ति तत्कर्माण्यन्तरं विना
दिवाकालेन कर्तव्या कृतञ्चेत्सस्यनाशनम् ॥ ७ ॥

चन्द्रदृष्टौ पराह्ने वा ततस्सद्याङ्कुरार्पपेत्
सद्याङ्कुरार्पणञ्चेत्तु दिवौ वा निशिनिर्वपेत् ॥ ८ ॥

पालिकाघटिका चैव शरावाच त्रिधा भवेत्
सौवर्णं राजतं वापि ताम्रं वा मृण्मयन्तु वा ॥ ९ ॥

पालिकाष्टादशाङ्गुल्यामुच्चम्मात्राङ्गुलेन तु
पालिकामूलविस्तारं षोडशाङ्गुलमुच्यते ॥ १० ॥

तदर्द्धं पादविस्तारं तत्षड्भागैकमोष्ठकम्

विस्तारस्य त्रिभागैकं वर्तितं बिलमुच्यते ॥ ११ ॥

एवं पादक्रमं प्रोक्तं शेषदण्डं प्रकल्पयेत्
विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ॥ १२ ॥

पालिकालक्षणं प्रोक्तं घटिकालक्षणं श्रुणु
घटिकाघटविस्तारमष्टाङ्गुलमुदाहृतम् ॥ १३ ॥

पालिकापादवत्कुर्यात् दण्डं वै चतुरङ्गुलम्
पञ्चवक्त्रसमायुक्तं घटिकाकरयेत् बुधः ॥ १४ ॥

घटिकालक्षणं प्रोक्तं शरावमधुनोच्यते
शरावमुखविस्तारमष्टाङ्गुलमुदाहृतम् ॥ १५ ॥

तदर्द्धं पादविस्तारमुत्सेधाष्टाङ्गुलोच्छ्रयम्
नाहं स्यात्पलिकादीनां विस्तारार्द्धेन वर्तितम् ॥ १६ ॥

कालं भिन्नञ्च सुषिरं भेदञ्चैव तु लीनकम्
वर्जयेत्तु प्रयत्नेन कारयेल्लक्षणान्वितम् ॥ १७ ॥

ईशोविष्णुर्विरिञ्चिश्च पालिकाद्यधिदेवताः
प्रत्येकमष्टकं ग्राह्यं ततस्स्थापनमारभेत् ॥ १८ ॥

भवं शर्वन्तथेशानं पशुपत्युग्रकौ तथा
रुद्रं भीमं महादेवं पालिकाद्यष्टविन्यसेत् ॥ १९ ॥

केशवं माधवञ्चैव नारायणं त्रिविक्रमम्
वामनं श्रीधरं विष्णुं पद्मनाभं घटेन्न्यसेत् ॥ २० ॥

त्रयीमयं त्रिमूर्तिञ्च पद्माक्षं पद्मयोनिकम्
चतुर्म्मुखञ्च धातारं पितामहं जयन्तथा ॥ २१ ॥

ब्रह्माष्टकमिदं ज्ञेयं शरावे क्रमशोन्न्यसेत्
पूजयित्वा यथान्न्यायं कारयेत्पालिकादिषु ॥ २२ ॥

चतुर्विंशतिसङ्ख्याभिस्स्थापयेत्तु विशेषतः
षोडशद्वादशञ्चैव वसुचैव चतुर्त्थकम् ॥ २३ ॥

प्रासादस्याग्रके वापि दक्षिणे चोत्तरेऽपिवा

गोमयालेपिते शुद्धे मण्टपे समलङ्कृते ॥ २४ ॥

प्राक्सूत्रं वसुभिः कुर्यादुदक्सूत्रन्तथैव च
मद्ध्ये व्योमपदाग्राह्य लेपयेदभिकोष्ठकम् ॥ २५ ॥

त्रीणि चाभ्यन्तरे त्यक्त्वा चतुर्दिक्षु क्रमाद्बुधः
द्वारार्द्धञ्च महाशासु पदमेकं परित्यजेत् ॥ २६ ॥

स्थण्डिलं कारयेद्धीमानष्टद्रोणैश्च शालिभिः
तस्य मद्ध्ये लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ २७ ॥

स्थापयेत्कर्णिका मद्ध्ये चन्द्रकुम्भं नवं शुभम्
सौवर्णं राजतं वापि पङ्कजं त्वर्द्धचन्द्रवत् ॥ २८ ॥

कुम्भमद्ध्ये तु तोयं स्यात्तोयमद्ध्ये तु पङ्कजम्
पङ्कजस्यैव मद्ध्ये तु चन्द्ररूपं प्रशस्यते ॥ २९ ॥

ससूत्रं सापिधानञ्च सवस्त्रं वारिपूरितम्
पूजयित्वा यथान्यायं वारुणं मन्त्रमुच्चरन् ॥ ३० ॥

पायसान्नं ददेत्पश्चात्ताम्बूलन्तु निवेदयेत् ।
पालिकादौ न्यसेद्धीमान् द्वाराणां पार्श्वयोर्द्वयोः ॥ ३१ ॥

विन्यसेत् घटिकादौ तु कोणेषु च पदद्वयोः
शेषेषु च शरावाणि स्थापयेद्धृदयेन तु ॥ ३२ ॥

दर्भाग्रैश्च कुशाग्रैर्वा निच्छिद्रं सुषिरैः कुरु
अश्वत्थपत्रपूर्वेण तन्तुना वेष्टयेत्पृथक् ॥ ३३ ॥

वालुकैर्गोमयैर्मृद्भिः पालिकादीनि पूरयेत्
पूजयित्वा यथान्यायं पुण्याहं तत्र कारयेत् ॥ ३४ ॥

ततोजनेभ्यस्ताम्बूलं दापयेत्तु विशेषतः
बीजानि वापयेत्पश्चात्पयसिप्लावितानि वै ॥ ३५ ॥

मुद्गमाषकुलुत्थाश्च निष्पावं शिम्बमाढकम्
तिलसर्षपशालिश्च सिद्धार्थं नवबीजकम् ॥ ३६ ॥

उत्तमं नवबीजानि षड्बीजं मद्ध्यमं भवेत्

अधमं त्रीणि बीजानि यथालाभं प्रकल्पयेत् ॥ ३७ ॥

पयसैव तु सङ्क्षाल्य विन्यसेत्तु क्रमेण तु
बीजमुख्यं विशेषेण विन्यसेद्बीजमद्ध्यमे ॥ ३८ ॥

शकृत् मृद्भिस्तदापूर्यसेचयेत्तु जलेन तु
तिलसर्षपमुद्गानि माषशिम्बाढकानि तु ॥ ३९ ॥

कुलुत्थं सप्तबीजानि हृदयेन विशेषतः
आचार्योवार्पयेत्तत्र प्राङ्मुखोदङ्मुखोऽथवा ॥ ४० ॥

सोमकुम्भस्थतोयेन पालिकादीनि सेचयेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ४१ ॥

भद्रमेतत्समाख्यातं क्षुद्रं वै तत् श्रुणुष्वथ
प्राङ्मुखं पञ्चसूत्राणि तथैव च उदङ्मुखम् ॥ ४२ ॥

मद्ध्ये चतुष्पदन्त्यक्त्वा स्थण्डिलं कारयेद्बुधः
मद्ध्यमे सोमकुम्भन्तु पूजयेत्पूर्ववत्क्रमात् ॥ ४३ ॥

हृदयेन तु मन्त्रेण पालिकादीनि विन्यसेत्
शरावं पालिका चैव घटिका च यथाक्रमम् ॥ ४४ ॥

ईशानादिसमारभ्य प्रत्येकं युगसङ्ख्यया
पूर्वोक्तविधिना सर्वं कारयेद्देशिकोत्तमः ॥ ४५ ॥

विधानैस्सर्वपात्राणि त्वनुगुप्तं निधापयेत्
आपूर्णानि च कृष्णानि श्यामलानि तथैव च ॥ ४६ ॥

सधूम्राणि च कुब्जानि तथा तिर्यग्गनानि च ।
अङ्कुराण्यशुभान्यत्र तद्दोषशमनाय च ॥ ४७ ॥

अस्त्रमन्त्रं समुच्चार्य जुहुयाच्छतसङ्ख्यया
शूलं प्रदक्षिणं कुर्यात् तीर्त्थाङ्कुरस्य सुव्रत ॥ ४८ ॥

अन्न्येषाञ्चैव सर्वेषां वर्जयेत्तु प्रदक्षिणम्
प्राङ्मुखोदङ्मुखो वाथ निर्व्रजेद्देशिकोत्तमः ॥ ४९ ॥

सर्वदेवमयं शूलम् अलङ्कृत्य विशेषतः

नदीतीरे तटाके वा उद्याने वा विशेषतह् ॥ ५० ॥

सुक्षेत्रे पर्वते चैव मृत्सङ्ग्रहणमारभेत्
शुद्धस्थानमनुप्राप्य शुद्धिं कृत्वा महीं ततः ॥ ५१ ॥

मृत्तिकाग्रहणार्त्थाय पुण्याहस्वस्तिवाचकैः
गन्धादिनासमारभ्य हृदयेन तु देशिकः ॥ ५२ ॥

अस्त्रमभ्यर्च्यविधिना गन्धपुष्पादिनाबुधः
घातयेदस्त्रमन्त्रेण मृदं सङ्गृह्यवामतः ॥ ५३ ॥

मृदमभ्यर्च्य विधिना प्रदक्षिणमथाचरेत्
प्रविशेदालयं पश्चात् बीजनिर्वापमारभेत् ॥ ५४ ॥

सौवर्णं राजतं वापि पङ्कजञ्चार्द्धचन्द्रकम्
कुम्भमद्ध्ये तु तोयं स्यात् तोयमद्ध्ये तु पङ्कजम् ॥ ५५ ॥

पङ्कजस्य तु मद्ध्ये तु चन्द्ररूपं प्रशस्यते
श्वेतवर्णं द्विनेत्रञ्च श्वेतपद्मोपरिस्थितम् ॥ ५६ ॥

द्विभुजं कुमुदोपेतं श्वेतवस्त्रेण वेष्टितम्
सर्वैराभरणैर्भूष्यैर्मुक्ताभरणभूषितैः ॥ ५७ ॥

किरीटमकुटोपेतं प्रभामण्डलमद्ध्यगम्
कृत्तिकां दक्षिणे भागे रोहिणीं वामपार्श्वके ॥ ५८ ॥

दुकूलवसनोपेतां सर्वाभरनभूषिताम् ।
एवं ध्यात्वा विशेषेण पालिकावृतमद्ध्यमे ॥ ५९ ॥

द्विभुजमखिललोकद्वन्द्वनासं द्विनेत्रं कुमुदयुगलहस्तं कोमलं बीजपार्श्वे
गगनसहितलोकं सर्वबीजाधिपत्यं सकलभुवननाथं विन्यसेत्कुम्भमद्ध्ये ॥ ६० ॥

अङ्कुरादङ्कुरं नास्ति पूर्वे निर्दिष्टमुच्यते
शीतला ऋजवोदीर्घास्फुटाश्च बहुदीर्घकाः ॥ ६१ ॥

ह्रस्वाश्चकुटिलाकारा अप्लनास्सुखयां कुरु

अङ्कुरोर्ध्वमुखञ्चैव पूर्वोत्तरद्वयोत्तमम् ॥ ६२ ॥

वह्निर्यमश्च निर्ऋतिर्वारुणो वायुरुत्तरः
ज्वरं व्याधिमनो दुःखं रिपुनाशञ्च वर्द्धते ॥ ६३ ॥

चन्द्रोङ्कुराणामधिपो नव्रणादीनि वा व्रतम्
चन्द्रदृष्टौ पराह्ने वा तथासद्वाङ्कुराधिपः ॥ ६४ ॥

चन्द्रदृष्टौ विहीनं स्यात्प्रातः काले समर्चयेत्
नालिकेरप्रसूनैश्चाप्यक्षतैर्लाजसंयुतैः ॥ ६५ ॥

अङ्कुराण्यर्पणं कृत्वा सर्वकर्मसमाचरेत्
सद्योङ्कुरार्पणञ्चेत्तु दिवाकाले समर्चयेत् ॥ ६६ ॥

तद्वयोरर्पणं नेष्टं क्षपायामेवमिष्यते
दिवाकाले कृतञ्चेत्तु कर्तृनाशं धनक्षयम् ॥ ६७ ॥

अतः कार्यं प्रयत्नेन रजन्यामङ्कुरार्पणम्
भास्करास्तमनात्पश्चात्पञ्चनाड्यास्ततोपरि ॥ ६८ ॥

सुयोगे सुमुहूर्ते च सुनक्षत्रे तिथौ दिने
अङ्कुरार्पणकार्यन्तु प्रागुक्तविधिनाचरेत् ॥ ६९ ॥

शुभं पीतेषु शुक्लेषु रक्तेषु कलहो भवेत्
तिर्यग्गतेषु रोगं स्यात् अग्र ऊर्ध्वे वृतं भवेत् ॥ ७० ॥

सर्वेषामेव देवानां बलिभोज्य क्रमं श्रुणु
वैकर्त्तनस्य शुद्धान्नं यवोदनं विवस्वतः ॥ ७१ ॥

मार्ताण्डस्य गुलान्नं स्यात् भास्करस्य घृतोदनम्
मुद्गोदनं रवेस्साज्यं रम्भाशर्करयान्वितम् ॥ ७२ ॥

लोकप्रकाशकस्यैव पायसं गुलदुग्धयुक्
तिलोदनं लोकसाक्षी नैवेद्यं पनसान्वितम् ॥ ७३ ॥

त्रिविक्रमस्य दद्ध्यन्नमादित्यस्य पयोदनम्
शाल्यन्नं सूर्यमूर्तेस्तु तिलचूर्णघृतान्वितम् ॥ ७४ ॥

हरिद्रान्नं सूपयुक्तं सघृतञ्चाशुमालिनः

दिवाकरस्य दुग्धान्न तेषान्नैवेद्यमुच्यते ॥ ७५ ॥

यराद्यष्टवसूनान्तु घृतोदनबलिं क्षिपेत्
गगनाद्यष्टवायूनां शुद्धान्नेन बलिं क्षिपेत् ॥ ७६ ॥

कदलीनालिकेराज्य गुलयुक्तं बलिं क्षिपेत्
सर्वेषामेव शुद्धान्नमुक्तोदनविहीनके ॥ ७७ ॥

अथवा क्षीरमिश्रेण तण्डुलेनाज्य मिश्रतः
सर्वेषामेव देवानां बलिन्दद्याद्विशेषतः ॥ ७८ ॥

उत्तमं करपूर्णेन मद्ध्यमं लिकुचोपमः
अथवाप्यक्षमात्रं वा बलं सर्वत्र दापयेत् ॥ ७९ ॥

तत्तत्पदस्य रेखायां प्रक्षिपेत् बलिमुत्तमम्
अथवापूर्वदिक् भागे मण्डलो विशेषतः ॥ ८० ॥

पृथक्पृथक् बलिन्दद्यात्कर्मसाफल्य हेतवे
श्रीकरं विजयं पुण्यमायुरारोग्यवर्द्धनम् ॥ ८१ ॥

अङ्कुरार्पणकन्त्वादौ कृत्वा कर्म समाचरेत्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ८२ ॥

इतिपूर्वकारणे प्रतिष्ठातन्त्रे अङ्कुरार्पणपटलो विंशतिः