०१८ करणाधिकारविधिपटलः

करणाधिकारविधिपटलप्रारम्भः

अतः परं प्रवक्ष्यामि करणानान्तु लक्षणम्
यागाङ्गाश्च तथा सर्वे करणञ्चेति कीर्तितम् ॥ १ ॥

अरणीलक्षणञ्चैव स्रुक्स्रुवस्य च लक्षणम्
लक्षणन्तोरणानाञ्च अष्टमं गललक्षणम् ॥ २ ॥

आयुधानां प्रमाणञ्च कूर्मासनस्य लक्षणम्
खड्वायालक्षणञ्चैवोलूखलस्य तु लक्षणम् ॥ ३ ॥

शिबिकालक्षणञ्चैव डोलायालक्षणन्ततः
लक्षणन्दीपमालायाः पुष्पाधारस्य लक्षणम् ॥ ४ ॥

भेरिकालक्षणञ्चैव कर्त्तृकाफलकाविधम्
समिधो लक्षणञ्चैव परिधीनान्तु लक्षणम् ॥ ५ ॥

दर्भाणां लक्षणञ्चैव कूर्च्चानां लक्षणन्ततः
लक्षणं विष्टरस्याग्रं लम्बकूर्च्चस्य लक्षणम् ॥ ६ ॥

परिस्तरणदर्भाणान्दर्भमालाप्रमाणकम्
प्रोक्षणीलक्षणञ्चैव पवित्रस्य तु लक्षणम् ॥ ७ ॥

पाद्यपात्रस्य मानस्य पात्रस्याचमनस्य च
लक्षणञ्चार्घ्यपात्रस्य पात्रयोर्गन्धपुष्पयोः ॥ ८ ॥

लक्षणं घृतपात्रस्य प्रणीतालक्षणन्तथा
प्रोक्षणी लक्षणञ्चैव शिवकुम्भस्य लक्षणम् ॥ ९ ॥

वर्द्धनीलक्षणञ्चैव सामान्न्यं कुम्भलक्षणम्
लक्षणं कलशस्यैव शरावस्य तु लक्षणम् ॥ १० ॥

कुण्डिकालक्षणञ्चैव हविः पात्रस्य लक्षणम्
लक्षणञ्चरुपात्रस्य विधानस्य तु लक्षणम् ॥ ११ ॥

पात्रस्य चोपदंशानाञ्जलाधारस्य लक्षणम्
तरङ्गलक्षणञ्चैव गात्रवेष्टनलक्षणम् ॥ १२ ॥

वितानलक्षणञ्चैव ध्वजानां लक्षणन्ततः
उष्णीषञ्चोत्तरीयस्य वस्त्राणाञ्चैव लक्षणम् ॥ १३ ॥

पर्यङ्कानां विधिञ्चैव उपधानस्य लक्षणम्
कक्ष्यायालक्षणञ्चैव प्रच्छन्नपटलक्षणम् ॥ १४ ॥

छत्रस्य लक्षणञ्चैव पिञ्छचामरयोस्तथा
मयूरव्यजनञ्चैव दुकूलव्यजनस्य च ॥ १५ ॥

लक्षणन्धूपपात्रस्य घण्टायाश्चैव लक्षणम्
लक्षणन्दीपपात्रस्य दीपाधारस्य लक्षणम् ॥ १६ ॥

नीराजनस्य पात्रस्य महाघण्टासुलक्षणम्
स्थलिकालक्षणञ्चैव दद्धास्तुलक्षणन्ततः ॥ १७ ॥

दीपादिलक्षणञ्चैव पाद्याधारस्य लक्षणम्
तथाचाचमनाधार पात्रस्यैव तु लक्षणम् ॥ १८ ॥

लक्षणं दर्प्पणस्याथ पादुकायाश्च लक्षणम्
पात्रस्य लक्षणञ्चैव जलद्रोण्याश्च लक्षणम् ॥ १९ ॥

यन्त्रिकालक्षणञ्चैव उल्कालक्षणमेव च
गोलकापट्टपुष्पाणां मकुटस्य च लक्षणम् ॥ २० ॥

हुतप्रमाणं सर्वेषां द्रव्यानाञ्च प्रजापते
शमी वा पिप्पलं वापि गृह्यारण्यतरं पुनः ॥ २१ ॥

अब्ध्यङ्गुलन्तु विस्तारं तिथ्यङ्गुलन्तु दैर्घ्यकम्
रसाङ्गुलघनाप्रोक्ता दैर्घ्याग्रासुदृढासमा ॥ २२ ॥

प्रथमस्य परीणाहं भूताङ्गुलमिति स्मृतम्
द्वाविंशदङ्गुलं दैर्घ्यं कीलङ्क्रव्यायसाग्रके ॥ २३ ॥

युगाङ्गुलेन मूले तु कीलंस्वेनैव कारयेत्
प्रथमस्याग्रके मूले त्वधः पट्टेन वेष्टयेत् ॥ २४ ॥

सप्ताङ्गुलन्तु विस्तारं तदर्द्धं घनमुच्यते
उभयोः पार्श्वयोश्चैव मुष्टिरष्टाङ्गुलं भवेत् ॥ २५ ॥

भूताङ्गुलपरीणाहं सर्वत्रैव सुवृत्तकम्
पञ्चादशाङ्गुलायामं त्रिवृत् गोपालरज्जुकम् ॥ २६ ॥

तन्तुना वाथ कर्त्तव्यं कनिष्ठाङ्गुलिनाहकम्
अरणीलक्षणं प्रोक्तं स्रुक्लक्षणमथ श्रुणु ॥ २७ ॥

स्रुक्स्रुवौ खदिरेणैव शम्यावैकङ्कतेन वा
अथवायाज्ञिकैर्वृक्षैः कर्त्तव्यौ लक्षणान्वितौ ॥ २८ ॥

सङ्गृह्यमद्ध्यसारन्तु द्विधाकृत्वा तरुं पुनः
तत्पार्श्वे बिलमाख्यातमवक्रन्निर्व्रणन्दृढम् ॥ २९ ॥

द्वात्रिंशदङ्गुलायामं सप्ताङ्गुलसुविस्तृतम्
तत् घनन्तु चतुर्मात्रमेवं पादञ्च तत्र वै ॥ ३० ॥

मद्ध्ये सूत्रं प्रसार्यादौ मुखायामं षडङ्गुलम्
अग्रभागं त्रिभागैकं मुखविस्तारमुच्यते ॥ ३१ ॥

यवत्रयप्रमाणेन पट्टिकामुखपार्श्वयोः
यवमानेन निम्नं स्यात् मुखं सर्वमशेषकम् ॥ ३२ ॥

पक्षाङ्गुलं गलायामं विस्तारन्तु शराङ्गुलम्
सप्ताङ्गुलायतावेदी विस्तारन्तत्समं भवेत् ॥ ३३ ॥

बिलं सुवृत्तं मद्ध्ये तु चाङ्गुलद्वयमानतः
तद्विस्तारसमं गर्त्तं सुवृत्तं बिलमुच्यते ॥ ३४ ॥

पट्टिकाबिलबाह्ये तु यवमानघनान्वितम्
तत्बाह्येष्टदलं पत्रं यवनिम्नं विचित्रितम् ॥ ३५ ॥

वेदिकायास्तु परितः पट्टिकात्रियवा घनाः
बिलादूद्ध् र्वमुखात्खात्वा कनिष्ठाङ्गुलमानतः ॥ ३६ ॥

तारेण वाथ ताम्रेण नालं कृत्वा तु योजयेत्
पक्षाङ्गुलप्रमाणेन पद्माकारन्तु गण्डिका ॥ ३७ ॥

दण्डिकैकाङ्गुलावृत्ता तन्नाहञ्चाब्धिमात्रकम्
रव्यङ्गुलन्तु दण्डोच्चन्तस्यार्द्धन्नाहमुच्यते ॥ ३८ ॥

तन्मूले कलशाकारमङ्गुलद्वयमानतः
धर्माङ्गुलन्तु नाहं स्यात् तस्याधस्ताच्च पादयुक् ॥ ३९ ॥

वेदिकायास्त्वधः पद्यं पृष्ठाकारं सकर्णिकम्
गजोष्ठपृष्ठसदृशमास्यं पृष्ठा कृतिर्भवेत् ॥ ४० ॥

एवं सङ्ग्राह्य तच्छेषं परित्यज्य दृढं यथा
एवं स्रुक्लक्षणं प्रोक्तं स्रुवलक्षणमुच्यते ॥ ४१ ॥

द्वाविंशदङ्गुलायामं दण्डिनाहं रसाङ्गुलम्
मूलात् ग्रीवान्तरं यावत् त्र्यङ्गुलं ग्रीवनाहकम् ॥ ४२ ॥

मूलवच्चाग्रनाहं स्याद्विबिलन्नासिका कृतिः
पूरितं करिषार्द्धेन बिलमानं प्रकीर्तितम् ॥ ४३ ॥

पुष्कराधः प्रकर्त्तव्या गण्डिका द्वियवोन्नता
दक्षिणेन करेणैवा नामिकान्तु सुवक्रकाम् ॥ ४४ ॥

अङ्गुष्ठाञ्च सुपर्वं स्यात्तर्जनी मद्ध्यमाङ्गुली
संयुक्तौ चोच्छ्रितौ द्वौ च उच्छ्रिता च कनिष्ठिका ॥ ४५ ॥

करणे तेन मन्त्रज्ञस्स्युवेणैव तु होमयेत्
स्रुग्बिलन्तु घृतेनैव पूरयित्वा बिलोपरि ॥ ४६ ॥

स्रुवाग्रेणैव तन्त्रेण पुटं स्यात्तु विधाय च
उत्तानौ तु करौ कृत्वा वेणिबन्धन्तु कारयेत् ॥ ४७ ॥

उच्छृतौ द्वौ तु तर्जन्यौ तथा चैव कनिष्ठिकौ ।
वक्राङ्गुष्ठौ स्रुवौ ग्राह्य द्वाभ्यां पूर्णाहुतिं हुनेत् ॥ ४८ ॥

एवं स्रुकस्रुवयोः प्रोक्तञ्चोरणानान्ततश्शृणु
भूतहस्तसमुत्सेधं विस्तारस्स्यात्तदर्द्धकम् ॥ ४९ ॥

करप्रमाणं शूलं स्यादङ्घ्रिनाहं रसाङ्गुलम्
कन्न्यसाय समे तद्धि वक्ष्यतेतः परं क्रमात् ॥ ५० ॥

भूतहस्तं समारभ्य नवहस्तान्तकं क्रमात्
दीर्घन्तालाधिकं कुर्यात्तेषामर्द्धन्तु विस्तृतम् ॥ ५१ ॥

तस्मात्पक्षाङ्गुलाधिक्यन्नाहं प्रत्येकमाचरेत्
तोरणानाञ्च सर्वेषां शूलं वै हस्तमानकम् ॥ ५२ ॥

नवधातोरणं प्रोक्तं श्रुणुष्वाथाष्टमं गलम्
याज्ञिकं वृक्षमादाय कारयेल्लक्षणान्वितम् ॥ ५३ ॥

कलाङ्गुलसमायामं विस्तारन्तु तदर्द्धतः
पद्मासनमधस्तात्तु विस्तारार्द्धेन कारयेत् ॥ ५४ ॥

श्रीवत्सादीनि तस्योद्ध् र्वे लेखयेत्तु विशेषतः
श्रीवत्सम्मत्स्ययुग्मञ्च स्वस्तिकन्दर्पणं गजम् ॥ ५५ ॥

पूर्णकुम्भञ्च वृषभन्दीपं स्यादष्टमं गलम्
अष्टमं गलमेवं स्यादस्त्राणां लक्षणं श्रुणु ॥ ५६ ॥

हैमराजतताम्रैर्वा अयसापादपेन वा
एतेष्वेकतमेनैव कारयेल्लक्षणान्वितम् ॥ ५७ ॥

षोडशाङ्गुलमायामं षडङ्गुलन्तु विस्तृतम्
तदर्द्धन्तु घनं प्रोक्तं सुदृढन्त्वव्रणम् ऋजुम् ॥ ५८ ॥

चतुरङ्गुलमानेन मद्ध्यमे गण्डिकात्रयम्
गण्डिकानान्तु नाहन्तु प्रत्येकं द्वादशाङ्गुलम् ॥ ५९ ॥

कृताङ्गुलप्रमाणेन शूलं कुर्यात्तदग्रके ।
अर्द्धाङ्गुलप्रमाणेन पत्रतारं प्रकीर्त्तितम् ॥ ६० ॥

पक्षपत्रद्वयं कृत्वा अर्द्धचन्द्राकृतिर्भवेत्
मद्ध्यपत्रमृजुं प्रोक्तं पत्रतारं यवद्वयम् ॥ ६१ ॥

पत्रतारेण मूले तु पादायामं प्रकीर्तितम्
द्विगुणम्मद्ध्यपत्रस्य पादायामं प्रकीर्तितम् ॥ ६२ ॥

अर्द्धाङ्गुलप्रमाणेन पत्राणान्तु घनं भवेत्
शेषं दण्डमिति प्रोक्तं नाहञ्चैव नवाङ्गुलम् ॥ ६३ ॥

एवम्मूले तु कर्तव्यं त्रिशूलं लक्षणान्वितम्
वज्रस्य लक्षणं प्रोक्तं शक्तिलक्षणमुच्यते ॥ ६४ ॥

विकाराङ्गुलमायामं विस्तारन्तु युगाङ्गुलम्
तस्यार्द्धन्तु घनम्मद्ध्ये गण्डिका चतुरङ्गुलम् ॥ ६५ ॥

तदूद्ध् र्वे तदधः कृत्वा त्रिशूलं मद्ध्यपत्रवत्
शक्तिलक्षणमेवन्तु दण्डलक्षणमुच्यते ॥ ६६ ॥

कल्पाङ्गुलसमायामं मूलं वेदाङ्गुलेन तु
गण्डिकाकारयेद्वृत्तं विस्तारञ्चतुरङ्गुलम् ॥ ६७ ॥

कृताङ्गुलं भवेन्मुष्टिस्तन्नाहं कौशिकाङ्गुलम्
कृत्वाङ्गुलन्तु विस्तारन्तस्योद्ध् र्वे गण्डिकाङ्गुलम् ॥ ६८ ॥

ऊद्ध् र्वे रसाङ्गुलन्तारमधस्तात्तु युगाङ्गुलम्
क्रमेण कृशतां कुर्यात् विस्तारार्द्धेन वर्द्धितम् ॥ ६९ ॥

नाहन्तु दण्डिमेवं स्यादसिलक्षणमुच्यते
षोडशाङ्गुलमायाममश्विन्न्यङ्गुलविस्तृतम् ॥ ७० ॥

मद्ध्यमे नवतन्मद्ध्ये पृष्ठे त्वश्रन्तु कारयेत्
कञ्चकन्तु षडङ्गुल्यं तद्विस्तारं यवद्वयम् ॥ ७१ ॥

युगाङ्गुलेन कण्ठन्तु तस्यनाहं गुणाङ्गुलम् अर्द्धाङ्गुलन्तु फलका विस्तारं त्रियवं घनम् ॥ ७२ ॥

पुष्पमर्द्धाङ्गुलं ज्ञेयं शेषं युक्त्याप्रकल्पयेत्
असिलक्षणमेवं स्यात् पाशलक्षणमुच्यते ॥ ७३ ॥

आयामं पूर्ववत्कृत्वा फलद्वयकृताङ्गुलम्
रसाङ्गुलन्तु विस्तारं परस्परनिरीक्षकौ ॥ ७४ ॥

वेदाङ्गुलन्तु नाहन्तु तदूद्ध् र्वे द्वादशाङ्गुलम्
द्वयमर्द्धन्तु नाहं स्यात् कृशतः कृशमूलतः ॥ ७५ ॥

पाशस्य लक्षणं प्रोक्तं शृणुष्वङ्कुशलक्षणम्
कलाङ्गुलसमायामं तन्नाहन्तु षडङ्गुलम् ॥ ७६ ॥

अर्द्धाङ्गुलेन मुकुलमग्न्यङ्गुलप्रमाणतः
तरुणेन्दुसमाकारं मुकुलाधस्तु योजयेत् ॥ ७७ ॥

अङ्कुशञ्चैवमाख्यातं गदालक्षणमुच्यते
गण्डिकैकाङ्गुलम्मूलं मुष्टिस्तु चतुरङ्गुलम् ॥ ७८ ॥

तदूद्ध् र्वे गण्डिकाङ्गुल्यं गदाशेषं प्रकीर्तितम्
षोडशाङ्गुलनाहं स्यादष्टाग्रन्तु गदाकृतिः ॥ ७९ ॥

गदायालक्षणं प्रोक्तं शूलस्य लक्षणं श्रुणु
षोडशाङ्गुलमायामं विस्तारन्तु षडङ्गुलम् ॥ ८० ॥

वेदाङ्गुलघनं प्रोक्तं शूलवत्कारयेत् बुधः
शूललक्षणमेवं स्याच्चक्रलक्षणमुच्यते ॥ ८१ ॥

आयामं पूर्ववत्प्रोक्तमष्टाङ्गुलन्तु विस्तृतम्
मद्ध्येनाभिसमायुक्तं षोडशारसमायुतम् ॥ ८२ ॥

एकाङ्गुलन्तु विस्तारं परितः पत्रमुच्यते
मूद्धि्र्नपार्श्वे तु कर्त्तव्यं ज्वलनान्तं विशेषतः ॥ ८३ ॥

दण्डन्तु शूलवत्कुर्यात्प्रोक्तञ्चक्रस्य लक्षणम्
चक्रलक्षणमेवोक्त श्रुणु पद्मस्य लक्षणम् ॥ ८४ ॥

अर्द्धाङ्गुलन्तु मुकुलं नाहं स्मृत्यङ्गुलं भवेत्
दलाष्टकसमायुक्तन्नालायामं दशाङ्गुलम् ॥ ८५ ॥

रसाङ्गुलन्तु तन्नाहं कुर्यात्पद्मं सलक्षणम् ।
एवं दशायुधं प्रोक्तं कूर्मासनविधिं श्रुणु ॥ ८६ ॥

रुद्राङ्गुलन्नु विस्तारस्तदर्द्धन्नैववर्द्धयेत्
श्रुत्यङ्गुलं घनं प्रोक्तं मुष्टिं भूताङ्गुलं भवेत् ॥ ८७ ॥

सप्ताङ्गुलेन तन्नाहं मानाङ्गुलेन कारयेत्
कच्छपासनमेवं स्यात् खट्वायालक्षणं श्रुणु ॥ ८८ ॥

चतुर्विंशाङ्गुलं पद्मं ज्येष्ठम्मानाङ्गुलेन तु
मद्ध्यमन्तु कलाङ्गुल्यमधमं द्वादशाङ्गुलम् ॥ ८९ ॥

विंशत्यङ्गुलमानेन ज्येष्ठं पादस्य नाहकम्
मद्ध्यमस्याधमस्यैव विद्याङ्गुलविहीनकम् ॥ ९० ॥

मूलपादस्य विस्तारं शेषं युक्त्या प्रकल्पयेत्
महाङ्घ्रिखरपादं वा मृगेन्द्राङ्घ्रिसमन्तु वा ॥ ९१ ॥

षट् त्रिंशदङ्गुलन्तारं द्विगुणन्तत्समायुतम्
कौशिकाङ्गुलविस्तारमीलिकाग्न्यङ्गुलं घनम् ॥ ९२ ॥

ईलिकारन्तथा कृत्वा मद्ध्यभागेन पट्टिका
कुर्यात्कपोतकं बाह्ये पट्टिका द्वयमेव तु ॥ ९३ ॥

अधमं कल्पतारैर्वा रत्नहेमेन वेष्टयेत्
ईलिकाभ्यन्तरे चैव विन्न्यस्त्वाधातुनागलात् ॥ ९४ ॥

सुषिरेष्वर्गलानान्तु नाराचं योजयेत्सुधीः
नाराचैश्च समायुक्तं रज्वासं वेष्टये ततः ॥ ९५ ॥

खट्वायालक्षणं प्रोक्तं प्रोच्यते लूखलस्य तु
विंशत्यङ्गुलमायाममुत्तमं सम्प्रकीर्तितम् ॥ ९६ ॥

स्मृत्यङ्गुलं भवेन्मद्ध्यं कन्न्यसन्तु कलाङ्गुलम्
आयामं त्रिगुणी कृत्य तन्नाहन्तु विधीयते ॥ ९७ ॥

चतुर्त्थाविभजेदायं त्रिभागं गर्त्तमुच्यते
उत्सेधस्यार्द्धमानेन ग्रीवामूलस्य नाहकम् ॥ ९८ ॥

ओष्ठं पक्षाङ्गुलं प्रोक्तमुत्तमस्य विशेषतः
पादं पादाङ्गुलं हीनं मद्ध्यमस्याधमस्य तु ॥ ९९ ॥

लूखलस्यैवमाख्यातं मुसलस्य विधिं श्रुणु
सार्द्धत्रितालमधमं युगतालन्तु मद्ध्यमम् १००
उत्तमं भूततालं तु मुन्न्यद्रिरन्ध्रकाङ्गुलम्
कन्न्यसादिपरीणाहं वृत्तन्तु सर्वतस्समम् १०१
आयसार्द्धाङ्गुलेनैव वेष्टयेन्मूलके दृढम्
एवन्तु मुसलं प्रोक्तं शिबिकालक्षणं श्रुणु १०२
सारदारुमयेनैव मानाङ्गुलेन कारयेत्
षट्त्रिंशदङ्गुलन्तारं कन्न्यसस्य प्रकीर्तितम् १०३
मद्ध्यमञ्चाष्टचत्वारि षष्ट्यङ्गुलमथोत्तमम्
विस्तारं द्विगुणायामं पादोनद्विगुणन्तु वा १०४

ईलिकायास्तु विस्तारं श्रेष्ठस्याब्ध्यङ्गुलं भवेत्
अङ्गुलाङ्गुलहीनन्तु मद्ध्यमस्याधमस्य च १०५
तस्यार्द्धन्तु घनं प्रोक्तमीलिकायाः प्रजापते
ईलितारं त्रिधा कृत्वा मद्ध्यभागेन पट्टिका १०६
भागेनैकेन तत् बाह्ये कारयेत्तु कपोतकम्
आयाममष्टधा कृत्वा भागेन भित्तिपादकम् १०७
कुम्भञ्च वलयञ्चैव वृत्तकञ्चारुहीनकम्
ईलिकामद्ध्ययोर्मद्ध्ये चतुरश्रीकृतन्तथा १०८
एकैकशांशेन चोद्ध् र्वाधः पट्टिका द्वयमेव हि
मद्ध्यमे तु विभागेन फलका चक्रमेण तु १०९
ईलिकैर्जालकैश्चैव फलकैर्गलकैरपि
नानावल्ली समायुक्तां नानाक्रीडा समायुताम् ११०
तत्पूर्वभित्तेरुत्सेधमष्टाङ्गुलमिति स्मृतम्
सिंहद्वयसमायुक्तन्तदूद्ध् र्वे मकरास्यकम् १११
पालिकासदृशं पादं तत्र सप्ताङ्गुलोन्नतम्
अयः पट्टैश्च नाराचैर्दृढं कुर्याद्विशेषतः ११२
वेणिकावेष्टनं वापि फलकाबन्धनं कुरु
शिबिकालक्षणं प्रोक्तं डोलाया लक्षनं श्रुणु ११३
पादोर्ध्वे कल्पयेद्धीमान् मण्टपाकृतिकन्तथा
अश्वश्च वृषभश्चैव गजं सारम्म्यकर्मणि ११४
विनाचान्न्यानि सर्वाणि रथवत्कारयेत्क्रमात्
डोलाया लक्षणं प्रोक्तं दीपमालाविधिं श्रुणु ११५
अयसावाथ ताम्रेण दारुभिर्दीपमालिका
द्वारेषु द्वारवत्कुर्यात् लिङ्गपृष्ठे प्रभाकृतिः ११६
द्वारमानप्रमाणेन कारयेदन्यदेशके
सुस्निग्धं कारयेद्धीमान् स्कन्धान् वेदाङ्गुलायतान् ११७

त्रिभागैकन्न्यसेद्दण्डे भूताङ्गुलमथान्तरम्
दीपमालाविधिः प्रोक्तः पुष्पाधारविधिं श्रुणु ११८
अशोकार्जुनको निम्बं मधूकं पनेसासनः
खादिरं शिंशुपाचाम्रं चन्दनं चम्पकाशुभा ११९
अष्टतालप्रमाणेन विस्तारं द्विगुणायतम्
देवपादसमायुक्तं द्वादशाङ्गुलदैर्घ्यकम् १२०
घनमष्टाङ्गुलं प्रोक्तं भित्युत्सेधं गुणाङ्गुलम्
दर्पणोदरसङ्काशं कुर्यान्मानाङ्गुलेन तु १२१
पुष्पाधारविधिप्रोक्तं भेरिकालक्षणं श्रुणु।
युगतालसमायामं नागभूतयमं भवेत् १२२
द्वादशाङ्गुलमानेन मुखतारं विधीयते
आमुखान्तं सुवृत्तं स्यात् घनमर्द्धाङ्गुलं भवेत् १२३
उभयोः पार्श्वयोर्मद्ध्ये त्वयः पट्टेन वेष्टयेत्
सप्तकीलसमायुक्तं मानाङ्गुलेन कारयेत् १२४
भेरिकालक्षणं प्रोक्तं कत्रिकालक्षणं श्रुणु
षड्विंशत्यङ्गुलायामं तिथ्यङ्गुलन्तु विस्तृतम् १२५
पार्श्वे युगाङ्गुलं हित्वा वर्तयेच्च शिखण्डवत्
षडङ्गुलप्रमाणेन तन्मद्ध्ये वर्तयेत्क्रमात् १२६
युगाङ्गुलप्रमाणेन भित्युत्सेधं प्रकीर्तितम्
द्वियवन्तु घनन्तस्य मद्ध्ये गर्भन्तु कारयेत् १२७
परितः पट्टिकां कुर्यात् द्व्यङ्गुलन्तु घनं भवेत्
द्वादशाङ्गुलमायामं द्विवक्रं खरपादवत् १२८
नाहमर्द्धाङ्गुलं तस्य एकपादन्तु योजयेत्
कत्रिकालक्षणं प्रोक्तं समिधो लक्षणं श्रुणु १२९
अदित्याङ्गुलमायामं कनिष्ठाङ्गुलनाहकम्
पादेन पादसंयुक्तम् अग्रेणाग्रसमायुतम् १३०

कवक्रं निर्वृणञ्चैव शुष्काश्चैव शुभप्रदाः
समिधो लक्षणं प्रोक्तमेवमिद्ध् मस्य लक्षणम् १३१
आयामं परिधीनाञ्च वेदयुक्तं दशाङ्गुलम्
मद्ध्याङ्गुलपरीणाहमवक्रानिर्वृणासमा १३२
प्रोक्ता तु यत्समित्तेन परिधिध्वनि सङ्ग्रहेत्
एवं स्यात्परिधीनान्तु दर्भाणां लक्षणं श्रुणु १३३
स्त्रीपुन्नपुंसकाः काशास्त्रिविधास्समुदाहृताः
मृदुश्यामाचजायाचजायाकर्मसु योजयेत् १३४
ईषत्पक्षसमायुक्तं स्थिरः पुल्लिङ्गकाशकः
पुंस्त्रियायास्तु पुल्लिङ्गान् ग्राहयेत्तु विशेषतः १३५
नपुंसकं तु सङ्ग्राह्यं स्थिरं कोमलवर्जितम्
मूलस्थूलं भवेन्नारी अग्रस्थूलं नपुंसकम् १३६
मूलाग्रन्तु समञ्चैव पुमान्दर्भस्य लक्षणम्
विच्छिन्नाग्रासुभिन्नाग्रा अग्रास्याखण्डितास्तथा १३७
दर्भाणां लक्षणं ह्येवं कूर्चानां लक्षणं श्रुणु
नवकाशैश्चोत्तमं स्यात्सप्तकाशैस्तु मद्ध्यमम् १३८
कन्यसं भूतकाशैस्तु ग्रन्धिव्योमाङ्गुलं भवेत्
दक्षिणावर्तकं ग्रन्धिकूर्चाग्रं चतुरङ्गुलम् १३९
ग्रन्धिमूलात्समारभ्य रुद्रधर्मग्रहायतम्
कूर्चानां लक्षणं प्रोक्तं विष्टरस्य विधिं श्रुणु १४०
धातुकाशसमायुक्तं ग्रन्धितं सव्यमार्गतः
रव्यङ्गुलन्तु मूलाग्रं ग्रन्धिव्योमाङ्गुलं भवेत् १४१
विष्टरस्य विधिः प्रोक्तो लम्बकूर्चविधिं श्रुणु
एकविंशतिदर्भैश्च ग्रन्धिरेकाङ्गुलं भवेत् १४२
ग्रन्धिस्तुद्दक्षिणावर्तः कूर्चाग्रञ्चतुरङ्गुलम्
मूर्द्धादिपादपर्यन्तं लम्बितं तत्तदायतम् १४३

लम्बकूर्चविधिः प्रोक्तः परिस्तरणमुच्यते
धर्मकाशसमायुक्तं ग्रन्धिपक्षाङ्गुलं भवेत् १४४
वेदाङ्गुलं भवेदग्रं षट्त्रिंशदङ्गुलायतम्
परिस्तरणमेवं स्यात् दर्भमालाविधिं श्रुणु १४५
भूतवेदाग्निदर्भैर्वा व्योमहस्तं प्रलम्बितम्
कनिष्ठाङ्गुलनाहन्तु रज्जुं कुर्यान्मनोरमम् १४६
दर्भमालाविधिः प्रोक्तः प्रोक्षणी लक्षणं श्रुणु
सप्तविंशतिभिर्दर्भैः कलाङ्गुलसमायतम् १४७
व्योमाङ्गुलं भवेत् ग्रन्धिवेदाङ्गुलं तथाग्रकम्
वेणिकाविष्टरावाथ प्रोच्यते प्रोक्षणी तथा १४८
कुशं काशसुवर्णैर्वा द्वाभ्यां वा त्रिभिरेव वा
एकी कृत्याग्रकान्तैश्च एकमूलन्तु योजयेत् १४९
षोडशाङ्गुलमायामं वर्तयित्वा समन्ततः
द्विगुणी कृत्य तद्रज्जुम्ं ग्रन्धिरेकाङ्गुलं भवेत् १५०
दक्षिणावर्तकं तस्य तदग्रञ्चतुरङ्गुलम्
अनामिकाया योक्तव्यमुभयोर्हस्तयोरपि १५१
सत्पवित्रकरेणैव सर्वकार्यं समाचरेत्
सपवित्र करेणैव कुर्यादाचमनक्रियाम् १५२
नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्
सौवर्णञ्चेत् पवित्रन्तु कुञ्जेनागफणेन तु १५३
नाहेनानामिकायास्तु कुर्याद्वृत्तं समं यथा
पवित्रविधिमाख्यातं पात्राणां लक्षणं श्रुणु १५४
मृरामयं कन्यसं तारं ताम्रजं मद्ध्यमं भवेत्
सौवर्णेन कृतं पात्रमुत्तमञ्चेति कीर्तितम् १५५
तारं रसाङ्गुलं ज्ञेयमुत्सेधन्तु युगाङ्गुलम्
तत्पृष्ठाङ्घ्रिसमायुक्तं चतुरङ्गुलमानतः १५६

आस्येन नासिकायुक्तं वेदाङ्गुलसमायुतम्
पाद्यपात्रं समाख्यातं शृण्वाचमनपात्रकम् १५७
आदित्याङ्गुलमानेन कुक्षिविस्तारमुच्यते
अष्टत्रिंशति मात्रेण नाहं कुक्षेस्तु मद्ध्यमम् १५८
अग्न्यङ्गुलगलोत्सेधमोष्ठं व्योमाङ्गुलं भवेत्
आस्यतारं त्रिमात्रन्तु पार्श्वे घ्राणसमायुतम् १५९
पक्षाङ्गुलसमायामं रन्ध्रं कानिष्ठिकं समम्
अद्ध्यर्द्धाङ्गुलमानेन पादं कुर्यात्तु पृष्ठके १६०
एवमाचमनं पात्रमर्घ्यपात्रमथ श्रुणु
वस्वङ्गुलन्तु विस्तारमुत्सेधञ्चतुरङ्गुलम् १६१
अर्घ्यपात्रमिदं प्रोक्तं गन्धपात्रमिदं श्रुणु
एवमेवं विशेषेण कल्पयेत् गन्धपात्रकम् १६२
गन्धपात्रं समाख्यातं पुष्पपात्रमथ श्रुणु
अष्टाङ्गुलसमुत्सेधं विस्तारं विंशदङ्गुलम् १६३
नाहं भूताङ्गुलं ज्ञेयम् उभयोः पार्श्वयोरपि
तन्मानं पादविस्तारं विधानकसमन्वितम् १६४
एवमेवन्तथा कुर्यात् वेत्रेणैवाथवा कुरु
पुष्पपात्रविधिः प्रोक्तमाज्यपात्रविधिं श्रुणु १६५
वेदाङ्गुलं समुत्सेधं विस्तारन्तु षडङ्गुलम्
अष्टाङ्गुलेन तस्योद्ध् र्वमेतद्धि घृतपात्रकम् १६६
सार्द्धभूताङ्गुलन्तारं सार्द्धाङ्गुलसमुच्छ्रयम्
प्रणीतालक्षणं प्रोक्तं प्रोक्षणी लक्षणं शृणु १६७
बाह्वङ्गुलन्तु विस्तारमुत्सेधन्तु गुणाङ्गुलम्
पात्राणामप्यलाभे तु शङ्खं वा शुक्तिकन्तु वा १६८
प्रोक्षणी पात्रमेवं हि शिवकुम्भविधिं श्रुणु
तिथ्यङ्गुलप्रविस्तारन्निम्नं रुद्राङ्गुलायतम् १६९

आस्यं वेदाङ्गुलं ज्ञेयं कण्ठायामन्तथाङ्गुलम्
ओष्ठमेकाङ्गुलं ज्ञेयमर्द्धाङ्गुलन्तु निर्गमम् १७०
गलादधस्त्रिरेखायुक् पक्वबिम्बफलप्रभम्
अलङ्करहितं स्निग्धं दाडिमी कुसुमप्रभम् १७१
शिवकुम्भविधिः प्रोक्तो वर्द्धनी लक्षणं श्रुणु
रन्ध्राङ्गुलं प्रविस्तारं वर्द्धनीजठरस्य तु १७२
अग्न्यङ्गुलन्तदुत्सेधं वक्रमर्द्धाङ्गुलं भवेत्
अग्न्यङ्गुलमधोष्ठन्तु पार्श्वे तु नासिकायुतम् १७३
सार्द्धाङ्गुलप्रमाणेन उत्पलाकृतिवत्कुरु
सार्द्धाङ्गुलं गलोत्सेधं त्रियवञ्चाष्टनिर्गतः १७४
वर्द्धनी लक्षणं प्रोक्तं कुम्भानां लक्षणं श्रुणु
रुद्राङ्गुलन्तु विस्तारमुत्सेधं पर्वताङ्गुलम् १७५
त्र्यङ्गुलञ्चोष्ठविस्तारमत्सेधं व्योममात्रकः
सार्द्धाङ्गुलं गलोत्सेधं त्रियवञ्चोष्ठनिर्गमम् १७६
कुम्भानां लक्षणं प्रोक्तं कलशानां श्रुणुष्वथ
वस्वङ्गुलप्रविस्तारमुत्सेधन्तु रसाङ्गुलम् १७७
ग्रीवमर्द्धाङ्गुलोत्सेधमोष्ठन्तत्सममेव तु ।
त्र्यङ्गुलञ्चोष्ठविस्तारं यवमोष्ठस्य निर्गतः १७८
पक्वबिम्बफलोपेतं शेषं युक्त्याप्रकल्पयेत्
कलशस्य विधिः प्रोक्तं शरावलक्षणं श्रुणु १७९
पक्षाङ्गुलसमुत्सेधं विस्तारन्तु गुणाङ्गुलम्
शरावमेवमाख्यातं कुण्डिकालक्षणं श्रुणु १८०
वेदाङ्गुलन्तु विस्तारमग्न्यङ्गुलन्तु दैर्घ्यकम्
सार्द्धाङ्गुलेन तारन्तु चोष्ठमर्द्धाङ्गुलं भवेत् १८१
पक्षाङ्गुलं गलोत्सेधं पार्श्वे घ्राणसमायुतम्
व्योमाङ्गुलप्रमाणेन पदं पृष्ठे नियोजयेत् १८२

कुण्डिकालक्षणं प्रोक्तं हविः पात्रविधिं श्रुणु
तस्य कुक्षेस्तु विस्तारं दशाङ्गुलमिति स्मृतम् १८३
अर्द्धाङ्गुलसमुत्सेधं कर्णोत्सेधमथाङ्गुलम्
कण्ठं व्योमाङ्गुलं ज्ञेयमास्य तारं कृताङ्गुलम् १८४
शेषं बुद्ध्याप्रकर्त्तव्यं पचेत्पात्रार्द्धकेशिवम्
द्रोणन्तु तण्डुलं यावत्तावत्ब्रह्मणमाचरेत् १८५
हविःपात्रविधिः प्रोक्तश्चरुपात्रविधिं श्रुणु
उदरस्य तु विस्तारन्धर्माङ्गुलमिति स्मृतम् १८६
कृताङ्गुलन्तदुत्सेधं कर्णमेकाङ्गुलोच्छ्रयम्
आस्यमेकाङ्गुलं प्रोक्तमोष्ठमेकाङ्गुलं भवेत् १८७
चरुपात्रविधिः प्रोक्तः विधानस्य विधिं श्रुणु
पात्रस्य तारं यावत्तु तावत्कुर्याद्विधानकम् १८८
ईषन्निमग्नं तन्मद्ध्ये वलयन्तत्र विन्नयसेत्
विधानस्य विधिः प्रोक्तमुपदंशविधिं श्रुणु १८९
उदरस्य तु विस्तारमष्टाङ्गुलमिति स्मृतम्
युगाङ्गुलसमुत्सेधं कण्ठमेकाङ्गुलं भवेत् १९०
षडङ्गुलेनास्य तारम् ओष्ठमेकाङ्गुलं भवेत्
पात्रं स्यादुपदंशाय जलाधारविधिं श्रुणु १९१
चतुर्विंशतिमात्रन्तु विस्तारमुदरस्य तु
विंशदङ्गुलमुत्सेधमास्य तारं कलाङ्गुलम् १९२
ओष्ठं पक्षाङ्गुलं ज्ञेयं तस्याधस्तात्त्रिरेखया
यवत्रयप्रमाणेन कुर्यादुदरबन्धनम् १९३
विस्तारमुदितं यत्र तस्योद्ध् र्वेनैववर्द्धयेत्
पात्राणामपि सर्वेषां तन्नाहविधिरुच्यते १९४
पाद्यपात्रादिपात्राणि कुर्यान्नानाङ्गुलेन तु
जलाधारमिति प्रोक्तं तरङ्गस्य विधिं श्रुणु १९५

क्षौमपट्टदुकूलैर्वा कुर्यात्कार्प्पासशालिना
तिथिवस्त्रयुतं वापि चार्कवस्त्रयुतन्तु वा १९६
रन्ध्रवस्त्रयुतं वापि चास्येरज्जुसमायुतम्
नानावर्णसमायुक्तन्नानारूपसमन्वितम् १९७
एवन्तरङ्गमाख्यातं स्तम्भवेष्टनमुच्यते
गात्रायामसमं वस्त्रन्निच्छिद्रन्तेन वेष्टयेत् १९८
स्तम्भवेष्टनमेवन्तु वितानमधुनोच्यते
दैर्घ्यं वै पङ्कि्तमानं स्याद्विस्तारमपि तत्समम् १९९
दकूलपट्टदेवाङ्गैः कार्पासेनैव कारयेत्
वितानलक्षणं प्रोक्तं केतूनां लक्षणं श्रुणु २००
विंशदङ्गुलविस्तारमायामं त्रिंशदङ्गुलम्
विस्तारेण समं पुच्छन्तस्योद्ध् र्वे शिखरं भवेत् २०१
चतुःपुच्छं त्रिपुच्छं वा पुच्छद्वयमथापि वा
पार्श्वे कदलिकायुक्तं वेत्त्रद्वयसमायुतम् २०२
केतुलक्षणमेवोक्तं पताकालक्षणं श्रुणु
नवहस्तमष्टहस्तं वा सप्तहस्तमथापि वा २०३
ध्वजवत्कारयेच्छेषन्नानावस्त्रैश्च कारयेत्
पताकालक्षणं ह्येवं क्षुद्रद्ध् वजविधिं श्रुणु २०४
बाणाङ्गुलन्तु विस्तारं द्वादशाङ्गुलदैर्घ्यकम्
वेत्रद्वयसमायुक्तं शेषन्तु केतुवत्कुरु २०५
क्षुद्रद्ध् वजविधिः प्रोक्तं शिखरे रज्जुसंयुतम्
ध्वजानां लक्षणं प्रोक्तम् उष्णीषस्य विधिं श्रुणु २०६
षट् हस्तं पञ्चहस्तं वा पञ्चभागेन विस्तृतः
सुश्लक्ष्णं सदशं सूक्ष्मं सितं रोमविवर्जितम् २०७
शिरसञ्चिबुकेनैव कर्णाभ्याञ्चैव वेष्टयेत्
पुच्छं वै वामकर्णन्तु वेष्टयेत्तु प्रदक्षिणम् २०८

वेष्टयित्वेवमेकन्तु शेषं शिरसिवेष्टयेत्
उष्णीषलक्षणं प्रोक्तमुत्तरीयविधिं श्रुणु २०९
बाणहस्तायतं वापि वेदहस्तायतन्तु वा
तालमात्रप्रविस्तारं बन्धयेत्तु द्विपुच्छकौ २१०
यज्ञोपवीतवद्धार्यमुत्तरीयं विशेषतः
यजने स्थापने चाग्नि कार्ये चैवोत्सवे जपे २११
उष्णीषञ्चोत्तरीयञ्च धारयेत् देशिकोत्तमः
उत्तरीयविधिः प्रोक्तं वस्त्रलक्षणमुच्यते २१२
देवाङ्गं क्षौमकं वापि नेत्रं कार्पाससम्भवम्
उत्तमन्नवहस्तं स्यात् मद्ध्यमं रसहस्तकम् २१३
अधमं बाणहस्तं स्यात् चतुर्भागैकविस्तृतम्
सामान्न्यवस्त्रमेवन्तु सर्वकार्यन्तु सङ्ग्रहेत् २१४
पीठोत्सेधस्य चाद्ध्यर्द्धं वस्त्रविस्तारमुच्यते
तस्याष्टाङ्गुलमायामं सदशन्तु सलक्षणम् २१५
जीर्णितञ्चाग्निदग्धञ्च आखुदष्टञ्च वर्जयेत्
वस्त्रस्य लक्षणं प्रोक्तं पर्यङ्कानां विधिं श्रुणु २१६
अण्डजम्मुण्डजञ्चैव रोमजञ्चर्मजन्तथा
वामजञ्चैव पञ्चैते शयनं सम्प्रकल्पयेत् २१७
खत्वायामसमायाममायामार्द्धन्तु विस्तृतम्
उत्सेधं हस्तमानन्तु प्रहिणं व्याघ्रद्वर्मणाम् २१८
पूरितञ्चानिलेनैव चर्मजञ्चेति कीर्तितम्
आधारं पूर्ववत्कृत्वा रोमैः कृष्णमृगोद्भवैः २१९
सम्पूर्णकञ्च यत्तल्पं रोमजञ्चेति कीर्तितम्
पूर्वोक्तलक्षणोपेतं वस्त्रेण प्रहणं कुरु २२०
शाल्मली तूलसम्पूर्णम्मुण्डजञ्चेति कीर्तितम्
प्रागुक्तलक्षणोपेतं देवाङ्गैः पञ्जरं कुरु २२१

हंसरोमेण सम्पूर्णमण्डजं चेतिकीर्तितम्
सुसितं सूक्ष्मसुश्लक्ष्णं कार्पासेनैव सम्भवम् २२२
उपरिपूरणं यत्तु वामजं चेतिकीर्तितम्
उपर्युपरिकल्प्येवं पर्यङ्कञ्चैव पञ्चधा २२३
पर्यङ्कानां विधिः प्रोक्तश्चोपधानविधिं श्रुणु
षट्त्रिंशदङ्गुलायामं तन्नाहत्रिगुणं भवेत् २२४
हंसरोमसुसम्पूर्णं देवाङ्गेनैव पञ्जरम्
कार्पासपञ्जरेणैव कारयेदुपवेष्टनम् २२५
उपधानं हस्तपादानां युक्त्या तु परिकल्पयेत्
उपधानविधिः प्रोक्तं कक्ष्यायालक्षणं श्रुणु २२६
अग्न्यङ्गुलन्तु विस्तारमश्विन्न्यङ्गुलमेव च
कार्पासेन तथा कुर्याद्यावत्खट्वाप्रवेष्टनम् २२७
कक्षायालक्षणं प्रोक्तं प्रच्छन्नपटमुच्यते
द्वारायामसमं दीर्घं विस्तारस्यार्द्धविस्तृतम् २२८
बाणहस्तसमायामं पटस्याधारदण्डकम्
प्रच्छन्नपटमेवन्तु छत्रलक्षणमुच्यते २२९
चतुर्मुखप्रविस्तारं समवृत्तमधोमुखम्
आधारं वैणवेनैव तन्तुनाबन्धयेत्क्रमात् २३०
वस्त्रेण वेष्टयेत्सर्वं मुक्तादामैश्च रत्नकैः
मकुटं हेमपट्टैश्च भूषयेत् भूषणार्हकैः २३१
वस्त्रेण मद्ध्यमं कुर्यात्तालपत्रैश्च कन्न्यसम्
बाणानिरसतालैर्वा नालायामं प्रकीर्तितम् २३२
छत्रलक्षणमेवोक्तं पिञ्छालक्षणमुच्यते
बर्हिपिञ्छं प्रकर्तव्यं विस्तारं त्रियवं भवेत् २३३
वस्त्रेण वेष्टयेत्सर्वं पुनः पिञ्च्छैश्च वेष्टयेत्
आधारमयसा कृत्वा हैमेन मकुटं कुरु २३४

शेषं बुद्ध्याप्रकर्तव्यं नालस्य च्छ्त्रनालवत्
पिञ्च्छलक्षणमेवन्तु चामरस्य विधिं श्रुणु २३५
दर्भेण दारुजेनैव शुल्बेन रजतेन वा
सौवर्णेनैव रत्नेतदण्डं कुर्याद्विचक्षणः २३६
चतुर्विंशाङ्गुलायामं दण्डनाहं शराङ्गुलम्
नानागण्डिकयायुक्तन्नाना कुम्भलतान्वितम् २३७
नानाकर्णसमायुक्तन्नानामण्डलसमायुतम्
संयुक्तञ्चमरीवालैर्यथाशोभन्तु कारयेत् २३८
चामरस्य विधिः प्रोक्तं मयूरव्यजनं श्रुणु
दण्डन्तु पूर्ववत्प्रोक्तं शिखिनो भिन्नपिञ्च्छकैः २३९
क्रमेणैव तु संयोज्य शेषं युक्त्याप्रकल्पयेत्
मयूरव्यञ्जनं ह्येवं दुकूलव्यञ्जनं श्रुणु २४०
षोडशाङ्गुलविस्तारं वैणवेनैव वर्तुलम्
क्षौमदेवाङ्गपट्टैर्वा दुकूलेनैव वेष्टयेत् २४१
त्र्यङ्गुलन्दण्डनाहन्तु षट्त्रिंशदङ्गुलायतम्
नानातन्तुसमायुक्तं दण्डमात्रं विचित्रयेत् २४२
दण्डाग्रन्तु त्रिधा कृत्वा शेषं युक्त्या प्रकल्पयेत्
पर्यङ्कादीनि सर्वाणि कुर्यान्मानाङ्गुलेन गु २४३
दूकूलव्यञ्जनं ह्येवन्धूपपात्रविधिं श्रुणु
हेमेन रजतेनैव ताम्रेण पैत्तलेन वा २४४
वेदाङ्गुलन्तु विस्तारं पत्रोत्सेधन्तदर्द्धकम्
ओष्ठमर्द्धाङ्गुलं प्रोक्तं बाह्ये पद्मदलान्वितम् २४५
ग्रीवस्याधो द्विपादन्तु पादायामद्विमात्रकम्
अब्ध्यङ्गुलसमायामन्नाहं पक्षाङ्गुलं भवेत् २४६
दण्डपुच्छेन पादन्तु कारयेद्गजपादवत्
पञ्चाङ्गुलन्तु विस्तारन्नानावल्लिसमायुतम् २४७

अग्न्यङ्गुलं विधानोच्चमनेकसुषिरान्वितम्
कारयेन्मुकुलाकारं शेषं बुद्ध्याप्रकल्पयेत् २४८
धूपपात्रविधिः प्रोक्तं धूपघण्टाविधिं श्रुणु
बाणाङ्गुलं तु विस्तारमुत्सेधं तत्समं भवेत् २४९
त्रियवञ्चोष्ठविस्तारं तन्नाहं तु चतुर्यवम्
उपपट्टिकयायुक्तं मात्रेण शिखरान्वितम् २५०
चतुर्यवं गलोत्सेधं जिह्वावेदाङ्गुलायतम्
घण्टायाञ्चैव तन्नाहं विस्तारार्द्धेन विस्तृतम् २५१
अग्न्यङ्गुलेन दण्डोच्चं नाहं तत्सममेव तु
दण्डस्याग्रे वृषं वापि नलिनं शूलमेव च २५२
शेषं युक्त्या प्रकर्तव्यं शुद्धकंसेनसुव्रतम्
कृत्वा तु विधिना धीमान् धूपदाने तु घोषयेत् २५३
धूपघण्टाविधिः प्रोक्तं दीपपात्रविधिं श्रुणु
धूपपात्रवदाकारं विशेषं किञ्चिदस्ति हि २५४
अग्न्यङ्गुलं तु विस्तारमायामं तु शराङ्गुलम्
अश्वत्थपत्रवत्कुर्यादोष्ठस्य च द्वयं भवेत् २५५
मद्ध्येनाभिसमायुक्तं मुकुलेनैव वर्जितम्
नवशक्तिनवदीपं स्यात्सप्तदीपेषु मातरः २५६
पञ्चदीपे निवृत्यादिरेकदीपे सरस्वती
दीपपात्रविधिः प्रोक्तं दीपाधारविधिं श्रुणु २५७
एकहस्तं समारभ्य नवहस्तान्तमेव च ।
शरांशं पादविस्तारमाज्याधारं तु तत्समम् २५८
तस्योर्ध्वे मुकुलाकारं धर्मांशेन प्रकल्पयेत्
नानापट्टिकयायुक्तं नानाकुम्भसमायुतम् २५९
एकदण्डेन कर्तव्यमनुरूपक्रमेण तु
शुद्धकांस्यकतारैर्वा पैत्तलेनैव कारयेत् २६०

दीपाधारमिदं वक्ष्ये नीराञ्जनाय पात्रकम्
सौवर्णं रजतं ताम्रं ज्येष्ठादीनि क्रमेण तु २६१
षट्त्रिंशदङ्गुलायाममुत्तमं तु प्रकीर्तितम्
तस्मात्षडङ्गुलं हीनं मद्ध्यमं परिकल्पयेत् २६२
हस्तमात्रप्रविस्तारं कन्यसं पात्रमुच्यते
कर्णिका तत्रिभागैकं तत्पञ्चांशैकमुच्छ्रयम् २६३
यवद्वयविशालेन पट्टिकां परितः कुरु
उत्सेधं तत्समं ज्ञेयं तद्बाह्येष्टदलं भवेत् २६४
ओष्ठं तु परितः कुर्यात् कर्णिकोच्छ्रायमानतः
एवं कुर्याद्विशेषेण पूर्णचन्द्रसमं यथा २६५
युगाङ्गुलसमायामं दीपाधारघटोपमम्
अश्विन्यङ्गुलविस्तारं घटवक्त्रं प्रकीर्तितम् २६६
प्रोक्तं पक्षाङ्गुलं रन्ध्रं कर्णिकामद्ध्यमे युतम्
दीपाधाराण्यधिष्ठात्रा योजयेत्तु दलं प्रति २६७
रन्ध्राधारं शराधारम् एकाधारमथापि वा
मद्ध्ये चैव महाशासु पञ्चधाराणि कल्पयेत् २६८
अग्न्यङ्गुलोच्चमानेन पृष्ठपादं प्रकल्पयेत्
पात्रं नीराजनायेदं महाघण्टाविधिं श्रृणु २६९
शुद्धकांस्येन कर्तव्यं विस्तारं पर्वताङ्गुलम्
अब्ध्यङ्गुलं तदुत्सेधं गलोत्सेधं गुणाङ्गुलम् २७०
नाहं रसाङ्गुलं तस्य पट्टिकाद्वयसंयुतम्
शिखरोच्चं द्विमात्रेण तन्नाहं भूधराङ्गुलम् २७१
सुषिरेण समायुक्तं चतुर्नासिसमायुतम्
तारार्द्धाद्वृद्धितं नाहं जिह्वारन्ध्राङ्गुलायतम् २७२
शिखरावलयोपेतं शेषं युक्त्याप्रकल्पयेत्
महाघण्टाविधिः प्रोक्तः स्थलिका लक्षणं श्रुणु २७३

कन्यसं कांस्यसम्भूतं रजतं मद्ध्यमं भवेत्
हेमन्तु चोत्तमं प्रोक्तं स्थलिका नवधोदिता २७४
द्वादशाङ्गुलविस्तारमधमाधममुच्यते
अग्न्यङ्गुलविवृद्ध्या तु षट्त्रिंशदङ्गुलान्तकम् २७५
अष्टधातारमेवन्तु कन्न्यसादित्रयन्त्रयम्
द्वियवञ्चोष्ठविस्तारम् उत्सेधं तत्समं भवेत् २७६
वेत्रं युगाङ्गुलेनैव अधमस्याधमस्य तु
यवेनैकेन वृद्ध्या तु यावन्नवयवान्तकम् २७७
स्थलिका नामथाष्टानां वेत्रेष्टौ सम्प्रकल्पयेत्
स्थलिकालक्षणं प्रोक्तं दर्व्याश्च लक्षणं श्रुणु २७८
द्वादशाङ्गुलमायामं तद्दैर्घ्यं पञ्चधा भवेत्
अद्ध्यर्द्धांशेन पुच्छं स्यात्पक्षांशमग्रमुच्यते २७९
त्रियवं पुच्छतारं तु वक्त्रतारं शराङ्गुलम्
व्योमाङ्गुलप्रमाणेन मद्ध्यतारं विधीयते २८०
अर्द्धाङ्गुलं तु हीनं स्यात् मद्ध्यमस्याधमस्य तु
दर्व्याश्च लक्षणं प्रोक्तं त्रिपादलक्षणं श्रुणु २८१
चतुर्त्थांशं खपादी च बकपादत्रिपादिका
कर्तव्यं स्थालिकापादं लक्षणेन विशेषतः २८२
उच्चं युगाङ्गुलं ज्ञेयं मुखतारं तु तत्समम्
अग्निपादसमायुक्तं त्रिवक्रांशं खपादिका २८३
तारं षडङ्गुलं ज्ञेयं तच्चतुर्गुणमायतम्
ईषत्त्रिभागिकापादं पक्षाङ्गुलं तु नाहकम् २८४
मृगराट्पादवन्मूले बकपादिप्रकीर्तितम्
शराङ्गुलं तु विस्तारमुत्सेधं पर्वताङ्गुलु २८५
अग्निपादसमायुक्तं त्रिवक्राङ्गुष्ठनाहकम्
शरावाकृतिवन्मूले शेषं बुद्ध्या प्रकल्पयेत् २८६

एवं त्रिपादिका प्रोक्ता स्थालिकापादमुच्यते
पिण्डिकोत्सेधमानं यदुत्सेधं तत्समं भवेत् २८७
शेषं पूर्वोक्तवत्कुर्यात् द्विगुणं पादनाहकम्
पादाग्रेषु खुरं कुर्यात् शेषं युक्त्या तु कारयेत् २८८
स्थलिकापादमेवोक्तं पाद्याधारविधिं श्रुणु
कलाङ्गुलं तु विस्तारमुत्सेधं पर्वताङ्गुलम् २८९
सोमाङ्गुलं भवेदोष्ठमाकृतिस्स्याच्छराववान्
उभयोः पार्श्वयोश्चैव वलयेन समन्वितम् २९०
पृष्ठे त्रिपादसंयुक्तं चतुरङ्गुलमायतम्
वक्रद्वयसमायुक्तं तस्याधस्सिंहपादवत् २९१
पाद्योदकं तथा तस्मिन्पात्रे तु परिवर्जयेत्
पाद्याधारमिदञ्चैवाचमनाधारमुच्यते २९२
कलाङ्गुलसमायामं मुखतारं यवं भवेत्
ओष्ठमेकाङ्गुलं प्रोक्तं धुत्तूरकुसुमोपमम् २९३
ऊर्ध्वकायमिदं कृत्वा दण्डायामं नवाङ्गुलम्
अग्न्यङ्गुलं तु विस्तारं द्विगुणं पादविस्तरम् २९४
गण्डिकात्रयसंयुक्तं दण्डं कुर्याद्विशेषतः
वर्जयेत्तु तथैतस्मिन्पात्रेत्वाचमनोदकम् २९५
प्रोक्तमाचमनाधारं दर्पणस्य विधिं श्रुणु
स्मृत्यङ्गुलं तु विस्तारं पूर्णचन्द्राकृतिर्यथा २९६
नालं वस्वङ्गुलं ज्ञेयं पादं वेदाङ्गुलं भवेत्
नानापट्टिकयायुक्तं शुद्धकांस्येन कारयेत् २९७
विस्तारमुदितं पूर्वमेषामर्द्धेन वर्तयेत्
तन्नाहञ्चैव सर्वेषां नाहमित्यभिधीयते २९८
एवं तु दर्पणं प्रोक्तं पादुकस्य विधिं श्रुणु
नित्योत्सवस्य यात्रान्ते पूजनार्त्थं तु पादुका २९९

ताम्रतारसुवर्णैर्वा कारयेल्लक्षणान्विता
त्रिमात्रार्द्धं तु मात्रान्तम् अर्द्धेनार्द्धेन वर्द्धयेत् ३००
रन्ध्रायामानि चोक्तानि कन्यसादित्रयन्त्रयम्
आयामस्यार्द्धमेवं तु अग्रपादस्य विस्तृतम् ३०१
षष्ठांशेन तु मद्ध्यान्तमायाम युगभागिकम्
एकभागं भवेदुच्चं गुणांशे द्व्यंशकं खुरम् ३०२
शेषमूर्ध्वदलं प्रोक्तं हले युक्त्या प्रकल्पयेत्
अङ्गुष्ठोच्चं तलोच्चस्य चतुर्भागत्रिभागिकम् ३०३
तच्छरांशे युगांशं तु नालशेषं तु पुष्करम्
अङ्गुष्ठोच्चसमं पुष्पं विस्तारं मुकुलान्वितम् ३०४
पुष्पोन्नते त्रिभागैकं मुकुलं कारये द्विज
एवं सलक्षणं कृत्वा प्रोक्षणं विधिना कुरु ३०५
मण्टपस्य तु मध्येऽस्मिन् स्थण्डिलं शालिना कुरु
परिस्तीर्य ततो दर्भैर्हृदा गन्धादिनार्चयेत् ३०६
नववस्त्रमथास्तीर्य पञ्चगव्यैस्तु पादुकम्
क्षालयेदष्टमृद्भिस्तु शुद्धतोयेन सेचयेत् ३०७
वस्त्रोपरिन्यसेद्धीमान् पादुकं वर्मणा ततः
वस्त्रेणोपरि सञ्छाद्य स्थापयेत्कलशाष्टकान् ३०८
मध्ये च पादुकाग्रे तु वृषकुम्भं निधापयेत्
सकूर्चान् सापिधानां च वस्त्रान् दिक्पालात्मकात् ३०९
मध्यमे वृषकुम्भे तु वृषबीजन्यसेत्ततः
धेनुमुद्रां प्रदृश्याथ हैमं तत्र विनिक्षिपेत् ३१०
पुण्याहं वाचयेत्तत्र स्थण्डिलं सिकतेन तु
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ३११
समिधाज्य चरुं लाजान् तिलान् सद्यादिमन्त्रतः
होमयेत्तु विशेषेण प्रत्येकं पञ्चविंशतिः ३१२

घृतेन वृषमन्त्रेण हुनेदष्टोत्तरं शतम्
प्रभाते सुमुहूर्ते तु मन्त्रन्यासमथाचरेत् ३१३
जयादिरभ्याधानं च राष्ट्रभृच्च क्रमाद्धुनेत्
स्विष्टमग्नेति मन्त्रेण होमं परिसमापयेत् ३१४
आचार्यः पूजयेत्तत्र वस्त्रनिष्कादिभिः क्रमात्
वृषबीजं समादाय कुम्भान् तत्पादुकद्वये ३१५
तज्जलं चाभिषेकं तु कुम्भान्यादाय देशिकः
तत्पादुकस्योपरिष्टास्तु तत्तद्बीजानि विन्यसेत् ३१६
तत्कुम्भस्तज्जलेनैव अभिषिच्य स्वबीजकैः
अर्चयेद्वृषमन्त्रेण मुद्गान्नं तु निवेदयेत् ३१७
सर्वालङ्कारसंयुक्तं प्रासादाभ्रमणं कुरु
एवं कृत्वा विधानाच्च अर्चयेत्प्रतिसन्धिषु ३१८
पादुकास्थापनं प्रोक्तं श्रुणु गात्रस्य लक्षणम्
षोडशाङ्गुलमायामं विस्तारं तु द्विमात्रकम् ३१९
मध्यचक्रसमायुक्तं द्वियवं घनमुच्यते
वेदाङ्गुलं भवेन्मुष्टिर्दारुणा परिकल्पयेत् ३२०
भूताङ्गुलपरीणाहमधः पट्टेन वेष्टयेत्
गात्रस्य लक्षणं प्रोक्तं जलद्रोणिविधिं श्रुणु ३२१
वेदभारजलैः पूर्णं श्रुत्यर्थं वाथ वर्तुलम्
वलयैर्युग्मपार्श्वे तु संयुक्तं ग्रीववर्जितम् ३२२
लक्षणं च जलद्रोण्यां लोहजं मृण्मयेत्तु वा
एवं कृत्वा विधानेन यन्त्रिकालक्षणं श्रुणु ३२३
मध्याङ्गुलपरीणाहं तन्मूले च यवद्वये
वक्त्रद्वयसमायुक्तं गर्गलस्यार्हकं कुरु ३२४
यन्त्रिकालक्षणं प्रोक्तमुल्कलस्य विधिं श्रुणु
हस्तमात्रसमायामं कनिष्ठाङ्गुलिनाहकम् ३२५

दीपस्य धारमग्रे तु कुर्याद्धूर्धूरपुष्पवत्
त्रियङ्गुलेनास्य तारं गर्तायामं गुणाङ्गुलम् ३२६
कारयेदधसाधस्ता मुष्टिं तु दारुणा कुरु
उल्कलस्य लक्षणं प्रोक्तं गोलकालक्षणं श्रुणु ३२७
अर्धाङ्गुलसमायुक्तं पूजभागसमायुतम्
नाहं चैव परिग्राह्य कुर्याद्धैमेन गोलकाम् ३२८
पार्श्वलक्षणमुद्धृत्य सूत्राम्रे सुषिरत्रयम्
नानारत्नसमायुक्तं लिङ्गवत्कारयेत्ततः ३२९
गोलकालक्षणं प्रोक्तं पट्टलक्षणमुच्यते
रुद्राक्षाङ्गुलम— पट्टतारं प्रकीर्तितम् ३३०
लिङ्गनाहं तु नाहं स्यात्पट्टं हैमेन कारयेत्
पट्टलक्षणमेवं स्यात्पुष्पलक्षणमुच्यते ३३१
अग्न्यङ्गुलं तु विस्तारं मध्यमे कर्णिकायुतम्
दलाष्टकसमायुक्तं सरत्नं काञ्चनेन तु ३३२
सुवर्णकुङ्कुमं ह्येवं मकुटस्य विधिं श्रुणु ।
कपर्दमकुटं चैव किरीटमकुटं तथा ३३३
करण्डमकुटं चैव केयूरं मकुटं तथा
ईशानात्कण्ठपूरं च कुक्षिबन्धनमेव च ३३४
कटिसूत्रं नूपुरं च चिह्नवीरं तथैव च
कण्ठमालाय यज्ञं च प्रतिमाणां यथार्हकम् ३३५
नानारत्नसमायुक्तं सर्वहेमेन कारयेत्
धूपपात्रोदिकान्सर्वान्मानाङ्गुलेन कारयेत् ३३६
प्रोक्षयेत्पञ्चगव्येन पुरुषेण विशेषतः
प्रासादस्याग्रतः कुर्यात् मण्टपं चतुरश्रकम् ३३७
सम्प्रोक्ष्य हृदयेनैव पात्रेऽन्यैव तु विन्यसेत्
शिवाग्निं कारयेद्धीमान् पूर्वोक्तविधिना सह ३३८

समिधाज्यचरुं चैव सद्यास्त्रहृदये हुनेत्
प्रत्येकं तु शतं हुत्वा कृत्वान्ते स्पर्शनं कुरु ३३९
आदावन्ते च कर्तव्यमग्निकार्योक्तमार्गतः
हृदयेनैव सङ्ग्राह्यमीशानेन तु पूजयेत् ३४०
एवमाभरणं प्रोक्तमाहुतीनां विधिं श्रुणु
कषार्धगोघृतेनैव एकाहुतिसमाचरेत् ३४१
द्विपर्वस्त्राव तर्जन्या बिन्दुरित्यभिधीयते
बिन्दुषट्कं तु कर्षार्धमद्वयं कर्षकं भवेत् ३४२
कर्षद्वयं तु मुष्टिं स्यात् तद्वयं प्रसृतिर्भवेत्
तद्वयं कुसुमं प्रोक्तं तद्वयं धारणं भवेत् ३४३
धारणाष्टपलं प्रोक्तं प्रस्थं विंशत्पलं भवेत्
दुग्धस्य मधुनो दध्नस्सृवपूर्णाहुतिर्भवेत् ३४४
शुक्तिमात्रेण जुहुयात्तिलं चैव तु सर्षपम्
ओदनं चाकृमात्रेण शुक्तिर्धेनकुलर्थकम् ३४५
निष्पापं नवभिः प्रोक्तं यवा वेणुकुलस्थवत्
शक्तिमात्रेण शालीं तु विंशद्भिर्माषमुद्गकौ ३४६
पृथुकं धानकं सत्तु मुष्टिमात्रेण होमयेत् ।
प्रियङ्गु कोद्रवं चैव अल्पं तु तिलवद्भवेत् ३४७
फलानि स्वमाणेन पत्राणि शरसङ्ख्यया
त्रिंशदंशेन भागेन भित्वा तु पनसं हुनेत् ३४८
विभीती फलमात्रेण कन्दं भित्वा तु होमयेत्
— गुलं प्रोक्तमपूपस्त्वत्प्रमाणतः ३४९
क्षीरान्नं कृसरान्नं च गुलान्नं शुक्तिमात्रतः
करेण जुहुयाद्रव्यं द्रवद्रव्यं सुवेण च ३५०
स्थाल्यान्नं च विनिक्षिप्य हुनेद्यत्तत्प्रमाणतः
पूर्णाहुतिं स्रुवां कुर्यात्सुपुष्पोपरिविन्यसेत् ३५१

स्रुक्स्रुवं मङ्गलतोरणभेरिमण्टपकुण्डसमित्कलशानाम्
मानविहीनततोधिकमानं दारधनक्षयकृत्कलह स्यात् ३५२

इति कारणे प्रतिष्ठातन्त्रे क्रियापादे करणाधिकारः पटलः