०१७ पञ्चामृतक्षीराभिषेकविधिपटलः

पञ्चामृतक्षीराभिषेकविधिपटलप्रारम्भः
इक्षुसारञ्च रूपं स्यात् मधुनाविजयन्तथा
घृतानां पुण्यमेवन्तु पयसायुर्विवर्द्धनम् ॥ १ ॥

आरोग्यं दधिसंयुक्तं पञ्चामृतफलन्तथा
यावन्निश्चिन्त्यममृतं तत्समन्तु प्रकल्पयेत् ॥ २ ॥

पञ्चप्रस्थाधमं प्रोक्तं द्विगुणं मद्ध्यमं भवेत्
त्रिगुणम् उत्तमं प्रोक्तं पञ्चामृतन्तु कल्पयेत् ॥ ३ ॥

इक्षुर्मधुघृतञ्चैव पयोदधिक्रमेण तु
प्रस्थं प्रस्थं प्रमाणं स्यात् पञ्चामृतमिति स्मृतम् ॥ ४ ॥

इक्षुसारञ्च मद्ध्ये तु मधूनां पूर्वमेव च
घृतं वै दक्षिणे स्थाप्य पश्चिमे तु पयस्तथा ॥ ५ ॥

दध्युत्तरे च कृत्वा वै पञ्चामृतन्तु कल्पयेत्
सद्यादीशानमन्त्रं स्यात् मद्ध्यादीनि कृतस्य तु ॥ ६ ॥

गन्धपुष्पं तथाकूर्चं धूपदीपं तथा भवेत्
मूलमन्त्रेण सहजं शिवमन्त्रं तथोच्चरेत् ॥ ७ ॥

पञ्चगव्यान्तके पूज्य पञ्चामृतस्य कल्पयेत्
सर्वव्याधिविनिर्मुक्तं सर्वपापक्षयं भवेत् ॥ ८ ॥

अष्टोत्तरशतप्रस्थैः पूजयेत्क्षीरमेव च
द्विगुणं मद्ध्यमं प्रोक्तम् उत्तमं त्रिगुणं भवेत् ॥ ९ ॥

घृताभिषेकसंयुक्तं सर्वशान्तिकरं शुभम्
क्षीराभिषेकसंयक्तं जिह्वासहस्रं भोजयेत ॥ १० ॥

फलाभिषेकसंयुक्तं सत्फलं पापनाशनम्
द्वादशानान्तु भारं स्यात् उत्तमं परिकीर्तितम् ॥ ११ ॥

तदर्द्धं मद्ध्यमं प्रोक्तं तदर्द्धमधमं तथा
यथेष्टं काम्यमित्युक्तं कुर्यात्क्षीराभिषेचनम् ॥ १२ ॥

अनावृष्टौ ज्वरोग्रस्य सर्वव्याधिनिवारणम्
अर्कवारादिसंयुक्तं सोमवारादिसंयुतम् ॥ १३ ॥

जन्मनक्षत्रकर्तव्यं पूजयेत्परमेश्वरम्
मासं वाप्यर्द्धमासं वा सप्तवारमथापि वा ॥ १४ ॥

पञ्चाहं वा त्रिरात्रं वा एकाहं सम्प्रपूजयेत् ॥ १५ ॥

इति पूर्वकारणे प्रतिष्ठातन्त्रे पञ्चामृतक्षीराभिषेकविधिपटलस्सप्तदशः