बलिकर्मविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण बलिकर्मसु योजयेत्
बकारं बलवर्द्धन्यां लिकारं धान्यसङ्ग्रहम् ॥ १ ॥
बकारलिकारसंयुक्तं बलिशब्दाः प्रकीर्तिताः
वृषादिबलिपीठान्तं बलिं कृत्वाविशेषतः ॥ २ ॥
अक्षद्वयप्रमाणेन बलिकारेऽत्र कीर्तितम्
पतङ्गञ्च भुजङ्गञ्च ऊर्ध्वाधस्सम्प्रपूजयेत् ॥ ३ ॥
द्विभुजौ च द्विनेत्रौ च सर्वाभरणभूषितौ
रक्ताक्षो रक्तवर्णश्च तद्वर्णाम्बरभूषितौ ॥ ४ ॥
दक्षिणे तु शिरोन्यस्त्वा पादौचैवोत्तरे तथा
द्विनेत्रौ पीतवर्णौ च भद्रकायौ भयं करौ ॥ ५ ॥
कृताञ्जलिपुटोपेतौ शोधयेत्तत्प्रजापतेः
नित्यं दक्षिणपादे च अपदानादपादतः ॥ ६ ॥
ग्रामे च द्विभुजं विद्यान्नागरादौ चतुर्भुजाः
स्वायम्भुवे च दैव्ये च आर्षे गाणे तथैव च ॥ ७ ॥
द्विभुजे च द्विनेत्रे च श्वेतोभौ चोग्ररूपकौ
नित्योत्पादानकौ चैव व्यालाभरणभूषितौ ॥ ८ ॥
द्विबाहू भद्रकायस्तु मातुलुङ्गसमप्रभौ
पूजयेत् द्वारपार्श्वे तु ग्रामादिषु च पूर्ववत् ॥ ९ ॥
द्वारस्य मद्ध्यमे चैव दक्षिणे तु तथोत्तरे
स्थानशुद्धिं ततः कृत्वा तस्योर्ध्वे वक्त्रं कल्पयेत् ॥ १० ॥
तस्योर्ध्वे बलिदानन्तु द्वारदेवान् सुवृद्धये
नालिकेरप्रमाणन्तु उत्तमस्य विधीयते ॥ ११ ॥
कपित्थस्य फलं कृत्वा मद्ध्यमन्तु प्रमाणकः
कुक्कुटाण्डप्रमाणं स्यात् बलिं सर्वत्र दापयेत् ॥ १२ ॥
स्वयम्भूर्दैविकञ्चैव देव्यमार्षकमानुषम् ।
राक्षसं बाणलिङ्गञ्च सप्तधा लिङ्गमुच्यते ॥ १३ ॥
दैविकन्तु भवादीनां मित्रादीनान्तु मानुषम्
भूतादीनां स्वयम्भूतमार्षकं परिवारकैः ॥ १४ ॥
वसूनां बाणलिङ्गन्तु विद्येशानान्तु देविकम्
यक्षादिरक्षसां लिङ्गं बलिदेवाः प्रकीर्तिताः ॥ १५ ॥
भवश्शर्वस्तथेशानः पशुपतिर्नील एव च
उग्रो भीमो महादेव इत्यष्टौ मूर्तयस्तथा ॥ १६ ॥
पीतञ्च कुङ्कुमं कृृष्णं नृृणां भिन्नाञ्जनप्रभम्
नीलं श्वेतं तथा रक्तं त्वष्टमूर्तेश्च वर्णकम् ॥ १७ ॥
अभयावरदास्सर्वे पाशाङ्कुश चतुर्भुजाः
त्रिणेत्रं मेघवर्णञ्च द्विपादञ्चैव नूपुरम् ॥ १८ ॥
जटामकुटसंयुक्तमष्टमूर्तिस्वरूपकम्
देविकाख्यञ्च लिङ्गन्तु बलिदेवाः प्रकीर्तिताः ॥ १९ ॥
इन्द्राग्नी च यमश्चैव निर्ऋतिर्वरुणस्तथा
वायुस्सोमस्तथैशान्यो ब्रह्मविष्णुश्च लोकपाः ॥ २० ॥
मानुषे लिङ्गवत्कृत्य लोकपालबलिस्तथा
संवर्तं पूर्वतो न्यस्य चोन्मत्तमग्निगोचरे ॥ २१ ॥
कुण्डोदरं दक्षभागेनैर्ऋतौ दीर्घकायकौ
वारुण्यां ह्रस्वपादन्तु वायव्यांसिंहरूपकम् ॥ २२ ॥
सोमे गजमुखं प्रोक्तम् ऐशान्यान्तु प्रियम्मुखम् ।
श्वेतं पीतं तथा कृष्णं रक्तं श्यामञ्च धूम्रकम् ॥ २३ ॥
अतिरक्तं तथा नीलं भूतवर्णमिति स्मृतम्
उग्ररूपसमायुक्तं द्विभुजञ्च द्विपादकम् ॥ २४ ॥
दण्डहस्तन्तथा सर्वे भूतरूपमिति स्मृतम्
अष्टभूतमिदं प्रोक्तं स्वायम्भुवबलिं ददेत् ॥ २५ ॥
मद्ध्यहारञ्च हारायां वृषभादिप्रदक्षिणम्
वृषभं पूर्वतस्स्थाप्य आग्नेय्यां पावकस्तथा ॥ २६ ॥
मातृृणां दक्षिणे भागे वीरविघ्नसमन्वितम्
विघ्नेशं नैर्ऋते भागे सुब्रह्मण्यन्तु पश्चिमे ॥ २७ ॥
ज्येष्ठायां वायुदिग्भागे दुर्गास्थानं तथोत्तरे
चण्डेशमीशदिग्भागे भास्करं पूर्वतो दिशि ॥ २८ ॥
कूपस्थानं तथैशान्यामाग्नेय्यां पचनालयम्
परिवारालयं सर्वं बाह्ये बाह्यान्तरे तथा ॥ २९ ॥
भूतपीठस्य पार्श्वे तु इन्द्रं सम्पूजयेत्ततः
आग्नेय्यां दिशि पर्यन्तं स्वस्वस्थाने विशेषतः ॥ ३० ॥
द्वारस्योत्तरपार्श्वे तु ब्रंहाणन्तु प्रकीर्तितम्
पितामहेशयोर्मद्ध्ये आदित्या द्वादशोच्यते ॥ ३१ ॥
भास्करं क्षेत्रपालौ च शाङ्करे वा विशेषतः
शक्रपावकयोर्मद्ध्ये अश्विन्यौ द्वौ तु विन्यसेत् ॥ ३२ ॥
आग्नेययमयोर्मद्ध्ये संस्थाप्य सप्तरोहिणीम्
याम्यनैर्ऋतयोर्मद्ध्ये पितृस्थानं विधीयते ॥ ३३ ॥
निर्ऋतिवारुणयोर्मद्ध्ये अप्सरोगण एव च
वरुणवायव्ययोर्मद्ध्ये मुनीनां स्थानमुत्तमम् ॥ ३४ ॥
वायव्यसोमयोर्मद्ध्ये अष्टौ वसुधरास्तथा
सोमईशानयोर्मद्ध्ये रुद्रैकादश एव हि ॥ ३५ ॥
प्रतिमे वापि पीठे वा इष्टिके वा प्रपूजयेत्
बलिपीठन्ततः कृत्वा चतुर्दिक्षु विशेषतः ॥ ३६ ॥
बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे तु विन्यसेत्
अन्तस्थसर्वदेवास्तु पिशाचात् बाह्यपीठके ॥ ३७ ॥
यक्षाणां दक्षिणे पीठे राक्षसानान्तु पश्चिमे
गन्धर्वाणान्तु सौम्ये तु भूतानां पूर्वमेव च ॥ ३८ ॥
तदूर्ध्वेपद्ममित्युक्तमष्टशक्तीर्दले न्यसेत्
सर्वदेवमयं पीठमग्रपीठं प्रकल्पयेत् ॥ ३९ ॥
ततः पुरस्थितं पीठं बलिं दद्याद्विशेषतः
आमोदश्च प्रमोदश्च प्रमुखो दुर्मुखस्तथा ॥ ४० ॥
अविघ्नो विघ्नकर्ता च बलिपीठादिदेवताः
अविघ्नं कर्णिकामद्ध्ये आमोदं पूर्वदिग्दले ॥ ४१ ॥
याम्ये चैव प्रमोदन्तु प्रमुखे पश्चिमे दले ।
दुर्मुखन्तु दलं सौम्ये विघ्नकर्तारमीशके ॥ ४२ ॥
आमोदं श्यामवर्णन्तु प्रमोदं कृष्णवर्णकम्
प्रमुखं स्फटिकाभासं दुर्मुखं कुङ्कुमप्रभम् ॥ ४३ ॥
अविघ्नो विद्रुमाभासो विघ्नकर्ताञ्जनप्रभः
द्विभुजाश्च द्विनेत्राश्च टङ्कपाशधरास्तथा ॥ ४४ ॥
उग्रदृष्टिसमायुक्ता भीमरूपा महाबलाः
सर्वाभरणसंयुक्ता नागयज्ञोपवीतकाः ॥ ४५ ॥
प्रसादाभिमुखास्सर्वे दीर्घदंष्ट्रोत्कटाननाः
पूर्वे च दक्षिणे चैव पश्चिमे चोत्तरे तथा ॥ ४६ ॥
गर्भगेहस्य पश्चाच्च चतुष्कं चोत्तमोन्नतम्
त्रिभागं मद्ध्यमं प्रोक्तं द्विभागमधमं भवेत् ॥ ४७ ॥
द्वारोत्सेधं समं श्रेष्ठं सत्रिपादन्तु मद्ध्यमम्
द्वारार्द्धधमं विद्धिविस्तारोत्सेध तत्समम् ॥ ४८ ॥
विस्तारं सुविभज्याथ हाटकेन तु विंशतिः
भागेनोपानमेकेन चतुर्भिर्जगती तथा ॥ ४९ ॥
कम्पं कृत्वा तु केतूर्ध्वे तदूर्ध्वे केन पट्टिका
कण्ठं कुर्याच्चतुर्भागे केनैवोद्येन पट्टिका ॥ ५० ॥
महापट्टी तु द्वयंशेन द्व्यंशाब्जदलकोन्नतम्
कर्णिकामेकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥ ५१ ॥
बलिपीठमिति ख्यातं सर्वेषां बलितृप्तये
यक्षराक्षसपैशाचभूतगन्धर्वकिन्नराः ॥ ५२ ॥
सर्वदेव ऋषीणान्तु बलिं सर्वत्र तृप्तये
आर्षं तु परिवाराख्यं बलिन्दद्यात् प्रकीर्तिताः ॥ ५३ ॥
सरोध्रुवश्च ह्लोमश आपश्चैवानिलोनलः
प्रत्यूषश्च प्रभावश्च वसवश्चाष्ट एव च ॥ ५४ ॥
बाणलिङ्गं तथायोग्यं बलिन्दद्यात्प्रकीर्तिताः
अनन्तेशस्तथासूक्ष्मश्चैकनेत्रश्शिवोत्तमः ॥ ५५ ॥
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिनः
अष्टविद्येश्वराश्चैव दिव्यलिङ्गबलिन्तथा ॥ ५६ ॥
पूर्वे यक्षगणाश्चैव राक्षसा गणगाणवाः ।
पिशाचगणदाक्षिण्या गाणवं गणनैर्ऋते ॥ ५७ ॥
किन्नरोगणं वारुण्ये पितृृणां गणं वायवे
दानवानां गणे सौम्म्ये ऐशान्याङ्गगणास्मृताः ॥ ५८ ॥
अष्टानां गणमेवोक्तं बलिदानन्तु रक्षसाम्
नित्यानां वसवानान्तु प्रथमद्वारिपूजयेत् ॥ ५९ ॥
नन्दीशैवमहाकालो द्वितीयद्वारिपूजयेत्
आमोदश्च प्रमोदश्च चतुर्त्थे द्वारिकल्पयेत् ॥ ६० ॥
गणेशं गुहमेवोक्तं पञ्चप्रासादके न्यसेत्
द्वारदेशं समाख्यातं बलिन्तत्र प्रकल्पयेत् ॥ ६१ ॥
प्रस्थपादं बलिः प्रोक्तं तण्डुलस्य प्रमाणतः
नित्यनैमित्यकञ्चैव बलिङ्कृत्वा विशेषतः ॥ ६२ ॥
त्रिसन्ध्यायां बलिङ्कृत्वा अन्यकालेन कारयेत्
अथवान्यप्रकारेण काम्यार्त्थे तु बलिन्ददेत् ॥ ६३ ॥
महाहविर्निवेद्यान्ते बलिन्दद्याद्विशेषतः
नैमित्तिकोपसन्ध्यास्तु हविष्यञ्च बलिन्ददेत ॥ ६४ ॥
इति पूर्वकारणे प्रतिष्ठातन्त्रे बलिकर्मविधिपटलष्षोडशः