०१५ नित्याग्निविधिपटलः

नित्याग्निविधिपटलप्रारम्भः
अतःपरं प्रवक्ष्यामि नित्याग्नियजनक्रमम्
आग्नेय्यां स्थापयेदग्निं विधिनादेशिकोत्तमः ॥ १ ॥

चतुरश्रं वाथ वृत्तं वा मेखलात्रयसंयुतम्
अरत्निमात्रविस्तारं तन्मानं बिलमुच्यते ॥ २ ॥

पश्चिमे दक्षिणे वापि योनिरश्वत्थपत्रवत्
कुण्डे तु स्थापयेदग्निमवच्छिन्नन्तु कारयेत् ॥ ३ ॥

यावन्मूलोपचारन्तु तावदग्निं सुपूजयेत्
त्रिकालमेककालं वा द्विकालं वा यजेद्गुरुः ॥ ४ ॥

उत्तमन्तु त्रिकालं स्यात् मद्ध्यमन्तु द्विकालकम्
अधमं त्वेककालं स्यात् नित्याग्निर्यजनन्तथा ॥ ५ ॥

शिवाग्रे वाथ कर्तव्यं सर्वशान्तिकरं परम्
मार्जनं प्रोक्षणं तत्र गोमयेनोपलेपयेत् ॥ ६ ॥

अघोरास्त्रेण मन्त्रेण शोधयेत्तु विशेषतः
गन्धैः पुष्पैश्च धूपैश्च दीपैरर्घ्यैश्च पूजयेत् ॥ ७ ॥

परिस्तरेत् द्विदर्भैश्च परिषेकमथाचरेत्
कृत्वा चैवाज्यसंस्कारं पश्चादाघारमेव च ॥ ८ ॥

आज्यं हुत्वा हृदामन्त्री हविश्चैवाक्षमात्रतः
अग्नआयाहि मन्त्रेण शोधयेत्तु विशेषतः ॥ ९ ॥

प्रत्येकं षोडशं वारं द्वात्रिंशद्वा समाचरेत्
प्रणवेनैव हुत्वा तु पश्चादिद्ध् माहुतिञ्चरेत् ॥ १० ॥

133

चरुं हुत्वा तदन्ते तु व्याहृतिं जुहुयात्ततः
ब्रह्माङ्गानि ततो हुत्वा स्विष्टान्तं हि न कारयेत् ॥ ११ ॥

प्रणीताघारसमिधौ ब्रह्मकूर्चं विनाचरेत्
कुर्याद्धीमान् प्रतिपक्षं स्थालीपाकं तदादितः ॥ १२ ॥

समिदाज्यचरूंश्चैव अष्टाविंशतिसङ्ख्यया
होमयेत्तु विशेषेण स्थालीपाकं समाचरेत् ॥ १३ ॥

आज्यस्थालीं प्रणीताञ्च प्रोक्षणीञ्चैव कल्पयेत्
ब्रह्माणं दक्षिणेभ्यर्च्य वामे तस्य जनार्दनम् ॥ १४ ॥

प्रणवेनैव होतव्यं वेदादींश्चैव होमयेत्
कूश्माण्डाहुतिभिर्हुत्वा स्विष्टान्तं नाचरेद्बुधः ॥ १५ ॥

तत्पुरुषेण मन्त्रेण चरुहोमं समाचरेत्
चरुभागं त्रिधाभज्य गव्याज्येनाभिघारयेत् ॥ १६ ॥

एकभागं निवेद्यं स्यात् एकभागं हतं भवेत्
शेषभागार्द्धं बल्यर्त्थं शेषमाचार्यभोजनम् ॥ १७ ॥

अन्येषां भोजने दोषो भुक्तञ्चेत् कृच्छ्रमाचरेत्

इति पूर्वकारणे प्रतिष्ठातन्त्रे नित्याग्निविधिपटलः पञ्चदशः