नवतालोत्तमपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि नवतालोत्तमं भवेत्
मुखद्वादशमात्रं स्यात् भागन्तु चतुरङ्गुलम् ॥ १ ॥
चतुर्भागाष्टवक्त्रैश्च कारयेल्लक्षणान्वितम्
विद्येशालोकपालाश्च अष्टमूर्तिवसूंस्तथा ॥ २ ॥
कारयेदन्न्यदेवांश्च नवतालोत्तमेन तु
अनन्तेशस्तथासूक्ष्मशिवोत्तमश्चैकनेत्रकः ॥ ३ ॥
एकरुद्रस्त्रिमूर्तिश्च श्रीखण्डश्च शिखण्डिनः
अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः ॥ ४ ॥
अभयं वरदोपेता टङ्कशूलधरास्तथा
रक्तकुन्दस्तथा नीलं पीतं कृष्णञ्चकुङ्कुमम् ॥ ५ ॥
अरुणं भिन्नाञ्जनप्रख्यं क्रमाद्विद्येशवर्णकम्
जटामकुटसंयुक्ता उपवीतसमन्विताः ॥ ६ ॥
विद्येशा कृतिरेवं स्यात् दिक्पाला कृतिरुच्यते ॥ ७ ॥
पूर्वमेव मया प्रोक्ता चाकृतिर्वज्रपाणिनः
अर्द्धचन्द्रासनासीनो ब्रह्मरूपो हुताशनः ॥ ८ ॥
प्रज्वलत्काञ्चनज्योतिः पिङ्गलः पिङ्गलोचनः
हेमकूर्च्चाग्रसदृशः स्वरूपञ्च शिरोरुहम् ॥ ९ ॥
तरुणादित्यसङ्काशन्तद्वस्त्रमुपवीतकम्
अक्षमाला च शक्तिश्च दक्षिणे दक्षिणेऽपि च ॥ १० ॥
ज्वालामाला कुलन्तीव्रं पार्श्वस्थान्न्यंशुमण्डलम्
मेषारूढञ्च कुण्डस्थो योगपट्टेन वेष्टितम् ॥ ११ ॥
दक्षिणे तु स्थिता स्वाहा रक्तकुण्डलमण्डिता
अग्नेराकृतिरेवं स्याच्छृणुवैवस्वताकृतिम् ॥ १२ ॥
दण्डपाणिर्महादीप्तः कालाञ्जनसमच्छविः
महामहिषिकारूढो दीप्ताग्निसमलोचनः ॥ १३ ॥
यमस्याकृतिरेवन्तु राक्षसेशाकृतिं श्रुणु
राक्षसेशो विशालाक्षः पीतवस्त्रश्शवासनः ॥ १४ ॥
निर्ऋतिस्सुस्थितासीनः खड्गहस्तो महाज्वलः
निर्ऋतेराकृतिर्ह्येवं वरुणस्याकृतिं श्रुणु ॥ १५ ॥
शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः
केयूरकुण्डली हारी पीतवासास्सुशोभनः ॥ १६ ॥
आसीनोवास्थितो वापि मकरे वरुणस्मृतः
कुञ्चितभ्रूयुवावायुस्ताम्रदृक् धूम्रसन्निभः ॥ १७ ॥
अङ्कुशेन करोवीरश्शम्बराम्बरसंयुतः
मृगारूढो विधातव्या सर्वभूषणभूषितः ॥ १८ ॥
एवं सदागतिस्सर्वव्यापकोयं समीरणः
मकुटीकुण्डली हारी केयूरी नरवाहनः ॥ १९ ॥
यक्षराजः कुबेरोयन्तप्तकाञ्चनसन्निभः
शङ्खपद्मनिधी युक्तो गदाहस्तो निधीश्वरः ॥ २० ॥
वृषारूढो महाराजो धवलः पिङ्गलेक्षणः
त्रिशूलपाणिरीशानस्त्रिणेत्रो लोकशङ्करः ॥ २१ ॥
दिक्पालाकृतिरेवं स्यादष्टमूर्त्याकृतिं श्रुणु ।
भवश्शर्वस्तथेशानः पशुपत्युग्रकस्तथा ॥ २२ ॥
रुद्रो भीमो महादेवः कीर्तितास्त्वष्टमूर्तयः
चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः ॥ २३ ॥
अभयं वरदोपेताष्टङ्कं कृष्णधरा स्मृताः
सर्वाभरणसंयुक्ता रक्तक्षौमधरा इमे ॥ २४ ॥
शुक्लं श्यामञ्च रक्तञ्च कृष्णं गोक्षीरसन्निभम्
काश्मीरं विद्रुमन्नीलं भवादीनान्तु वर्णकम् ॥ २५ ॥
अष्टमूर्त्याकृतिर्ह्येवं वसूनामाकृतिं श्रुणु
धरो धूम्रश्च होमश्च आपश्चैवानिलोनलः ॥ २६ ॥
प्रत्यूषश्च प्रभासश्च वसवश्चाष्ट एव च
द्विभुजाश्च द्विनेत्राश्च असिखेटक संयुताः ॥ २७ ॥
रक्तवर्णा इमे सर्वे पीतवस्त्रसमन्विताः
सर्वाभरणसंयुक्ताः स्निन्धकुन्तलमूर्द्धजाः ॥ २८ ॥
वसूनामाकृतिर्ह्येवमस्त्रमूर्त्या कृतिं श्रुणु
वज्रं शक्तिञ्च दण्डञ्च खट्गं पाशं तथाङ्कुशम् ॥ २९ ॥
गदात्रिशूलञ्चित्रञ्च पद्यञ्चेति दशायुधम्
द्विभुजाश्च द्विनेत्राश्च सर्वाभरणसंयुताः ॥ ३० ॥
कृताञ्चलिपुटोपेताः करण्डमकुटान्विताः
तत्तद्वक्रप्रमाणेन अस्त्रमूर्तिसमन्विताः ॥ ३१ ॥
नानावर्णसमायुक्ता नीलजीमूतवर्णकम्
नीलकं पद्मरागञ्च तुषारञ्चेन्द्रनीलकम् ॥ ३२ ॥
शारदाभ्रञ्च रक्तञ्च वज्रादीनान्तु वर्णकम्
जायाशक्तिगताविद्या पाशपद्मेन पुंसके ॥ ३३ ॥
शेषाः पुमानिति ख्याताः कीर्तिता त्वस्त्रमूर्त्तयः ॥ ३४ ॥
इतिपूर्वकारणे प्रतिष्ठातन्त्रे नवतालोत्तमविधिपटलश्चतुर्दशः