कनिष्ठदशतालविधिपटलप्रारम्भ
अथ वक्ष्ये विशेषेण कनिष्ठदशतालकम्
ऋषयश्चाश्विनी चैव आदित्येन्दुगुहास्तथा ॥ १ ॥
आर्यं शतमखञ्चैव चण्डेशं क्षेत्रपालकम्
कनिष्ठदशतालेन कारयेत्तु विचक्षणः ॥ २ ॥
बेरायामन्तु विभजेत् हिक्काराधिशतांशकम्
उष्णीषमङ्गुलं प्रोक्तं केशमानं गुणाङ्गुलम् ॥ ३ ॥
केशान्ताद्धनुपर्यन्तं मद्ध्येन द्वादशाङ्गुलम्
गलवृद्ध्यर्द्धमात्रेण भागं कर्णमिति स्मृतम् ॥ ४ ॥
हिक्कासूत्रात्स्तनान्तन्तु अर्द्धेन द्वादशांशकम्
स्तनान्तान्नाभिपर्यन्तं तत्समञ्चैव कीर्तितम् ॥ ५ ॥
नाभेस्तु मेढ्रमूलान्तमर्द्धेन द्वादशाङ्गुलम्
तन्मेढ्रमूलपूर्वाग्रात् पञ्चविंशतिमात्रकम् ॥ ६ ॥
जानुमानं तु भागं स्यात् जङ्घोर्वोरुसमं भवेत्
भागं तु चरणोत्सेधं कायमानमिति स्मृतम् ॥ ७ ॥
उष्णीषात् पृष्ठदेशान्तमर्द्धेन द्वादशाङ्गुलम्
उष्णीषात्पार्श्वकेशान्तमष्टाङ्गुलमिति स्मृतम् ॥ ८ ॥
उष्णीषात्पार्श्वकेशान्तं भूतमात्रमिति स्मृतम्
केशान्ताद्धनुपर्यन्तं मानञ्चैव त्रिधा भवेत् ॥ ९ ॥
केशान्तादक्षिसूत्रान्तमेकांसमिति कीर्तितम्
अक्षिसूत्रात्पुटान्तञ्च तत्समन्तु विधीयते ॥ १० ॥
पुटान्ताद्धनुपर्यन्तमेकांशेन प्रकल्पयेत्
यवोपेतं त्रिमात्रं तु दृगन्तरं प्रकल्पयेत् ॥ ११ ॥
वस्त्रालङ्कारसम्पन्ना गजेन्द्रध्वजवाहिनी
तत्समन्नयनायामं भूतमात्रं भ्रुवायतम् ॥ १२ ॥
भ्रमद्ध्यादूद्ध्र्वकेशान्तं यवोपेतं द्विमात्रकम्
भ्रमद्ध्यमे यवं तारमानुपूर्वात्कृशाग्रकम् ॥ १३ ॥
षड्यवन्नेत्रविस्तारमूद्ध्र्ववर्मं यवार्द्धकम् ।
अर्द्धं यवं त्वधोवर्मं करवीरो यवो भवेत् ॥ १४ ॥
नेत्रायामं त्रिधा कृत्वा मद्ध्यैकं कृष्णमण्डलम्
कृष्णमण्डलमद्ध्ये तु ज्योतिर्मण्डलकं यवम् ॥ १५ ॥
दृष्टियूकप्रमाणेन तन्मद्ध्ये परिकल्पयेत्
तारं भ्रुवाग्रयोर्मद्ध्ये यवञ्चेति प्रकीर्तितम् ॥ १६ ॥
भूसूत्रान्तं तु तस्योद्ध्र्वे दैर्घ्यञ्चार्द्धयवं भवेत्
अपाङ्गात् कर्णमूलान्तं षण्मात्रञ्चैव षड्यवम् ॥ १७ ॥
कर्णोद्ध्र्वं भ्रुवसूत्रस्य समञ्चेति प्रकीर्तितम्
द्विमात्रं कर्णविस्तारमायामं तु द्विमात्रकम् ॥ १८ ॥
पिप्पली चार्द्धमात्रन्तु तत्समं सुषिरं भवेत्
पिप्पल्यानां तु नालाग्रं मात्राद्वयमिति स्मृतम् ॥ १९ ॥
अपाङ्गान्नालविस्तारं यवाक्षाणाङ्गुलं भवेत्
पूर्वन्नालार्द्धमात्रञ्च तत्तारार्द्धं घनं भवेत् ॥ २० ॥
अन्तरालं तु मात्रेण कर्णपट्टीयवद्वयम्
द्वयोः कर्णान्तरं पूर्वे द्वात्रिंशच्च त्रिमात्रकम् ॥ २१ ॥
पृष्ठे द्विकर्णयोर्मद्ध्ये द्वादशाङ्गुलमुच्यते
घ्राणमूलस्य विस्तारं त्रियवं समुदाहृतम् ॥ २२ ॥
नासिकाग्रस्य विस्तारमङ्गुलञ्चेति कीर्तितम्
पुटान्तरार्द्धमात्रञ्च तुङ्गं तत्सममुच्यते ॥ २३ ॥
वंशाग्रतारमर्द्धांशमूलं तारं यवं भवेत्
परितो नासिकापाल्या घनमर्द्धयवं भवेत् ॥ २४ ॥
त्रियवं गोजिकायामं तारमर्द्धाधिकं यवम्
घ्राणान्तात् गोजिकायाश्च यवहीनं द्विमात्रकम् ॥ २५ ॥
उत्तरोष्ठस्य विस्तारं त्रियवञ्चेति कीर्तितम्
तस्यायामञ्चतुर्मात्रं वक्त्रत्रयसमन्वितम् ॥ २६ ॥
अधरोष्ठस्य चायामं मात्रद्वयमुदाहृतम्
तस्यार्द्धं तस्य विस्तारं चुबुकं तु यवद्वयम् ॥ २७ ॥
विस्तारं तत्समं ज्ञेयन्निम्नमर्द्धयवं भवेत्
यवहीनाङ्गुलं तस्मादधरोष्ठस्य निर्गमम् ॥ २८ ॥
ऊद्ध्र्वपालीमधःपालीं कुर्यादर्द्धयवेन तु
शिवमूलस्य विस्तारं वस्वङ्गुलमिति स्मृतम् ॥ २९ ॥
शिवाग्रस्य तु विस्तारं सार्द्धसप्ताङ्गुलं भवेत्
वक्षस्थलस्य विस्तारं सप्तविंशति मात्रकम् ॥ ३० ॥
पञ्चविंशतिमात्रं तु बाहुयामं प्रकीर्तितम्
आयामं तु प्रकोष्ठस्य एकोनविंशदङ्गुलम् ॥ ३१ ॥
मद्ध्याङ्गुलाग्रात्तस्याग्रादर्द्धेन द्वादशाङ्गुलम्
तस्यार्द्धं तु कलायामं शेषं मद्ध्याङ्गुलायतम् ॥ ३२ ॥
द्व्यङ्गुलद्वयवाधिक्यमङ्गुष्ठायाममिष्यते
सार्द्धं वेदाङ्गुलं प्रोक्तन्नामिकायास्तु दैर्घ्यकम् ॥ ३३ ॥
तथैव नामिकायास्तु भागं कनिष्ठिकायतम्
धर्माब्धिवसुषट्भूतं यवमङ्गुष्ठकान् क्रमात् ॥ ३४ ॥
कनिष्ठाङ्गुलमन्तं तु विस्तारं तु विधीयते
विस्तारस्याष्टभागैकमग्रतारविहीनकम् ॥ ३५ ॥
विस्तारं तु त्रिधा कृत्वा द्विभागन्नखविस्तरम्
तत्तारात्तु यवाधिक्यं नखायामं प्रकीर्तितम् ॥ ३६ ॥
अष्टाङ्गुलं द्विपर्वं स्यादन्न्येषां तु त्रिपर्वकम्
तलमद्ध्यत्रिरेखाभिस्संयुक्तं परिकल्पयेत् ॥ ३७ ॥
तलमूलप्रदेशस्य घनं कोलकमुच्यते
अष्टांशहीनमग्रे तु तत् घनं परिकीर्तितम् ॥ ३८ ॥
तलायामसमं ज्ञेयं तलस्यैव तु तारकम्
मणिबन्धस्य विस्तारं मात्रं तु द्वियवाधिकम् ॥ ३९ ॥
प्रकोष्ठमूलविस्तारं शरमात्रञ्चतुर्यवम्
बाहुमूलस्य विस्तारं षण्मात्रं तु चतुर्यवम् ॥ ४० ॥
बाहुमद्ध्यमविस्तारं सप्ताङ्गुलमुदाहृतम्
बाहूमूलस्य विस्तारं वस्वङ्गुलमुदाहृतम् ॥ ४१ ॥
हिक्कासूत्रात्तु कक्षान्तं वस्वङ्गुलमुदाहृतम्
द्वात्रिंशदङ्गुलं प्रोक्तं कक्षयोरन्तरं ततः ॥ ४२ ॥
हृदयावधिविस्तारम् अष्टादशाङ्गुलं भवेत्
उदरस्य तु विस्तारं सप्तदशाङ्गुलं स्मृतम् ॥ ४३ ॥
श्रोणिप्रदेशविस्तारं स्मृत्यङ्गुलमुदाहृतम्
षड्यवं नाभिविस्तारं निम्नमर्द्धयवं भवेत् ॥ ४४ ॥
स्तनमण्डलविस्तारमर्द्धाङ्गुलमुदाहृतम्
चूचुकं द्वियवं प्रोक्तमुत्सेधं तत्समं भवेत् ॥ ४५ ॥
हिक्कामद्ध्यात्स्तनान्ताच्च अर्द्धेन द्वादशाङ्गुलम्
उभयोस्तनाक्षयोर्मद्ध्ये अर्द्धेन द्वादशाङ्गुलम् ॥ ४६ ॥
मुक्तायामं तु भागं स्यात् विस्तारं तत्समं भवेत्
शेफं पञ्चाङ्गुलं दैर्घ्यं मुकुलोत्पलवद्भवेत् ॥ ४७ ॥
कटिप्रदेशविस्तारं स्मृत्यङ्गुलं त्रिपादकम् ।
ऊरुमूलस्य विस्तारमर्द्धेन द्वादशाङ्गुलम् ॥ ४८ ॥
ऊर्वग्रस्य तु विस्तारं सार्द्धरन्ध्राङ्गुलं भवेत्
जानुमद्ध्यस्य विस्तारमर्द्धेनाष्टाङ्गुलं भवेत् ॥ ४९ ॥
जङ्घामूलस्य विस्तारमर्द्धेन कौशिकाङ्गुलम्
नालकस्य तु विस्तारमर्द्धेन चतुरङ्गुलम् ॥ ५० ॥
अङ्घ्रेस्तालाग्रविस्तारं कौशिकाङ्गुलमुच्यते
तलमद्ध्यमविस्तारं भूताङ्गुलमुदाहृतम् ॥ ५१ ॥
अङ्गुष्ठस्य तु दैर्घ्यं तु चतुरङ्गुलमुच्यते
तस्याग्रात् गुल्फमद्ध्याच्च अर्द्धेन द्वादशाङ्गुलम् ॥ ५२ ॥
नामिकायास्समायामं भागञ्चैव यवाधिकम्
मद्ध्याङ्गुलं ततः प्रोक्तं भागं त्वनामिकायतम् ॥ ५३ ॥
कनिष्ठाङ्गुलिकायाममर्द्धेनैव गुणाङ्गुलम्
मुन्न्यद्रिनवनाड्याख्य त्रयोदशयवं क्रमात् ॥ ५४ ॥
कनिष्ठाद्यङ्गुलीनाञ्च विस्तारं तु विधीयते
अग्रे मूले समं प्रोक्तं विस्तारं तु त्रिधा भवेत् ॥ ५५ ॥
द्विभागं नखविस्तारमायामं तत्समं भवेत्
तलाग्राङ्गुष्ठमूले तु द्विमानं तु घनं भवेत् ॥ ५६ ॥
कनिष्ठमूले तस्याग्रे घनन्नवयवं भवेत्
अग्र्यपार्ष्ण्यान्तकं भागं पार्ष्ण्योत्सेधं तु तत्समम् ॥ ५७ ॥
पृष्ठमण्डलविस्तारं नवमात्रमुदाहृतम्
पक्षो दण्डाञ्च वस्तौ तु पञ्चविंशतिमात्रकम् ॥ ५८ ॥
ककुद्भागमिति प्रोक्तं भागितम्मूल तारकम्
हिक्कायाः स्कन्धमूलान्ताश्चतुरङ्गुलमुच्यते ॥ ५९ ॥
मद्ध्ये चाग्रे क्रमेणैव कोलकञ्चैकमात्रकम्
कक्षयोरन्तरं पृष्ठे चतुर्विंशति मात्रकम् ॥ ६० ॥
एवं लक्षणमाख्यातं तेषामाकृतिरुच्यते
अगस्त्यश्च पुलस्त्यश्च विश्वामित्रः पराशरः ॥ ६१ ॥
जमदग्निश्च वाल्मीकी सनत्कुमारश्च सप्त च
शुक्लवस्त्रधरास्सर्वे शुक्लयज्ञोपवीतकाः ॥ ६२ ॥
शुक्लवस्त्रोत्तरीयाश्च जटावल्कलसंयुताः
कमण्डल्वक्षहस्ताश्च दीर्घश्मश्रूसमन्विताः ॥ ६३ ॥
ऋषीणामाकृतिः प्रोक्ता अश्विन्न्याकृतिरुच्यते
उभयोस्सोपवीतौ तौ चूडामकुटधारिणौ ॥ ६४ ॥
फुल्लरक्तोत्पलाक्षौ च पीतस्रक् शुक्लवस्तकौ
अश्विन्याकृतिरेवं तु सूर्याकृतिं श्रुणुष्वथ ॥ ६५ ॥
एकचक्रस्ससप्ताश्वस्ससारथिमहारथम्
कृत्वा तु स्थापयेत्सूर्यं पुरुषाकृतिरूपिणम् ॥ ६६ ॥
तदर्द्धं वामतश्श्यामं नारीरूपसमन्वितम्
कृत्वा तु स्थापयेत्सम्यक्सर्वाभरणभूषितम् ॥ ६७ ॥
आकुञ्चितसुकेशं च प्रभामण्डलसयुतम्
मकुटं वा विधातव्यमन्यत्सर्वं सुमण्डलम् ॥ ६८ ॥
हस्तद्वयलसत्पद्मं कञ्चुकाञ्चितविग्रहम्
एकवस्त्रं द्विदोर्दण्डं स्कन्धेसक्तकराम्बुजम् ॥ ६९ ॥
रथोपेतं विनावाथ केवलं पद्मसंस्थितम्
पादौ सखेटकौ तस्य स्थिरं पद्मासने स्थितम् ॥ ७० ॥
जातिहिङ्गुल्य वर्णस्थासंस्थाप्यं सूर्यमण्डलम्
वैकर्तनो विवस्वांश्च मार्ताण्डो भास्करो रविः ॥ ७१ ॥
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः
आदित्यश्च तथा सूर्य अंशुमांश्च दिवाकरः ॥ ७२ ॥
एते वै द्वादशादित्या एषामाकृतिरुच्यते
द्विभुजाश्च द्विनेत्राश्च पद्मस्थाः पद्महस्तकाः ॥ ७३ ॥
रक्ताम्बरसुवर्णाश्च प्रभामण्डलमण्डिताः
उपवीतसमायुक्तास्सर्वाभरणभूषिताः ॥ ७४ ॥
आदित्याकृतिरेवन्तु चन्द्राकृतिरथोच्यते
चित्रसिंहासनासीनः कुन्दस्फटिकसन्निभः ॥ ७५ ॥
प्रभामण्डलसंयुक्तो द्विबाहुश्च द्विनेत्रकः
आसीनोवास्थितो वापि कुमुदप्रज्वलत्करः ॥ ७६ ॥
तस्य दक्षिणभागे तु रोहिणी द्विभुजान्विता
सस्याङ्कुरनिभासाभ्याद्राजी वसमलोचना ॥ ७७ ॥
चन्द्राकृतिस्समाख्याता स्कन्दस्याकृतिरुच्यते
रक्ताम्बरसदृक् स्तोकबालोबालार्क्कसन्निभः ॥ ७८ ॥
शिखण्डमणिकोग्रीवमांसलः प्रियदर्शनः
शक्तिस्तु विलसत्खट्ग चक्रपाशप्रसारितः ॥ ७९ ॥
दक्षिणे दक्षिणे रक्तजूटखेटककार्मुकः
पताकापिञ्चिकामुष्टिस्तर्जनी च प्रसारिता ॥ ८० ॥
गुहोद्वादशबाहुस्स्यात् पुरीखेटकपत्तने
चतुर्दोर्भिर्वाथ षड्दोर्भिस्संयुक्तः परिकल्पयेत् ॥ ८१ ॥
सशक्तिस्सहयस्सासिस्साक्षमालस्सकुक्कुटः
सखेटश्च सषट्बाहुश्चतुर्दोस्वस्तिखेटकः ॥ ८२ ॥
सशक्तिः कुक्कुटश्चेकवक्त्रकः कुङ्कुमच्छविः
मयूरारोहसर्वत्र भ्रामराह्य द्विबाहुकः ॥ ८३ ॥
वासिकाबद्धमकुटस्सुब्रह्मण्यस्सुसुन्दरः
स्कन्दस्याकृतिरेवन्तु आर्यस्याकृतिरुच्यते ॥ ८४ ॥
मोहिनी तनयश्शान्तो द्विबाहुश्श्यामसन्निभः
पीठालम्बितशायीतो वामदक्षिणपादकौ ॥ ८५ ॥
वामाङ्घ्रिजानुकोद्ध्र्वे तु वामहस्तस्थितां कुरु
मण्डली भूतदण्डाग्रो वज्रदण्डधरो युवा ॥ ८६ ॥
स्निग्धनीलाञ्जनाकीर्णः कुन्दली भूतभूद्ध्वजः
गजवाहनकेतुस्स्याद्विलासीसविलासिनी ॥ ८७ ॥
नीलश्वेतश्च वृषभ वाहनोवा चतुर्भुजः
रक्तचूडद्ध्वजो वापि सर्वत्र परिकीर्तितः ॥ ८८ ॥
ज्ञानीयोगासनासीनो वेदाद्ध्यायी पवित्रकः
सोभयांसोपवीतस्स्यान्न्यूनावीरासने स्थितः ॥ ८९ ॥
लीलाविभीतभावी स्यात् सुरभावी सुखासनः
वामोरूपरिविन्न्यस्तवामपादतले क्षणः ॥ ९० ॥
आर्यस्याकृतिरेवन्तु शक्रस्याकृतिरुच्यते
वज्रपाणिर्महावीरस्सिंहस्कन्दोवलीलधृक् ॥ ९१ ॥
ललाटोरस्थलायाम पीवरोरुर्म्महोदरः
प्रसन्नवदनश्च्याम वर्णोरक्ताम्बरस्सुखी ॥ ९२ ॥
किरीटकुण्डलीहार केयूरादिविभूषितः
पृथुशीर्षो गजारूढो देवराजश्शचीपतिः ॥ ९३ ॥
शक्रस्याकृतिरेवन्तु चण्डेशस्याकृतिं शृणु
चण्डीचण्डेश्वरो रक्तश्वेतमिश्रश्च विस्तरः ॥ ९४ ॥
द्विबाहुस्सजटाचूढ शेखरः कर्णकुण्डलः
धृतयज्ञोपवीतश्च शुक्लाम्बरधरश्शुचिः ॥ ९५ ॥
सर्वभूषणसम्भूष्यष्टं कपाणिरथापि वा
अर्द्धचन्द्रासनासीनः पुष्पमालावलम्बितः ॥ ९६ ॥
चण्डेशस्याकृतिर्ह्येवं क्षेत्रपालाकृतिं शृणु
रक्तोग्रेक्ष्णः कालमेघवर्णो वापि महाबली ॥ ९७ ॥
द्विबाहुर्वा चतुर्बाहुरष्टबाहुरथापि वा
कपालशूलो द्विभुजो घण्टापाशसमायुतः ॥ ९८ ॥
चतुर्बाहुः क्रमात्क्षेत्र पालो वामे च दक्षिणे
अग्निटङ्कौ चखट्वाङ्गा भयमष्टभुजे क्रमात् ॥ ९९ ॥
रक्तपद्मासनारूढः श्यामवर्णोग्ररूपकः
विसृतोद्ध्र्वो रक्तकेशः कुञ्चितभ्रूसविभ्रमः १००
नग्नरूपशिरोमाला भूषितस्तीक्ष्णदंष्ट्रकः १०१
इति पूर्वकारणे प्रतिष्ठातन्त्रे कनिष्ठदशतालविधिपटलो त्रयोदशः