०१२ स्त्रीमानदशतालपटलः

स्त्रीमानदशतालपटलप्रारम्भः
स्त्रीमानं सम्प्रवक्ष्यामि यथावदनुपूर्वशः
उमां सरस्वती दुर्गा सप्तमातृृनुषां महीम् ॥ १ ॥

ज्येष्ठां लक्ष्मीञ्च मद्ध्येन दशतालेन कारयेत्
यावदुत्सेधमानन्तु भजेद्विंशच्छताङ्गुलम् ॥ २ ॥

उष्णीषात्केशपर्यन्तं चतुर्मात्रमिति स्मृतम्
केशार्द्धान्तार्द्धपर्यन्तं त्रयोदशाङ्गुलं भवेत् ॥ ३ ॥

केशान्तादक्षिसूत्रान्तं तत्त्रिभागैकमुच्यते
अक्षिसूत्रात्पुटान्तञ्च तत्समञ्चेति कीर्तितम् ॥ ४ ॥

तत्पुटाद्धनुपर्यन्तं तत्समं त्वभिधीयते
ग्रीवायामं चतुर्भागं हिक्कासूत्रात्स्तनान्तकम् ॥ ५ ॥

त्रयोदशाङ्गुलं प्रोक्तं तस्मान्नाभेस्तु तत्समम्
नाभेस्तु योनिपर्यन्तं त्रयोदशाङ्गुलं भवेत् ॥ ६ ॥

योन्यर्वागग्रकान्तञ्च षड्विंशति च मात्रकम्
जान्वायामन्तु भागं स्यात् जङ्घाचाप्यूरुतत्समम् ॥ ७ ॥

तलोत्सेधञ्चतुर्मात्रं कायमानमिति स्मृतम्
मूर्द्धादिपृष्ठकेशान्तं त्रयोदशाङ्गुलं भवेत् ॥ ८ ॥

मूर्द्धादिपूर्वकेशान्तं सप्ताङ्गुलमिति स्मृतम्
मूर्द्धादिपार्श्वकेशान्तं रन्ध्रमात्रमिति स्मृतम् ॥ ९ ॥

भूताङ्गुलं भ्रुवायामं तन्मद्ध्ये तारकं यवम्
उभयोः पार्श्वयोश्चैव आनुपूर्वात् कृशन्तथा ॥ १० ॥

भ्रूमद्ध्यमूर्ध्वकेशान्तं द्विमात्रञ्चेति कीर्तितम्

आरूढकार्मुकाकारं भ्रुवोर्लक्षणसंयुतौ ॥ ११ ॥

भ्रूसूत्रनासिकामूलादङ्गुलञ्चेति कीर्तितम्
मध्ये सप्तयवं प्रोक्तं नासिमूलात् भ्रेवाग्रयोः ॥ १२ ॥

दृगन्तरप्रमाणञ्च द्विमात्रं द्वियवं भवेत्
तत्समं स्याद्दृगायामं तद्विस्तारं तु मात्रकम् ॥ १३ ॥

द्वियवं तूर्ध्ववर्मं तु अधोवर्मं यवार्द्धकम्
कनीनिकायवादीर्घा विस्तारं तत्समं भवेत् ॥ १४ ॥

दृगायामं त्रिधा कृत्वा मद्ध्येकं कृष्णमण्डलम्
ज्योतिर्मण्डलकं तस्य मद्ध्यमे तु यवं भवेत् ॥ १५ ॥

ज्योतिर्मण्डलमद्ध्ये तु दृष्टिर्यूकप्रमाणतः
श्वेतरक्तककृष्णैश्च वर्णैर्युक्तन्तु लोचनम् ॥ १६ ॥

भ्रूसूत्रस्य समं कुर्याच्छ्रोत्रस्योर्ध्वं विशेषतः
अपाङ्गात् कर्णमूलान्तं यवहीनं सप्तमात्रकम् ॥ १७ ॥

कोलकं कर्णविस्तारमुत्सेधन्तु युगाङ्गुलम्
नलायामन्ततः कुर्यात् रन्ध्रञ्चतुर्यवं भवेत् ॥ १८ ॥

अपरन्नालविस्तारं यवक्षीणाङ्गुलं भवेत्
पूर्वन्नालार्द्धमात्रञ्च विस्तारार्द्धं घनन्तयोः ॥ १९ ॥

पिप्पलीचार्धमात्रञ्च सुषिरन्तत्समं भवेत्
त्रियवं कर्णपट्टी च श्रोत्रावटन्तु मात्रकम् ॥ २० ॥

कर्णयोरन्तरं पूर्वे विंशदङ्गुलमेव च
प्राणमूलाग्रतारन्तु अर्द्धमात्रमिति स्मृतम् ॥ २१ ॥

अग्रनासस्तु विस्तारं यवोपेतस्तु मात्रकम्
नासिकापुटविस्तारमेकैकन्तु चतुर्यवम् ॥ २२ ॥

चतुर्यवं पुटोत्सेधं बाह्ये चार्द्धयवं घनम्
सुषिरं त्रियवं प्रोक्तं वंशविस्तारमङ्गुलम् ॥ २३ ॥

अधस्तात्तस्य विस्तारमर्द्धम्ं यवमिति स्मृतम्

पुटसूत्रादधस्तात्तु अग्रनासियवं भवेत् ॥ २४ ॥

द्वियवं गोजिकातारं गोज्योत्सेधञ्चतुर्यवम्
गोज्यादिनासिकाग्रान्तमश्वन्न्यङ्गुलमुच्यते ॥ २५ ॥

उत्तरोष्ठस्य विस्तारं त्रियवञ्चेति कीर्तितम्
आस्यायामञ्चतुर्मात्रं वक्त्रत्रयसमन्वितम् ॥ २६ ॥

यवप्रमाणमेवोक्तमुत्तरोष्ठस्य पालिका
अधरोष्ठस्य विस्तारमङ्गुलं स्याद्यवाधिकम् ॥ २७ ॥

व्यङ्गुलं स्यात्तदायामं यवस्यात्तस्य पालिका
अर्द्धे त्वाकृतिवत्प्रोक्तं पक्वबिम्बफलं भवेत् ॥ २८ ॥

ऊर्ध्वे षोडशदन्तं स्यादधस्तात्तावदेव तु
ऊर्ध्वदन्तस्य विस्तारं द्वियवन्तत्समासतः ॥ २९ ॥

अधोदन्तन्तु तस्यार्द्धं कारयेत्तु विचक्षणः
चिबुकञ्चार्द्धमात्रञ्च तन्निम्नन्तु यवं भवेत् ॥ ३० ॥

चिबुकात् षड्यवं ज्ञेयमधरोष्ठस्य निर्गमम्
अनुचक्रत्रिमात्रन्तु ग्रीवं सुवृत्तकं भवेत् ॥ ३१ ॥

ग्रीवाग्रस्य तु विस्तारं सप्तमात्रं यवाधिकम्
ग्रीवामूलस्य विस्तारमष्टाङ्गुलयवाधिकम् ॥ ३२ ॥

बाह्वोश्चैवान्तरन्तिर्यक् द्वात्रिंशदङ्गुलं भवेत्
पक्षयोरन्तरन्तिर्यगष्टादशाङ्गुलं भवेत् ॥ ३३ ॥

बाहुमूलस्य विस्तारं सप्तमात्रमिति स्मृतम्
हिक्कासूत्रं तयोर्बाहु षड्विंशदङ्गुलायतम् ॥ ३४ ॥

दशकोलम्प्रकोष्ठं तु तस्मान्मद्ध्याङ्गुलाग्रकात्
त्रयोदशाङ्गुलायामं तस्यार्द्धं तालमुच्यते ॥ ३५ ॥

शेषं मद्ध्याङ्गुलायामं भागं पञ्चयवाधिकम्
देशिन्न्यायाममित्युक्तं भागं तु षड्यवाधिकम् ॥ ३६ ॥

एतत्त्वनामिकादैर्घ्यं भागमङ्गुष्ठकायतम्

तत्समं तु कनिष्ठं स्याद्दशसप्तार्धकाष्टच ॥ ३७ ॥

सप्तार्द्धं षड्यवञ्चैव अङ्गुष्ठान्तरमुच्यते
विस्तारस्याष्टभागैकमग्रे चैव विहीनकम् ॥ ३८ ॥

सप्तार्द्धञ्चतुरर्द्धञ्च पञ्चार्द्धञ्चतुरर्द्धकम्
त्रियवञ्चनखानां तु तारमङ्गुष्ठकात्क्रमात् ॥ ३९ ॥

विस्तारं द्वियवाधिक्यं तखकायाममुच्यते
द्विपर्वोपेतमङ्गुष्ठं शेषास्त्रिपर्वसंयुताः ॥ ४० ॥

तलमद्ध्यं त्रिरेखाभिस्संयुक्तं तु प्रकल्पयेत्
पक्षाङ्गुलप्रमाणं तु तलमूलघनं भवेत् ॥ ४१ ॥

तत्घनस्याष्टभागैकमग्रे चैव विहीनकम्
मणिबन्धस्य विस्तारं त्र्यङ्गुलं द्वियवाधिकम् ॥ ४२ ॥

प्रकोष्ठमूलविस्तारं द्वियवं पञ्चमात्रकम्
बाहुकाग्रस्य विस्तारं कौशिकाङ्गुलमुच्यते ॥ ४३ ॥

बाहुमद्ध्यमविस्तारं सार्द्धकौशिकमात्रकम्
हृदयावधिविस्तारं मन्वङ्गुलमिति स्मृतम् ॥ ४४ ॥

हिक्कामद्ध्यात्स्तनाक्षान्तं रव्यङ्गुलमिति स्मृतम्
स्तनयोरग्रमद्ध्यन्तु तत्समञ्चेति कीर्तितम् ॥ ४५ ॥

कुचमण्डलविस्तारं सार्द्धरन्ध्राङ्गुलं भवेत्
उन्नतन्दशमात्रन्तु तन्मद्ध्ये चाक्षिमण्डलम् ॥ ४६ ॥

पक्षाङ्गुलन्तु विस्तारन्तन्मद्ध्ये तु स्तनाक्षकम्
द्वियवन्तस्यविस्तारं वृत्तन्दैर्घ्यन्तु तत्समम् ॥ ४७ ॥

जठरस्य तु विस्तारं रुद्राङ्गुलमिति स्मृतम्
नाभिप्रदक्षिणावर्त्तनिम्नं कुर्यात् सलक्षणम् ॥ ४८ ॥

निम्नं यवद्वयन्तस्य विस्तारं षड्यवं भवेत्
ग्रोणिप्रदेशविस्तारं विंशदङ्गुलमुच्यते ॥ ४९ ॥

कटिप्रदेशविस्तारं षड्विंशदङ्गुलं भवेत्

योनिमूलस्य विस्तारं शराङ्गुलमिति स्मृतम् ॥ ५० ॥

अग्रे त्वङ्गुलविस्तारमानुपूर्वात्कृशन्तथा
योनिरेवं प्रकर्तव्यं पिप्पलस्यैव पत्रवत् ॥ ५१ ॥

ऊरुमूलस्य विस्तारम् आदित्याङ्गुलमुच्यते
तस्य मद्ध्यमविस्तारमेकादशाङ्गुलं भवेत् ॥ ५२ ॥

ऊर्वग्रस्य तु विस्तारन्नवमात्रमिति स्मृतम्
जानुमद्ध्यमविस्तारं वस्वङ्गुलमुदाहृतम् ॥ ५३ ॥

जङ्घामूलस्य विस्तारमर्द्धेन सप्तमात्रकम्
जङ्घामद्ध्यमविस्तारं षण्मात्रं समुदीरितम् ॥ ५४ ॥

नालकस्य तु विस्तारञ्चतुरङ्गुलमुच्यते
अक्षगुल्फद्वयोर्मद्ध्ये विस्तारन्तु शराङ्गुलम् ॥ ५५ ॥

अङ्गुष्ठाग्रात्तु मद्ध्याक्षं चतुर्यवसमं भवेत्
अग्रे तलाग्रविस्तारं कौशिकाङ्गुलमुच्यते ॥ ५६ ॥

तलमद्ध्यमविस्तारं शराङ्गुलमुदाहृतम्
तलाग्रस्य घनन्तत्र पक्षाङ्गुलमुदाहृतम् ॥ ५७ ॥

बाह्ये घनन्तथाग्रन्तु मूलेद्ध्यर्द्धं द्विमात्रकम्
पादाङ्गुष्ठायतं भागन्तत्समन्तु प्रदेशिनी ॥ ५८ ॥

त्रिमात्रमद्ध्यमायामन्नामिकार्द्धं द्विमात्रकम्
कनिष्ठाङ्गुलस्य दैर्घ्यन्तु कोलकञ्चेति कीर्तितम् ॥ ५९ ॥

द्वादशञ्चनवाष्टौ च सप्तार्धं षड्यवन्तथा
अङ्गुष्ठादिकनिष्ठान्तं पादाङ्गुलसुतारकम् ॥ ६० ॥

तत्तदङ्गुलविस्तारादर्द्धं स्यान्नालविस्तरम्
कक्षात्पार्ष्ण्यायतं भागमुत्सेधञ्चतुरङ्गुलम् ॥ ६१ ॥

स्फिक्पिण्डस्य तु विस्तारं सप्ताङ्गुलमिति स्मृतम्
ऊरूमूलं समारभ्य तस्योन्नतं गुणाङ्गुलम् ॥ ६२ ॥

ककुदः कटिसन्धिश्च षड्विंशन्मात्रमुच्यते

कटिसन्धेर्वस्तिदेशस्त्रयोदशाङ्गुलं भवेत् ॥ ६३ ॥

अपरेकक्षयोर्मद्ध्ये एकोनविंशदङ्गुलम्
ककुद्दीर्घं भागमुक्तं विस्तारन्तालमेव तु ॥ ६४ ॥

हिक्कासूत्रोपरिस्कन्धमानञ्चैव द्विकोलकम्
तन्मद्ध्यमे चतस्याग्रे द्विमात्रञ्चार्द्धमात्रकम् ॥ ६५ ॥

अपरे कर्णयोर्मद्ध्ये अर्द्धेनैकादशाङ्गुलम्
सामान्न्यलक्षणञ्चैव विशेषमधुनोच्यते ॥ ६६ ॥

द्विभुजाच्च द्विनेत्राच्च किञ्चित्प्रहसिताननम्
करण्डमकुटोपेता सर्वाभरणभूषिता ॥ ६७ ॥

दुकूलवसनोपेता सर्वावयवसुन्दरी
दक्षिणे कटकं हस्तं वामहस्तं प्रलम्बितम् ॥ ६८ ॥

आभागन्तु वशात्कुर्यात्सूत्रञ्चैव तु लम्बयेत्
नासाग्राल्लम्बयेत्सूत्रं दक्षिणे स्थितपादके ॥ ६९ ॥

गुल्फमद्ध्यस्थितं सूत्रं शिवसूत्रमिति स्मृतम्
तत्सूत्रात्स्तनमद्ध्याच्च वामे स्यात्तु गुणाङ्गुलम् ॥ ७० ॥

तत्सूत्राद्दक्षिणेनाभेरङ्गुलञ्चेति कीर्तितम्
तत्सूत्राद्योनिमद्ध्याच्च दक्षिणे चतुरङ्गुलम् ॥ ७१ ॥

तत्सूत्राद्दक्षिणे जानुर्मद्ध्याच्चैवगुणाङ्गुलम्
अङ्गुष्ठयोर्द्वयोर्मद्ध्ये सार्द्धत्रयोदशाङ्गुलम् ॥ ७२ ॥

तत्रिभागैकभागन्तु पार्ष्ण्योरन्ध्रमिति स्मृतम्
कटकाग्रस्य चोत्सेधं स्तनकक्षसमं भवेत् ॥ ७३ ॥

नाभेस्तु मणिबन्धाच्च सार्द्धत्रयोदशाङ्गुलम्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं सप्तमात्रकम् ॥ ७४ ॥

प्रलम्बितकरस्याग्रादूरुकोच्चं द्विमात्रकम्
ऊरुकान्मणिबन्धाच्च द्व्यन्तरञ्चतुरङ्गुलम् ॥ ७५ ॥

पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरन्तुरसाङ्गुलम्

पीनोरुः पीनगन्धा च पीनस्तरसमन्विता ॥ ७६ ॥

द्विबाहुकाद्विनेत्राच श्यामाभाकमलेक्षणा
दक्षिणे चोत्पलं हस्ते वामहस्तं प्रलम्बितम् ॥ ७७ ॥

भवान्याकृतिन्दवं स्यात् वागीश्याकृतिरुच्यते
श्वेतपद्मासनासीनां शुक्लवर्णाञ्चतुर्भुजाम् ॥ ७८ ॥

जटामकुटसंयुक्तां मुक्ताकुण्डलमण्डिताम्
यज्ञोपवीतिनीं हारमुक्ताभरणभूषिताम् ॥ ७९ ॥

दुकूलवसनां देवीं नेत्रत्रयसमन्विताम्
सदशन्दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ॥ ८० ॥

दक्षिणे चाक्षमाला च करकं वामके करे
वागीश्याकृतिराख्यातादुर्गायाकृतिरुच्यते ॥ ८१ ॥

ललाटलोचनन्तस्यास्तिलकञ्च शिखामणिः
शशिखण्डकिरीटं वा मकुटं सकरण्डकम् ॥ ८२ ॥

सनक्रकुण्डलं रत्नमण्डनं कर्णमण्डनम्
कर्णावतं सकाकर्ण चूलिकापालिकान्वितम् ॥ ८३ ॥

चतुर्भुजसमायुक्तामष्टाभिर्दोर्भिरन्विताम्
शूलं खड्गं शरञ्चक्रं दक्षिणेषु करेषु च ॥ ८४ ॥

पाशखेटकशार्ङ्गाश्च शङ्खं वामकरेषु च
चतुर्भुजे च वामे तु शङ्खं वामकरेषु च ॥ ८५ ॥

चक्रञ्चाभयहस्तञ्च दक्षिणे तु समायुता
द्विनेत्रासौम्यवदनामहिषस्य शिरस्थिता ॥ ८६ ॥

दुर्गायास्वाकृतिर्ह्येवं ब्रह्माण्याकृतिरुच्यते चतुर्भुजाविशालाक्षी तप्तकाञ्चनसन्निभा ॥ ८७ ॥

वरदाभयहस्ता च कमण्डल्वक्षमालिका
हंसद्ध्वजाहंसरूढा जटामकुटधारिणी ॥ ८८ ॥

रक्तपद्मासनासीना ब्रह्माणी ब्रह्मरूपिणी

त्रिणेत्रीशुक्लवर्णाच शूलपाणीवृषद्ध्वजा ॥ ८९ ॥

वरदाभयहस्ता च साक्षमालाकरान्विता
जटामकुटिनीशम्भोर्भूषणीसामहेश्वरी ॥ ९० ॥

कुमारसदृशाकन्न्यावर्णवाहनकेतुभिः
वासिकाबद्धमकुटा शक्तिकाङ्कुशधारिणी ॥ ९१ ॥

रक्तवस्त्रामहावीर्या हारकेयूरभूषणी
वरदाभयहस्ता च कौमारी कुङ्कुमप्रभा ॥ ९२ ॥

पद्मपत्रविशालाक्षी श्यामवर्णामहाबला
शङ्खचक्रगदापद्मधराबाहुचतुष्टयी ॥ ९३ ॥

गरुडध्वजसंयुक्ता वैष्णवी विष्णुभूषणी
कृष्णपीताम्बराशार्ङ्गी सर्वसम्पत्करी नृणाम् ॥ ९४ ॥

पवित्रालङ्कृतोरस्का पादनूपुरसंयुता
सव्ये भयहलञ्चैव मुसलं वरदन्न्यके ॥ ९५ ॥

वराहवक्त्रीवाराही यमभूषणभूषणी
वज्रहस्तागजारूढा लोचनद्वयसंयुता ॥ ९६ ॥

वस्त्रालङ्कारसम्पन्नागजेन्द्रध्वजवाहना
वरदाभयशक्त्याप्त बाहुकेन्दुप्रकीर्तिता ॥ ९७ ॥

दीर्घजिह्वोर्ध्वकेशा च कृष्णकाकृष्णदंष्ट्रिका
निर्मांसाव्यावृतमुखी चण्डीखण्डेन्दुमण्डिता ॥ ९८ ॥

कालीकपालमाला च शवारूढा कृशोदरी
कौशिकारोहिणी वासौ चामुण्ड्यागृध्रकेतुका ॥ ९९ ॥

मांसखण्डसुसम्पूर्णं कपालं वामपाणिभाक्
शूलाही दक्षिणे चैव वह्निर्वामकरस्थिके १००
व्याघ्रचर्माम्बरा काली त्रिणेत्री शङ्खकुण्डली
लोकानां मातरस्सप्तमातरः अधिका इमे १०१
मातृृणामाकृतिः प्रोक्ता उषायाश्चाकृतिं श्रुणु

गोक्षीरधवलप्रख्याद्विभुजा च द्विनेत्रिका १०२
सुस्त्रनाचारुवदना उषानीलालकान्विता
उषायाश्चाकृतिः प्रोक्ता धरण्याकृतिरुच्यते १०३
चन्द्रपुष्करणीतीरे चन्द्रमास्सहतारकैः
स्वकरे स्थापितं लिङ्गं पूजयामासभक्तितः १०४
सुराणां पूजितानाञ्च गीतनृत्तमनोहरैः
सन्निधानप्रदं लिङ्गं कावेरीमद्ध्यमे शुभे १०५
श्रीमद्दीर्घपुराधीशं सहस्रकिरणं सदा
सम्पूज्य लोकवन्द्यत्वं पदमव्ययमाप्तवान् १०६
भद्रकाली स्वयं पश्चात् भक्तियुक्ता महेश्वरी
सम्पूज्यविधिवल्लिङ्गं सायुज्यं पदमाप्नुयात् १०७
स्कान्दे - इन्द्रपुष्करणी तीरे स्नात्वा नियतमानसाः
क्षालयन्ति समस्तानि पापानि विविधानि च १०८
यक्षैश्च किन्नरैश्चैव कालेन वरुणेन च
कृशानुनाचमरुता भास्करेण हिमांशुना १०९
व्याघ्रपादहनूमयां पातञ्जलिपुरस्सरैः
वसुभिश्चमरुद्भिश्च दानवैश्च युगेयुगे ११०
दिव्यैस्तपोधनैश्चैव पूजितं लिङ्गमद्भूतम्
करञ्जमूलसंस्थानं शिवलोकेश्वरं शिवम् १११
श्यामवर्णनिभा भास्वद्राजीवसमलोचना
हेमयज्ञोपवीता च द्विभुजा च द्विनेत्रका ११२
सर्वाभरणसंयुक्ता करण्डमकुटान्विता
रक्ताम्बरधरा चैव दक्षहस्तोत्पलान्विता ११३
धरण्याकृतिरेवं स्यात् ज्येष्ठायाकृतिरुच्यते
पीनोर्वी पीनगण्डा च पीनस्तनभरोदरी ११४
नीलकालकसीमान्ता समं धम्मिल्लशिरोरुहा

स्निग्धाञ्जननिभा रक्ता बिम्बोष्ठी तुङ्गनासिका ११५
द्विभुजा च द्विनेत्री च कुमुदं दक्षिणे करे
तन्न्यापुत्रान्विता देवी दक्षिणे दक्षिणेऽपि च ११६
देव्याबाहुसमं कुर्यात् कन्न्यका पुत्रकौ क्रमात्
पुत्रो वृषभवक्त्रस्तु द्विभुजौ च द्विनेत्रकौ ११७
ज्येष्ठाया आकृतिर्ह्येवं पद्मजा कृतिरुच्यते
पद्मपत्रासनासीना पद्माभापद्महस्तिनी ११८
हैमरत्नो ज्वलन्नक्र कुण्डलं कर्णमण्डलम्
कमण्डलामलमुखी कर्णपूर्णाय तेक्षिणी ११९
सुयौवना सुरम्याङ्गा कुञ्चितभ्रूसविभ्रमा
रक्तोष्ठी वीतगन्धाच कञ्चुकाच्छादितस्तनी १२०
शिरसो मण्डनं शङ्ख चक्रं सीमान्तपादजम्
नागहस्तसमौ बाहू केयूरकटकोज्वलौ १२१
पङ्कजं श्रीफलञ्चैव वामके दक्षिणेऽपि च ।
शोभनाम्बरसम्पन्ना श्रोणी च विपुलामता १२२
मेखला कटिसूत्राङ्गलक्ष्मीलक्ष्मीविवर्द्धनी १२३
इति पूर्वकारणे प्रतिष्ठातन्त्रे स्त्रीमानदशतालविधिपटलो द्वादशः