०११ प्रतिमालक्षणविधिपटलः

प्रतिमालक्षणविधिपटलप्रारम्भः
ततः परं प्रवक्ष्यामि प्रतिमालक्षणं श्रुणु
त्रिविधं व्यक्तमव्यक्तं व्यक्ताव्यक्तं तथैव च ॥ १ ॥

व्यक्तन्तु सकलाकारम् अव्यक्तं लिङ्गमुच्यते
मुखलिङ्गमिति प्रोक्तं व्यक्ताव्यक्तं प्रजायते ॥ २ ॥

अधुनाप्रोच्यते सर्वं सकलानान्तु लक्षणम्
चलं चलाचलञ्चैव अचलञ्च त्रिधाभवेत् ॥ ३ ॥

चलं धातुमयं ज्ञेयं शैलं चलाचलं स्मृतम्
अचलं मृण्मयं ज्ञेयं भित्तिचित्र पटन्तथा ॥ ४ ॥

चित्रहीनं चलं शैलमचलं चित्रयुक्सदा

गर्भद्वारे च हस्ते च हर्म्ये स्तम्भे च लिङ्गके ॥ ५ ॥

अङ्गुले चैव तुङ्गानि जनयेत्तु विशेषतः
गर्भमानवशान्मानं द्विविधेन प्रकीर्तितम् ॥ ६ ॥

गर्भगेहं त्रिधाभज्य एकैकन्तु त्रिधा भजेत्
उत्तमत्रयमग्रे तु मद्ध्यमे मद्ध्यमत्रयम् ॥ ७ ॥

अधमत्रयमधस्तान्नवमानमुदीरितम्
अथवान्यप्रकारेण गर्भमानं वदाम्यहम् ॥ ८ ॥

गर्भाद्विंशतिभागेन दशहस्तन्तु कन्न्यसम्
रुद्रांशं मद्ध्यमं ज्ञेयं रत्थ्यंशं चोत्तमं भवेत् ॥ ९ ॥

द्वारोस्त्ये सममानन्तु उत्तमं तत्प्रकीर्तितम्
ग्रहभागैकहीनन्तु मद्ध्यमं प्रतिमोच्छ्रयम् ॥ १० ॥

अष्टभागैकहीनं स्यात् अधमं प्रतिमादयः
त्र्यहस्तमधमं ज्ञेयं पञ्चहस्तन्तु मद्ध्यमम् ॥ ११ ॥

उत्तमं नवहस्तन्तु हस्तमानमुदीरितम्
एकादिनवहस्तान्तमधमाद्युत्तमान्तकम् ॥ १२ ॥

नवधामानमित्युक्तं हस्तमानं विशेषतः
त्रयोदश करादूर्ध्वमेकत्र्यंशकरान्तकम् ॥ १३ ॥

हस्तमानेन कर्तव्यं क्षुद्रहर्म्येन कारयेत्
आदिप्रासादविस्तारं पात्बाह्यं सूत्रनिश्चितम् ॥ १४ ॥

तदर्द्धमुत्तमोत्सेधं तस्मादर्द्धन्तु मद्ध्यमम्
तदर्द्धमधमं ज्ञेयं प्रतिमा हर्म्यमानतः ॥ १५ ॥

प्राचीरुत्तरसीमान्तं स्तम्भमानमथोत्तमम्
रन्ध्रभागैकहीनं यत्मद्ध्यमं समुदाहृतम् ॥ १६ ॥

अष्टांशहीनमधमं स्तम्भमानं प्रकीर्तितम्
पूजाभागसमं मानं कन्न्यसं प्रतिमोदयम् ॥ १७ ॥

द्विगुणं मद्ध्यमं ज्ञेयं नाहमानमथोत्तमम्

लिङ्गनाहं कनिष्ठन्तु द्विगुणं मद्ध्यमं भवेत् ॥ १८ ॥

द्विगुणं मध्यमं प्रोक्तं लिङ्गनाहवशात्कुरु
तिथ्यङ्गुलं कनिष्ठन्तु पञ्चविंशति मद्ध्यमम् ॥ १९ ॥

पञ्चत्रिंशति मात्रन्तु उत्तमञ्चेति कीर्तितम्
लब्धमानेन जात्यंशं योजयेत्तु विचक्षणः ॥ २० ॥

चतुराशीति षष्टी च चतुर्विंशच्च षोडशः
भजैकांशं समायोज्य गणयेद्वसुभिः क्रमात् ॥ २१ ॥

सप्तविंशतिभिर्भक्ते शिष्टं श्वेतादिभिर्भजेत् ।
तेनैवांशेन संयुक्तं मानं जात्याहकं भवेत् ॥ २२ ॥

आयव्ययर्क्षवाराष्ट योन्यंशकानि लक्षयेत्
शतात्त्रिंशदंशादि बेरमानं भजेत्क्रमात् ॥ २३ ॥

व्योमांशन्तु समायोज्य यावत्तत्सुशुभोदयम्
वसुभिर्गणिते त्वेकं हृदेत्वायं विनिर्दिशेत् ॥ २४ ॥

रसैस्तु गुणिते दिग्भिर्भाजिते व्ययमादिशेत्
वसुभिर्गुणिते सप्तविंशत् भक्ते तु सम्भवेत् ॥ २५ ॥

शिष्टमाश्वयुगाद्यन्तु नक्षत्रं गणयेत्क्रमात्
रन्ध्रैस्सगुणिते सप्त हृतेस्सूत्रादिवाकरः ॥ २६ ॥

गुणैस्सङ्गुण्यवसुभिर्भूतयोनिरुदाहृतम्
शिष्टन्तु गणयेन्मन्त्री अष्टयोनिध्वजादिकम् ॥ २७ ॥

वेदैर्गुणहृते रन्धैस्तस्कराद्यंशकं क्रमात्
आयाधिक्ये धनादिस्स्याद्व्ययाधिक्ये धनक्षयम् ॥ २८ ॥

आयाधिक्यं व्ययं हीनं तन्मानं शुभदं स्मृतम्
गणयेत्तु द्विभाक्कर्ता नृपवास्तुदिनान्तकम् ॥ २९ ॥

शुभानिजन्मसम्पत्तिक्षेमं साधकमैत्रके
तथापरममैत्रञ्च वर्जितान्यन्यभानि वै ॥ ३० ॥

वारेषु सितसोमज्ञ गुरवश्शुभदा स्मृताः

84

अशुभारविसौरारा शुभयोगे शुभप्रदाः ॥ ३१ ॥

योनिषु ध्वजसिह्माख्यो वृषो हस्ती शुभा स्मृता
धूमश्च खरकाकांश्च वर्जयेत्तु प्रयत्नतः ॥ ३२ ॥

ध्वजश्चेदर्त्थसिद्धिस्स्यात् धूमश्चेदग्निनाभयम्
सिंहोपिविजयः प्रोक्तः ककुरः कलहो भवेत् ॥ ३३ ॥

वृषभं पुत्रवृद्धिस्स्यात् स्थानभ्रंशन्तु गर्दभः
गजस्तुराष्टवृद्धिस्स्यात् काकोदुर्भिक्षसम्भवः ॥ ३४ ॥

अंशकेषु च भुक्तिश्च शक्तिश्चैव विशेषतः
तथाविज्ञावनीनाथो निहितस्तु समृद्धिकम् ॥ ३५ ॥

शुभान्येतानि चान्यानि वर्जयेत्तु प्रयत्नतः
तस्करो नाशनं भुक्तिभोगदं शक्तिरिष्टदम् ॥ ३६ ॥

जयं वित्तावनीताथो रोगवृद्धि नपुंसकम्
निर्भीतश्रीप्रदं ज्ञेयं दरिद्रो धननाशनम् ॥ ३७ ॥

समृद्धिस्सर्वसिद्धिस्स्यात् पापं राष्ट्रविनाशनम्
एवं परीक्ष्यबहुधा कारयेल्लक्षणान्वितम् ॥ ३८ ॥

आयांशञ्चैव जात्यंशं तेन मानेन योजयेत्
भक्त्वामानाङ्गुलेनाथ षट् शुभानि परीक्षयेत् ॥ ३९ ॥

ज्ञात्वा युक्ताङ्गुलोच्छेदं वृद्ध्याहान्न्या प्रयोगवित्
आयादिसम्पदर्त्थन्तु गृह्णीयात्तु विचक्षणः ॥ ४० ॥

लोहजत्वेमधूच्चिष्टमग्निनार्द्री कृतन्त् यत्
वस्त्रेण शोधयेत् सर्वं दोषन्त्यक्त्वा तु शिल्पिना ॥ ४१ ॥

सर्वालङ्कारसंयुक्तं मण्टपे लक्षणान्विते
स्थण्डिलं कारयेत्तत्र अष्टद्रोणैश्चशालिभिः ॥ ४२ ॥

तन्मद्ध्ये नलिनं लिख्यसाष्टपत्रं सकर्णिकम्
कुशैः पुष्पैः परिस्तीर्य तस्योर्ध्वे फलकोपरि ॥ ४३ ॥

मुहूर्ते समनुप्राप्ते गृहीता याममात्रतः

सिद्धेन प्रतिमाकारं शिल्पिना कारयेद्बुधः ॥ ४४ ॥

तस्य दक्षिणभागे तु शान्तिमन्त्रं जपेत् गुरुः
बिम्बं सम्पूजयेत् पश्चात् गन्धपुष्पादिभिर्हृदा ॥ ४५ ॥

आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः
शिल्पिनं पूजयेत्पश्चाद्धेमाङ्गुलीयवस्त्रकैः ॥ ४६ ॥

बेरायामं परिग्राह्य तालं सङ्ख्या क्रमाद्भजेत्
दशतालन्नवतालं वा वसुतालर्षितालकैः ॥ ४७ ॥

रसतालेषु सहिता युगतालं त्रितालकम्
एवं तालक्रमं प्रोक्तमेकैकं त्रित्रिभेदकम् ॥ ४८ ॥

उत्तमं मद्ध्यमञ्चेति कन्यसं तालकं प्रति
दशतालोत्तमं वृद्धि चतुर्विंशच्च तालकम् ॥ ४९ ॥

एतस्य मध्यभेदश्च त्रितालस्यार्द्धमात्रकम्
त्रयोविंशति विख्याता भेदं प्रतियुगाङ्गुलम् ॥ ५० ॥

क्रमाद्धीनं प्रकर्तव्यमेवं तालक्रमं भवेत्
कोष्ठेन दशतालेन ब्रह्मविष्णुमहेश्वरान् ॥ ५१ ॥

उमां सरस्वतीं दुर्गां सप्तमातृृ उषाम्महीम्
ज्येष्ठां लक्ष्मीञ्च कर्तव्यं दशतालस्य मद्ध्यतः ॥ ५२ ॥

ऋषीणाञ्चाश्विनी चैव आदित्येन्दुर्गुरुस्तथा
आर्यं शतमखञ्चैव चण्डेशं क्षेत्रपालकम् ॥ ५३ ॥

दशतालकनिष्ठेन कारयेत्तु विचक्षणः
विद्येशान् लोकपालांश्च अष्टमूर्तीन् वसूंस्तथा ॥ ५४ ॥

नवतालोत्तमेनैव कारयेल्लक्षणान्वितम्
अन्यांश्च सर्वदेवांश्च नवतालोत्तमेन तु ॥ ५५ ॥

यक्षानप्सरसश्चैव अस्त्रमूर्तीर्मरुद्गणान्
नवतालस्य मद्ध्येन विद्याधरांस्तथा कुरु ॥ ५६ ॥

राक्षसान्यातुधानांश्च गन्धर्वान् सिद्धचारणान्

असुरांश्च पितृृंश्चैव नवतालाधमेन तु ॥ ५७ ॥

अष्टतालेन मर्त्यांश्च पिशाचास्सप्ततालतः
कुप्जकान्रसतालेन शरतालोत्तमेन च ॥ ५८ ॥

विघ्नेशं कारयेत्तस्य मध्यमेनाधमेन च
भूतरूपाणि कर्तव्यं युगतालेन बालकान् ॥ ५९ ॥

किन्नरान् किम्पुरुषांश्चैव त्रितालेनैव कारयेत्
यल्लब्धोत्सेधमानन्तु चतुर्विंशच्छतं कुरु ॥ ६० ॥

अङ्गुलं तेषु भागैकं वस्वंशैकं ततो यवम्
तस्याष्टैकांशकं यूकम् एकैकन्तं नवांशकान् ॥ ६१ ॥

लक्षायास्वष्टभागैकन्तद्रोमाग्रमिति स्मृतम्
अङ्गुलं मात्रमित्युक्तं द्व्यङ्गुलं कोलकं भवेत् ॥ ६२ ॥

त्रिमात्रन्तु कलाज्ञेया भागं स्याच्चतुरङ्गुलम्
तद्वयं यवकञ्चैव रव्यङ्गुलमुखं भवेत् ॥ ६३ ॥

मुखतालं मुखञ्चैव पर्याय वचनानि च ।
मानञ्चैव प्रमाणञ्च उन्मानं ह्युपमानकम् ॥ ६४ ॥

परिमाणं लम्बमानं षड्विधं मानमिष्यते
मानं यत्प्रतिमायामं तिर्यङ्मानं प्रमाणकम् ॥ ६५ ॥

इध्मानं तत्प्रदेशाच्च द्व्यन्तरं ह्युपमानकम्
परिमाणं नाहमानं लम्बमानञ्च सूत्रकम् ॥ ६६ ॥

मानहीने महाव्याधिरधिकेशत्रुवर्द्धनम्
नाहं हीने विनाशं स्यात्तद्वृद्धिस्स्यात्क्षयं करम् ॥ ६७ ॥

प्रमाणहीने दारिद्र्यमधिकेदारनाशनम्
लम्बमानविहीने तु राजाराष्ट्रस्य दोषकृत् ॥ ६८ ॥

उपमानाधिके हीने शिल्पिनं हन्तिदेशिकम्
सर्वलक्षणयुक्तञ्चेत्सर्वसिद्धिप्रदायकम् ॥ ६९ ॥

चतुर्विंशच्च तन्मात्रं मूर्द्धाद्यङ्घ्रि तलान्तकम्

उष्णीषमङ्गुलं प्रोक्तं केशान्तन्तु कलाभवेत् ॥ ७० ॥

सार्द्धत्रयोदशमात्रं मुखमानं विधीयते
केशान्तादक्षिसूत्रान्तं भागञ्चतुर्यवाधिकम् ॥ ७१ ॥

अक्षिसूत्रात्पुटान्तन्तु तत्समञ्चैव कारयेत्
पुटान्ताद्धनुपर्यन्तं भागञ्चतुर्यवाधिकम् ॥ ७२ ॥

गलमर्द्धाङ्गुलञ्चैव कर्णं भागसमुच्छ्रयम्
हिक्कादिहृदयान्तञ्च सार्द्धत्रयोदशाङ्गुलम् ॥ ७३ ॥

हृदादिनाभिपर्यन्तन्तत्समञ्चेति कीर्तितम्
नाभ्यादिमेढ्रमूलान्तन्त्रयोदशाङ्गुलं भवेत् ॥ ७४ ॥

मेढ्रमूलात्तु जान्वन्तं सप्तविंशतिमात्रकम्
द्विकोलकन्तु जानुस्स्यात् जङ्घाचाप्यूरुतत्समम् ॥ ७५ ॥

तलोत्सेधन्तु भागं स्यात्कायमानमिति स्मृतम्
उष्णीषात् पूर्वकेशान्तन्नवमात्रमिति स्मृतम् ॥ ७६ ॥

उष्णीषात्पृष्ठकेशान्तं सार्द्धत्रयोदशाङ्गुलम्
उष्णीषात्पार्श्वकेशान्तं द्वादशाङ्गुलमुच्यते ॥ ७७ ॥

द्वयोः कर्णान्तरं पूर्वे एकविंशतिमात्रकम्
कोलकं कर्णविस्तारमायामं यवकं भवेत् ॥ ७८ ॥

भ्रूसूत्रस्य समञ्चैव श्रोत्रोद्ध्र्वं परिकीर्तितम्
तत्पृष्ठकर्णयोर्मद्ध्ये त्रयोदशाङ्गुलं भवेत् ॥ ७९ ॥

पिप्पल्यन्तादधः कुर्यात् भागन्नालावलम्बितम्
नालात्तनोद्ध्र्वमात्रञ्च तत्घनं त्रियवं भवेत् ॥ ८० ॥

पिप्पली चार्द्धमात्रञ्च सुषिरन्तस्य मानकम्
यस्य कुण्डलसंयुक्तं शेषं मात्रावलम्बितम् ॥ ८१ ॥

कर्णिकाकारवत्कर्णन्नालात्तु त्रिविशेषतः
द्वियवं कर्णपाली च तत्समं कर्णपट्टिका ॥ ८२ ॥

मात्रार्द्धकर्णपाली स्यात् अङ्गुलं कर्णतालकम्

लकारावर्तयोर्मद्ध्ये पिञ्चली कर्णचूलिका ॥ ८३ ॥

आपादात्कर्णमूलान्तं सप्तमात्रेण कल्पयेत्
द्विमात्रद्वियवाधिक्य नेत्रायामं विधीयते ॥ ८४ ॥

षड्यवन्नेत्रविस्तारमायामन्तु त्रिधा भवेत्
कृष्णमण्डलमेकन्तत् मद्ध्यमे सितमण्डलम् ॥ ८५ ॥

कृष्णमण्डलमद्ध्ये तु दृष्टिर्यूकप्रमाणतः
करवीरो यवं रक्तन्नयनत्रयमूलके ॥ ८६ ॥

कनीयकायवादीर्घा त्रिवर्णैर्लोचनं युतम्
ऊद्ध्र्वं वर्मस्य मानन्तु यवञ्चार्द्धमधो भवेत् ॥ ८७ ॥

नवतिः पक्षरोमस्यात् कृष्णाञ्जनसमप्रभम्
भूरेखाचक्षुरेखा च कोलद्वययवाधिकम् ॥ ८८ ॥

भूरेखामूद्ध्र्वकेशान्तन्तत्समञ्चेति कीर्तितम्
भूदीर्घं रसमात्रन्तु विस्तारं यवमेव च ॥ ८९ ॥

आरूढचापकृतिवन्मूलाग्रन्तु क्रमात्कृशम्
द्व्यङ्गुलं त्रियवं प्रोक्तं द्वयोर्नेत्रान्तरं स्मृतम् ॥ ९० ॥

मूलनासार्द्धमात्रञ्च अर्द्धनासायवाङ्गुलम्
पुटमर्द्धाङ्गुलन्तारन्तत्तुङ्गं पञ्चभिर्यवैः ॥ ९१ ॥

सुषिरं त्रियवं तिर्यक् बाह्ये चार्द्धयवं घनम्
पुटान्तात् त्रियवञ्चैव गोजिमानञ्चतुर्यवम् ॥ ९२ ॥

गोज्याश्च नासिकोत्सेधं कोलकञ्च यवाधिकम्
वंशस्यैवकविस्तारमङ्गुलञ्चेति कीर्तितम् ॥ ९३ ॥

पुष्करन्तु यवोत्सेधं पुरस्तात् षड्यवन्ततः
द्वियवञ्चार्द्धमेकन्तु पुष्करस्य विधीयते ॥ ९४ ॥

तिलपुष्पसमाकारं नासाग्रस्य पुटद्वयोः
पुटान्तादधरोष्ठान्तं कोलकं द्वियवाधिकम् ॥ ९५ ॥

दशनोदृश्यादृश्यं हि द्वात्रिंशत्परिकीर्तितम्

द्वियवन्दन्तविस्तारमुत्सेधन्तत्समं भवेत् ॥ ९६ ॥

दंष्ट्रायामं यवाधिक्यं सदंशमुकुलाकृतिम्
ऊद्ध्र्वे षोडशदन्तं स्यादधस्तादपितावकी ॥ ९७ ॥

अधोदशनविस्तारं यवार्द्धन्तारमुच्छ्रयम्
जिह्वायामन्तु षण्मात्रं विस्तारं स्यात्तदर्द्धकम् ॥ ९८ ॥

अधरोष्ठस्य विस्तारमङ्गुलं स्याद्यवाधिकम्
मुनीयवं रक्ततारमायामं स्याद्विमात्रकम् ॥ ९९ ॥

भागञ्च त्रियवाधिक्यमास्यतारमिति स्मृतम्
त्रिवक्त्रचोत्तरापाली यवार्द्धञ्चोत्तमं मतम् १००
उत्तरोष्ठस्य विस्तारं त्रियवं परिकीर्तितम्
अनुस्याद्व्यङ्गुलायामन्तदूद्ध्र्वे तु यवंशुभम् १०१
सप्तायवोच्चमधरं त्रिमात्रं हनुवर्द्धनम्
त्रियवञ्चोन्नतं विद्धितालार्द्धञ्चाम्बुनिर्गमम् १०२
नासाग्रात्कर्णपाल्यञ्च त्रयोदशाङ्गुलं भवेत्
गलप्रदेशविस्तारं कोलकञ्चेति कीर्तितम् १०३
ग्रीवाग्रस्य तु विस्तारं सार्द्धयावकमुच्यते ।
ग्रीवामूलस्य विस्तारन्नवमात्रञ्चषड्यवम् १०४
ग्रीवात्तु गलपर्यन्तं कला च द्वियवाधिकम्
तत् गलाद्धनुपर्यन्तमङ्गुलञ्चेति कीर्तितम् १०५
ग्रीवासुवृत्तमित्युक्तं द्विरेखापरिवेष्टितम्
हिक्कासूत्रात्क्रमेणोच्चं भागं कोलकमङ्गुलम् १०६
अर्द्धाङ्गुलं क्रमात् क्षीणं बाहुपर्यन्तमेव वा
वक्षस्थलस्य चायामं दशभागञ्चतुर्यवम् १०७
हिक्कासूत्रादधोबाहुस्सप्तविंशतिमात्रकम्
गोपुरं कोलकायाममेकविंशत्प्रकोष्ठकम् १०८
मद्ध्याङ्गुलाग्रात्तस्याग्रात् सार्द्धत्रयोदशाङ्गुलम्

सप्ताङ्गुलन्तु चायामं शेषं मद्ध्याङ्गुलायतम् १०९
पाणेस्तलस्य विस्तारं सप्तमात्रमिति स्मृतम्
तत्तारस्याष्टभागैकहीनमग्रस्य तारकम् ११०
सार्द्धकोलकमात्रेण तालमूले घनं भवेत्
षड्यवेनैकमात्रन्तु तस्याग्रस्य घनं भवेत् १११
अनामिकाङ्गुलायाम तन्मानानामिका भवेत्
द्वियवोपेतभागेन अङ्गुष्ठस्य तु दैर्घ्यकम् ११२
यवाधिकेन भागेन दैर्ध्य कानिष्ठकस्य त
रसाब्धिरन्ध्रवस्वर्कयवतारं कनिष्ठिका ११३
अङ्गुष्ठान्तं तथाग्रे तु अष्टभागैकहीनकम्
अङ्गुल्यग्रं त्रिधा कृत्वा द्विभागन्नखविस्तरम् ११४
तत्तारेण यवोपेतन्नखायाम प्रकीर्तितम्
अङ्गुष्ठन्तु द्विपर्वं स्यादन्याङ्गल्यास्त्रिपर्वकं ११५
तलाग्रे त्वङ्गुलं नीत्वा द्विरेखामन्तरं कुरु
तलमूलादेकरेखा मध्यमाङ्गुलिमूलका ११६
मणिबन्धस्य विस्तारं भागमेकं प्रकीर्तितम्
प्रकोष्ठं मद्ध्यविस्तारं त्रियवेन शराङ्गुलम् ११७
प्रकोष्ठं मूलतारन्तु कौशिकाङ्गुलमुच्यते
कूर्परस्य तु विस्तारं सार्द्धसप्ताङ्गुलं भवेत् ११८
बाहुमद्ध्यमविस्तारं सार्द्धायावकमुच्यते
बाहुमूलस्य विस्तारन्नवमर्द्धार्द्धमिष्यते ११९
हिक्कासूत्रात्तु कक्षान्तन्नवमात्रार्द्धमुच्यते
कारयेदुपबाहू च मूलतारं गुणाङ्गुलम् १२०
अद्धयङ्गुलेन मद्धये तु शेषं पूर्ववदाचरेत्
कक्षयोरन्तरन्तिर्यक् चतुर्विंशतिमात्रकम् १२१
हिक्काचबुकयोर्मद्धये सार्द्धत्रयोदशाङ्गुलम्

स्तनयोरन्तरं यद्वच्चूचकन्तु यवान्तकम् १२२
द्वियवन्तस्यविस्तारं मण्डलन्तु द्विमात्रकम्
हृत्प्रदेशस्य विस्तारं सार्द्धं त्रिस्त्र्यङ्गुलं भवेत् १२३
जठरस्य तु विस्तारं सार्द्धत्रयोदशाङ्गुलम्
यवद्वयन्तु निम्नं स्यात् विस्तारं षड्यवं भवेत् १२४
नाभिप्रदक्षिणावर्त्त विस्तारं सममायतम्
श्रोणिप्रदेशविस्तारं सार्द्धसप्तदशाङ्गुलम् १२५
कट्यग्रस्य तु विस्तारं विंशत्यङ्गुलमुच्यते
कटिमूलस्य विस्तारं द्वात्रिंशत्यङ्गुलं भवेत् १२६
शरीरं गोमुखाकारं कट्या ऊर्ध्वं प्रशस्यते
शरमात्रयवोपेतं मेढ्रायामं विधीयते १२७
वेदाङ्गुलमिति प्रोक्तं मुष्कविस्तारदीर्घके
पक्षाङ्गुलप्रमाणेन एकैकवृषणं स्मृतम् १२८
शेफं शीर्षाङ्गुलायामं तारं दशयवं भवेत्
क्षयमग्रेष्टभागैकं मुकुलोत्पलवत् भवेत् १२९
ऊरुमूलस्य विस्तारं सार्द्धत्रयोदशाङ्गुलम्
तन्मद्ध्ये मत्स्यविस्तारं यवमद्ध्याङ्गुलाधिकम् १३०
ऊर्वग्रस्य तु विस्तारं सार्द्धरन्ध्राङ्गुलं भवेत्
जानुमण्डलविस्तारं वसुमात्रार्द्धमिष्यते १३१
यवेनाष्टाङ्गुलं प्रोक्तं जङ्घामूलस्य विस्तरम्
तन्मद्ध्ये मत्स्यविस्तारं सप्तमात्रयवाधिकम् १३२
नलकस्य तु विस्तारं सार्द्धवेदाङ्गुलं भवेत्
अक्षगुल्फद्वयोर्मद्ध्ये विस्तारन्तु शराङ्गुलम् १३३
तलमद्ध्यमविस्तारं सार्द्धभूताङ्गुलं भवेत्
तलाग्रस्य तु विस्तारं रसाङ्गुलमिति स्मृतम् १३४
अक्षात्पाष्ण्र्यन्तरं भागं पाष्ण्र्युत्सेधन्तु तत्समम्

अक्षादङ्गुष्ठमूलन्तु नवमात्रार्द्धमिष्यते १३५
पादाङ्गुष्ठायतं भागं तत्तारं तु षडङ्गुलम्
त्रियवेन चतुर्मात्रं प्रदेशन्न्यायमिष्यते १३६
यवेन मात्रविस्तारं देशिकस्य विधीयते
अङ्गुष्ठतर्जनी मद्ध्ये रन्ध्रन्तु त्रियवं भवेत् १३७
माल्यायामं त्रिमात्रार्द्धं विस्ताराङ्गुलकं स्मृतम्
मात्रार्द्धानामिका दैर्घ्यं तत्तारमङ्गुलं भवेत् १३८
कनिष्ठाद्यङ्गुलायामं तत्तारमङ्गुलं स्मृतम्
दशयवञ्च पञ्चार्द्धं चतुरर्द्धञ्चतुर्यवम् १३९
त्रियवार्द्धं यवन्तारमङ्गुष्ठादि नखा स्मृता
विस्तारं सममायामं नखानां परिकीर्तितम् १४०
षट्सप्तत्यङ्गुलेनैव उरोनाहं प्रकीर्तितम्
नाभिदेशस्य नाहन्तु त्रिचत्वारिंशदङ्गुलम् १४१
श्रोणिदेशस्य नाहन्तु पञ्चदशाङ्गुलं भवेत्
अन्येषाञ्चैव देवानामथनाहं विधीयते १४२
तत्तारं त्रिगुणी कृत्य तित्थ्यंशं विभजेत्तथा
त्रिगुणी कृततारेण एकांशं सम्प्रयोजयेत् १४३
तन्नाहञ्चैव सर्वेषां नाहमित्यभिधीयते
उष्णीषात्पृष्ठकेशान्तं सार्द्धत्रयोदशाङ्गुलम् १४४
ग्रीवायामन्तु भागं स्यात्तत्समन्तु ककुद्भवेत् ।
ककुदः कटिसन्धिश्च सप्तविंशतिमात्रतम् १४५
गन्थप्रदेशं तस्याधस्सार्द्धत्रयोदशाङ्गुलम्
तस्यायं पृष्ठकायामं सार्द्धवेदाङ्गुलं भवेत् १४६
ऊर्वायामन्तु तस्याधस्सार्द्धद्वाविंशदङ्गुलम्
जान्वायामं तु भागं स्यात् जङ्घाङ्घ्रिनवमात्रकम् १४७
पार्ष्ण्यायामन्तु भागं स्यात् पृष्ठायामं प्रकीर्तितम्

कर्णयोरन्ध्रपृष्ठे च द्वादशाङ्गुलमुच्यते १४८
कक्षयोरन्तरं पृष्ठे सप्तविंशतिमात्रकम्
पृष्ठावधिं समारभ्य तस्योर्ध्वे दशमात्रतः १४९
स्फिक्पिण्डे कारयेदूर्ध्वे मूलात् भागस्तदुन्नतम्
पूर्वं लिङ्गोद्भवं बिम्बं द्वितीयं चन्द्रशेखरम् १५०
तृतीयं दक्षिणामूर्तिं चतुर्थं कामनिग्रहम्
पञ्चमन्तु विवाहं स्यादुमयासहितन्तु षट् १५१
सप्तमन्तु वृषारूढमष्टमं त्रिपुरान्तकम्
नवमञ्चार्द्धनारीशं कङ्कालं दशमं भवेत् १५२
नृत्तमूर्तिं ततः प्रोक्तं भिक्षाटनमतः परम्
त्रयोदशन्तु कालारिर्हरिरर्द्धञ्चतुर्दश १५३
सुखासनं ततः प्रोक्तं गङ्गाधरन्तु षोडशम्
चण्डेशानुग्रहं पश्चात् मुखलिङ्गमतः परम् १५४
अष्टादशानामेतेषां बिम्बरूपं वदाम्यहम्
अयामं यत्तु लिङ्गस्य भूतांशं विभजेत्ततः १५५
ऊर्ध्वे व्योमांशकन्त्यक्त्वा मूले चैव तथाभवेत्
तन्मद्ध्ये कारयेद्धीमान् चन्द्रशेखरमूर्तिताम् १५६
अजविष्णू द्विपार्श्वे द्वौ नमस्कृत्वा तु कूलकौ
धर्माशं विभजेल्लिङ्गं शरांशमुदयान्तयोः १५७
लिङ्गोर्ध्वे कारयेद्धंसमधस्तात्सूकराननम्
विष्णुं सङ्कल्पयेदुर्वी मानेनैव च कर्षितम् १५८
बिम्बस्य द्विमुखेनैव हंसरूपन्तु कारयेत्
अधुनालम्बमानन्तु प्रवक्ष्यामि समासतः १५९
ललाटघ्राणहृन्मद्ध्ये श्रोणी तु स्पृश्यमद्ध्यमे
मेढ्रमूलस्य मद्ध्यन्तु पादद्वयोश्च मद्ध्यमे १६०
द्व्यङ्गुष्ठमूलयोर्मद्ध्ये स्थितं यच्छिवसूत्रकम्

उष्णीषात्तु ककुद्वंश खण्डस्फिक्पार्ष्णिमद्ध्यगम् १६१ ऋजुस्थितिरिति ख्यातं पृष्ठसूत्रन्तु लम्बयेत्
वक्त्रान्तात् पिप्पलीमूलात् गलपार्श्वात्क्रमेण तु १६२
स्तनमण्डलमद्ध्याच्च श्रोणिकट्याश्च पार्श्वकान्
नलिकादङ्गुलं नीत्वा तलमद्ध्ये विलम्बयेत् १६३
लम्बमानमिति प्रोक्तम् उपानस्य विधिं श्रुणु
ऊरुमूलान्तरं मात्र जानुमद्ध्ये कलार्द्धकम् १६४
सार्द्धपक्षाङ्गुलेनैव जङ्घान्तरमिति स्मृतम्
नालकान्तं शराङ्गुल्यं भागं पार्ष्ण्यन्तरं भवेत् १६५
अङ्गुष्ठाग्र द्वयोर्मद्ध्ये यवकञ्चेति कीर्तितम्
सार्द्धपञ्चाङ्गुलं मद्ध्ये श्रोणिप्रकोष्ठमूलयोः १६६
पार्श्वमद्ध्यमबाहौ च मद्ध्यमे कौशिकाङ्गुलम्
कर्तरी नामिकाबाह्वोरन्तरं दशमात्रकम् १६७
मणिबन्धकबाह्वोश्च द्व्यन्तरन्तु यवम्भजेत्
कर्तरी नामिकायास्तु हिक्कामद्ध्यात्तदन्तरम् १६८
एकत्रिंशतिमात्रं स्यात् कर्तव्यार्द्धन्तु दोस्फमम्
पादाग्राङ्गुष्ठमूलात्तु नाभे सत्वेऽङ्गुलं भवेत् १६९
पादाग्राग्रं स्तनान्तं स्यात् तयोर्मद्ध्यन्तरं यवम्
वरदञ्चेत्तु तत्पृष्ठं नाभेस्तु सममुच्यते १७०
कटिकाधः प्रदेशन्तु मेढ्रमूलं समं भवेत् ऋज्वागतिस्थितिं वामा द्वरदाभयहस्तकम् १७१
कृष्णापरशुसंयुक्तं कारयेदिन्दुशेखरम्
अधोभागे तु भागेन जान्वन्तन्तु न दृश्यकम् १७२
एवं लिङ्गोद्भवं कुर्यात् चन्द्रशेखरमुच्यते
लिङ्गञ्च विष्णुरूपञ्च विनाकुर्विन्दुशेखरम् १७३
इन्दुशेखरमाख्यातं दक्षिणामूर्तिरुच्यते

द्विविधं दक्षिणामूर्तिं व्याख्यानं मूर्तिकन्तथा १७४
गेयमूर्तिं तयोश्चैव लक्षणन्तु विधीयते
चतुर्भुजं त्रिणेत्रञ्च द्वीपिचर्माम्बरान्वितम् १७५
आवृतालङ्कृताभङ्गी शश्यर्ककुसुमान्वितम्
सदशन्दक्षिणं हस्तं पुस्तकं वामहस्तके १७६
सव्यके चाक्षमालाञ्च व्यालं वै वामहस्तके
पादाग्रे दृष्टिपातन्तु किञ्चित् भङ्गसमायुतम् १७७
लम्बितं दक्षिणं पादं तस्योर्वग्रस्य चोपरि
वामपादस्य नलकं संयुतं कारयेत्सुधीः १७८
नासाग्रे मेढ्रमूलस्य वामे भागेन्तरास्थितम्
वामे हृन्मद्ध्यमात्सूत्रादन्तरञ्चाङ्गुलं भवेत् १७९
नाभेर्वामे तु सूत्रन्तु द्व्यन्तरं कोलकं भवेत्
एवं वै शिवसूत्रन्तु तत्पातालम्बयेत्क्रमात् १८०
सूत्रादक्षाङ्घ्रिपार्ष्णिश्च मद्ध्ये सार्द्धमयन्तु वा
यमन्तु कारयेद्धीमान् सदशं हस्तकोच्चकम् १८१
चूचुकोच्च समन्तस्य अङ्गुष्ठं मूलकान्ततः
नाभेस्तु त्र्यङ्गुलञ्चैव द्व्यन्तरं परिकीर्तितम् १८२
वामे तु वरदं हस्तम् ऊर्ध्वे तु तलपृष्ठयोः
द्व्यन्तरं भावमित्युक्तं नाभेस्तु मणिबन्धकात् १८३ द्व्यन्तरं त्वितिविख्यातमेकोनविंशदङ्गुलम्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरन्तु षडङ्गुलम् १८४
परहस्तमणेश्चैव बाहुमद्ध्याद्यमान्तकं
मद्ध्याङ्गुलाच्च दोर्मूलात् द्व्यन्तरन्दशमात्रकं १८५
हिक्कासूत्राद्विमात्राथ समं हस्तस्य चोच्छ्रयं
हिक्कामद्ध्यं समारभ्य कटके मणिबन्धकान् १८६
द्व्यन्तरं त्रियमं प्रोक्तं दृष्टिसङ्घैस्समावृतम्

अगस्त्यश्च पुलस्त्यश्च विश्वामित्रोङ्गिरास्तथा १८७
एव व्याख्यानमूर्तिन्तु गेयमूर्तिं श्रुणुष्वथ
कटकं दक्षिणं हस्तमधोमुखन्तदुच्यते १८८
वामहस्तन्तु कटकमूद्ध्र्ववक्त्रन्तदुच्यते
तन्त्रिनिवेशयेदूरुकराग्रे दक्षिणपादके १८९
वामहस्तस्य कटके सव्यहस्तन्तथोपरि
हिक्कामद्ध्यं समारभ्य कटके मणिबन्धनात् १९०
त्रिंशन्मात्रमिति प्रोक्तं दक्षिणे कटके तथा
नाभ्यादिमणिबन्धान्तं द्व्यन्तरं यवमुच्यते १९१
ऊरुबाह्यं त्रिमात्रन्तु कटाकोद्ध्र्वे युगाङ्गुलं
दण्डायाममिति प्रोक्तं विस्तारन्तु द्विमात्रकम् १९२
वापुवक्त्रन्तु षण्मात्रमुत्सेधन्तु तदर्द्धकम्
एतदेवविशेषन्तु शेषं पूर्वोक्तवत् भवेत् १९३
दक्षिणामूर्तिमेवं स्यात् श्रुणुमन्मथनिग्रहं
त्रिणेत्रञ्चतुर्भुजं देवञ्जटामकुटमण्डितं १९४
उग्रदृष्टिसमायुक्तमक्षमालोरगन्धरं
दक्षिणे तु पताकाच वामहस्तन्तु सूचिका १९५
एतदेवविशेषन्तु शेषं व्याख्यानमूर्तिवत्
बेरायामरसांशाच्च त्रिभागं मन्मथायतम् १९६
पीठस्थोवारथस्थोवा कामः काञ्चनसन्निभः
सर्वभूषणभूष्यञ्च दिव्यरूपसमन्वितम् १९७
पुष्पैश्चैव शरैर्युक्तमिक्षुचापञ्च षद्ध्वजम्
मदरागवसन्तैश्च हेमबान्धवसंयुतम् १९८
तापनीदहनीविश्वमोहिनी विश्वमर्दनी
मादिनी नामनिर्दिष्टास्तस्य पञ्चशरा इमे १९९
कार्मुकं वामहस्ते तु बाणन्तु सव्यहस्तके

देवस्याभिमुखं कुर्यात् कामरूपं प्रपादितम् २००
कामनिग्रहमेवं स्याच्छृणु वैवाह्यमूर्तिनम्
सचन्द्रार्द्धञ्जटामौली सौम्यं प्रथमयौवनम् २०१
चतुर्भुजं त्रिणेत्रञ्च हारकेयूरभूषितम्
मेखलोदरबन्धश्चक्षौमवस्त्रधरं शुभम् २०२
वासकी कुण्डलं काञ्ची तक्षको हारपुष्करं
किञ्चित्त्रिभङ्गिकङ्कायं दक्षपादन्तु कुञ्चितम् २०३
वरदं वामहस्तन्तु कृष्णापरशुहस्तकम्
देवस्य दक्षहस्ते तु देवी हस्तन्तु संयुतम् २०४
नास्यन्तं वापि चास्यान्तं हिक्कासूत्रसमन्तु वा
पीनोरः पीतगन्धाञ्च पीनस्तनसमन्विताम् २०५
द्विबाहुकां द्विनेत्राञ्च सर्वाभरणभूषिताम्
दुकूलवसनां देवीं कुर्याद्देवस्य सव्यके २०६
देवस्यायाममानन्तु विभजेद्वा दशाङ्गुलम्
रुद्रांशं वानवांशं वा वस्वंशं वैकहीनकम् २०७
आयामन्तद्धरेः प्रोक्तन्तस्य बाहु समन्वितम्
चिबुकान्तं वाथ कक्षान्तं लक्ष्यायामं प्रकीर्तितम् २०८
विष्णुबिम्बसमं वापि तद्वस्त्वंशैकहीनकम्
सप्तभागैकहीनं वा रसांशैकविहीनकम् २०९
अजायाममिदन्तस्य चतुर्भागैकभागता
अग्निज्वालोच्छ्रयं प्रोक्तन्तस्यार्द्धं विस्तृतं भवेत् २१०
देवमानाङ्गसंयुक्तं कारयेत्तु विचक्षणः
ललाटनासिका मद्ध्याद्वामपादस्य गुल्फकान् २११
व्यपोह्याभ्यन्तरे मात्रं तत्रस्थं शिवसूत्रकम्
तत्सूत्रात् स्तनमद्ध्याच्च दक्षिणे चाङ्गुलान्तरम् २१२
सत्सूत्रान्नाभिमद्ध्याच्च वामे व्योमाङ्गुलान्तरम्

एवं स्याच्छिवसूत्रं तु द्व्यन्तरन्त्वधुनाश्रुणु २१३
वरदस्य तलं पृष्ठन्नाभिसूत्रसमं भवेत्
नाभेस्तु मणिबन्धान्तादेकोनं विंशदङ्गुलम् २१४
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं कौशिकाङ्गुलम्
मेढ्रमूलसमं कुर्यात् कटकं ललितन्तथा २१५
नाभेस्तु मणिबन्धान्तात् द्व्यन्तरं स्मृतिमात्रकम्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरन्तु शराङ्गुलम् २१६
द्व्यन्तरं दीपबाह्वोश्च चन्द्रशेखरवत्कुरु
पादाङ्गुष्ठद्वयोर्मद्ध्ये सार्द्धत्रयोदशाङ्गुलम् २१७
तत्रिभागैकभागन्तु पार्ष्ण्योद्वन्तरकं भवेत्
एतत्कुञ्चितपादन्तु द्विमात्रं वक्त्रमुच्यते २१८
देवस्य सूत्रवत्सूत्रं देव्याञ्चैव तु लम्बयेत्
देव्यादक्षिणहस्तस्य तलमद्ध्यं हरस्य तु २१९
हस्तेन सङ्गृहीतं तु कारयेत्तु विचक्षणः
नाभेः प्रकोष्ठमूलान्तान् द्व्यन्तरञ्चाब्धिमात्रकम् २२०
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु द्विमात्रकम्
लम्बितं वामहस्तं तु मद्ध्यबाहुकपार्श्वयोः २२१
द्व्यन्तरं शरमात्रं तु ऊरोस्तु मणिबन्धकात्
भागं तु द्व्यन्तरं प्रोक्तमूर्वग्रं मद्ध्यमाङ्गुलात् २२२
द्व्यन्तरं तद्विमात्रं स्यात् पादान्तरं तु पूर्ववत्
देविलक्षणमेवं स्यात् लक्ष्म्याश्च लक्षणं शृणु २२३
नागहस्तसमौ बाहू केयूरकटकोज्वलौ
शोभनाम्बरसम्पन्ना श्रोणी च विपुला तथा २२४
मेखला कक्षिसूत्राङ्गा उमापार्श्वेवगार्त्थता
ललाटनासिकामद्ध्यात् वामाद्यङ्गुष्ठकाग्रतः २२५
मद्ध्यमे तु स्थितं सूत्रं शिवसूत्रमिति स्मृतम्

तत्सूत्राद्योनिमूलाश्च द्व्यन्तरं तु यवं भवेत् २२६
तत्सूत्रन्दक्षिणे नाभे द्व्यन्तरवसुमात्रकम्
हस्तो भयाभ्यान्देव्याश्च कटिदेशं स्पृशां कुरु २२७
दक्षिणे ह्युदरस्यैव मद्ध्ये बाह्वोश्च मद्ध्यमे
द्व्यन्तरं तु द्विमात्रं स्यात् वामबाहुकपार्श्वयोः २२८
द्व्यन्तरं भागमित्युक्तं पादाङ्गुष्ठकयोस्ततः
अष्टादशाङ्गुलेनैव द्व्यन्तरं परिकीर्तितम् २२९
पार्ष्ण्योश्च द्व्यन्तरं तत्र षडङ्गुलमुदीरितम्
एवं लक्ष्मी समाख्याता विष्णुरूपमथोच्यते २३०
किरीटमकुटोपेतं कटिसूत्रोदरबन्धनम्
केयूरकटकञ्चैव यज्ञसूत्रसमन्वितम् २३१
लम्बसूत्रसमायुक्तं पीताम्बरसमायुतम्
मकरं कुण्डलोपेतं श्रीवत्सं वक्षसि स्थितम् २३२
शङ्खचक्रधरं कुण्डं हस्तद्वयेन धारिणम्
जलधारोन्मुखः किञ्चित् वक्रेणैव समायुतम् २३३
ललाटनासिका मद्ध्यान्मद्ध्यमे पादयोस्ततः
अङ्गुष्ठाग्रसमं सूत्रं लम्बयेच्छिवसूत्रकम् २३४
तत्सूत्राद्व्यन्तरन्नाभेर्वेदाङ्गुलमिति स्मृतम्
कुण्डिकायास्तु चोत्सेधं त्रयोदशाङ्गुलं भवेत् २३५
नवाङ्गुलं तु विस्तारं ग्रीवं वक्षाङ्गुलं भवेत्
कुण्डिकाननदेशे तु सव्यहस्तसमायुतम् २३६
कुण्डिकाननदेशेन वामहस्ततलद्वयम्
वामहस्ताग्रपृष्ठं तु नाभेस्तु सममुच्यते २३७
नाभेस्तु मणिबन्धाच्च द्व्यन्तरं सप्तमात्रकम्
विष्णुरूपं समाख्यातं ब्रह्मरूपमथ शृणु २३८ चतुर्भुजञ्चतुर्बाहुं कमण्डल्वक्षधारिणम्

यज्ञसूत्रोत्तरीयन्तु जटामकुटसंयुतम् २३९
सव्यहस्ते क्षमालाञ्च वामहस्ते कमण्डलम्
स्रुवन्दक्षिणहस्ते तु पताकावामहस्तके २४०
अम्बुजासनकासीनं ब्रह्माणं होमसम्मुखम्
ललाटनासिकामध्यान्नाभेर्गुल्फस्य मध्यमात् २४१
तत्सूत्रान्मद्ध्यमान्नाभेद्वर्यन्तरं तु शराङ्गुलम्
पताकाङ्गुष्ठमूलान्तान्नाभेरष्टादशाङ्गुलम् २४२
चूचुकोद्ध्र्वे समं कुर्यात्पताकाग्रं विचक्षणः
हुतं तु मणिबन्धायास्तन्नाभेस्तु समं भवेत् २४३
नाभेस्तुमणिबन्धाच्च त्रयोदशाङ्गुलं भवेत्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु षडङ्गुलम् २४४
उभयोर्जानुसीमान्तमूर्ध्वकायसमं भवेत्
एवं स्यात्बहुरूपन्तु अग्निरूपमथश्रुणु २४५
देवस्याङ्गुलमानेन चतुर्विंशतिमात्रकम्
अग्निकुण्डन्तु विस्तारं मेखलात्रयसंयुतम् २४६
अग्न्यङ्गुलं तदुत्सेधं मेखलातारमङ्गुलम्
तन्मद्ध्ये कल्पयेदग्निं पञ्चपात्रिशिखान्वितम् २४७
एवं वैवाह्यमुद्दिष्टम् उमयासहितं श्रुणु
चतुर्भुजं त्रिणेत्रञ्च जटामकुटसंयुतम् २४८
सर्वाभरणसंयुक्तं वरदाभयहस्तकम्
कृष्णापरशुसंयुक्तं दक्षिणे वामकेऽपि च २४९
पत्रन्तु वामकर्णे तु दक्षिणे कुण्डलं भवेत्
उपपीतधरञ्चैव शयनं वामपादकम् २५०
लम्बितं दक्षिणं पादं वामे गौरी समायुतम्
तयोर्मद्ध्ये स्थितं स्कन्दस्सर्वलक्षणसंयुतम् २५१
ब्रह्मविष्णूद्विपार्श्वाभ्यां देवीभ्यां युक्तभोगदम्

ललाटनासिकामद्ध्यान्नाभेश्च मद्ध्यम क्रमात् २५२
लिङ्गमद्ध्यात्तु पादस्य गुल्फमद्ध्यं स्थितं तथा
श्रोणीसंस्पर्शनं सूत्रं शिवसूत्रमिति स्मृतम् २५३
मुखान्तात्पिप्पलीमूलात् ग्रीवापार्श्वं तथैव च
चूचुकस्य तु मद्ध्यात्तु श्रोणीकत्याश्च पार्श्वकान् २५४
उष्णीकात्तु ककुद्वंशखण्डस्फिक्मद्ध्यमात् गतम्
पृष्ठसूत्रमिदं पार्श्वसूत्रात्तु सार्द्धमात्रकम् २५५
हित्वापार्श्वद्वयोश्चैव ऊर्वायाममतःपरम्
जानुपक्षाङ्गुलञ्चैव क्षयमाजानुसीमकान् २५६
दक्षिणं लम्बजानुश्च प्रायश्चैव गुणांशकम्
वामजान्वन्तरात्सूत्रादूर्ध्वकायाच्च मानतः २५७
षण्मात्रं द्व्यन्तरं प्रोक्तं नालका मेढ्रमूलयोः
तलाग्रे ऊरुमद्ध्याच्च द्व्यन्तरं तु गुणाङ्गुलम् २५८
सूत्राद्गुल्फाङ्घ्रिपार्ष्ण्यन्तं सार्द्धत्रयोदशाङ्गुलम्
कटके मणिबन्धाधः कट्यग्रस्य समं भवेत् २५९
नाभेस्तु मणिबन्धात्तु द्व्यन्तरं षोडशाङ्गुलम्
हस्तद्व्यन्तरकं सर्वं चन्द्रशेखरवत्कुरु २६०
देवस्य बाहुसीमान्तं देव्यास्त्वायाममुच्यते
द्विबाहुकात् द्विनेत्री च करण्डमकुटान्विता २६१
सर्वाभरणसंयुक्तादुकूलवसनान्विता
शयनं दक्षिणे पादं वामपादं तु लम्बितम् २६२
कटकं दक्षिणे हस्तं वरदं वामहस्तकम्
ललाटनासिका मद्ध्याद्दक्षिणे च गुणाङ्गुलम् २६३
हित्वा त्रैवन्न्यसेत्सूत्रं शिवसूत्रमिति स्मृतम्
तत्सूत्राद्धृदयान्ताश्च वामे गुणाङ्गुलान्तरम् २६४
तत्सूत्राद्दक्षिणे नाभेर्द्व्यन्तरञ्चाङ्गुलं भवेत्

कारयेत्कटकस्याग्रं चूचुकोर्ध्वसमं तथा २६५
अङ्गुष्ठमूलनाभेस्तु सार्द्धत्रयोदशाङ्गुलम्
पार्श्वमद्ध्यमबाह्वोश्च द्वयन्तरं पञ्चमात्रकम् २६६
वरदस्य तलस्याधो नाभेस्तु सममुच्यते
नाभेस्तु मणिबन्धाच्च द्व्यन्तरं षोडशाङ्गुलम् २६७
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु षडङ्गुलम्
अन्न्यानि सर्वकार्याणि देवस्योक्तवदाचरेत् २६८
बेरायामं तु विभजेत् अष्टया चैव भागिकम्
द्विभागं वा गुहायामं बाहुरूपेण कल्पयेत् २६९
द्विभुजश्च द्विनेत्रश्च सर्वाभरणभूषितम्
कटकं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् २७०
असीनो वा स्थितो वापि कारयेत्तु गुहं ततः
पद्मपीठोद्ध्र्वको वापि केवलं पीठकोपरि २७१
भवानीसहितं ह्येवं वृषवाहनमुच्यते
गौरीश्वरौ स्थितौ पीठे वृषभं पृष्ठतस्थितम् २७२
त्रिणेत्रञ्चतुर्भुजञ्चैव जटामकुटसंयुतम्
दिव्याम्बरधरो देवस्सर्वाभरणभूषितः २७३
परशुं दक्षिणे हस्ते वामे कृष्णसमन्वितम्
कटकं दक्षिणे हस्तं वृषभस्यैवमस्तके २७४
वामहस्ते प्रकोष्ठन्तु स्थापितं कुरुबुद्धिमान्
ललाटनासिकामद्ध्याद्दक्षिणे स्थितपादके २७५
गुल्फमद्ध्यात्स्थितं सूत्रं शिवसूत्रमिति स्मृतम्
तत्सूत्राद्धृत्प्रदेशाच्च वामे चैव गुणाङ्गुलम् २७६
तत्सूत्रादङ्गुलं नाभेर्दक्षिणे चाङ्गुलान्तरम्
तत्सूत्रान्मेढ्रमूलान्तं दक्षिणे चतुरङ्गुलम् २७७
तत्सूत्राद्दक्षिणाङ्घ्रिश्च जान्वोश्चैव गुणाङ्गुलम्

मेढ्रमूलसमं कुर्यात् कटकं ललितन्ततः २७८
नाभेस्तु मणिबन्धान्तादेकोनविंशदङ्गुलम्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरञ्चाब्धिमात्रकम् २७९
बाहुकूर्परमद्ध्योर्ध्वे स्तनसूत्रं न्यसेद्बुधः
पताकाधोमुखो वाथ हंसपक्षमथापि वा २८०
तन्मद्ध्यमाङ्गुलाग्रन्तु नाभिसूत्रसमं भवेत्
प्रकोष्ठमूलाद्धृदयात् पञ्चविंशतिमात्रकम् २८१
पार्श्वकान्मणिबन्धाच्च त्रयोदशाङ्गुलान्तरम्
तन्मद्ध्यमाङ्गुलं नाभेर्द्व्यन्तरं तिथिमात्रकम् २८२
सभङ्गस्थानकं कृत्वा पादाङ्गुष्ठद्वयोस्तथा
द्व्यन्तरं तिथिमात्रं स्यात् पार्ष्ण्योर्मद्ध्ये शराङ्गुलम् २८३
वामपादस्य चक्रं तु कोलकञ्चेति कीर्तितम्
इन्दुशेखरवत्कुर्यात्परहस्तौ विशेषतः २८४
तस्यैव वामभागे तु देवीं कुर्याद्विचक्षणः
वृषारूढमिदं प्रोक्तं त्रिपुरारिं श्रुणुष्वथ २८५
चतुर्भुजं त्रिणेत्रञ्च जटामकुटसंयुतम् ।
सर्वाभरणसंयुक्तं दिव्याम्बरसमायुतम् २८६
पत्रं तु वामकर्णे तु दक्षिणे कुण्डलान्वितम्
धनुर्बाणसमायुक्तं कृष्णापरशुसंयुतम् २८७
उपपीतसमायुक्तं सभङ्गस्थानकं कुरु
वामे कटकहस्तोर्ध्वं हिक्कासूत्रसमं भवेत् २८८
मणिबन्धं समारभ्य हिक्कासूत्रस्य मद्ध्यमात्
षट्त्रिंशदङ्गुलञ्चैव द्व्यन्तरं परिकीर्तितम् २८९
वृषवाहनवच्छेषं कारयेत्तु विचक्षणः
त्रिपुरान्तकमेवं स्यादर्द्धनारिं श्रुणुष्वथ २९०
सबालेन्दुजटाभारमैशमर्द्धं तु दक्षिणम्

उमार्द्धं वामभागे तु सीमन्ततिलकालकम् २९१
नयनार्द्धं ललाटे तु संयुक्तं दक्षिणांशके
दक्षिणे कुण्डलं कर्णे वामकर्णे तु पत्रकम् २९२
कटिलं पालिकां वामे टङ्काभयौ च दक्षिणे
उत्पलं वामहस्ते तु केयूरकटकान्वितम् २९३
उमांशे तु स्तनं कुर्यात् वहकारधरं तु वा
श्रोण्यार्द्धदक्षिणे शम्भोर्व्याघ्रचर्मकृताम्बरम् २९४
उमार्द्धं कटिसूत्रान्तं चित्रवस्त्रपरिच्छदम्
नूपुरालङ्कृतं वामे सव्यपादं तु कुञ्चितम् २९५
आभगेन तथाकुर्यात् सार्द्धनारीश्वरं वपुः
ललाटनासिकामद्ध्याद्वामाङ्घ्रे गुल्फमद्ध्यमात् २९६
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु षडङ्गुलम्
पादाङ्कुष्ठद्वयोर्मद्ध्ये द्व्यन्तरं तिथिमात्रकम् २९७
पार्ष्णिद्वयोश्च मद्ध्ये तु भूताङ्गुलमिति स्मृतम्
तत्सूत्राद्धृत्प्रदेशाच्च दक्षिणे भ्यङ्गुलान्तरम् २९८
तत्सूत्राद्वामके नाभेर्द्व्यन्तरं चाङ्गुलं भवेत्
तत्सूत्रान्मेढ्रमूलाच्च द्व्यन्तरं तु युगाङ्गुलम् २९९
वामके कटकस्याग्रे चूचुकोद्ध् र्वसमं भवेत्
नाभेस्तु मणिबन्धान्तात् सार्द्धत्रयोदशाङ्गुलम् ३००
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु षडङ्गुलम्
पादाङ्गुष्ठद्वयोर्मद्ध्ये द्व्यन्तरं तिथिमात्रकम् ३०१
पादद्वयोश्च मद्ध्ये तु भूताङ्गुलमिति स्मृतम्
शेषमन्यच्च सर्वं तु चन्द्रशेखरवत् भवेत् ३०२
अर्द्धनारीश्वरं ह्येवं कङ्कालं त्वधुना श्रुणु
चतुर्भुजं त्रिणेत्रञ्च कपर्दमकुटान्वितम् ३०३
पादे पादुकसंयुक्तं किञ्चिद्वै गमनोन्मुखम्

सर्वाभरणसंयुक्तं यज्ञसूत्रोपशोभितम् ३०४
शङ्खं तु वामकर्णे तु दक्षिणेन च कुण्डलम्
क्षौमवस्त्रधरं कुर्यात् दक्षिणे क्षुरिकायुधम् ३०५
डमरुं वामहस्ते तु प्रहरं दक्षिणे करे
कङ्कालं दण्डमूलं तु पिञ्चदण्डस्य मूलकम् ३०६
वामे त्वपरहस्तेन सङ्गृहीतं तु कल्पयेत्
उभयोर्दण्डकाग्रं तु कंसकोपरिविन्न्यसेत् ३०७
कृष्णामुखं गतं हस्तं दक्षिणे परहस्तकम्
नानानागसमायुक्तं किञ्चित्प्रहसिताननम् ३०८
बलिपात्रधरं भूतदेवं वामे तु कारयेत्
भिक्षादानोन्मुखास्त्रीभिर्मोहिताभिस्समाकुलम् ३०९
नानाभूतसमायुक्तं नानालीला समन्वितम्
ललाटमद्ध्यदक्षे तु मात्रं हित्वा तु सूत्रकम् ३१०
दक्षप्राणपुटात्पार्श्वस्थिताङ्घ्र्यङ्गुष्ठमूलकात्
दक्षभागाङ्गुलं हित्वा तत्स्थानं लम्बयेत् बुधः ३११
तत्सूत्राद्धृदयाद्दक्षे द्व्यन्तरं तु गुणाङ्गुलम्
पूर्वकुण्डलदृष्टाग्रं त्वष्टादशाङ्गुलं भवेत् ३१२
तत्सूत्राद्वामके नाभेर्द्व्यन्तरं तु युगाङ्गुलम्
तत्सूत्रान्मेढ्रमूलान्ताद्वामोच्चं द्व्यङ्गुलं भवेत् ३१३
पादाङ्गुष्ठद्वयोर्मद्ध्ये त्वष्टादशाङ्गुलं भवेत्
पार्ष्ण्योश्चैवोभयोर्मद्ध्ये सप्ताङ्गुलमुदीरितम् ३१४
उभयोर्जानुमद्ध्ये तु मुखम्वं प्रकीर्तितम्
अधोमुखं तु कटकं तस्याग्रन्नाभितत्समम् ३१५
नाभ्यास्समं प्रदेशं तु उदरान्मणिबन्धकात्
द्व्यन्तरं भागमित्युक्तं पार्श्वमद्ध्यमबाहुकान् ३१६
द्व्यन्तरं भागमित्युक्तं कटकं कोणसंयतम्

ढक्कासंयुक्तहस्तं तु वरदञ्चेति कीर्तितम् ३१७
वरदे मणिबन्धाधः कुक्षिमद्ध्यसमं भवेत्
नाभेस्तु मणिबन्धाच्च द्व्यन्तरं स्मृतिमात्रकम् ३१८
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं तु शराङ्गुलम्
हरिण्यास्य गताहस्तमूरुमूलादधस्तथा ३१९
एकविंशति मात्रान्तं समं तस्याग्रमुच्यते
तद्धस्तकटकं प्रोक्तं कुर्यादधोमुखं तु तत् ३२०
ऊरोश्च मणिबन्धाच्च द्व्यन्तरं तु यमं भवेत्
पार्श्वमद्ध्यमबाह्वोश्च द्व्यन्तरं सप्तमात्रकम् ३२१
हरिणीजिह्वयाहस्तस्याग्रमालेपितं कुरु
कङ्कालधारिणं हस्तकटकञ्चेति कीर्तितम् ३२२
कक्षतुल्यं तु तस्याग्रं यमन्दोर्मणिबन्धयोः
बिम्बस्य त्रिमुखं वापि सार्द्धत्रिमुखमेव वा ३२३
कारयेत् भूतरूपाणि पञ्चतालेन बुद्धिमान्
देवस्तनसमोच्चं वा कक्षोच्चं वा विशेषतः ३२४
नारी सङ्कल्पयेद्धीमानुभयोः पार्श्वयोरपि
एवं कङ्कालमाख्यातं नृत्तरूपमथ श्रुणु ३२५
चतुर्भुजं त्रिणेत्रञ्च सुविकीर्णजटान्वितम्
कुररी वक्षसंयुक्तं बहिः पिञ्चसमन्वितम् ३२६
मौलेर्दक्षे तु धुत्तूरमर्द्धचन्द्रसमन्वितम्
दक्षिणे तु जटाग्रे तु जाह्नवीमभिवन्दिताम् ३२७
पत्रं तु वामकर्णे तु दक्षिणे नक्रकुण्डल
सर्वाभरणसंयुक्तमुपपीतसमन्वितम् ३२८
व्याघ्राजिनां बरोपेतं पादकिङ्किणि शोभितम्
जगत्प्रसारितं वामे दक्षिणे भयहस्तकम् ३२९
डमरूं सव्यहस्ते तु वह्निर्वै वामहस्तके

वक्रं तु दक्षिणं पादम् अपस्मारोपरिस्थितम् ३३०
उद्धृतं वामपादं तु पादाग्रं दक्षिणानुगम्
ललाटमद्ध्यदक्षे तु हित्वा सार्द्धाष्टकं यवम् ३३१
तस्मात्तु लम्बयेत् सूत्रं दक्षनासापुटान्तकात्
दक्षिणाङ्घ्रेस्तु गुल्फस्य मद्ध्यमादेव पादितम् ३३२
तत्सूत्रकक्षयोर्मद्ध्ये उरःस्मृत्यं गुलं भवेत्
तत्सूत्रकक्षयोरन्तर्वामोर्वोर्वसुमात्रकम् ३३३
तत्सूत्राद्दक्षिणे ग्रीवा षडङ्गुलमिति स्मृतम्
तत्सूत्राद्वामकेशीं वा गुणाङ्गुलमुदाहृतम् ३३४
तत्सूत्राद्दक्षिणे नाभेर्द्व्यन्तरञ्चाङ्गुलं भवेत्
तत्सूत्रान्मेढ्रमूलान्ताद्वामभागमिति स्मृतम् ३३५
वामास्फिक्पिण्डिकात् सूत्रात्सप्तानामङ्गुलं भवेत्
तत्सूत्राद्वक्रपादस्य जानुकात्तु दशाङ्गुलम् ३३६
दक्षिणे बाहुसीमन्ताद्धिक्कासूत्रस्य मद्ध्यमात्
यवद्वयाधिकं विंशदङ्गुलञ्चेति कीर्तितम् ३३७
हिक्कामद्ध्यं समारभ्य दोस्सीमान्तं तु वामके
यवद्वयसमायुक्तं सप्तादशाङ्गुलं भवेत् ३३८
नाभेर्दक्षिणके कुक्षितारं भागमिति स्मृतम्
नाभेर्वामे तु कुक्षौ च तारन्त्रयो दशाङ्गुलम् ३३९
वरदाग्निधरं हस्तं दोस्समञ्चेति कीर्तितम्
शरमात्रं पावकोत्सेधं विस्तारं तु गुणाङ्गुलम् ३४०
त्रिशिखाभिस्समायुक्तं कल्पयेत्तलमद्ध्यमे
बाह्वोश्च मणिबन्धाच्च चतुस्त्रिंशदङ्गुलं भवेत् ३४१
डमरुकोपेतहस्तं तु सूचिहस्तमिति स्मृतम्
तत्सूचिहस्तकस्योद्ध्र्वं कर्णोद्ध्र्वसममुच्यते ३४२
बाह्वोश्च मणिबन्धाच्च चतुर्विंशदङ्गुलं भवेत्

वामांश्चैव जानूद्ध् र्वन्नाभेस्तु सममुच्यते ३४३
वामाङ्घ्रेः पार्ष्णिकाधश्च वक्त्राङ्घ्रेर्जानुकोपरि
तत्समं त्विति विज्ञेयं तत् पार्ष्णे जानुकां ततः ३४४
चतुस्त्रिंशतिमात्रं तु द्व्यन्तरञ्चेति कीर्तितम्
मणिबन्धकजान्वोश्च द्व्यन्तरं तु यवं भवेत् ३४५
दोर्मूलान्तसमञ्चैव अभयाग्रं प्रकीर्तितम्
मणिबन्धकबाह्वोश्च द्व्यन्तरं तु यमं भवेत् ३४६
तस्य कूर्परमद्ध्ये तु व्यालं तत्रैव विन्न्यसेत्
चूचुकन्नाभिकामूलात् द्व्यन्तरं तु यमं भवेत् ३४७
सव्यस्य वामसूत्रस्य मद्ध्याद्वै पार्श्वयोस्तयोः
वामबाहुद्वयोर्मद्ध्ये शार्दूलाजिनकन्न्यसेत् ३४८
त्रिवक्रायाममानेन अपस्मारं ततः कुरु
चतुस्तालप्रमाणेन भूतरूपेण कारयेत् ३४९
तस्यैव वामपार्श्वे तु देवीं कुर्यात्सलक्षणाम्
भुजङ्गत्रासमेवं तु भिक्षाटनमथ श्रुणु ३५०
त्रिणेत्रञ्चतुर्भुजन्नग्नं रूपं किञ्चित्स्मिताननम्
आवृतालं कृताभङ्गी पादे पादुकसंयुतम् ३५१
दक्षिणे तु कराग्रं तु हरीणास्यानुगं भवेत्
दक्षिणावरहस्तं तु डमरुकयुतं भवेत् ३५२
वामे कपालहस्तं तु अपरं पिञ्चधारिणम्
कुञ्चितं दक्षिणं पादं वामपादं तु स्वस्तिकम् ३५३
सभङ्गस्थानकं कुर्यात् गमनोन्मुखरूपकम्
कपालोपेत हस्तस्य पृष्ठन्नाभिसमं भवेत् ३५४
मणिबन्धाच्च नाभेस्तु द्व्यन्तरं षोडशाङ्गुलम्
शेषं सर्वविशेषेण काङ्कालस्योक्तवत् भवेत् ३५५
एवं भिक्षाटनं प्रोक्तं कालनाशनमुच्यते

चतुर्भुजं त्रिणेत्रञ्च जटामकुटसंयुतम् ३५६
उद्धतं दक्षिणं पादं वामपादं तु कुञ्चितम्
व्याघ्रचर्माम्बरोपेतन्तीक्ष्णनासोग्रदंष्ट्रकम ३५७
दक्षिणे तु करेशूलं सूचिहस्तं तु वामके
परशुं दक्षिणे हस्ते नागपाशं तु वामके ३५८
अधोमुखं भवेच्छूलं दृष्टिर्वै कालदेहके
ललाटमद्ध्याद्दक्षे तु हित्वा साद्ध्याष्टकं यवम् ३५९
तस्मात्तु लम्बयेत् सूत्राद्दक्षनासा पुटान्तकान्
दक्षिणाङ्घ्रेश्च पार्ष्ण्याग्रात्पक्षाङ्गुलान्तरं स्थितम् ३६०
तत्सूत्राद्वामकेनाभेरङ्गुल्यद्व्यन्तरं स्मृतम्
तत्सूत्रान्मेढ्रमूलान्ताद्दक्षोभागमथान्तरम् ३६१
सूत्रजान्वोश्च मद्ध्ये तु रन्ध्राङ्गुलमिति स्मृतम्
उच्छृताङ्घ्रेश्च जानुश्च कट्यग्रस्य समं भवेत् ३६२
उद्धृताङ्घ्रेः स्थलाग्रान्ता जङ्घायामस्तु मात्रकम्
सूचिहस्ताग्रकं नाभेस्सममित्यभिधीयते ३६३
मणिबन्धाच्च मद्ध्याच्च द्व्यन्तरं षोडशाङ्गुलम्
शूलोपेतदराग्रं तु कर्णस्योर्ध्वसमं भवेत् ३६४
कर्णाग्रान्मणिबन्धाच्च द्व्यन्तरं द्वियवं भवेत्
अपरे तु द्विहस्तौ तु कटकाविति कीर्तितौ ३६५
दोस्समं कटकाग्रन्तु द्व्यन्तरन्तु यवं भवेत्
कालनाशनमेवञ्च हरिरर्द्धमथ श्रुणु ३६६
ईशार्द्धं पूर्ववत्प्रोक्तं विष्णवर्द्धे मकुटन्नयेत्
वामे तु द्विभुजोपेतं केयूरकटकोज्वलम् ३६७
स्यान्नक्रकुण्डलं कर्णे कटकं शङ्खहस्तकम्
अर्द्धपीताम्बरोपेतं भूषणैर्भूषणाह्रकैः ३६८
ऋज्वागतन्तथा सर्वञ्चन्द्रशेखरवत्कुरु

हरिरर्द्धमिदं प्रोक्तं सुखासनमथ श्रुणु ३६९
चतुर्भुजं त्रिणेत्रञ्च जटामकुटसंयुतम्
अभयं दक्षिणं हस्तं वरदं वामहस्तकम् ३७०
कृष्णापरशुसंयुक्तं वामदक्षिणहस्तयोः
शयनन्दक्षिणं पादं वामपादन्तु लम्बितम् ३७१
उमयासहितवत्सर्वं स्कन्दगौरीविवर्जितम्
सुखासनमिति प्रोक्तं गङ्गाधरमथ श्रुणु ३७२
चतुर्भुजं त्रिणेत्रञ्च कपर्दमकुटान्वितम्
अभयं दक्षिणं हस्तं कटकं वामहस्तकम् ३७३
कपर्दमकुटन्तेन गृहीतं जाह्नवी युतम्
वामदक्षिणहस्तौ तु कृष्णापरशुसंयुतम् ३७४
अभयं पूर्ववत्प्रोक्तं कपर्दोपेतहस्तकम्
कर्णोर्ध्वस्य समं ज्ञेयं कर्णान्तं मणिबन्धयोः ३७५
द्व्यन्तरं द्वियवं प्रोक्तं शेषन्तु त्रिपुरारिवत् ।
तस्य वामे भवानी तु कारयेल्लक्षणान्वितम् ३७६
जान्वन्तं वापि नाभ्यन्तं भागीरथ्यास्तु मानकम्
प्रलम्बकजटोपेतमुष्णीषं जलहस्तकम् ३७७
द्विभुजञ्च त्रिनेत्रञ्च वल्कलाम्बरसंयुतम्
एवं गङ्गाधरं प्रोक्तं चण्डेशानुग्रहं श्रुणु ३७८
उमासहितवत्सर्वं स्कन्देनैव विना कुरु
किञ्चिदस्मिन्विशेषोस्ति तंविशेषं श्रुणु द्विजाः ३७९
कटकं दक्षिणे हस्तं वरदं वामहस्तके
देवस्य पुरभागन्तु चण्डेशन्तु प्रकल्पयेत् ३८०
देवस्य बाहुमात्रेण चण्डेशायाममुच्यते
कृताञ्जलिपुटोपेतं चासीनं प्रतिवक्त्रकम् ३८१
देवश्शिरसिचण्डस्य मालया परिभूषयन्

चण्डेशानुग्रहं प्रोक्तं मुखलिङ्गं पुरोक्तवत् ३८२
आभङ्गसमभङ्गञ्च अतिभङ्गं त्रिधा भवेत्
आभङ्गन्त्र्यङ्गुलं प्रोक्तं समभङ्गं युगाङ्गुलम् ३८३
अतिभङ्गं शराङ्गुल्यं मानेन्यूनन्तु कारयेत्
देवस्य वक्त्रमानेन मौल्यायामं विधीयते ३८४
अद्ध्यर्द्धद्विगुणं वापि पादोनद्विगुणन्तु वा
त्रयोदशाङ्गुलं तारमग्रेष्टांशैकहीनकम् ३८५
भिक्षाटने च कङ्काले हर्यर्द्धे चार्द्धनारिके
सुखासने च कामारौ दक्षिणामूर्तिविग्रहे ३८६
न योजयेदुमादेवीं शेषाणान्तु सुयोजयेत्
कर्णान्तमुत्तमं ज्ञेयं हरस्यान्तौ तु मद्ध्यमौ ३८७
बाह्वन्तमधमं ज्ञेयं देव्यायामं विधीयते
मन्वङ्गुलप्रमाणेन सर्वायुधानि कारयेत् ३८८
तन्मानेन शिरश्चक्रं शीर्षदेशे तु विन्यसेत्
नृत्तमूर्तिश्च कङ्कालं दक्षिणामूर्तिविग्रहम् ३८९
कुन्देन्दुस्फटिकाभासमन्यो विद्रुमसन्निभम्
देवस्य मुखमानेन पद्मोत्सेधमिति स्मृतम् ३९०
पादाधिकमथाद्ध्यर्द्धं समं वाब्जस्य चायतम्
उत्सेधं द्विगुणं तारमग्रेष्टांशैकहीनकम् ३९१
बेरायामं त्रिभागैकमासने पीठकुङ्गकम्
बिम्बायामयुगांशैकमुत्सेधं स्थानकस्य तत् ३९२
उत्सेधसममायामं पादाधिकमथापि वा
अद्ध्यर्द्धं वा प्रकर्तव्यं चतुरश्रं समन्ततः ३९३
उत्सेधद्विगुणं वापि सार्द्धद्विगुणमेव वा
पादोनद्विगुणं वापि विस्तारं पूर्ववत्भवेत् ३९४
आयताश्रमिति प्रोक्तं निर्गमेन युतन्तु वा

आयामन्तु त्रिधा कृत्वा भागं निर्गमनं भवेत् ३९५
सप्तभागचतुर्भागमथवा निर्गमं भवेत्
पीठोत्सेधं परिग्राह्य तित्थ्यंशं विभजेत् क्रमात् ३९६
जन्ममेकांशमित्युक्तं युगांशं जगतिर्भवेत्
वेदांशं कुमुदोत्सेधं व्योमांशं पट्टिका भवेत् ३९७
पक्षांशं कण्ठमित्युक्तं पट्टिकांशैवमुच्यते
महापट्टी द्विभागेन कुर्वे तत् भद्रपीठकम् ३९८
उत्सेधं पूर्ववत् भज्य व्योमांशं जन्म उच्यते
जगती चतुरंशेन वप्रमन्यांशकं भवेत् ३९९
व्योमांशं पट्टिकाज्ञेया कन्धरन्तु द्विभागया
एकोनपट्टिकां कुर्यात् महापट्टिव्ययांशकम् ४००
व्योमांशमूर्ध्वपट्टी च श्रीकरं त्विति कीर्तितम्
स्मृत्यंशाविभजेदैर्घ्यमुपानं त्वेकमुच्यते ४०१
एकांशेनैव कम्पन्तु पद्ममेकेन कारयेत् ।
कम्पमेकेन कर्तव्यं जगती च युगांशकम् ४०२
रुद्राक्षांशन्तु वप्रं स्यात् पट्टमेकेन कारयेत् ।
पक्षांशेनैव कर्णन्तु कम्पमेकेन कारयेत् ४०३
ऊर्ध्वपद्यमथांशेन महापट्टिस्तुर्यंशकम्
एतत्सौन्दरमाख्यातं दैर्घ्यमन्वंशकं भवेत् ४०४
जन्ममेकांशमन्यांशं पद्ममंशेन पट्टिका
चतुरंशेन कर्णन्तु व्योमांशेनैव कम्पकम् ४०५
उर्ध्वपद्ममथांशेन महापट्टिद्वयांशकम्
व्योमांशेनोर्ध्वपट्टी च पद्मपीठमिति स्मृतम् ४०६
चतुर्विंशत्पञ्चविंशत् षड्विंशद्भागसंयुतम्
पीठकारं भजेत्तेषु एकांशं वेशनिर्गमम् ४०७
विस्तारं जगती बाह्य दशांशेनोर्ध्वपट्टिका

पङ्क्तित्रययुतं वापि भूतपङ्क्तियुतन्तु वा ४०८
मुनिपङ्क्तियुतं वापि कर्णभागन्तु कारयेत् ४०९

इतिपूर्वकारणे प्रतिमालक्षणविधिपटल एकादशः