मूर्ध्नीष्टकाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि मूर्द्धशैलेष्टकाक्रमम्
यत्काले यत्समाप्तन्तु विमानं लक्षणान्वितम् ॥ १ ॥
महानस्यान्तकं वापि शक्तिध्वजसमन्तु तत्
मूर्ध्नीष्टकानां तत्काले विन्न्यसेद्विधिपूर्वकम् ॥ २ ॥
नपुंसकोपलेनैव कारयेल्लक्षणान्वितम्
विकाराङ्गुलमायामं तस्यार्द्धञ्च हलाश्शुभाः ३े
तस्यार्द्धं नीव्रसंयुक्तं चतस्रस्त्वैकभूमिका
द्विभूमेरङ्गुलं वृद्ध्या रविभूम्यन्तकं क्रमात् ॥ ४ ॥
उपलंशैलके योज्यमिष्टकाधाममिष्टका
आदित्याङ्गुलमायामष्षडङ्गुलसुविस्तृता ॥ ५ ॥
नीव्रं युगाङ्गुलेनैव शेषं पूर्ववदाचरेत्
एवं मूर्ध्नेष्टकां कुर्यात्स्तूपिदण्डन्तु कारयेत्
असनं खादिरं वापि मधुकं पद्मतुण्डकम्
तिलकं त्रीणिसारञ्च चन्दनं चम्पकं तथा ॥ ६ ॥
एतैर्वृक्षैः प्रकर्तव्यं स्तूपिदण्डं विशेषतः
पादायामसमं दीर्घं पादविष्कम्भविस्तृतम् ॥ ७ ॥
स्तम्भायामं त्रिधाकृत्वा मूलांशं चतुरश्रकम्
तस्योर्ध्वे वृत्तकं कुर्याद्विभागेन विशेषतः ॥ ८ ॥
अग्रमङ्गुलविस्तारमानुपूर्वात्कृशन्तथा
शिखिपादं ततः कुर्याद्विस्तारं त्रिगुणायतम् ।॥ ९ ॥
विस्तारसमविस्तारं योजयेत्तद्वयं समम्
दण्डमूले शिखीपादं सुस्निग्धं सुदृढं कुरु ॥ १० ॥
ताम्रेण सायसेनाथ वेष्ट्यदण्डाग्रमूलकौ
पूर्वे वा चोत्तरे वापि मण्टपञ्चाष्टहस्तकम् ॥ ११ ॥
विकाराङ्घ्रि समायुक्तं युगद्वारसमायुतम्
मण्टपं तत्त्रिभागैकं मद्ध्यमे वेदिकां कुरु ॥ १२ ॥
तालमात्रं तलोत्सेधं दर्पणोदरसन्निभम्
दर्भमालासमायुक्तं वितानध्वजसंयुतम् ॥ १३ ॥
मुक्तादाम्नास्वलङ्कृत्य तरङ्गेणैव वेष्टयेत्
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ॥ १४ ॥
वेदिकायाश्च तन्मद्ध्ये चाष्टद्रोणैश्चशालिभिः
तदर्द्धैस्तण्डुलैश्चैव तदर्द्धैश्च तिलैरपि ॥ १५ ॥
स्थण्डिलं कारयेधीमान् तन्मद्ध्ये नलिनं लिखेत्
लाजपुष्पकुशैश्चैव विकिरेत्तु विशेषतः ॥ १६ ॥
प्रोक्षयेत्पञ्चगव्येन शिलाचेष्टकयापि वा
प्रोक्षयेद्धृदयेनैव शुद्धतोयेन देशिकः ॥ १७ ॥
गैरिकेन लिखेद्धीमानक्षराणि विशेषतः
शकारं पूर्वभागे तु षकारं दक्षिणे लिखेत् ॥ १८ ॥
सकारं पश्चिमे लिख्य हकारञ्चोत्तरे लिखेत्
बिन्दुनादसमायुक्तमादौ प्रणवसंयुतम् ॥ १९ ॥
सौवर्णमौर्णसूत्रं वा अथ कार्पासकन्तु वा
कौतुकं बन्धयेद्धीमान् प्रत्येकं वस्त्रवेष्टितम् ॥ २० ॥
गन्धपूष्पादिभिः पूज्य स्वस्वबीजेन देशिकः
वेदिकोपरि संस्थाप्य ऐन्द्रादिसौम्यकान्तकम् ॥ २१ ॥
नैवेद्यं दापयेत्तासां ताम्बूलञ्च निवेदयेत्
स्नापयेत्पञ्चगव्येन स्थाप्यदण्डं विशेषतः ॥ २२ ॥
शिवाम्भसा तु संस्नाप्य यजेदीशानमन्त्रतः
कौतुकं बन्न्धयित्वा तु वस्त्रेणैव तु वेष्टयेत् ॥ २३ ॥
स्थण्डिलस्योत्तरे देशे स्तूपिदण्डन्तु विन्यसेत्
तन्तुना चित्रितान् कुम्भान् गन्धतोयेन पूरितान् ॥ २४ ॥
सकूर्चान्सापिधानांश्च सवस्त्रान् हेमसंयुतान्
लोकपालाधिपां स्थाप्य चाष्टौ वै वेदिकोपरि ॥ २५ ॥
गन्धपुष्पादिभिः पूज्य पूर्वादिक्रमयोगतः
वालुकाभिश्चतुर्दिक्षु कुर्यात्स्थण्डिलमुत्तमम् ॥ २६ ॥
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ।
सद्येनसमिधा हुत्वा आज्यं मूलेन होमयेत् ॥ २७ ॥
अघोरेण चरुं हुत्वा लाजं वै हृदयेन तु
तिलं हुत्वा तु शिखया सर्षपं कवचेन तु ॥ २८ ॥
बीजमुख्येन माषन्तु प्रत्येकं पञ्चविंशतिः
होमं कृत्वा विशेषेण द्रव्यान्ते व्याहृतिं हुनेत् ॥ २९ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत्
स्विष्टमग्नेति मन्त्रेण जुहुयात् तदनन्तरम् ॥ ३० ॥
ततः प्रभाते विमले स्नानं कृत्वा तु देशिकः
नववस्त्रोद्धृतोष्णीषश्शुक्लमाल्यैर्विभूषितः ॥ ३१ ॥
हेमाङ्गुलीयकटकैः कुण्डलाद्यैरलङ्कृतम्
मुहूर्ते समनुप्राप्ते स्थापनन्तु समारभेत् ॥ ३२ ॥
आचार्यं पूजयेत्तत्र वस्त्राङ्गुलीयकादिभिः
सर्वातोद्य समायुक्तं स्वस्तिमङ्गलवाचकैः ॥ ३३ ॥
ब्रह्मघोषैस्समायुक्तं सर्वालङ्कारसंयुतम्
अनन्यमानसो भूत्वा स्थापयेत्स्थपतिस्सह ॥ ३४ ॥
सर्वाश्च बन्धयेत्तासामग्रं प्रतिदिशिस्थितः
न्यस्त्वापूर्वादिषूर्ध्वे तु प्रागग्रविधिना क्रमात् ॥ ३५ ॥
तन्मद्ध्ये विन्यसेद्रत्नमिन्द्रनीलमथेन्द्रके
मरतकं याम्यदेशे तु स्फटिकं वारुणे तथा ॥ ३६ ॥
वज्रं सौम्ये तु विन्यस्य पद्मरागन्तु पावके
वैडूर्यं नैर्ऋते देशे मुक्तां वायुप्रगोचरे ॥ ३७ ॥
प्रवालमैशे विन्यस्य माणिक्कं मद्ध्यमे न्यसेत्
ईशानेन तु मन्त्रेण स्तूपीदण्डं ततोपरि ॥ ३८ ॥
तन्मूले प्रोक्षयेन्मन्त्री कुम्भोदेन विशेषतः
पूजयेत् गन्धपुष्पाद्यैस्सुस्निग्धं बन्धयेत्ततः ॥ ३९ ॥
स्तूपीदण्डं त्रिभागैकं द्विभागेन तु बन्धयेत् ॥ ४० ॥
इति कारणे प्रतिष्ठातन्त्रे मूर्ध्नीष्टकाविधिपटलो दशमः