लिङ्गलक्षणविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि लिङ्गलक्षणमुत्तमम्
स्थावरं जङ्गमञ्चैव द्विविधं लिङ्गमच्यते ॥ १ ॥
शैलजं रत्नलोहैश्च मृन्मयेनैव कारयेत्
शिलामयन्तु यद्रूपम् अजविष्णुहरैर्युतम् ॥ २ ॥
त्रिसूत्रं मुकुलैर्युक्तं स्थावरं लिङ्गमुच्यते
शेषाण्यन्यानि सर्वाणि जङ्गमं लिङ्गमुच्यते ॥ ३ ॥
स्थावरं जङ्गमाच्छ्रेष्ठं स्थावरं त्वधुनोच्यते
सुमुहूर्ते सुनक्षत्रे शिलाग्रहणमारभेत् ॥ ४ ॥
मधुमाधवशुक्लेषु नभस्यकतपस्ययोः
तपस्यन्तेषु मासेषु शुक्लपक्षे शुभे दिने ॥ ५ ॥
अन्येषु सर्वमासेषु शिलारम्भं न कारयेत्
कृतञ्चेत् कर्तृनाशस्स्यात् स्थाननाशं धनक्षयम् ॥ ६ ॥
प्राजापत्येमखेत्वाष्ट्रे वैष्णवे मृगशीर्षके
सावित्रे चैव रेवत्याम् अनिले चोत्तरेषु च ॥ ७ ॥
मैत्रभेषु शुभेष्वेव शिलाग्रहणमारभेत्
आदिशैवकुले जातः पञ्चगोचरसंस्थितः ॥ ८ ॥
मन्त्रागमज्ञश्शास्त्रज्ञस्सर्वलक्षणसंयुतः
दिव्यन्तरिक्षभौमानि निमित्तान्युपलक्षयेत् ॥ ९ ॥
देवाग्निगुरुभक्तश्च देशिकस्समुदाहृतः
सुलेखासु गुणो धीमांश्छास्त्रज्ञः कर्मयोग्यकः ॥ १० ॥
वास्तुविद्याकृताभ्यासः शल्योद्धारविशारदः
मानानि रसमानज्ञः शिलादोषपरीक्षकः ॥ ११ ॥
सर्वलक्षणसंयुक्तः स्थपतिस्स उदाहृतः
शिवं सम्पूज्य विधिवत् ज्ञापयेद्देशिकोत्तमः ॥ १२ ॥
सितवस्त्रपरीधानौ गन्धमाल्यैरलङ्कृतौ
प्राच्यां वै चोत्तरायां वा गच्छेतां गुरुशिल्पिनौ ॥ १३ ॥
सर्वातोद्यसमायुक्तं नृत्तगेयसमाकुलम्
नानाभक्तजनैस्सार्द्धं ततो मङ्गलवाचकैः ॥ १४ ॥
शुभाशुभनिमित्तानि तस्मिन्काले परीक्षयेत्
वृषभं पूर्णकुम्भञ्च शङ्खं मांसं गजं ध्वजम् ॥ १५ ॥
कन्याञ्च पद्मपुष्पञ्च दीपगोभेरिकादिभिः
सितपुष्पं क्षितीशञ्च वेश्याञ्च छत्रपल्लवौ ॥ १६ ॥
ब्राह्मणं शुभवाक्यञ्च दीप्ताग्निं तुरभं फलम्
शुभान्येतानि सर्वाणि गन्तव्यपथिदर्शने ॥ १७ ॥
काकस्य रोदनञ्चैव शिवारावक्षुतं तथा
शुभप्रदानि वामे तु सर्वसिद्धिकराणि च ॥ १८ ॥
कुररश्चशशश्चैव डुण्डुभश्चवराहकः
श्येनश्च कौशिकश्चैव दक्षिणा द्वामगाश्शुभाः ॥ १९ ॥
जराङ्गीरक्तनेत्री च जम्बुकोनकुलः खरः
शुभान्येतानि सर्वाणि वामाद्दक्षिणगानि वै ॥ २० ॥
अमङ्गली प्रेतरूपः पतितः क्षुत्प्रपीडितः
विकर्णकेशो मुण्डश्च शाक्योदिग्वस्त्रकस्तथा ॥ २१ ॥
एतानि चाशुभान्येव सर्वदोषकराणि च
भौमान्येतानि चोक्तानि चान्तरिक्षमथोच्यते ॥ २२ ॥
निपातं च फलं पुष्फं शब्दो वा यदि जायते
अन्तरिक्षाणि चैतानि दिव्यानि तु वदाम्यहम् ॥ २३ ॥
विद्युत्स्तनितघोषैश्च सादित्यं वृष्टिपातनम्
शुभान्येतानि विज्ञेयान्यशुभानि निबोधमे ॥ २४ ॥
उल्कापातदिशोदाहं महावातप्रवर्तनम्
परिवेषमसृक्पातस्तारापातेन्द्रचापकौ ॥ २५ ॥
सुनिमित्तं भवेद्गच्छेद्दुर्निमित्तमधोस्थितः
हिमवान् हेमकूटश्च निषधो नील एव च ॥ २६ ॥
ऋक्षश्च माल्यवांश्चैव श्रीशैलश्च तथैव च
गन्धमादनशैलश्च मेरुस्तु नवमः स्मृतः ॥ २७ ॥
एते पर्वतराजानो महाशैलाः प्रकीर्तिताः
महेन्द्रोमलयश्चैव सह्योविन्ध्यस्तथैव च ॥ २८ ॥
अम्बुदोभ्युदयश्चैव पारियात्रस्तथैव च।
श्रीपर्वतश्च विख्यातो देवपर्वत एव च ॥ २९ ॥
एतेषां चैव सामीप्यं वनेषूपवनेषु च
भूमिश्चतुर्विधाज्ञेया शुभदा चाशुभङ्करी ॥ ३० ॥
यत्र गुल्मयुता स्निग्धा फलपुष्पसमन्विता
तत्र गृह्णीत यत्नेन शिलायां वारुणी स्मृता ॥ ३१ ॥
तयायत् त्रियते लिङ्गं तत्सर्वार्त्थप्रसाधनम्
यस्मात्तु सौम्यकेतोयं व्रीहिक्षेत्रन्तु दक्षिणे ॥ ३२ ॥
फलिनः क्षीरवृक्षा वा पूर्वे वा पश्चिमेऽपि वा
तत्रस्थायाशिलारम्या माहेन्द्री साशिला स्मृता ॥ ३३ ॥
धनधान्यविवृद्ध्यर्त्थं लिङ्गं स्यात्तु प्रजापतेः
पलाशखदिरानिम्बा काश्मर्याशक्रसंयुता ॥ ३४ ॥
तित्तिरा च कपोता च गृध्राश्चैव शवायनाः ।
मयूरभ्रमराकीर्णा स्वल्पतोयसमन्विताः ॥ ३५ ॥
अनिलासाविजानीयात् शिला तत्रानिलास्मृता
सदाशुभा बुधैर्ग्राह्या आभिचारायकल्पिता ॥ ३६ ॥
पीलुश्लेष्मातकाकीर्णा खादिरस्नुहि सङ्कुला
विभीतकाकबहुला कलिनाशर्करान्विता ॥ ३७ ॥
तृणोदकविहीना तु तरक्षुकुलसेविता
जम्बुका यत्र दृश्यन्ते तथैव मृगतृष्णया ॥ ३८ ॥
तत्र स्थायाशिलासा तु आग्नेयीति प्रकीर्तिता
तयालिङ्गं नकुर्वीत पण्डितश्शुभकर्मणि ॥ ३९ ॥
विपरीते तु कर्तव्या शत्रुनाशाय नान्यधा
एवं परीक्ष्यभूमिन्तु शिलां गृह्णीत देशिकः ॥ ४० ॥
सरित्सलिलनिर्धूतां पवित्रान्तर्जलेस्थिताम्
द्रुमच्छायोपगूढाञ्च तीर्त्थाश्रमनिषेविताम् ॥ ४१ ॥
आयामपरिणाहाढ्यां सर्वदोषविवर्जिताम्
ग्राह्यञ्च दृश्यं ह्युपलं शेषादृश्यन्तु वर्जयेत् ॥ ४२ ॥
यदनेन च तद्दृश्यं गृहीते धननाशनम्
पुत्रनाशञ्च सौभाग्यपुष्टीकरमदृश्यकम् ॥ ४३ ॥
यस्मिन् देशे शिलांशे ते प्राङ्मुखस्थपतिस्थितः
प्रदक्षिणं ततः कृत्वा शिर आदीनि लक्षयेत् ॥ ४४ ॥
पूर्वपश्चिममायामं तथा वै दक्षिणोत्तरम्
पूर्वमग्रमिति प्रोक्तं पश्चिमं मूलमुच्यते ॥ ४५ ॥
दक्षिणं मूलमित्युक्तमुत्तरं चाग्रमुच्यते
शिरोभागमुखं ज्ञेयमधोभागो विशेषतः ॥ ४६ ॥
दृश्यभागन्तु पृष्ठं स्यात्पार्श्वे पार्श्व इति स्मृताः
निर्ऋत्यांशकमायामं नीलानिलगतन्तथा ॥ ४७ ॥
ऐशाग्नेयौ शिरः प्रोक्तौ पृष्ठगावितरौ स्मृतौ
लाञ्छयित्वा कथं तत्र ततस्तत्क्षणमाचरेत् ॥ ४८ ॥
आचार्यश्शिल्पिभिस्सार्द्धं शिलामुद्धारयेत्क्रमात्
कुन्देन्दुहेमधवला शङ्खशुक्तिजातनिभा ॥ ४९ ॥
दधिसमासितवस्त्राभा विप्रशिला शेषशुक्लसमा
बालार्कपङ्कजाभारोहितबन्धूकपुष्पसङ्काशा ॥ ५० ॥
भुजगेन्द्रकोपसदृशाक्षत्रशिलाशेषरक्तसमा
कनकहरिद्रभासा हरितारनिभा सुकर्णिकारा ॥ ५१ ॥
चणकादिपीतवर्णा शुभशैलावैश्यजातसमा
नीलयुगराजवक्त्राम्बरनीलनीरदराशिनिभा ॥ ५२ ॥
बहिर्गलाङ्गाराभां यश्चेच्छिलां शूद्रजातीनाम्
मरतकशैलनिभा दूर्वाश्यामाभिवेणुकाभासा ॥ ५३ ॥
हरितश्चेतयुतायासा शिला च सर्वजातीनाम्
अनुलोमक्रमात् ग्राह्यं प्रतिलोमक्रमान्नहि ॥ ५४ ॥
स्त्रीपुन्नपुंसकाशैला बालावृद्धा च मद्ध्यमा
अष्टाश्रा चतुरश्रा वा स्त्रीशिला चेति निश्चिता ॥ ५५ ॥
वृत्तं नपुंसकं शैलं द्वादशं दशकोणकम्
आयताश्रञ्च पुल्लिङ्गं वृत्तायतन्तथैव च ॥ ५६ ॥
घण्टा शब्दस्तु पुल्लिङ्गं स्वरहीनं नपुंसकम्
तालशबदशिलाया तु साशिला युवती स्मृता ॥ ५७ ॥
दीर्घशब्दातुयावृत्ता ह्रस्वाबालेति कीर्तिता
एवं स्वरन्तु संलक्ष्य प्रहरेच्छिल्पिवित्तमाः ॥ ५८ ॥
बालवृद्धशिलायास्तु वर्जयेत्तु प्रयत्नतः
सकलं निष्कलं बेरं पुंसां पुंशिलया विदुः ॥ ५९ ॥
योजास्त्रीशिलया सम्यक् नारीबेरञ्च पीण्डिका
नपुंसकोपलेनैव ब्रह्मकूर्मशिले स्मृते ॥ ६० ॥
प्रासादशिलकुड्यादौ नपुंसकशिलां नयेत्
पुल्लिङ्गैः कल्पितापिण्डी राजराष्ट्रभयङ्करी ॥ ६१ ॥
युवत्याकलितं लिङ्गं सर्वप्राणिभयं करम्
नपुंसकेन लिङ्गं वा कृतञ्चेत् पिण्डिकाथवा ॥ ६२ ॥
दुर्भिक्षन्तु भवेत् भूमौ यजमानो विनश्यति
रेखाबिन्दुकलङ्कानि विमलं परिवर्जयेत् ॥ ६३ ॥
पृष्ठपादवदाकारा सूत्रपादवदायता
सूर्यरश्मिवदाकारा रेखा वै त्रिविधा स्मृता ॥ ६४ ॥
स्तनचूचुकसङ्काशो जम्बूफलसमप्रभः
बिन्दुरेवं समाख्यातः द्विविधेन प्रजापतेः ॥ ६५ ॥
बर्हिपिञ्छसमाकारं कृष्णामृगसमप्रभम्
कृष्णलोहवदाकारं कलङ्कं त्रिविधं भवेत् ॥ ६६ ॥
त्रासस्फटिकसङ्काशं शुक्त्यभ्यन्तरसन्निभम्
त्रासोपि द्विविधो ज्ञेयो विमलं त्रिविधं भवेत् ॥ ६७ ॥
शातकुम्भनिभञ्चैव दरीकृतसमप्रभम्
कांस्याभं विमलं ज्ञेयं सर्वदोषकरं भवेत् ॥ ६८ ॥
वेण्वङ्कुरवदाकारा लूतापातसमप्रभा
खर्जूरपत्रसदृशा दूर्वास्तम्भकसन्निभा ॥ ६९ ॥
इक्षोरग्रसमाकारा गिरिका पञ्चधा स्मृता
कृष्णशैलसितारेखा साप्रशस्तेति कीर्तिता ॥ ७० ॥
कृष्णकृत्स्नविनाशं स्यात् सितकृष्णासुगर्हिता
गिरिकाकृष्णशैले तु सितवर्णेन देशिकः ॥ ७१ ॥
खर्जूरपत्रसदृशा दूर्वास्तम्भा कृतिश्शुभा
अन्याकृतिर्न गृह्णीयाद्धान्यगो नाशनाय च ॥ ७२ ॥
कलङ्कं रोगदं ज्ञेयं त्रासं राष्ट्रविनाशनम्
बिन्दुः पुत्रविनाशस्स्याद्विमलं दुःखदं भवेत् ॥ ७३ ॥
श्वेतशैलन्तु मोक्षार्त्थी रक्तशैलं जयप्रदम्
पीतवर्णं सम्पत्करं कृष्णं स्यात्सर्वकामदम् ॥ ७४ ॥
श्यामञ्चैवाभिचारार्त्थं विधिलक्षणपूर्वकम्
बाह्यलक्षणमुद्दिष्टं श्रुणुष्वाभ्यन्तरं ततः ॥ ७५ ॥
चतुरश्रां शिलां सम्यक् फेदयेत्तु विचक्षणः
तक्षकश्छेदने चैव मण्डलं यत्र दृश्यते ॥ ७६ ॥
सगर्भान्तान्यबीजानि रत्नेन तु परीक्षयेत्
मञ्जिष्ठवर्णे मण्डूकं कर्कटो हरितालके ॥ ७७ ॥
पीते गोधासिते सर्पः खद्योतो मधुवर्णके
कपिले मूषिकं विद्यात्कृकलासमथारुणे ॥ ७८ ॥
गुलवर्णे तु पाषाणे कपोतौ ग्रहदौलिका
भस्माभेसिकतां विद्यात् स्फटिकाभे जलं स्मृतम् ॥ ७९ ॥
रक्तमण्डलके चित्रं चित्रवर्णे तु वृश्चिकम्
शफरं कृष्णचित्रे च किंशुकाभेन्द्रकोपकम् ॥ ८० ॥
एवं गर्भास्तु विज्ञेया बाह्यलक्षणलक्षिता
लक्षणन्नास्ति चेत् बाह्ये तेषां लोपानि लेपयेत् ॥ ८१ ॥
ब्रह्माणं वज्रपाणिञ्च शूलपाणिञ्च वैष्णवम्
अजाक्षीरेण संयोज्य उपलं लेपयेत्ततः ॥ ८२ ॥
लेपिते यदि क्लिन्नं स्यादेकरात्रोषितं तथा
सगर्भं तं विजानीयादभिगोधा च वृश्चिकम् ॥ ८३ ॥
कासीसम्पीतलोध्रञ्च गोक्षीरेण तु पेषयेत्
लेपितेन शिलान्तेन रुधिराभं यदा भवेत् ॥ ८४ ॥
दिवसैस्तु दिशैश्चैव एकरात्रोषितोऽपि वा
दर्दूरस्तत्र विज्ञेयः कूर्मो वाथ न संशयः ॥ ८५ ॥
पृथ्वीं त्रिशूलिनं ब्रांह्यं महिषीक्षीरवेष्टितम्
लेपिते तु शिलान्तेन रुधिराभा यथा भवेत् ॥ ८६ ॥
कृष्णमीनो भवेत्तत्र कृकलासमथापि वा
मुस्तकं करवीरञ्च कुष्ठं मासिफलत्रयम् ॥ ८७ ॥
एतानि पेषयित्वा तु स्त्रीस्तन्न्येन तु पेषयेत्
अश्मानं लेपयेत्तेन यदि स्याच्चिलिशिलेनकैः ॥ ८८ ॥
कालकूटविषन्तत्र न तु हस्तेन संस्पृशेत्
गर्भाणां लक्षणं ह्येवं शिलाग्रहणमारभेत् ॥ ८९ ॥
शोधयित्वा भुवं पश्चात्तत्समीपप्रदेशकम्
पञ्चगव्येन सम्प्रोक्ष्य पवमानमुदीरयेत् ॥ ९० ॥
गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च
सद्यादिब्रह्मभिर्दत्वा शिलां वस्त्रेण वेष्टयेत् ॥ ९१ ॥
तस्यैव पूर्वभागे तु होमकर्मसमारभेत्
समिदाज्येन चरुणा प्रत्येकन्तु शताहुतिः ॥ ९२ ॥
हृदयेन समिद्धोमं सर्पिरीशानमन्त्रतः
अघोरेण चरुं हुत्वा प्रत्येकं व्याहृतिर्हुनेत् ॥ ९३ ॥
ततस्त्विष्टकृतं हुत्वा परिषेचान्तमाचरेत्
शिलां प्रदक्षिणं कृत्वा दिग्देवानां बलिन्ददेत् ॥ ९४ ॥
एकरात्रं वसेत्तत्र स्वप्नेमाणवकं जपेत्
ओन्नमश्शम्भवे त्रिणेत्राय पिङ्गलाय महात्मने ॥ ९५ ॥
वामाय विश्वरूपाय स्वप्नाधिपतये नमः
आचक्ष्महे महादेव प्रसन्नोसितवान्तिकम् ॥ ९६ ॥
स्वप्नजातानि सर्वाणि हृदिस्थानि भवान्तु मे
ओं हिलिहिलि शूलपाणये स्वाहा ॥ ९७ ॥
दृष्टं स्वप्नं द्विजश्रेष्ठो ब्रांहणेभ्यो निवेदयेत्
दुस्वप्नञ्चेज्जपेद्धीमान् पाशुपतं सहस्रकम् ॥ ९८ ॥
वस्त्राङ्गुलीयकैश्चैव तोषयेत् गुरुशिल्पिनौ
शिलां सम्यक् गृहीत्वा तु लिङ्गं कुर्यात्तु बुद्धिमान् ॥ ९९ ॥
गर्भं विंशतिभागैश्च भजेद्दशाधमं भवेत्
रुद्रांशं मद्ध्यमं ज्ञेयं रव्यंशं चोत्तमं भवेत् १००
ज्येष्ठं कन्न्यसयोर्मद्ध्ये एतत् गर्भमिति स्मृतम्
विभजेदष्टधा गर्भं समं सूत्रविचक्षणः १०१
एवं कृते भवेद्यत्र न च लिङ्गानि सुव्रत
गर्भमानमिति प्रोक्तं हस्तमानमथ शृणु १०२
एकादि नवहस्तान्तं षडङ्गुलविवर्द्धनात्
आयामास्तु त्रयस्त्रिंशत् सङ्ख्यायाः परिकीर्तिताः १०३
एकहस्तप्रमाणन्तु हीनलिङ्गन्न कारयेत्
पञ्चहस्तं समारभ्य हर्म्यमानं विशेषतः १०४
हस्तमानेन लिङ्गन्तु कारयेद्देशिकोत्तमः
एवं लिङ्गोच्छ्रयं प्रोक्तं वक्ष्ये लिङ्गस्य विस्तरम् १०५
लिङ्गस्योत्सेधमानार्त्थम् अष्टधा विभजेत्ततः
विष्कम्भः पञ्चभागस्स्यादधस्ताच्चतुरश्रकम् १०६
अधस्ताच्चतुरश्रन्तु ब्रह्मभागं तदुच्यते
अष्टाश्रं मद्ध्यमं ज्ञेयं विष्णुभागं तदुच्यते १०७
ऊर्ध्वे सुवृत्तभागन्तु रुद्रांशमिति कीर्तितम्
नपुंसकन्तु ब्रंहांशो विष्णवंशस्त्रयविद्यते १०८
तत्पुमानूर्ध्वभागस्स्यादेवं सङ्कल्पितं त्रिधा
अर्द्धं कर्णस्य कर्णाभ्यामष्टमष्टाश्रमाङ्कितम् १०९
अथवान्यप्रकारेण वक्ष्ये वस्वश्रकस्य तु
व्यासप्तांशदश त्र्यंशमद्ध्यपट्टमथापि वा ११०
अष्टाश्रन्तु भवेत्सिद्धं षोडशाश्रमतः परम्
द्विचतुर्भागमद्ध्ये तु बिन्दुरेखादि कल्पितम् १११
अष्टाश्रस्यैकभागोर्ध्वं कोणात्तुलाञ्छयेत्ततः
षोडशाश्रं भवेत्सिद्धमश्रच्छेदेन वर्तुलम् ११२
यत्तु लिङ्गस्य चायामं नाहं तत्सममुच्यते
ज्येष्ठोत्तमन्तु लिङ्गस्य रुद्रभागस्य नाहकम् ११३
नाहार्द्धमष्टधा कृत्वा विष्कम्भं भूतभागिकम्
ज्येष्ठोत्तमस्य लिङ्गस्य विस्तारं हि विधीयते ११४
यत्तारं पञ्चभागैकं विभजेद्वसुभागिकम्
विस्तारमष्टलिङ्गानाम् एकैकन्तु विहीनकम् ११५
त्रिगुणीकृत्य विष्कम्भं भजेत्तारन्तु पञ्चधा
भागन्तेन समायोज्य सर्वेषां नाहमुच्यते ११६
समखण्डं वर्द्धमानं शैवाधिक्यं त्रिराशिकम्
लिङ्गं चतुर्विधं प्रोक्तं द्विजातीनामनुक्रमात् ११७
वर्द्धमानं शिवाधिक्ये सर्वजात्यर्हके स्मृता
चतुः पञ्चषडङ्गन्तु पञ्चषट्सप्तभागिकम् ११८
वर्द्धमानमिति प्रोक्तं विप्रादीनामनुक्रमात्
सप्तसप्ताष्टभागन्तु पञ्चपञ्चषडङ्गकम् ११९
वेदवेदशरांशन्तु गुणानलयुगांशकम्
एवं शिवाधिकं प्रोक्तं द्विजातीनां क्रमात्गृहे १२०
किञ्चिदस्मिन् विशेषोस्ति समखण्डस्य तं श्रुणु
लिङ्गस्योत्सेधमानन्तु चतुर्भागेन भाजयेत् १२१
आयामार्द्धं भजेदष्टविष्कम्भन्तु शरांशकम्
पक्षतारं भवेद्विष्णुस्तस्मात्तद्विगुणो हरः १२२
अग्रे मूले च मद्ध्ये च प्रमाणं सर्वतस्समम्
आयामन्नवधाकृत्वा वृत्तं षट्भागमुच्यते १२३
सप्तभागमथाष्टाश्रं तुर्यश्रं वसुभागिकम्
त्रैराशिकमिति ज्ञेयं धनधान्य सुखावहम् १२४
धारालिङ्गमथो वक्ष्ये श्रूयतान्तु प्रजापतेः
पादादूर्ध्वकपर्यन्तं धारालिङ्गं प्रशस्तकम् १२५
अधोवेदाश्रकं कुर्यात्तदूर्ध्वे त्वष्टधारया
एतत् द्विजमहाप्राज्ञ सर्वकामप्रसाधनम् १२६
ऊर्ध्वे षोडशधाराच्च भोगार्थी लभते सखम्
एवं क्रमेण संयुक्तं धारालिङ्गमिति स्मृतम् १२७
शिरसो वर्तनं कुर्यात् तच्चतुर्विधमुच्यते
छत्राकारन्तु विप्राणां नृपाणां कुक्कुटाण्डकम् १२८
वैश्यानाञ्चैव खण्डेन्दु शूद्राणां तृपुषाकृतिः
कृत्वा लिङ्गं शिरस्तारं षट्भागेन समं बुधः १२९
सार्द्धेनैव द्विभागेन चित्रितं तृपुषाकृतिं
विस्तारन्तु त्रिधाकृत्वा त्रिभागेन तु वर्तितुम् १३०
अर्द्धचन्द्र इति प्रोक्तं सर्वकामफलप्रदम्
कुक्कुटाण्डं भवेत्तत्र विस्तारार्द्धेन वर्तनम् १३१
अष्टधाविभजेत्तारमद्ध्यर्द्धेन तु वर्तितम्
चन्द्रशीर्षकमित्युक्तं सर्ववर्णेषु योग्यकम् १३२
मानहीने महाव्याधिरधिके शत्रुवर्द्धनम्
नाहहीने तु दारिद्र्यं शिरोहीने धनक्षयम् १३३
मूलहीने विनाशं स्यात्सूत्रहीने कुलक्षयम्
तस्मात्सर्वप्रयत्नेन कारयेल्लक्षणान्वितम् १३४
मुखलिङ्गं ततो वक्ष्ये सर्वकामार्त्थसाधनम्
पूजाभागं समस्तन्तु द्विषष्ट्यंशं भजेत्क्रमात् १३५
त्रयोदशाङ्गुलार्द्धन्तु मुखमेकं प्रकीर्तितम्
शराननञ्चतुर्वक्त्रं त्रिवक्त्रं चैकवक्त्रकम् १३६
चतुर्दिक्षु चतुर्वक्त्रं त्रिवक्त्रं पृष्ठहीनकम्
कुर्वेकवक्त्रमूर्ध्वे तु मुखमानेन बुद्धिमान् १३७
मकुटेनोर्ध्ववक्त्रन्तु त्रयोदशार्द्धाङ्गुलेन तु
ग्रीवामूलात्स्तनान्तं स्यादर्द्धाधिकं त्रयोदश १३८
स्तनसूत्रविधिर्यावत्कारयेत् द्विभुजान्वितम्
प्रतिमालक्षणोक्तेन मार्गेणैव समाचरेत् १३९
शेषं लिङ्गवदाकारं कारयेल्लक्षणान्वितम्।
वक्त्रलिङ्गप्रमाणन्तु प्रोक्तं पीठमथ श्रुणु १४०
स्त्रीशिलां तु परिग्राह्य पीठं कुर्याद्विशेषतः
लिङ्गविस्तारमानेन त्रिगुणं पीठविस्तृतम् १४१
कर्णा द्विगुणमेवं वा त्रिगुणं पीठविस्तृतम्
कर्णस्य द्विगुणार्द्धं वा लिङ्गदैर्घ्य समन्तु वा १४२
गर्भगेहं त्रिधाभज्य भागैकं पीठविस्तृतम्
लिङ्गमानेन हर्म्यं स्यात् लिङ्गमानेन पिण्डिका १४३
पूर्वाकृतिर्यथापीठं तथाकुर्यात्पुनःपुनः
अन्याकृतिर्न कर्तव्या कृता चेत् कर्तृनाशिनी १४४
वेदाश्राष्टाश्रमानन्तु विभजेदष्टधा पुनः
गुणभागमधस्त्यक्त्वा बाणांशं पीठकोच्छ्रयम् १४५
ब्राह्म्य वैष्णवमानन्तु षोडशांशेन भाजयेत्
सप्तभागमधो मुक्त्वाग्रहांशं पिण्डिकोच्छ्रयम् १४६
पीठोत्सेधन्तु यन्मानं विकारांशेन भाजयेत्
पक्षांशं पट्टिका प्रोक्ता बाणांशं पद्मपिण्डकम् १४७
अंशद्वयेन वृत्तं स्यात् वेदांशम् ऊर्ध्वपद्मकम्
तस्योर्ध्वे पट्टिका द्वाभ्यामंशेन घृतवारिणी १४८
पीठतारं त्रिभागैकं नालनिर्गममुच्यते
तत्समं मूलविस्तारं तत्त्रिभागैकमग्रतः १४९
उत्तरे जलमार्गं स्यात् सोमस्याभिमुखं भवेत्
मद्ध्ये खातं त्रिभागैकं क्रमेण कृशता भवेत् १५०
एवं तु पद्मपीठं स्यात् भद्रपीठमथोच्यते
पूर्ववत् षोडशांशेन पीठोत्सेधं भजेत्ततः १५१
व्योमांशं पादुकोत्सेधं वेदांशं जगती भवेत्
अन्यांशं वृत्तमित्युक्तं भागैकेन तु पट्टिका १५२
गुणांशं कर्णमित्युक्तं भागैकेन तु पट्टिका
महापट्टिद्वयांशेन घृतवारितथांशकम् १५३
एवं स्यात् भद्रपीठन्तु सर्वलिङ्गेषु योग्यकम्
एकविंशति भागेन पीठोत्सेधं विभाजयेत् १५४
अंशेन पादुकां कुर्याच्चतुर्द्धा जगतीं कुरु
कर्णमेकेन कर्तव्यं पद्ममेकांशमेव च १५५
तत्कुम्भं त्रिभिरंशैश्च पद्ममेकांशमेव च
कुर्यादेकेन कम्पन्तु पक्षांशेनैव कर्णकम् १५६
कम्पमेकेन कर्तव्यं पद्ममेकेन कारयेत्
महापट्टिद्विभागाभ्यां पद्ममेकांशकेन तु १५७
तस्योर्ध्वे पट्टिकैकेन घृतवारितथांशकम्
विजयन्नामपीठन्तु सर्वशान्तिकरं परम् १५८
विभजेत्पिण्डिकोत्सेधम् अष्टादशविभागतः
एकेन पादुकां कुर्यादद्ध्यर्द्धं कम्पपद्मयोः १५९
जगती चतुरंशं स्यात् गुणांशेनैव वप्रकम्
तदूर्ध्वे कम्पमेकांशं द्वाभ्यां वै पट्टिका भवेत् १६०
पद्ममेकेन कर्तव्यमर्द्धेन घृतवारिणा
स्वायम्भुवमिति प्रोक्तं सर्वदेवेषु योग्यकम् १६१
विकारांशेन विभजेत् भागेनोपानमुच्यते
पद्मतुण्डविभागेन कम्पमेकेन कारयेत् १६२
सप्तांशं कर्णमित्युक्तं द्वाभ्यां वै कम्पपद्मको
अद्ध्यर्द्धेन महापट्टी पद्ममर्द्धेन कारयेत् १६३
कम्पमर्द्धेन कर्तव्यमर्द्धेेन घृतवारिणा
स्थण्डिलं स्यादिदं पीठं सर्वदेवेषु पूजितम् १६४
भागार्द्धं तत्त्रिपादं वा समं वा शेषनिर्गमम्
मूलादष्टांशमग्रे तु हीनं स्यात् पद्मपीठके १६५
सर्वेषामेव पीठानाम् उपानात् पीठविस्तरम्
पीठिकालक्षणं प्रोक्तं पादशैलविधिं श्रुणु १६६
नपुंसकशिलां ग्राह्य पादाधारञ्च कल्पयेत्
ज्येष्ठमद्ध्यमकानिष्ठं त्रिविधं पादशैलकम् १६७
लिङ्गायामसमं शैलम् उत्तमं परिकीर्तितम्
यस्य लिङ्गस्य विस्तारं द्विगुणं पादशैलकम् १६८
मद्ध्यमं त्विति विज्ञेयम् अद्ध्यर्द्धं कन्न्यसं भवेत्
समं वै चतुरश्रन्तु तदर्द्धं बहुलं भवेत् १६९
प्रासादमध्यसूत्रात्तु किञ्चिद्वामेति योजयेत्
मद्ध्येमेत्ववटं कुर्याल्लिङ्गविस्तारमानतः १७०
अथवाश्वभ्रविस्तारं गर्भक्ष्मार्द्धार्द्धमुच्यते
ब्रंहभागप्रवेशं हि ज्ञात्वा ब्रह्मशिलोच्छ्रयम् १७१
श्वभ्रावकाशं सन्त्यज्य ब्रंहभागान्तमेव च
नन्द्यावर्तशिलां योज्य चत्वारियुगदिक्षु च १७२
पूर्वपश्चिममायामं तथा वै दक्षिणोत्तरम्
पश्चात्पश्चिमपूर्वन्तु तत्पश्चादक्षिणोत्तरम् १७३
लिङ्गस्याद्ध्यर्द्धतारेण दैर्घ्यं तस्यार्द्धं विस्तृतम्
तदूर्ध्वे पिण्डिकां योज्य बन्धयेदष्टबन्धनैः १७४
पादाधारपदे मद्ध्ये स्थापयेल्लिङ्गमुत्तमम्
ताश्च तां पुंशिलां सक्तां शैलचूर्णोऽपि बन्धयेत् १७५
प्रदक्षिणक्रमेणैव योजयेत्तु विशेषतः
शैललिङ्गमिति प्रोक्तं रत्नलिङ्गविधिं श्रुणु १७६
द्विविधं तत्समाख्यातं चलञ्चैवाचलन्तथा
स्थिरं प्रासादलिङ्गन्तु चलं सर्वत्र पूज्यते १७७
मरतकं पुष्टिदं ज्ञेयं पद्मरागं धनार्त्थकम्
आयुष्यवृद्धिवैडूर्यं स्फटिकं पुत्रवर्द्धनम् १७८
स्तम्बनं पुष्यरागस्स्यात् दृष्टवश्यं प्रवालकम्
आकर्षणं स्यात् विद्व्राख्यं माणिक्कं सर्वसिद्धिदम् १७९
इन्द्रनीलन्तु मोक्षार्थं रत्नजानां फलं भवेत्
अङ्गुल्यादिवितस्त्यन्तं कुर्याल्लिङ्गन्तु रत्नजम् १८०
आयामसदृशन्नाहं शिरोवर्तनसंयुतम्
स्वप्रमाणेन कर्तव्या रत्नलिङ्गस्य पिण्डिका १८१
पिण्डिकास्वस्वयोनिस्स्यात् तदभावे हिरण्मयम्
रजतं ताम्रकञ्चैव अधमञ्चेति कीर्तितम् १८२
चतुरश्राथ वृत्ता वा चललिङ्गस्य पिण्डिका
आयामद्विगुणार्द्धं वा द्विगुणं त्रिगुणन्तु वा १८३
विस्तारं तत्समं ज्ञेयं शेषं पूर्वोक्तवत् कुरु
लिङ्गायाम त्रिभागैकं पीठमद्ध्ये निवेशयेत् १८४
सर्वत्र वृत्तकं लिङ्गं त्रिभागं सूत्रवर्जितम्
रत्नलिङ्गं समाख्यातं लोहजं लिङ्गमुच्यते १८५
सौवर्णेन कृतं लिङ्गं भुक्तिमुक्तिफलप्रदम्
ताम्रजं पुत्रदं प्रोक्तं राजतं श्रीकरं भवेत् १८६
सुखदं कांस्यमित्युक्तं पैत्तलं रोगनाशनम्
आयसम्पुत्रनाशन्तु त्रिलोहं मारणं भवेत् १८७
तथा चत्रपुसीसन्तु कल्पयेत्कल्पवित्तमः
रत्नजस्योक्तमार्गेण सर्वकर्मसमाचरेत् १८८
पञ्चवार्षिककां कन्यामलङ्कृत्यविशेषतः
तया संस्पर्शितं लिङ्गं तन्मुखञ्चेति कीर्तितम् १८९
लोहलिङ्गमिति प्रोक्तं पार्त्थिवं लिङ्गमुच्यते
अपक्वञ्चैव पक्वञ्च पार्त्थिवं लिङ्गमुच्यते १९०
पार्त्थिवस्य तु लिङ्गस्य शैलवन्मानमिष्यते
यावदुत्सेधमानन्तु तावद्वृत्तमिहोच्यते १९१
तालनिम्नगमेकांशम् एकांशं पीठबन्धनम्
त्रिसूत्रेण विना कुर्याच्चतुरष्टाश्रवर्जितम् १९२
पर्वताग्रेन दीतीरे पुण्यक्षेत्रे मनोरमे
लिङ्गार्त्थं मृत्तिकाग्राह्या प्रशस्ता सर्वकामदा १९३
श्वेतरक्ता तथापीता कृष्णा चैव मनोरमा
श्लक्ष्णञ्चूर्णं ततः कृत्वा पञ्चगव्येन मर्दयेत् १९४
कपिलन्तु घृतं क्षीरं दधिवा तैलमेव च
यवगोधूमजं चूर्णं माषचूर्णं तथासमम् १९५
आहृत्य सर्वचूर्णानि मृत्तिका सहितानि च
मर्दयेत्तु विशेषेण श्यामलाक्षाञ्च कुन्दुरुम् १९६
श्रीवेष्टं गुग्गुलुञ्चैव सर्जगन्धरसं तथा
बिल्वोद्भवं रसं ग्राह्यमेकीकृत्य विमर्दयेत् १९७
पञ्चनिर्याससंयुक्तं मासपक्षोषितन्तथा
ततो लिङ्गं प्रकुर्वीत श्रेष्ठमद्ध्यमकन्न्यसम् १९८
पार्त्थिवं लिङ्गमाख्यातं पिण्डिकां तस्य मृण्मयीम्
लिङ्गविस्तारमानेन त्रिगुणं पीठविस्तरम् १९९
पूजयेत्तु प्रयत्नेन धर्मकामार्थमोक्षदम्
शान्तिपुष्टिकरं नित्यं पृथिवी राज्यसिद्धिदम् २००
एवं यः कुरुते मर्त्यस्स पुण्याङ्गतिमाप्नुयात् २०१
इति कारणागमे प्रतिष्ठा तन्त्रे लिङ्गलक्षणविधिपटलो नवमः