प्राकारलक्षणविधिपटलप्रारम्भः
अथातः सम्प्रवक्ष्यामि प्राकाराणान्तु लक्षणम्
अन्तर्मण्टपमाद्यं स्यादन्तर्द्वारं द्वितीयकम् ॥ १ ॥
मध्यहारं तृतीयन्तु पश्चान्मर्यादिभित्तिकम्
महामर्यादिभित्तिस्तु पञ्चमः परिकीर्तितः ॥ २ ॥
प्रासादस्य तु विस्तारं यत्तद्दण्डमिहोच्यते
अर्द्धदण्डप्रमाणेन अन्तर्मण्टपकं कुरु ॥ ३ ॥
अन्तर्हारन्तु दण्डेन मद्ध्यहारं द्विदण्डतः ।
मर्यादिभित्तिकं कुर्याच्चतुर्दण्डेन बुद्धिमान् ॥ ४ ॥
महामर्यादिभित्तिञ्च सप्तदण्डेन कल्पयेत्
दण्डमानमिति प्रोक्तं हस्तमानं ततश्श्रुणु ॥ ५ ॥
चतुर्हस्तप्रविस्तारमन्तर्मण्टपमादिशेत्
अन्तर्हाराष्टहस्तेन भवेत् द्वादशहस्तके ॥ ६ ॥
मद्ध्यहारन्तु कर्तव्यं ततष्षोडशभिः करैः
मर्यादिभित्तिकं कुर्यात् विंशद्धस्तविशालकम् ॥ ७ ॥
महामर्यादिभित्तिस्स्यात्प्राकारं पञ्चधा विदुः
समन्तादेवमावृत्य तद्बहिर्वदनात्पदम् ॥ ८ ॥
प्रासादाग्रे विशेषेण वक्त्रायामं प्रकल्पयेत्
पादं वार्द्धत्रिपादं वा अधिकं द्विगुणन्तु वा ॥ ९ ॥
द्विगुणादधिकार्द्धन्तु त्रिगुणं वा चतुर्गुणम्
मुखायाममिति ख्यातमुपानात्तस्य निर्गमम् ॥ १० ॥
उत्तमं त्वितिविख्यातं कुमुदं मद्ध्यमं स्मृतम्
पात् बाह्ये निर्गमञ्चैव कन्न्यसं परिकीर्तितम् ॥ ११ ॥
उपानकुमुदस्तम्भबाह्यदण्डत्रयं स्मृतम्
तत्तल्लोकस्य कार्याणि तत्तद्दण्डेन कल्पयेत् ॥ १२ ॥
मानसूत्रस्य बाह्ये तु भित्तिरभ्यन्तरेऽपि वा
मानसूत्रन्तु यद्भित्तिर्मद्ध्यमं वापि कारयेत् ॥ १३ ॥
महामर्यादिभित्तेस्तु तारं षट्त्रिंशदङ्गुलम्
अग्न्यङ्गुलक्षयेणैव गायत्रीयाङ्गुलान्तकम् ॥ १४ ॥
प्राकारभित्तिविस्तारं चतुर्णां परिकीर्तितम्
पद्मपादसमोत्तुङ्गं प्रस्तारन्तु समन्तु वा ॥ १५ ॥
चतुष्करं त्रिहस्तोच्चं द्विहस्तोत्तुङ्गमेव च।
द्विहस्तञ्च द्विहस्तार्द्धं त्रिहस्तञ्च त्रिहस्तकम् ॥ १६ ॥
प्रोक्तं महावृतं हर्म्यं विस्तारन्तु चतुर्विधम्
पञ्चप्राकारयुक्तं वा त्रिप्राकारयुतन्तु वा ॥ १७ ॥
एकप्राकारसंयुक्तं कल्पयेत्कल्पवित्तमः
मर्यादिभित्तिकर्णोक्त्या अन्तर्मण्टपकं तथा ॥ १८ ॥
शेषप्राकारकैर्युक्तं त्रिःप्राकारमिति स्मृतम्
अथ चैवं प्रकारेण त्रिप्राकारमिहोच्यते ॥ १९ ॥
अन्तर्मण्डलकं चैव मर्यादिर्मद्ध्यहारकम्
त्यक्त्वैवान्यच्च शेषन्तु त्रिप्राकारमिति स्मृतम् ॥ २० ॥
एकप्राकारकञ्चेत्तु अन्तर्द्वारयुतं कुरु
भित्यूर्ध्वें सुदृढं कुर्याच्छत्राकारं शिरस्तथा ॥ २१ ॥
अथवा बद्धहर्म्ये तु कूटशालायुतन्तु वा
प्राकारे तु द्वितीये वा मौलिका कृतिरेव वा ॥ २२ ॥
सभाकृतिर्वा कर्तव्या त्रितलं वा द्विभूमिकम्
कारयेत्तु विशेषेण प्राकारं प्रतिगो पुरम् ॥ २३ ॥
शरादिनवहस्तं वा एकादशकरन्तु वा
त्रयोदशकरं वापि गोपुराणान्तु विस्तरम् ॥ २४ ॥
पादादिकमथाद्ध्यर्द्धं पादोन द्विगुणायतम्
प्राकारशिखरान्तं वा स्थूप्यन्तं वा समुच्छ्रयम् ॥ २५ ॥
हर्म्यगोपुरकंयापि शालाकृतिरथापि वा
मौलिकाकृतिकंवापी कुर्यादेव तु गोपुरम् ॥ २६ ॥
गोपुरद्वारतुङ्गं स्यादुपानादुत्तरान्तकम्
द्वारस्यैव चतुर्दिक्षु प्राकारेषु प्रकल्पयेत् ॥ २७ ॥
प्राकारे तु द्वितीये वा तृतीये पावके दिशि
पवनालयं तु कर्तव्यं चतुश्शालासमन्वितम् ॥ २८ ॥
द्वितीय्य प्राकारैशान्ये कूपस्थानं प्रकीर्तितम्
शक्रशाङ्करयोर्मद्ध्ये वार्यस्थानं प्रकीर्तितम् ॥ २९ ॥
आग्नेयशक्रयोर्मद्ध्ये धनस्थानमुदाहृतम्
याम्यपावकयोर्मद्ध्ये पुष्पमण्टपमुच्यते ॥ ३० ॥
कुर्यात्स्नानाम्बुजालन्तु याम्यनैर्ऋतिमद्ध्यमे
वारुणे नैर्ऋतेर्मद्ध्ये धर्मश्रवणमण्टपम् ॥ ३१ ॥
वारुणानिलयोर्मद्ध्ये कुर्यादायुधमण्टपम्
वायव्य सोमयोर्मद्ध्ये शयनस्थानमुच्यते ॥ ३२ ॥
ईशानसोमयोर्मद्ध्ये यागमण्टपमुच्यते
सौम्ये तु मध्यहारायां कुर्यादास्थानमण्टपम् ॥ ३३ ॥
अधुनादेशिकादीनामावासन्तु विधीयते
बाह्यप्राकारबाह्ये च द्विदण्डं वार्द्धमेव वा ॥ ३४ ॥
व्यपोह्यसौम्यके देशे देशिका वा समुच्यते
कर्तव्यं मौलिकाकारं चतुश्शालाग्रकन्तु वा ॥ ३५ ॥
पश्चिमे परिचाराणामावासं परिकीर्तितम्
भिषजान्तु गृहं याम्ये दैवज्ञानां तथैव हि ॥ ३६ ॥
अम्बष्ठानां तु तत्रैव वाद्यकानामथेैन्द्रके
शैवानाञ्चैव सर्वेषां प्राच्यामावासमुच्यते ॥ ३७ ॥
महाप्रतीनां वह्नौ तु याम्ये पाशुपतालयम्
निर्ऋतौ कालमुखानान्तु बौद्धानां वारुणे तथा ॥ ३८ ॥
वायव्ये चार्हतानान्तु सौम्ये भूसुरसत्रकम्
ज्ञानाभ्यासाय शालान्तु ऐशान्ये सम्प्रकल्पयेत् ॥ ३९ ॥
इन्द्र आग्नेययोर्मद्ध्ये कार्यं खातजलाशयम्
याम्यपावकयोर्मद्ध्ये जलदानप्रपां कुरु ॥ ४० ॥
याम्यनैर्ऋतयोर्मद्ध्ये गोशालां सम्प्रकल्पयेत्
निर्ऋतिवारुणयोर्मद्ध्ये कर्तव्यं सूतिकागृहम् ॥ ४१ ॥
वारुणानिलयोर्मद्ध्ये रोगार्तानां निवेशनम्
कुर्यादक्षरशिक्षार्त्थं कुबेरानिलमद्ध्यमे ॥ ४२ ॥
उत्तरेशानयोर्मद्ध्ये धान्यस्थानमुदाहृतम्
ईशानशक्रयोर्मद्ध्ये वेदाद्ध्ययनमण्टपम् ॥ ४३ ॥
तत्बाह्ये कल्पयेद्विद्वान् स्त्रीणां रागोपजीविनाम्
क्रयविक्रयकानाञ्च पुष्पतैलोपजीविनाम् ॥ ४४ ॥
कुलालतन्तुवायानां मत्स्यमांसोपजीविनाम्
नापितश्मश्रुकाराणां गोपालानान्तु कारुभिः ॥ ४५ ॥
रक्षकाणामथावासमापणस्थानमेव च
बाह्ये त्वैशान्यदेशे तु श्मशानस्थानमुच्यते ॥ ४६ ॥
बाह्योत्तरे तु कर्तव्यं तक्षकादिनिवासनम्
आवासं तत्बहिः कुर्यात् रजकानां तथैव च ॥ ४७ ॥
चण्डालानां कुटीराणि तद्बाह्ये तु प्रकल्पयेत्
एवं स्वतः प्रधानस्य कल्पयेद्देशिकोत्तमः ॥ ४८ ॥
वास्त्वङ्गं कल्पयेद्धीमान् ग्रामे पैशाचिके पदे
ग्रामतारशरांशैकं ग्रामबाह्ये विनिक्षिपेत् ॥ ४९ ॥
तत्पैशाचमिति ज्ञेयं ग्रामं पैशाचसंयुतम्
शतं चतुश्चत्वारिंशदधिकं कारयेत् पदम् ॥ ५० ॥
कर्णसूत्रं ततः कृत्वा ऐशद्वयांशकेऽपि च
इन्द्र ईशानयोर्मद्ध्ये सोमशाङ्करमद्ध्यमे ॥ ५१ ॥
यथेष्टं कारयेद्धीमान् प्रासादतोरणस्य तु
तत्स्थाने स्थापयेल्लिङ्गं वास्त्वङ्गं विधिना तथा ॥ ५२ ॥
अन्यथा पुरदुर्गादौ शिवस्थानमिहोच्यते
अष्टासु दिक्षु मद्ध्ये च शिवस्थानं प्रकल्पयेत् ॥ ५३ ॥
पूर्वपश्चिमदिक् द्वारं पुरप्रवरपूर्वकम्
ग्रामे च सर्वदिक्ष्वे च पैशाचात् बहिरिष्यते ॥ ५४ ॥
महेशं कारयेम्भोधिं सद्योवास्तु समीष्यते
तत्सभ्रमाद्विमर्यादि कुदृष्टिरहितश्शिवः ॥ ५५ ॥
वास्त्वङ्गस्थापनाच्चापि स्वप्रधाने शिवस्थितः
तत्फलं कोटिगुणितं साधयेत् विधिना ततः ॥ ५६ ॥
ग्रामन्यासोक्तमार्गेण सर्वेषान्तु निवासनम् ॥ ५७ ॥
इति कारणागमे प्रतिष्ठातन्त्रे प्राकारलक्षणविधिपटलोष्टमः