००७ प्रासादलक्षणविधिपटलः

प्रासादलक्षणविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि प्रासादानान्तु लक्षणम्
प्रासादं भवनं सद्मगृहं धामनिकेतनम् ॥ १ ॥

विमानं सदनं हर्म्यं वासो मन्दिरमालयम्
निलयस्त्विति विख्यातास्तस्याः पर्यायवाचकाः ॥ २ ॥

अङ्गुलं त्रिविधं प्रोक्तं पूर्वमानाङ्गुलं भवेत्
मात्राङ्गुलं द्वितीयन्तु देहलब्धं तृतीयकम् ॥ ३ ॥

जालान्तरगतं रश्मेर्दृश्यादृश्यं तु यद्रजः
परमाणुस्तदाख्यातं रेणुरोमकलीक्षुका ॥ ४ ॥

यूकं यवं क्रमेणैव वृद्धिरष्टाङ्गुलैस्तथा
यवोदराष्टविस्तारमङ्गुलञ्चेति कीर्तितम् ॥ ५ ॥

अङ्गुलं द्वादशन्तालं किष्कुहस्तञ्च तत्द्वयम्
प्राजापत्यकरं प्रोक्तं पञ्चभिर्विंशदङ्गुलम् ॥ ६ ॥

षड्विंशति धनुर्मुष्टिस्सप्तविंशद्धनुग्रहम्
शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु ॥ ७ ॥

प्रासादादीन् सभां शालां मौलिकां मण्टपं गृहम्
प्राजापत्य करेणैव कारयेत्तु विचक्षणः ॥ ८ ॥

राजधान्यादिकं राजभवनञ्च तटाहकम्
दुर्गाञ्चैव प्रकर्तव्यं धनुर्मुष्टिकरेण तु ॥ ९ ॥

कुर्याद्धनुग्रहेणैव नद्याध्वानं विशेषतः

मानाङ्गुलेन हस्ताभ्यां लक्षणं परिकीर्तितम् ॥ १० ॥

मध्यमस्य करे दक्षे मध्याङ्गुल्यास्तु मध्यमम्
पर्वदीर्घन्तु यत्तुल्यं मात्राङ्गुलमिति स्मृतम् ॥ ११ ॥

यागोपकरणं सर्वं कुर्यान्मात्राङ्गुलेन तु
गृहीतप्रतिमायामा तत्तालाङ्गुलिसङ्ख्यया ॥ १२ ॥

भजेत्तेष्वेकभागन्तु देहलब्धाङ्गुलं स्मृतम्
कन्यसं मद्ध्यमं श्रेष्ठं त्रिविधं भवनं स्मृतम् ॥ १३ ॥

त्रिहस्तन्तु समारभ्य षट् तालान्तं क्रमेण तु
एकत्रिंशतिहस्ताच्च द्विद्विहस्तविवर्द्धनात् ॥ १४ ॥

सप्तभूमिं समारभ्य क्रमादर्कतलान्तकम्
उत्तमं त्विति विख्यातं कारयेल्लक्षणान्वितम् ॥ १५ ॥

विस्तारद्विगुणोत्सेधं कन्न्यसस्य प्रकीर्तितम्
विस्तारं सप्तधा कृत्वा रव्यंशं मध्यमोच्छ्रयम् ॥ १६ ॥

विस्तारं पूर्ववत्कृत्वा रुद्रांशम् उत्तमोच्छ्रयम्
प्रासादस्य तु विस्तारं त्रिभिरंशैर्विभाजयेत् ॥ १७ ॥

एकांशं गर्भगेहन्तु शेषं भित्तिरिति स्मृतम्
विस्तारं पञ्चधा कृत्वा गुणांशं वाथ गर्भितम् ॥ १८ ॥

विस्तारं सप्तधा कृत्वा गर्भं वेदांशकेन वा
विस्तारं दशधा कृत्वा गर्भमृत्वंशमेव वा ॥ १९ ॥

लक्षणेनालयं कुर्याल्लिङ्गमानवशादपि
लिङ्गत्रितारकं पीठं गर्भपीठं त्रितारकम् ॥ २० ॥

तद्बाह्ये पीठतारेण भित्तिं कुर्यात्समाहृतम्
अथवा गर्भविस्तारं पीठतारचतुर्गुणम् ॥ २१ ॥

पीठतारात् द्विगुणितं गर्भार्द्धं भित्तिविस्तृतम्
समं त्रिपादमर्द्धं वा हर्म्यस्य वक्त्रमष्टपम् ॥ २२ ॥

अधोना सम्प्रवक्ष्यामि एकभूमेः प्रमाणकम्

षड्वर्गसहितं कुर्यात् लक्षणेन समन्वितम् ॥ २३ ॥

विस्तारयुगभागैकं वस्वाधारस्य चोच्छ्रयम्
पादवर्गसमं तस्य द्विगुणञ्चेति कीर्तितम् ॥ २४ ॥

प्रस्तरञ्चरणार्द्धन्तु तत्समं ग्रीवमुच्यते
शिखरञ्चरणायामं स्थूप्युत्सेधं तदर्द्धकम् ॥ २५ ॥

समन्तारचतुर्विंशत् भागैकं पादतारकम्
पञ्चविंशतिभागैकं वैकं षड्विंशदंशके ॥ २६ ॥

पादविष्कम्भकं यत्तद्दण्डञ्चेति प्रकीर्तितम्
दण्डाष्टांशैकहीनं यदग्रपादस्य तारकम् ॥ २७ ॥

धरातलोपरिष्टात्तु पादवर्गन्तु कारयेत्
स्तम्भस्थूणञ्च पादञ्च स्थाणुर्दारुतलाङ्घ्रयः ॥ २८ ॥

जङ्घा च चरणेनैव पर्याय वचनानि च
व्योमाग्निवर्तिभिर्वापि भूताब्धिपतिभिस्तु वा ॥ २९ ॥

समतारेङ्घ्रिवर्गे तु एकभूमेस्तु कारयेत्
कृत्वा वेदिं द्विदण्डेन वस्वाधारस्य चोपरि ॥ ३० ॥

तस्यायामन्तु नवधा अ-त्वैकांशेन पट्टिका
कन्धरन्तु युगांशेन अंशेनाधारपट्टिका ॥ ३१ ॥

पक्षांशा वेदिकाप्रोक्ता व्योमांशाचोर्ध्वपट्टिका
उत्तराधस्त्रिपादेन दण्डछ्रयपरिग्रहेत् ॥ ३२ ॥

तत्स्थाने ताटिकोत्सेधं दण्डार्द्धञ्चेति कीर्तितम्
तद्दैर्घ्यं रसधाभज्य एकेन गिरिकाद्वयम् ॥ ३३ ॥

गिरिकायान्तु विस्तारमग्रपादसमं भवेत्
एकेन वृत्तकं कुर्यात् पक्षांशेन सरोरुहम् ॥ ३४ ॥

द्विभागेनास्यकन्तस्य द्वारमद्ध्यर्द्धदण्डकम्
तस्योर्ध्वे दण्डमानन्ता रसभागेन भाजयेत् ॥ ३५ ॥

एकांशां गुलमित्युक्तं तत्तारञ्चग्रपातवत्

कुम्भोच्चन्तु युगांशेन द्विदण्डं तस्य विस्तरम् ॥ ३६ ॥

वृत्तमेकेन कर्तव्यम् उत्तारमग्रपातवत्
तस्योर्ध्वेचैव पादेन द्विदण्डं नवधाभवेत् ॥ ३७ ॥

पद्मं कुर्यात्द्विभागेन व्योमांशं फलकं भवेत्
फलकस्य तु विस्तारं दण्डत्रयमिति स्मृतम् ॥ ३८ ॥

वीरकाण्डं गुणांशेन उत्तारं चाग्रवद्भवेत्
पोतिकायां गुणांशेन तत्तारं पञ्चदण्डकम् ॥ ३९ ॥

उत्तमं तारमेवस्याद्यु-दण्डन्तु मद्ध्यमम्
त्रिदण्डमधमं प्रोक्तं पोतिकायाः प्रकीर्तितम् ॥ ४० ॥

उत्सेधं पोतिकायान्तु एकदण्डमिति स्मृतम्
पोतिकाबन्धनिर्यूहं दण्डं वा तत्त्रिपादकम् ॥ ४१ ॥

युगाश्रं वाथ वृत्तं वा वस्वश्रं वा कलाश्रकम्
चरणाकृतिरेवं स्यात् भित्तेः पादस्य निर्गमम् ॥ ४२ ॥

तस्य चैव तु भागैस्तु चतुरश्रस्य निर्गमम्
दण्डत्रिभागभागैकं वृत्तस्याष्टकलाग्रहा ॥ ४३ ॥

वृत्ताष्टाश्रकलाश्राणां वेद्यूर्ध्वे चाङ्घ्रिमूलके
कर्णविस्तारमानेन चतुरश्रन्तु कारयेत् ॥ ४४ ॥

पादगर्भं समाख्यातं ततः प्रस्तरवर्गकम्
यल्लब्धोत्सेधमानन्तु भजेद्विंशतिभागकः ॥ ४५ ॥

उत्तरोच्चं गुणांशेन तदुच्चमष्टधा भजेत्
एकांशेनैव निर्यूहं पोतिकायास्तु बाह्यके ॥ ४६ ॥

एकेन वाजनोच्चन्तु तत्समं नीव्रमुच्यते
वसन्तकोच्चं त्र्यंशेन तस्योर्ध्वं नीव्रमुच्यते ॥ ४७ ॥

तस्योर्ध्वपट्टिकांशेन युगभागैकनीव्रकम्
अब्ध्यंशन्तु कपोतोच्चं दण्डार्द्धं लम्बमानकम् ॥ ४८ ॥

तन्नीव्रन्तु त्रिदण्डं स्यात् मार्जनन्तस्य नीव्रकम्

कपोतेनासिकायुक्तं कर्णे वल्लिसमायुतम् ॥ ४९ ॥

नासितारं द्विदण्डं वा सार्द्धद्विदण्डमेव वा
उत्सेधं तत्समं ज्ञेयं तद्भूतांशगुणांशकम् ॥ ५० ॥

तन्मद्ध्यमेव गाढन्तु तत् गुहादण्डमानतः
वाजिनोर्ध्वसमं प्रोक्तं नासिकायाश्शिरस्तथा ॥ ५१ ॥

एकांशेनोर्ध्वपट्टिन्तु पादसूत्रसमं कुरु
एकेनान्तरितं कुर्यात् तत्तारमग्रपादवत् ॥ ५२ ॥

अग्रपादार्द्धमानेन तन्नीव्रं परिकीर्तितम्
प्रतिमुखोच्च द्विभागेन तत्तुल्यं कर्णनिर्गमम् ॥ ५३ ॥

प्रतिवाजनमेकांशं स्थाणुसूत्रसमन्तु तत्
सिंहव्यालगजैः पुष्पैः कुर्यादन्तरितं तथा ॥ ५४ ॥

एवं प्रस्तरवर्गन्तु ग्रीववर्गमतः परम्
तस्योर्ध्वे वेदिकायाममद्ध्यर्द्धं दण्डमुच्यते ॥ ५५ ॥

वेशनं वेदिकायान्तु द्विदण्डञ्चेति कीर्तितम्
वेदिकोत्सेधमानन्तु सप्तभागेन भाजयेत् ॥ ५६ ॥

कर्णोत्सेधगुणांशेन एकांशेनैव पट्टिका
तस्योर्ध्वनिर्गमन्तस्याः पक्षांशं वेदिकोच्छ्रयम् ॥ ५७ ॥

तन्नीव्रन्तु तदर्द्धं स्यादेकांशेनोर्ध्वपट्टिका
अधः पट्टिसमञ्चैव तत्पट्टीं कुरु बुद्धिमान् ॥ ५८ ॥

वेदिविस्तारबाणांशं वेदांशं कर्णविस्तरम्
चतुर्दिक्षु विशेषेण नासिकाङ्घ्रिं प्रकल्पयेत् ॥ ५९ ॥

वेदिताररसांशैकं मद्ध्यांशैकमथापि वा
ग्रीवामूलात्मनिर्यूहं नासिकास्थूणकस्य तत् ॥ ६० ॥

तन्निर्यूहसमं वापि युगदण्डमथापि वा
अर्द्धेन वेददण्डं वा उभयोः पादमद्ध्यमम् ॥ ६१ ॥

त्रिदण्डं वा चतुर्दण्डं गुहावेशं प्रकीर्तितम्

तत्पादस्य समायामं हंसमालावसानकम् ॥ ६२ ॥

दण्डत्रिभागपक्षांशं तत्स्तम्भस्य तु तारकम्
शेषं तु पूर्ववत्कुर्यादुत्तरं वाजनं तथा ॥ ६३ ॥

ग्रीवाग्रे वार्द्धदण्डेन उत्तरन्तु प्रकल्पयेत्
तत्समन्तु गलान्नीव्रं तत्र भागैकवाजनम् ॥ ६४ ॥

तत्समन्तस्य नीव्रन्तु हंसमालार्द्धदण्डकम्
तस्यार्द्धं तस्य नीव्रन्तु पट्टिवाजनवद्भवेत् ॥ ६५ ॥

चतुर्भागन्तु भागैकं नीव्रं तस्य प्रकीर्तितम्
ग्रीववर्गसमाख्यातमूर्ध्वे शिखरवर्गकम् ॥ ६६ ॥

शिखरस्य तु विस्तारं वेद्यास्तारसमं भवेत्
वेद्यास्तारं त्रिभागैकं महानास्या तु विस्तरम् ॥ ६७ ॥

विस्तारस्य त्रिभागन्तु उत्सेधं तस्य कीर्तितम्
तस्याः परिधिविस्तारं ध्रुवपादसमं भवेत् ॥ ६८ ॥

शेषं स्यादवभागन्तु गुहावेशं द्विदण्डकम्
विस्तारार्द्धं शिरोमानं किन्नरीवक्त्रवत्कुरु ॥ ६९ ॥

नानावल्लीसमायुक्तं सिंहव्यालमृगैर्युतम्
भूतरूपैस्समायुक्तं परिधिः कारयेत्ततः ॥ ७० ॥

शिखरं कारयेद्धीमान् घण्टायामा कृतिस्तथा
वेद्यास्तारस्य पञ्चांशं गुणांशं बलिविस्तरम् ॥ ७१ ॥

बलितारस्य बाणांशं गुणांशं पद्मविस्तरम्
पद्मतारगुणांशैकं कुम्भतारमिति स्मृतम् ॥ ७२ ॥

कुम्भतारशरांशैकं कन्धरस्य तु तारकम्
कुम्भतारं त्रिभागैकं पाल्यतारस्य विस्तरम् ॥ ७३ ॥

पालितारत्रिभागैकं कर्णतारमिति स्मृतम्
मुकुलस्य तु विस्तारं कर्णतारसमं भवेत् ॥ ७४ ॥

शिखरोदिततुङ्गेषु रसांशं वज्रतुङ्गकम्

स्थूपिकोत्सेधमानन्तु द्वात्रिंशत् भागतो भजेत् ॥ ७५ ॥

पद्मोत्सेधन्नवांशन्तु द्विभागं गलमुच्यते
व्योमांशेनोर्ध्वपद्मन्तु अर्द्धांशेन घटं भवेत् ॥ ७६ ॥

अधः पद्मन्तु भागेन अर्द्धांशेनोर्ध्वकम्पकम्
गलान्ते च द्विभागन्तु अर्द्धांशेनैव पट्टिका ॥ ७७ ॥

अर्द्धांशेनोर्ध्वपद्मन्तु फलकैकेन कारयेत्
अर्द्धभागमधः पद्मं मुकुलोच्चं शरांशकम् ॥ ७८ ॥

स्थूपिरेवं समाख्यातं द्वारलक्षणमुच्यते
व्रतेरुत्तरसीमान्तं द्वारोत्सेधमिति स्मृतम् ॥ ७९ ॥

विस्तारन्तु तदर्द्धं स्यात् सर्वेषु भवनेषु च ।
द्वारलक्षणमाख्यातमलङ्कारमथ श्रुणु ॥ ८० ॥

कपोतनालिका चाष्ट मण्टपे तु तथैव च ।
पार्श्वयोश्चैव पृष्ठे तु तोरणाद्यङ्घ्रिवर्गके ॥ ८१ ॥

त्रिदण्डं वा चतुर्दण्डं सार्द्धत्रिदण्डमेव वा
तोरणस्य तु विस्तारं पादयोरन्तरं स्मृतम् ॥ ८२ ॥

पादायामाष्टभागस्य पञ्चांशं पादमैर्घ्यकम्
त्रिभागेन झषांशन्तु वल्लीचित्रन्तु चित्रितम् ॥ ८३ ॥

पादन्तु पूर्ववत्कुर्यादुत्तरं वाजनं तथा
अन्तरालसमायुक्तं कारयेत्सममण्टपम् ॥ ८४ ॥

हर्म्यस्य पङ्क्तिमानेन अन्तरालस्य विस्तरम्
एकहस्तं द्विहस्तं वा अन्तरालस्य तारकम् ॥ ८५ ॥

द्विदण्डं वाथ दण्डं वा चान्तरालस्य वेशनम्
त्रिपादमण्टपस्यैव अर्द्धमण्टपकस्य तु ॥ ८६ ॥

दण्डं वाप्यर्द्धदण्डं वा द्विदण्डं वा द्विपार्श्वयोः
सार्द्धदण्डद्वयं वाथ त्रिदण्डं वा विशेषतः ॥ ८७ ॥

वेशनं पादबाह्यन्तु कारयेत्तु विचक्षणः

प्रस्तरोपरि कोणेषु भूतं वा वृषभं कुरु ॥ ८८ ॥

भूतञ्चेदासनं कुर्यात् कृताञ्जलिपुटान्वितम्
वृषभं शयनं कुर्यात् सर्वलक्षणसंयुतम् ॥ ८९ ॥

कुमारं पूर्वदिक् भागे दक्षिणामूर्तिकं यमे
वारुणे तु नृसिह्यं वा केशवं वापि कारयेत् ॥ ९० ॥

ब्रह्माणमुत्तरे देशे स्कन्धरे त विशेषतः ।
पश्चिमद्वारहर्म्ये तु स्कन्दं पश्चिमके कुरु ॥ ९१ ॥

केशवं पूर्वभागे तु कल्पयेत् कल्पवित्तमः
एतत् लक्षणसंयुक्तं श्रीकान्तभवनं स्मृतम् ॥ ९२ ॥

देवालङ्कारमेवोक्तं विस्तारं पञ्चधा भवेत्
त्रिभागं तस्य मद्ध्ये तु अद्ध्यर्द्धं दण्डनिर्गमम् ॥ ९३ ॥

वसुनासिकयायुक्तं कपोतन्तु प्रकल्पयेत्
मण्टपे नासिकां कुर्यात् पादं प्रत्यङ्घ्रिकोपरि ॥ ९४ ॥

शिखरे नासिकां कुर्याच्चतसृषु विदिक्षु च
एभिस्तु लक्षणैर्युक्तं कैलासं कान्तकं स्मृतम् ॥ ९५ ॥

देवालङ्कारसंयुक्तं कर्णकूटञ्चतस्रकम् ।
कोणं प्रतिविशेषेण कारयेद्वृषभद्वयम् ॥ ९६ ॥

प्रत्यूर्ध्वं ग्रीववर्गान्तं मानन्तुरसधा भजेत्
एकेनैव तु भागेन वेदिकां कारयेत्ततः ॥ ९७ ॥

अद्ध्यर्द्धांशगलोत्सेधं शिखरं सार्द्धद्व्यंशकम्
शेषं स्थूपिरिति ख्यातं षट्भागेन विभाजयेत् ॥ ९८ ॥

वेद्यास्तारं चतुर्दण्डं तत्तारं पञ्चधा भवेत्
ग्रीवस्यैव तु विस्तारं वेदांशमिति कीर्तितम् ॥ ९९ ॥

वेद्यां चैव च सम्प्रोक्तं शिखरस्य तु विस्तरम्
कर्णकूटमिति प्रोक्तमेतत्स्यात्स्थूपिशालकम् १००
मन्दिरस्य तु विस्तारं षट्भागेन तु भाजयेत्

पक्षांशं मद्ध्यमे चैव कोणेष्वेकांशमेव तु १०१
अद्ध्यर्द्धदण्डमानेन बाह्ये चैव तु निर्गमम्
कारयेत्कर्णकूटानि प्रस्तरोपरि पूर्ववत् १०२
चतुर्विंशन्नासिकाभिः कपोतं कारयेत्ततः
शिखरोपेतकाष्ठानि चतुर्दिक्षु प्रकल्पयेत् १०३
यदुच्चन्तु महानास्यः कोष्ठस्योत्सेधमुच्यते
महानास्याञ्च निर्यूहं शमनिर्यूहमुच्यते १०४
शालायाञ्चैव विस्तारं कूटस्य द्विगुणं भवेत्
शालायामं त्रिधा कृत्वा द्विभागं शिखरं भवेत् १०५
शेषं स्थूपिरिति ख्यातं कुक्षिनासिविचित्रितम्
पार्श्वयोः पृष्ठदेशे तु तोरणानि प्रकल्पयेत् १०६
सर्वतो मुखमेवं स्यात्सर्वदेवार्हकं भवेत्
देवालङ्कारसंयुक्तं कोष्ठकूटस्य मद्ध्यमम् १०७
कपोते चाष्टभिश्चैव नासिकापञ्जरैर्युतम्
महानासिश्च कर्तव्यमूर्ध्वशालाञ्च वर्जयेत् १०८
अनुनासि चतुर्भिश्च नन्द्यावर्तमिति स्मृतम्
देवालङ्कारसंयुक्तं पञ्जरैरष्टभिर्युतम् १०९
भौमाद्युत्तरकान्तन्तु अष्टभागैर्विभाजयेत्
मसूकरमथांशेन पक्षांशम्पाददैर्घ्यकम् ११०
त्रिपादं प्रस्तरं प्रोक्तम् अर्द्धांशं वेदिकोच्छ्रयम्
कन्धरन्तु त्रिभागेन शालाकारं द्विभागिकम् १११
एकांशं स्थूपिकोत्सेधं स्थूपित्रयसमायुतम्
कुक्षिनासिसमायुक्तं प्रासादं सप्तधा भजेत् ११२
पञ्जरस्य तु विस्तारम् एकभागं प्रकीर्तितम्
पूर्ववत्तु मसूरादीन् वृत्तपादं प्रकल्पयेत् ११३
एतत्पञ्चालमित्युक्तं देवालङ्कारसंयुतम्

अधिष्ठानस्य मद्ध्यन्तु अन्न्याधिष्ठानकं कुरु ११४
चरणस्य तु वर्गे तु नानापदयुतं कुरु
विष्णुकान्तमिति प्रोक्तं सर्वदेवेषु योग्यकम् ११५
नागरद्राविडञ्चैव वेसरञ्च त्रिधा भवेत्
भौमादिस्थूपिपर्यन्तं युगाश्रं नागरं भवेत् ११६
वेदिप्रभृति चाष्टाश्रं द्राविडञ्चेति कीर्तितम्
कर्णप्रभृतिवृत्तं यद्वेसरं परिकल्पयेत् ११७

इतिकारणे प्रतिष्ठातन्त्रे प्रासादलक्षणविधिपटलस्सप्तमः