००६ गर्भन्यासविधिपटलः

गर्भन्यासविधिपटलप्रारम्भः
गर्भन्यासविधिं वक्ष्ये ग्रामादीनाञ्च सद्मनः
सगर्भं वर्द्धमानन्तु अगर्भं नाशनं ध्रुवम् ॥ १ ॥

तस्मात्सर्वप्रयत्नेन गर्भं संस्थापयेत्सुधीः
देवतास्थापनात्पूर्वं स्थापनञ्चोत्तमं भवेत् ॥ २ ॥

देवतास्थापनस्यान्ते स्थापनं मद्ध्यमं भवेत्
ग्रामविन्न्यासमारभ्य एकाब्दादूर्ध्वकालके ॥ ३ ॥

स्थापनं कन्न्यसं प्रोक्तग्रामादीनामिति स्मृतम्

उत्तरायणकाले तु माघमासविवर्जिते ॥ ४ ॥

सुवारेषु तिथौ चैव शुक्लपक्षे शुभे दिने
स्थिरांशे स्थिरनक्षत्रे होराकरणयोस्तथा ॥ ५ ॥

स्थिरद्रेक्काणके चैव स्थिरवारे स्थिरे ग्रहे
अखण्डर्क्षे स्थिरे लग्ने सुमुहूर्ते विशेषतः ॥ ६ ॥

ग्रामादीनाञ्च तद्रात्रौ दिवाकाले तु सद्मनः
हैमराजतकांस्यं वा ताम्रेण फेलकां कुरु ॥ ७ ॥

कौशिकाम्भोधिरन्ध्रार्कगायत्र्यङ्गुलकैस्तु वा
फेलायाञ्चैव विस्तार उत्सेधं तत्समं भवेत् ॥ ८ ॥

ग्रहीतोच्चं गुणांशे तु पक्षांशं भाजनोन्नतम्
एकांशं तत्पिधानोच्चं कोष्ठभित्युच्छ्रयं तथा ॥ ९ ॥

यवत्रयघना वापि द्वियवेन घनान्विता
फेलायास्तु घनार्द्धन्तु कोष्ठभित्तेर्घनं भवेत् ॥ १० ॥

त्र्यंशैकेनोर्ध्वभित्तेस्तु घनार्द्धं ह्रासयेद्बहिः
पिधानाभ्यन्तरे तद्वत्संयोगार्द्धन्तु कारयेत् ॥ ११ ॥

वृत्तं वा चतुरश्रं वा गर्भफेला कृति स्मृता ।
पञ्चविंशतिकोष्ठानि फेलामद्ध्ये प्रकल्पयेत् ॥ १२ ॥

स्पृष्ट्वा बहिर्मलं शोद्ध्य प्रक्षाल्याम्लेन वारिणा
मङ्गलाङ्कुरकार्यन्तु विधिना कारयेत् बुधः ॥ १३ ॥

ब्रह्मस्थाने ग्रहे वापि ग्रामगर्भाधिवासनम्
विमानस्योत्तरे चैन्द्रे सद्मगर्भाधिवासनम् ॥ १४ ॥

दशरन्ध्राब्धिहस्तेन विस्तृतं मण्टपं कुरु
तन्मद्ध्ये वेदिकां कुर्यात् तत्त्रिभागैकभागतः ॥ १५ ॥

तालमात्रसमुत्सेधा तस्य दिक्षु चतुर्ष्वपि
चतुरश्रानि कुण्डानि प्रत्येकं हस्तमात्रतः ॥ १६ ॥

तयोरष्टानि कुण्डानि गोमयेनोपलेपयेत्

वितानध्वजसंयुक्तं दर्भमालाभिरावृतम् ॥ १७ ॥

पुष्पमालासमायुक्तं द्वारतोरणसंयुतम्
मङ्गलाङ्कुरसंयुक्तं तरङ्गेणैव वेष्टितम् ॥ १८ ॥

मण्टपं भूषयित्वा तु पुण्याहं वाचयेत्ततः
भूसुरान् भोजयेत्तत्र तद्दिनात्प्राक् दिनद्वये ॥ १९ ॥

वेद्यांशालि दशद्रोणैः स्थण्डिलं तिलतण्डुलैः
कृत्वालिख्याष्टदिक्पद्मं कर्णिकाकेसरैर्युतम् ॥ २० ॥

दर्भैश्चैव परिस्तीर्य स्थण्डिलन्तु यजेत्ततः
रम्भाम्रनालिकेराणि नारङ्गानि फलानि च ॥ २१ ॥

लैकुचानि फलान्यत्र मातुलङ्गफलानि च
प्रदक्षिणक्रमेणैव स्थण्डिलोपरिविन्यसेत् ॥ २२ ॥

वेद्याः पश्चिमभागे तु गोमयालेपिते शुभे
विचित्रे शालिपिष्टे च चतुरश्रे समे ततः ॥ २३ ॥

सप्तद्वीपसमायुक्तं सप्ताम्भोधिसमाकृतिम् ।
भूधराद्दिग्गजांश्चैव भूम्यधस्तात्तु पन्नगम् ॥ २४ ॥

आलिख्यसितचूर्णैश्च भुवनाध्वक्रमान्वितः
फेलाम्प्रक्षाल्य गव्यैश्च स्थाप्यचित्रे तु मण्डले ॥ २५ ॥

देशिकस्समलङ्कृत्य वस्त्रैः पञ्चाङ्गभूषणैः ।।
सकली कृतदेहस्तु गन्धपुष्पैर्विभूषितैः ॥ २६ ॥

प्राङ्मुखः प्रस्थितो भूत्वा विन्यसेदक्षराणि तु
मद्ध्यकोष्ठे न्यसेत्कूटं बिन्दुनादसमन्वितम् ॥ २७ ॥

तत्पूर्वाद्यष्टकोष्ठेषु यादिहान्तानि विन्यसेत्
अकारादिविकाराणि प्राक्कोष्ठादिषु विन्यसेत् ॥ २८ ॥

माणिक्कं विन्यसेत्कूटे न्यसेद्वज्रं यकारके
वैडूर्यं तु रकारे तु नीलञ्चैव लकारके ॥ २९ ॥

मौक्तिकन्तु वकारे तु शकारे पुष्यरागकम्

षकारे वै मरतकं गोमेधन्तु सकारके ॥ ३० ॥

हकारेस्फटिकन्न्यस्य मूलमन्त्रमनुस्मरन्
गजं कृत्वा सुवर्णेन अकारे विन्यसेत्ततः ॥ ३१ ॥

राजतेन कपालन्तु कृत्वा कारे त विन्यसेत् ।
कूर्मं ताम्रेण कृत्वा तु इकारे चैव विन्यसेत् ॥ ३२ ॥

खट्वाङ्गमारकूटेन कृत्वीकारे तु विन्यसेत्
भ्रामकेन पिनाकन्तु उकारे विन्यसेत्ततः ॥ ३३ ॥

त्रिशूलं रजतेनैव औकारे विन्यसेद्बुधः
कांस्येन हरिणञ्चैव ऋकारेण तु विन्यसेत् ॥ ३४ ॥

परशुं ताम्रकेणैव ऋकारे विन्यसेत्ततः
धीपाधारन्तु ताम्रेण लृकारे चैव विन्यसेत् ॥ ३५ ॥

कयसागौलिकं कृत्वा लृृकारे चैव विन्यसेत्
कर्कटकन्तु ताम्रेण कृत्वैकारे तु विन्यसेत् ॥ ३६ ॥

ऐकारे तु न्यसेल्लक्ष्मीं कृत्वा सौवर्णकेन तु
ओकारे तु न्यसेत्पूर्णकुम्भं ताम्रमयेन तु ॥ ३७ ॥

औकारे स्वस्तिकं कृत्वा राजतेन तु विन्यसेत्
अङ्कारे तु न्यसेच्छङ्खं कृत्वा सौवर्णकेन तु ॥ ३८ ॥

अःकारे तु न्यसेत्खट्वां कृत्वा वै राजतेन तु
यकारे गैरिकन्न्यस्य रकारे श्यामकन्न्यसेत् ॥ ३९ ॥

मनश्शिलां लकारे तु वकारे गन्धकन्न्यसेत्
शकारे त्वञ्जनं न्यस्य सौराष्ट्रन्तु षकारके ॥ ४० ॥

सकारे हरितालन्तु गोरोचनां हकारके
हृदयं मन्त्रमुच्चार्या विन्यसेद्देशिकोत्तमः ॥ ४१ ॥

यकारे विन्यसेच्छालीं रकारे तु यवान्न्यसेत्
कोद्रवन्तु लकारे तु वकारे माषकन्न्यसेत् ॥ ४२ ॥

मुद्गञ्चैव शकारे तु कम्बूबीजं षकारके

सकारे प्रियङ्गुर्विन्न्यस्य हकारे तु कुलुत्थकम् ॥ ४३ ॥

ईशानेन तु मन्त्रेण विन्यसेत्तु क्रमेण तु
सर्वकोष्ठानि सम्पूर्य हैमेन शालिभिस्तु वा ॥ ४४ ॥

ग्रामादीनां विमानस्य एतत् सामान्यमुच्यते
किञ्चिदस्तिविशेषोत्र ग्रामादीनाञ्च तं श्रुणु ॥ ४५ ॥

विप्राणाञ्च हितार्थन्तु यज्ञसूत्रं कमण्डलुम्
स्रुवञ्च प्रणवाकारं सौवर्णं मद्ध्यमे न्यसेत् ॥ ४६ ॥

रथं हयं गजञ्चैव शार्दूलञ्चापमेव च
क्षुरिकां हेमरूपाञ्च पत्तने राजधानिके ॥ ४७ ॥

तुलाञ्च मानसात्रञ्च महिषं गोघृतन्तथा
सौवर्णान् मध्यकोष्ठेषु विन्यसेन्नगरेऽपि च ॥ ४८ ॥

हलं फालं युगञ्चैव युग्ममत्स्यन्तु शालिकम्
सौवर्णं मद्ध्यकोष्ठेषु विन्यसेत्कटकादिषु ॥ ४९ ॥

ईशानेन तु मन्त्रेण विधानेन विधाय च
वस्त्रेणैव कुशैश्चेव वेष्ट्यगन्धादिभिर्यजेत् ॥ ५० ॥

फेलामुद्धृत्य हस्ताभ्यां विन्न्यसेत्स्थण्डिलोपरि
आचार्यो मूर्तिपैस्सार्द्धं होमकर्मसमारभेत् ॥ ५१ ॥

देशिको मूर्तिपाश्चैव होमं कृत्वा विचक्षणः ।
विधिनाग्निमुखं कृत्वा मूलेन समिधो हुनेत् ॥ ५२ ॥

पलाशो दुम्बराश्वत्थ न्यग्रोधसमिधः क्रमात्
सर्पिषं हृदयेनैव शिखया तु चरुं हुनेत् ॥ ५३ ॥

लाजङ्कवचमन्त्रेण सिद्धार्त्थं नेत्रमन्त्रतः
यवञ्चास्त्रेण हुत्वा तु प्रत्येकं शतसङ्ख्यया ॥ ५४ ॥

मूलब्रह्मषडङ्गैश्च क्षुरिकाबीजमुख्यकैः
सर्विषाहोमयेद्धीमान् प्रत्येकं पञ्चविंशतिः ॥ ५५ ॥

वास्तुदेवं स्वबीजैश्च प्रत्येकं वसुसङ्ख्यया

आज्येन जुहुयाद्धीमान् कुण्डं प्रत्येकमाचरेत् ॥ ५६ ॥

आत्मेन्द्वर्कवियद्वायुतेजो पञ्चस्वबीजकैः
पृथगष्टाहुतिं हुत्वा व्याहृतिं जुहुयात्ततः ॥ ५७ ॥

स्रुवापूर्णाहुतिं कुर्याच्छिरोमन्त्रेण देशिकः ।
घृताहुत्यास्तु मन्त्रान्ते सम्पाताहुतिमार्गतः ॥ ५८ ॥

हुत्वाज्यन्तु समानीय फेलायां चोपरिस्रवेत्
–व्यन्न्यासमथारभ्य गर्भसंस्थापनान्तकम् ॥ ५९ ॥

ऋगादद्ध्ययनं कुर्यात् क्रमेणैव दशासु च
यावन्मुहूर्तं सम्प्राप्य तावन्मन्त्रजपं कुरु ॥ ६० ॥

ग्रामादीनामजस्थाने यमेवा वारुणेऽपि वा
द्विहस्तं चैकहस्तं वा तत्रावटन्तु खातयेत् ॥ ६१ ॥

ग्रामादीनां क्रमात् गर्भं स्थापयेदप्रकाशतः
गर्भस्थानस्य याम्यायां फेलान्दर्भोपरिन्यसेत् ॥ ६२ ॥

पञ्चगव्येन सम्प्रोक्ष्य कवटस्य तु मद्ध्यमे
आलेपयेत्तु तन्मद्ध्ये सामुद्रकमृदा पुनः ॥ ६३ ॥

शेषाभागोर्ध्वभूमीस्था सप्तद्वीपोर्णवा स्मृताः
दिग्गजान् भूसुरांश्चैव सङ्कल्प्य क्रमशस्तथा ॥ ६४ ॥

कद्रौ क्षेत्रे ह्रदेनद्यां कुलीरावासके हले
वृषभस्य तु शृङ्गे तु गजदन्तेषु मृत्स्मृता ॥ ६५ ॥

इन्द्रादीशानपर्यन्तमष्टदिक्षु क्रमान्न्यसेत्
नागं कूर्मं धरान्देवीं सौवर्णेनैव निक्षिपेत् ॥ ६६ ॥

उत्पलस्य तु कन्दञ्च कन्दन्नीलोत्पलस्य तु
कुमुदस्य तु कन्दन्तु रक्तपद्मस्य कन्दकम् ॥ ६७ ॥

पूर्वादिक्रमयोगेन मृदाचैव तु विन्यसेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ६८ ॥

कन्यसं दशनिष्कन्तु द्विगुणं मद्ध्यमं भवेत्

त्रिगुणं चोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा ॥ ६९ ॥

गोभूमिदासधान्यानि गृहोपकरणानि च
दापयित्वा विशेषेण देशिकन्तोषयेत्ततः ॥ ७० ॥

अद्ध्येतृमूर्तिधारांश्च दैवज्ञम्पूजयेत्ततः
सम्पूज्यस्थपतिं तत्र वस्त्राभरणकैरपि ॥ ७१ ॥

मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
ध्यात्वा सदाशिवं देवं मूलमन्त्रं समुच्चरेत् ॥ ७२ ॥

फेलान्तु प्राङ्मुखो भूत्वा स्थापयेदादिशैवकः
पांसुना पूरयेत् गर्तं सुस्निग्धं सुदृढं कुरु ॥ ७३ ॥

तस्योर्ध्वे कल्पयेद्धीमान् सभां वै देवमन्दिरम्
प्रभाते तु विमानस्य गर्भस्थापनमारभेत् ॥ ७४ ॥

आचार्योमूर्तिपैस्सार्द्धं स्नानं कृत्वा यथाविधि
सकलीकरणं कृत्वा फेलां गन्धादिभिर्यजेत् ॥ ७५ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टामग्नेति होमयेत् ॥ ७६ ॥

शङ्खकाहलभेर्याद्यैर्गीतवेदरवैस्तथा
स्तोत्रैश्च विविधैश्छत्रस्तुत्यैः पिञ्छैस्समाकुलम् ॥ ७७ ॥

जले सम्प्राप्य पुरतः स्वस्तिसूक्तसमन्वितम्
सुगन्धपुष्पधूपैश्च दीपैरर्घ्यैस्समन्वितम् ॥ ७८ ॥

फेलामुद्धत्य तद्धामप्रादक्षिण्य क्रमेण तु
प्रविश्यालयमार्गस्य दक्षिणे प्राङ्मुखो गुरुः ॥ ७९ ॥

गर्भप्रक्षेपणं कुर्याद्धामद्वारस्य दक्षिणे
उपानेशूद्रजातीनां जगत्युपरिमद्ध्यमे ॥ ८० ॥

कुमुदोर्ध्वे नृपाणान्तु भित्यूर्ध्वे चाग्रजन्मनाम्
सर्वेषां भूगतं शस्तं गर्भन्यासन्तु सर्वधा ॥ ८१ ॥

अष्टधा विभजेत् भित्तिं वेदांशं बाह्यतस्त्यजेत्

त्रीणि चाभ्यन्तरे कृत्वा मद्ध्ये कांशे तु निक्षिपेत् ॥ ८२ ॥

आचार्यं मूर्तिपैश्चैव पूर्ववत्सम्प्रपूजयेत्
आचार्यस्सुप्रसन्नात्मा पूर्ववत्स्थापयेत्क्रमात् ॥ ८३ ॥

एवं यः कुरुते भक्त्या सपुण्यां गतिमाप्नुयात्

इति कारणागमे प्रतिष्ठातन्त्रे गर्भन्यासविधिपटलः षष्ठः