००५ अधिष्ठानविधिपटलः

अधिष्ठानविधिपटलप्रारम्भः
अधिष्ठानविधिं वक्ष्ये उपपीठकपूर्वकम्
आदौ चैव प्रकृत्यूर्ध्वे प्रथमं फलकां कुरु ॥ १ ॥

पादान्तरं तदुत्सेधं तदूर्ध्वमुपपीठकम्
तन्मद्ध्ये तस्यबाह्ये तु तस्योच्चार्त्थन्तु नीव्रकम् ॥ २ ॥

वस्त्वाधारसमायामं समं वा पादहीनकम्
अर्द्धं वोच्चकमेवन्तु उपपीठस्य कीर्तितम् ॥ ३ ॥

अङ्घ्रिका द्विगुणं वापि पादोनद्विगुणन्तु वा
द्विगुणार्द्धन्तु वा बाह्ये उपपीठस्य विस्तरम् ॥ ४ ॥

उपपीठस्य चोत्सेधं भवेद्विंशति भागतः

उपानात् पञ्चभागान्तमर्द्धेनार्द्धेन वर्द्धयेत् ॥ ५ ॥

तस्योर्ध्वे चोपपीठन्तु कारयेल्लक्षणान्वितम्
श्रीकरं ललितं भद्रमुपपीठं त्रिधामतम् ॥ ६ ॥

कलांशं विभुजेदायः पक्षांशं जन्म उच्यते
द्विभागे पञ्चकञ्चैव पट्टिकांशेन कीर्तितम् ॥ ७ ॥

कौशीकांशेन कर्णन्तु व्योमांशेनोर्ध्वपट्टिका
पक्षांशेनोर्ध्वपद्मं स्यान्महापट्टी तथैव च ॥ ८ ॥

तत्कर्णस्यैव वा बाह्ये मसूरं जगती समम्
पादताराष्टभागैकहीनं कर्णप्रतारकम् ॥ ९ ॥

एवं श्रीकरमाख्यातम् आयामं पूर्ववत् भजेत्
अश्विन्यंशेन जन्मन्तु कम्पमेकेन कारयेत् ॥ १० ॥

अधः पद्मं द्विभागेन कम्पमेकेन कारयेत्
भूतांशं कन्धरं प्रोक्तमेकांशं वेत्रमुच्यते ॥ ११ ॥

ऊर्ध्वपद्मद्विभागेन महापट्टी तथैव च
ललितं ख्यातमेवन्तु आयामं त्वष्टधा भवेत् ॥ १२ ॥

अंशेन पादुकां कुर्यादर्द्धांशं कम्पमुच्यते
युगांशं गलमित्युक्तमर्द्धांशं वेत्रमुच्यते ॥ १३ ॥

महापट्टिद्विभागेन भद्रमेवं प्रकीर्तितम्
सिंहव्यालगजैर्वापि भूतकैस्संयुतानि वै ॥ १४ ॥

उपपीठं समाख्यातमधिष्ठानमथोच्यते
प्रथमं फलकोर्ध्वे वा उपपीठे ध्वजेऽपिवा ॥ १५ ॥

उपानोर्ध्वे त्वधिष्ठानं कल्पयेदुभयेऽपिवा
प्राक् बाह्ये जन्मनिर्यूहं मूले पादद्वयं भवेत् ॥ १६ ॥

निर्यूहं त्रिविधं कृत्वा बाह्ये कांशं व्यपोह्य च
पक्षांशेन समायुक्तं कारयेज्जगतीं पुनः ॥ १७ ॥

मसूरकमधिष्ठानं वस्वाधारं धृतालकम्

चत्वार्ये तानि नामानि पर्याय वचनानि च ॥ १८ ॥

प्रथमं पादबन्धञ्च द्वितीयं प्रतिबन्धकम्
एकैकन्तु चतुर्भेदं पद्मकं पद्मपूष्कलम् ॥ १९ ॥

पद्मासनन्तु भेदानि पादबन्धस्य सुव्रत
प्रतिक्रमं प्रकीर्णञ्च प्रतिसुन्दरमेव च ॥ २० ॥

प्रतिबन्धस्य भेदानि कारयेल्लक्षणान्वितम्
एकोनसङ्करं कुर्यादेकेनैकत्र वा पुनः ॥ २१ ॥

यदधिष्ठानमानन्तु त्रयोविंशति भागभाक्
पर्वतांशं जगत्युच्चमब्ध्यंशं कुमुदोन्नतम् ॥ २२ ॥

वस्वंशं कुमुदं ज्ञेयमेकांशेनोर्ध्वपट्टिका
कन्धरन्तु गुणांशेन व्योमांशेनोर्ध्वपट्टिका ॥ २३ ॥

महापट्टिगुणांशेन एकं स्यात्पादबन्धनम्
धराधरोच्चं विभजेदेकविंशति भागतः ॥ २४ ॥

अधः पद्मं द्विभागेन कम्पमेकेन कारयेत्
जगत्युच्चं शरांशेन युगांशं कुमुदं भवेत् ॥ २५ ॥

अष्टांशं कुमुदं प्रोक्तं कम्पमेकं न कारयेत्
गुणांशं कन्धरं प्रोक्तं व्योमांशं वेत्रमुच्यते ॥ २६ ॥

कम्पमेकेन कर्तव्यं महापट्टीगुणांशकम् ।
पद्मकञ्चैवमाख्यातमायामं पूर्ववत् भजेत् ॥ २७ ॥

कम्पमेकेन कर्तव्यं रसांशं पद्मतुण्डकम्
अंशेन कम्पमित्युक्तमंशेनोर्ध्वं सरोरुहम् ॥ २८ ॥

वेदांशं कुमुदं प्रोक्तम् अंशेनाथ सरोरुहम्
अंशेन कम्पमित्युक्तं पक्षांशं खण्डमुच्यते ॥ २९ ॥

वेत्रमंशेन कर्तव्यमंशेनोर्ध्वसरोरुहम्
महापट्टिं द्विभागेन कारयेत्तु विचक्षणः ॥ ३० ॥

पद्मपुष्कलमेवं स्यादायामं पूर्ववत् भजेत्

पक्षभागमथोब्जन्तु व्योमांशं वेत्रमुच्यते ॥ ३१ ॥

भूतांशं जगतीप्रोक्तम् अंशेनाथ सरोरुहम्
अर्द्धांशं कम्पमित्युक्तमूर्ध्वपद्मं तथैव च ॥ ३२ ॥

कुमुदोच्चं चतुर्भागमर्द्धेनाथ सरोरुहम्
अर्द्धांशेनैव कम्पन्तु सार्द्धपक्षांशकं गलम् ॥ ३३ ॥

अर्द्धांशेनैव पद्मन्तु ऊर्ध्वपद्मं तथांशकम्
महापट्टी द्विभागेन एतत्पद्मासनं स्मृतम् ॥ ३४ ॥

पादबन्धकमप्येवं प्रतिबन्धमथ श्रुणु ।
तीर्त्थांंशं विभजेदायं भूतांशं जगती भवेत् ॥ ३५ ॥

तथा वै कुमुदोत्सेधं कम्पमेकेन कारयेत्
एकेनान्तरितं प्रोक्तं प्रतिमुख्यन्तु द्व्यंशकम् ॥ ३६ ॥

प्रतिमुखं कर्करी भूतं नागवक्त्रमथापि वा
प्रतिवाजनमंशेन एतत्स्यात्प्रतिबन्धनम् ॥ ३७ ॥

मसूरकोच्चं विभजेत् षड्विंशत् भागतस्ततः
जगत्युच्चं रसांशं स्यात् सारांशं वप्रमुच्यते ॥ ३८ ॥

व्योमांशं कम्पमित्युक्तं गुणांशेन गलं भवेत्
कम्पमेकेन कर्तव्यमेकेनोर्ध्वसरोरुहम् ॥ ३९ ॥

कपोतन्तु युगांशेन अंशेनालिङ्गमुच्यते ।
एकेनान्तरितं प्रोक्तं प्रतिमुख्यं द्वितीयकम् ॥ ४० ॥

प्रतिवाजनमेकेन कल्पयेत् कल्पवित्तमः ।
एतत्प्रतिक्रमं प्रोक्तमायामं पूर्ववत् भवेत् ॥ ४१ ॥

पद्मतुण्डं रसांशेन भूतांशं कुमुदो भवेत्
कम्पमेकेन कर्तव्यमेकैकोर्ध्वसरोरुहम् ॥ ४२ ॥

कपोतन्तु युगांशेन कम्पमेकेन कारयेत्
एकेनान्तरितं प्रोक्तं प्रतिमुख्यन्तु द्व्यंशकम् ॥ ४३ ॥

प्रतिवाजनमेकन्तु एतत्प्रकीर्णकं स्मृतम्

त्रिंशदेकोनभागेन आयामं विभजेत्ततः ॥ ४४ ॥

अधः पद्मद्विभागेन एकांशेनैव कम्पकम्
जगती भूतभागन्तु अद्ध्यर्द्धेनोर्ध्वकम्पकम् ॥ ४५ ॥

अर्द्धांशं कम्पमित्युक्तम् अंशेनोर्ध्वसरोरुहम्
कुमुदोच्चं गुणांशेन पुंसेनार्द्धसरोरुहम् ॥ ४६ ॥

अंशेन कम्पमित्युक्तं गुणांशं गलमुच्यते
अंशेनैकोर्ध्वकम्पन्तु एकांशेनोर्ध्वपद्मकम् ॥ ४७ ॥

कपोतोच्चं गुणांशेन अंशेनालिङ्गमुच्यते
अन्तरीतं तथांशेन प्रतिमुख्यन्तु द्व्यंशकम् ॥ ४८ ॥

एकेन वाजनं प्रोक्तं मकरव्यालसिंहकैः
गजैश्च वल्लिपत्रैश्च नानालीलासमन्वितम् ॥ ४९ ॥

मकरास्येवनिक्रान्ता व्यालविद्याधरान्वितम्
एवमन्तरिते कुर्यात् कपोते नासिकायुतम् ॥ ५० ॥

प्रतिसुन्दरमेतत् स्यात् वेशनिर्गमनं श्रुणु
वेत्राणाञ्चैव सर्वेषां वेदभागैकनिर्गमम् ॥ ५१ ॥

यावज्जगति निर्यूहं तावद्वप्रस्य निर्गमम्
पद्मानाञ्चैव सर्वेषां नीव्रन्तं सममुच्यते ॥ ५२ ॥

एषां पादं बहिर्नीव्रं तावत्प्रोक्तन्तु वेशनम्
अधस्तात्तु महापट्ट्या नाली निर्गमनं कुरु ॥ ५३ ॥

हस्तं वाथ त्रिपादं वा वितस्तिर्वा विशेषतः
व्रजेत् बाह्ये विनिक्रान्ता नालींशैवमयीन्तथा ॥ ५४ ॥

गजोष्ठसदृशाकारा सकृत्रिममुखोत्तरा
भूतसिझोपगूढावा साधारा वाथकारयेत् ॥ ५५ ॥

द्विदण्डं वा त्रिदण्डं वा गर्भगेहे तु वेशनम्
लिङ्गतारत्रिपादं वा द्विगुणं वार्द्धमेव वा ॥ ५६ ॥

प्रणालमूलविस्तारं त्रिभागैकाग्रविस्तरम्

व्यासत्रिभागभागोनं बहुलं तत्त्रिभागभाक् ॥ ५७ ॥

वारिसञ्ञ्चारगम्भीरं तारंश्लक्ष्णञ्च झर्झरम्
अनिम्नोन्नतमाभित्तेस्तदत्यग्रात् क्रमोन्नतम् ॥ ५८ ॥

सर्वातोद्य समायुक्तं ततो मङ्गलवाचकैः
शान्तिहोमं ततः कृत्वा आचार्यं पूजयेत्ततः ॥ ५९ ॥

शिल्पिनं पूजयेत्पश्चात् सुमुहूर्ते सुलग्नके
आचार्यस्सुप्रसन्नात्मा वारुणं सूक्तमुच्चरेत् ॥ ६० ॥

तक्षकः स्थापयेन्नालीं सुस्निग्धांसुदृढां क्रमात्
लिङ्गप्रासादगर्भस्य यावन्नालस्य चावधि ॥ ६१ ॥

धारान्तु केवलं कुर्यात् भित्तेस्तालस्य सीमनि
श्रेष्ठमद्ध्यमकानिष्ठं लिङ्गस्य स्थापनं त्रिधा ॥ ६२ ॥

धरातलसमाप्ते तु स्थापनं चोत्तमं भवेत्
द्वारबन्धस्य पूर्वे तु स्थापनं मद्ध्यमं भवेत् ॥ ६३ ॥

मूर्द्धोपलस्य पूर्वे तु स्थापनं कन्यसं भवेत्
यः करोत्यन्यधा चैव आभिचाराय चैव हि ॥ ६४ ॥

इति कारणागमे प्रतिष्ठातन्त्रे अधिष्ठानविधिपटलः पञ्चमः