अथ आद्येष्टकाविधिपटलश्चतुर्त्थः
आद्येष्टिकाविधिं वक्ष्ये परं कर्षणपूर्वकम्
पुष्यमासादाषाण्मासं प्रशस्तं चोत्तरायणम् ॥ १ ॥
आषाढादि च षाण्मासमशस्तं दक्षिणायनम्
देवानां तदहं प्रोक्तम् अयनं चोत्तरं त्विह ॥ २ ॥
रात्रियुक्तं तु देवानां दक्षिणायनमत्र वै
उत्तरायणकाले तु शुक्लपक्षे विशेषतः ॥ ३ ॥
पौष्णादित्य मखात्वाष्ट्वखातिसावित्रमैत्रकम्
प्रजापत्य शिवो विष्णुस्तिष्याश्च पुष्य उत्तरः ॥ ४ ॥
षष्ठी च सप्तमी वापि प्रतिपत् पौर्णमास्यपि
द्वितीया पञ्चमी चैव तृतीया च त्रयोदशी ॥ ५ ॥
सितसौम्यगुरुं चेन्दुं वाराः श्रेष्ठता स्मृतः
होरादर्शनांश्चैव एषां द्रेककरणकश्शुभाः ॥ ६ ॥
उदयं शस्तमेतेषां तत्र शन्युदयं विना
नक्षत्रं क्रूरकैर्जुष्टं रोगपीडां करोतिभिः ॥ ७ ॥
मेषं कर्कटकं तौल्यं मकरं चैव वर्जयेत्
अन्याश्च शुभदा प्रोक्तास्तेषु चापं विवर्जयेत् ॥ ८ ॥
एवं परीक्ष्य कर्तव्यं यदिच्छेच्छ्रेयमात्मनः
यद्देशसत्मकर्तव्यं यद्देशं कर्षणं कुरु ॥ ९ ॥
विप्रक्षत्रियविदशूद्रस्त्वनलोमष्षडैव हि
सत्म निर्वाणकर्तव्यं सर्वप्राणिहिताय वै ॥ १० ॥
श्वेता च लोहिता पीता कृष्णा चेतमहीक्रमात्
चतुर्णां भूसुरादीनां सङ्ग्राह्य वसुधा द्विजः ॥ ११ ॥
क्षेत्रस्थितिवशादुर्वि कथिता त्वनुलोमिनाम्
मधुरा च कषाया च कटुकाम्ला च वर्णिनाम् ॥ १२ ॥
कृमिजुष्टान्तदोषध्यां वल्मीकाध्यां च वर्जयेत्
हस्तमात्रावटङ्खात्वा पूरयेत्तन्मृदा पुनः ॥ १३ ॥
श्रेष्ठा चत्व वटाधिक्या मध्यमा समतामहि
न्यूने तु कन्यसा प्रोक्ता यादृशी तादृशी फला ॥ १४ ॥
तरुभिर्यज्ञकैः कार्यं फालं युक्तं हलं युगम्
कौपिलौ श्वेतरक्तौ वा नाङ्गहीनौ वृषौ तथा ॥ १५ ॥
हेमशृङ्गखुरैर्युक्तौ तरुणौ बलसंयुतौ
बद्ध्वा हलं युगेनैव गोचर्म कृतरज्जुना ॥ १६ ॥
देशिकस्तु शुचिर्भूत्वा सकलीकृतविग्रहः
नवाम्बरधरोष्णीषसितवस्त्रोत्तरीयकः ॥ १६ ॥
हेमाङ्गुलीययाज्ञाद्यैर्भूषितस्यादिशैवकः
पुण्याहं वाचयित्वा तु कर्षयेच्छिवमन्त्रतः ॥ १८ ॥
विशेषेण शिवं ध्यात्वा प्रागुदक्प्रणवं महीम्
देशिकं पूजयित्वा तु दद्यात्तु सहलौ वृषौ ॥ १९ ॥
वापयेन्नेत्रमन्त्रेण तिलसर्षपमुद्गकाम्
त्रिरात्रेऽङ्कुरिते भूमिस्सोत्तमेति प्रशस्यते ॥ २० ॥
भूताहोङ्कुरमध्या च सप्ताहेङ्कुरतेऽधमाः ।
मध्यपक्षे तु सस्यांश्च गोगणानां निवेदयेत् ॥ २१ ॥
निश्चित्योर्विस्तुहम्यार्थं तस्यैन्द्रे चोत्तरेऽथवा
शङ्करे बालहर्म्यं तु कृत्वा वै बाललिङ्गकम् ॥ २२ ॥
संस्थाप्यमर्चयेत्तत्र पश्चान्मूलं तु कारयेत्
मूलस्थानस्य नैर्ऋत्यां दण्डमात्रेण भूतलम् ॥ २३ ॥
जलेन समतां नीत्वा कुट्टिमोच्चं गुणाङ्गुलम्
आसनं खादिरं वापि शमी वैकङ्कतं तु वा ॥ २४ ॥
ब्राह्मणादि क्रमेणैव शक्त्यर्भदारुमाहरेत्
द्वादशाङ्गुलमायामं नाहं विद्यात् षडङ्गुलम् ॥ २५ ॥
सुसमं——————————————-
—– —-शिकं चैव सम्पूज्य शिल्पिनं पूजयेत्ततः ॥ २६ ॥
गोपुरं च विना यत्र स्थापितं मूलमम्बिकम्
तत्केवलमिदं प्रोक्तं तस्य स्थानं विधीयते ॥ २७ ॥
शैवे च वैष्णवे वापि दौर्गे स्कन्दे च धामनि
मातृृणामालये वापि भास्करस्यालयेऽपि वा ॥ २८ ॥
मधो स्वज्ञालये वापि यमानेश्च यथापि वा
प्रासादे मण्टपे चैव प्राकारवृतहर्म्यके ॥ २९ ॥
वैष्णवे यान्ति शैवं त स्थापनं यदि सम्भवे
सकलं निष्कलं वापि तथा सकलनिष्कलम् ॥ ३० ॥
स्थापनं शैवतन्त्रेण पूर्वोक्तविधिना ततः
कृत्वा तु विधिवत् सम्यक् नित्यपूजां समाचरेत् ॥ ३१ ॥
नित्योत्सवं न कुर्वीत कुर्याद्धातुकमर्चयेत्
नैमित्तिकेक् च स्नपनं बुभूषविषशान्ततः ॥ ३२ ॥
पवित्रारोहणं चैव सर्वकार्याद्विधानता
उत्सवं तु न कुर्वीत सङ्करात्स्थानसङ्करात् ॥ ३३ ॥
अन्येषभेतवो नेका वक्ष्यन्ते तु भविष्यति
शैवं विष्णुप्रतिष्ठायेत् स्थानकं वासनं तु वा ॥ ३४ ॥
शयनं वाथ संस्थाप्य तैन्त्रशैवविधानतः
पाञ्चरात्रेण विधिनान्येन संस्थाप्य वाजयेत् ॥ ३५ ॥
नित्यकर्माणि सर्वाणि कुर्यान्नित्योत्सवं विना
बलिदानं न कुर्वीत बलिपीठाद्यसम्भवान् ॥ ३६ ॥
सर्वयानोत्सवं कुर्यात्केवलस्य प्रजापते
यदि मोहेन कृत्वा तु राजा राष्ट्रं विनश्यति ॥ ३७ ॥
एवं पूर्वोक्तदेवानामालये चान्यधामसु
प्रोक्ता यस्य विमानस्य यद्दे —- ध्रुवम् ॥ ३८ ॥
तस्यै वोत्सम उक्तस्तदाश्रितस्य न चोदितः
एवं शैवेपि शम्भोत्तु नोत्सवं तु विधीयते ॥ ३९ ॥
वैष्णवे धाम्निविष्णोस्तु नैवमुत्सवमाचरेत्
अन्यानि नित्यकर्माणि नित्यं कुर्याद्विधामतः ॥ ४० ॥
एवमुक्तं यथा युक्तहरकेशवयोस्ततः
केवलस्थापनन्यायां सङ्क्षेपं न तु विस्तरात् ॥ ४१ ॥
आद्यं वै शङ्कुमानेन द्विगुणेन द्वितीयकम्।
त्रिगुणे तु तृतीयं तु वर्तयेन्मण्डलत्रयम् ॥ ४२ ॥
देशिकस्य नियोगेन शङ्कुसङ्गह्य तक्षकः
भानुबिम्बोदये तस्य मण्डले सादिसम्भवे ॥ ४३ ॥
मण्डलस्य च मध्ये तु शङ्कुं संस्थाप्य निश्चलम्
पूर्वापराह्णयोश्छायां बिन्दुवृत्तेषु शाङ्कयेत् ॥ ४४ ॥
शङ्कुं विसृज्य बिन्द्वन्तछायासूत्रत्रयं लिखेत्
अवच्छाया विना मासे प्राचीसूत्रं विनिश्चितम् ॥ ४५ ॥
अवच्छायान्विते मासे ह्रासाये दधिकार्धकम्
तन्मानं वर्धये न्यूनं शुद्धाप्राचीं तु निर्णयेत् ॥ ४६ ॥
प्राचीसूत्रप्रमाणेन मत्स्य षट्कं तु कारयेत्
एवं याम्योत्तरं वद्ध्वा साधयेच्चतुरश्रकम् ॥ ४७ ॥
कृत्वा दण्डप्रमाणेन तदर्धे दण्डवा पुनः
तदधिष्ठानमानेन प्रासादसमविस्मृतम् ॥ ४८ ॥
तदग्रे वास्तुदेवांश्च पदस्थान् सम्यगर्चयेत्
एकाशीतिपदं कृत्वा प्रोक्षयेत्पञ्चगव्यकैः ॥ ४९ ॥
पत्मजं नवकोष्ठस्थं तन्मध्ये संयजेद्बुधः
ब्राह्मणं च चतुर्दिक्षु षट्षट्पदगतस्त्विमे ॥ ५० ॥
स्मरीयपूर्वभागे तु विवस्वं दक्षिणे मता
मित्रस्तु पाशहृद्देशे उत्तरे भूद्धरस्तथा ॥ ५१ ॥
ईशानस्याब्जमध्ये तु आस्यै चैव पदद्वयम्
आपवत्सपदद्वौ तु वह्नेः पत्मजमध्यमे ॥ ५२ ॥
सवितेन्द्रपदौ द्वौ च सावित्रस्य पदद्वयः
निर्ऋृतो ब्रह्मणे मध्ये विरिञ्चानलमध्यमे ॥ ५३ ॥
रुद्रस्येह पदौ द्वौ तु पदौ रुद्रजयस्य च
यद्वद्व्यवस्थिताः पूर्वं तद्वद्व्यवस्थिता भवेत् ॥ ५४ ॥
इन्द्रश्चैव तु पर्जन्यो जयन्द्रश्च महेन्द्रकः
रोगो नागस्तथा मुख्यो भल्लाटस्सोम एव च ॥ ५५ ॥
जगश्चैवादितिश्चैव दितिश्चैव तु चोत्तरे
एकैकपदभोक्तारो द्वात्रिंशत् बाह्यदेवता ॥ ५६ ॥
चारकी च विदारी च पूतना पापराक्षसी
ईशानदिक्षु कोणेषु शूलस्था पदवर्जिता ॥ ५७ ॥
अधोमुखो भुवं प्राप्य शते वास्तुनरस्मृतः
उग्रत्वात् भवकारित्वात् पूजितस्य फलस्पुभिः ॥ ५८ ॥
शिरोस्यैशानकोष्ठस्था निर्ऋतौ चरणौ स्थितौ
मध्ये ब्रह्मपदे नाभिरङ्गे सर्वपदानुगम् ॥ ५९ ॥
चतुर्भुजो जटामौलीं कमण्डलृक्षधारकः
वामहस्तं तु जानूर्ध्वे सव्यहस्तजले स्थितम् ॥ ६० ॥
हेमाभमब्जजं यष्ट्वा गन्धाद्यैरुपचारकैः
दद्ध्वाज्यगुलसम्मिश्रं शुद्धान्नेन बलिं क्षिपेत् ॥ ६१ ॥
स्मरीय श्वेतवर्णं तु विवस्वानृत्तवर्णकम्
शातकुम्भनिभो मित्रः कृष्णवर्णस्तु भूधरः ॥ ६२ ॥
श्वेतवर्णं तथापस्तु जपाभस्वापवन् कसः
सविता नीलवर्णस्तु सावित्रे धूम्रवर्णकः ॥ ६३ ॥
आदित्यो रक्तवर्णस्तु सत्यकश्चित्रवर्णकः
भृशो बन्धुकपुष्पाभ कुन्दाभस्वन्तरिक्षकः ॥ ६४ ॥
अग्निस्तद्वर्णकः प्रोक्तः पुरुषा रक्ताब्जसन्निभः
वितथश्चेन्द्रजा चाभो विद्युद्वर्णो गृहक्षतः ॥ ६५ ॥
यमः कृष्णाञ्जनाभस्तु गन्धर्वः पत्मरागवत्
भृङ्गराजस्तु भृङ्गाभा जीमूताभो मृगस्तथा ॥ ६६ ॥
निर्ऋतिः पावकाभिश्च द्वौ वारीरप्सितस्तथा
शिखार्णान्तश्च सुग्रीव इहाभः पुष्पदन्तकः ॥ ६७ ॥
श्वेताभो वरुणश्चैव कृष्णाभो रक्तकस्तथा
उत्पलाभस्तथा शेषः पावयक्ष्मेन्द्रनीलवत् ॥ ६८ ॥
अनिलो धूम्रवर्णाभः रोगो हारिद्रसन्निभः
शङ्खवर्णस्तथा नागो मुख्यो मौक्तिकसन्निभः ॥ ६९ ॥
वेताब्जाभस्तु भल्लाटः कनकाभस्तु सोमकः
ऋगो रक्तोत्पलाभश्च मुदाभो दितस्तथा ॥ ७० ॥
उदितः कपिलाभश्च चरकीशङ्खसन्निभाः
पावका भावितारस्यात् पूतना हेमसन्निभः ॥ ७१ ॥
नीलजीमूतसदृशा वर्णा वै पापराक्षसी
मरीच्यादि चतुर्णां तु पायसं बलिरुच्यते ॥ ७२ ॥
विदिक्ष्वापादि देवानामष्टानां कृसरं बलिः
ईशानाद्यष्टदेवानामुद्गान्नं बलिरुच्यते ॥ ७३ ॥
हुताशनादि देवानां गुलान्नं बलिरुच्यते ।
निर्ऋत्यादि पश्चिमस्थान घृतान्नं दापयेद्बुधः ॥ ७४ ॥
अनिलाद्युत्तरस्थानं दध्यान्नं दापयेद्बलिम्
चतुस्त्राणां च रथ्यादि माषान्नं बलिमाचरेत् ॥ ७५ ॥
पूर्वे वो चोत्तरे वापि वास्तुहोमं तु कारयेत्
सर्वेषां वास्तुदेवानां स्वनामाद्येन होमयेत् ॥ ७६ ॥
एकैकं पञ्चविंशद्वा सङ्ख्याष्षोडश वादश
तिलतण्डुलसंयुक्तं होमयेद्देशिकोत्तमः ॥ ७७ ॥
द्रव्यान्ते व्याहृतिं हुत्वा स्विष्ठान्नं हि समाचरेत्
वास्तुहोमं विना यत्र कृतं वास्तु विनश्यति ॥ ७८ ॥
होमान्ते यजमानेन देशिकग्गलव्यमुद्धरेत्
गुरुं कर्तारमन्वीक्ष्य तदेश्छाल्लाश्च तूद्गुणैः ॥ ७९ ॥
यदङ्गं स्पृश्यते कर्ता वास्तुदेशे तद्दङ्गके
शल्यं विनिर्दिशेत्प्राज्ञश्शिरस्संस्पर्शने यदि ॥ ८० ॥
तत्रार्धस्विष्टताले तु हेमशाल्यं विनिश्चितम्
नासिकायास्तु संस्पर्शे चन्दनं सप्ततालके ॥ ८१ ॥
गुन्मस्पर्शेऽस्थिशल्यं स्यात् स्पर्शतालास्ति तन्विह
उदरस्संस्पर्शने चैव काजतं पञ्चतालतः ॥ ८२ ॥
नाभिस्पृष्टे चतुस्तालान् कांसशल्यं विनिर्दिशेत्
गुह्यसंस्पर्शने ताम्रं त्रितालायस्थितं विदुः ॥ ८३ ॥
स्पर्शनम् ऊरुजानू च त्वया संहस्तमात्रतः
यदा गुल्फौ च संस्पर्शे तृपुशल्यं विनिर्दिशेत् ॥ ८४ ॥
विदित्वैवं व्यपोह्याथ प्रोक्षयेत् पञ्चगव्यकैः
सिकतोपरि मृद्भिस्तु समलं सदृढं कुरु ॥ ८५ ॥
अधोमुसलपादैश्च हस्तिपादप्रपादनैः
मुष्टिमृद्भिश्च पाषाणैश्शर्करैरिह पादकैः ॥ ८६ ॥
पादयेत्तत्तले हर्म्य सूत्राद्वै भित्तिसूत्रकान्
हर्म्यसूत्रान् बहिःकल्ल्पजन्मसूत्रान्यसेत्क्रमात् ॥ ८७ ॥
तस्योत्तरे प्रपां कृत्वा नवहस्तप्रमाणतः
वितानोनेनमाच्छाद्य तरङ्गेणावृतं बहिः ॥ ८८ ॥
दर्भमाला समावृत्य दिग्ध्वजाश्च प्रलम्बयेत्
तन्मध्ये वेदिकां कुर्यात्त्रिहस्तं विस्मृतां शुभाम् ॥ ८९ ॥
मुष्टिमात्रोन्नताम् ऋद्धि निम्नोन्नतविवर्जिताम्
तस्याश्चैष चतुर्दिक्षु कुण्डानि करमात्रतः ॥ ९० ॥
चतुरश्रं धनुर्वृत्तमब्जमिन्द्रादितः क्रमात्
लक्षणोत्तानि कुण्डानि कृत्वा गोमयवारिणा ॥ ८१ ॥
लेपयेत्पञ्चगव्यैश्च प्रोक्षयेद्धृदयेन तु
शिलाभिश्चेष्टकाभिर्वा स्थापयेत्प्रथमेष्टिका ॥ ९२ ॥
उपलं शैलजे चैव इष्टका मृण्मये तथा
सम्मिश्रेप्युपलेश्चैव तरुजो पादपं तथा ॥ ९३ ॥
आद्येष्टका पुंशिलायास्त्रिधाद्वै द्वारबन्धनम्
नपुंसके बले पेतनमूर्धेष्टां क्षिपेत्ततः ॥ ९४ ॥
विकाराङ्गुलमायामा पत्यङ्गुलसुविस्मृताः
तप्रा युगाङ्गुलप्रोक्तां तलस्यैकस्य कीर्तिताम् ॥ ९५ ॥
पक्षाङ्गुलवृद्ध्या तु अष्टत्रिंशाङ्गुलान्तकः
तदर्धविस्तृतं तासां तीव्रं तस्माद्धमुच्यते ॥ ९६ ॥
तथा वै रविभूमीनां ततः प्रथशिला स्मृताः
त्रयोदशाङ्गुला मायामन्याङ्गुलविति स्मृताः
निवृत्यन्त —- स्यार्धमपनीयेष्टकां क्रमात् ॥ ९७ ॥
तालं प्रत्यङ्गुलं वृद्ध्यं चतुर्विंशत्यर्धकं क्रमात् ऋजुरेवापुमां चैव श्रोतारेखानपुंसकाः ॥ ९८ ॥
जाया चतुर्यश्रेखा च ज्ञानकर्मं समारभेत्
बिन्दुरूपायुतां कृष्णां कुञ्जराक्षयुतामपि ॥ ९९ ॥
धूतयातसमायुक्तं वर्जयेदिष्टकां बुधः
किञ्चिन्मूलं भवेदग्रं तन्मूलं किञ्चिदुन्नतम् १००
वदनं ह्यूर्ध्वभागं स्यात् — शन्तु पृष्ठकम्
कन्यासाश्च चतुस्रस्तु अलङ्कृत्य शिलास्ततः १०१
ताभिश्च स्वशिताश्चाग्रास्त्वन्मूलस्त्वितरा स्मृताः
आद्येष्टका दिनात्पूर्वे रात्रौ चैवाधिवासयेत् १०२
आचार्यश्शिवशास्त्रज्ञश्शिवदीक्षाभियुक्तकः
सर्वलक्षणसम्पन्नस्त्वादिशैवदृढव्रतः १०३
सुस्नातस्तु शुचिर्भूत्वा सकलीकरणान्वितः
नवाम्बरधरोष्णीषस्सोत्तरीयस्सुमालकः १०४
पञ्चाङ्गभूषणैर्युक्तस्सशिष्यपरिचारकः
इष्टकाः पञ्चगव्यैश्च क्षालयेच्चर्मणागुरुः १०५
हेमकौतुकसूत्रेण कार्पासैर्वा स बन्धयेत्
वैदिकोपरि कर्तव्यमष्टद्रोणैश्च शालिभिः १०६
तदर्धं तण्डुलोपेतां तण्डुलार्धतिलन्वितम्
लिखित्वाष्टदलोपेतं कर्णिकाकेसरान्वितम् १०७
स्थण्डिलं पञ्चगव्येन सम्प्रोक्ष्य हृदयेन तु
स्वस्वदिक्ज्ञापनार्थं तु लेखयेदिष्टकान्तरे १०८
पूर्वभागे त्वकारं तु यमे त्वाकारमेव तु
उकारं पश्चिमे देशे ईकारे सुम्यके तथा १०९
प्रत्येकं वस्त्रयामेन हृदा वेद्यष्टपुष्पयुक्
स्थण्डिले मध्यमस्थाप्य यथा पूर्वोत्तराग्रकाः ११०
ऋग्यजुस्सामथर्वाणमधिदेवाहपूजयेत्
तन्तुना चित्रकान्कुम्भान् गन्धाम्बुपरिपूजितान् १११
वितानाक्षतवस्त्रस्यात् हेमयुक्तान्सकूर्चकान् ।
पुष्पाम्रपल्लवोपेतान् इन्द्राद्यष्टदिशासु वै ११२
लोकपालाधपानष्टसंस्थाप्यर्चयेत्सुधीः ।
ततो होमं प्रकुर्वीत अग्निकार्योक्तमार्गतः ११३
पालाशोदुम्बराश्वत्थ न्यग्रोधस्समिधाः क्रमात्
सद्येन तु समुद्धृत्वा मूलेनाज्यं हुनेत्ततः ११४
अघोरेण चरुं हुत्वा तिलसम्मिश्रितं हुतम्
नेत्रेण होमयेद्धीमान्प्रत्येकं शतसङ्ख्यका ११५
प्रभाते विधिना स्नात्वा देशिको मूर्तिपैस्सह
जयादिरभ्याधानां च जुहुयात्तु विशेषतः ११६
ततः पूर्णाहुतिं दत्वा स्विष्टमग्नेतिमन्त्रतः
स्थापकं स्थापितिश्चैव सम्प्राप्ते तु शुभोदये ११७
वस्त्रहेमाङ्गुलीयैश्च पूजयेत्तौ विशेषतः
मन्दिरे मण्टपे चैव प्राकारे गोपुरे तथा ११८
परिवारालये चैव विधिनैतेन विन्यसेत्
मुहूर्ते समनुप्राप्ते द्वारं निश्चित्य बुद्धिमान् ११९
द्वारस्यदक्षिणे चाङ्घ्रिमूले भित्त्यन्तरालके
शिलाश्चैवेष्टका वापि स्थापयेत्स्थापकोत्तमः १२०
ईशानकादिमन्त्रैश्च प्रक्षिप्येन्द्रादितः क्रमात्
अग्रमग्रन्तु चैशान्नये पृष्ठपृष्ठञ्च नैर्ऋते १२१
पृष्ठाग्रे त्वनलौ वायौ ज्ञात्वा कर्मसमारभेत्
तन्मद्ध्ये विन्यसेन्नृत्तं पञ्चमृद्भिस्तु लेपयेत् १२२
श्वभ्रमद्ध्ये हृदा कुम्भतोयैश्चैव प्रपूरयेत्
शुभन्तु दक्षिणावर्तं वामावर्तमशोभनम् १२३
वामावर्ते सतिप्राज्ञश्शान्तिसोमं समाचरेत् १२४
इतिकारणे प्रतिष्ठातन्त्रे आद्येष्टकाविधिपटलश्चतुर्त्थः